संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
मण्डपविधानम्

मानसारम् - मण्डपविधानम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


सर्वेषां मण्डपानां तु लक्षणं वक्ष्यतेऽधुना
तैतलानां द्विजातीनां वर्णानां वासयोग्यकम् ॥१॥

भक्तिमानं तथा भित्तिविस्तारं चाप्यलिन्द्र कम्
प्रपाङ्गं मण्डपाकारं पञ्चभेदं क्रमोच्यते ॥२॥

अत्यर्धहस्तमारभ्य षट्षडङ्गुलवर्धनात्
पञ्चहस्तान्तकं भित्तिपञ्चादशविशालकम् ॥३॥

विस्तारस्य समं दीर्घमधिकं चैकमेव वा
विस्तारद्विगुणान्तं च एकैकाङ्गुलवर्धनात् ॥४॥

विस्ताराष्टांशकांशेन वर्धनाद् द्विगुणान्तकम्
एवं भक्त्यायतं प्रोक्तं भक्तितारमिहोच्यते ॥५॥

एकं हस्तं समारभ्य षट्षडङ्गुलवर्धनात्
भक्तितारं द्विहस्तान्तं पञ्चधा परिकीर्तितम् ॥६॥

एकभक्ति द्विभक्तिं वालिन्द्र विस्तारमेव च
अधिस्ठानं विना कुर्याज्जन्मादिप्रस्तरान्तकम् ॥७॥

अथवा पादवंशं च संयुक्तं तत्प्रपाङ्गकम्
खदिरं खादिरं चैव घातपादस्य दारुभिः ॥८॥

अन्यैः सारद्रुमैः प्रोक्तं होमान्तं पाद दारु च
मधुकं क्षीरिणी सालै रन्यैः श्रेष्ठद्रुमोत्तमम् ॥९॥

अथवा शिलासंयुक्तं प्रपासर्वाङ्गमेव च
शुद्ध मिश्रं च संकीर्णं यथाशोभं बलं तु यत् ॥१०॥

यथालाभं द्रुमैः स्तम्भैः वंशे त्ववसारवृक्षकम्
क्रमुकं स्तम्भयुक्तं वा घातयेत्स्थापयेत्सुधीः ॥११॥

क्रमुकैर्वंशयुक्तं वा वेणुभिश्चोर्ध्ववंशकम्
दीर्घं च तिर्यग्वंशं चोर्ध्वे तद् दीर्घवंशकम् ॥१२॥

नालिकेरदलाभिश्च बध्वा त्वाच्छादनं भवेत्
अन्यैरपि दलास् सर्वे यथालाभं वितानयेत् ॥१३॥

वातेन त्वचलं तत्र कुर्याद्दक्षिणिका प्रपा
प्रपाङ्गं च प्रपाश्चैतत्कुर्यात्तत्तद्विचक्षणः ॥१४॥

देवालये गृहे वापि मण्डपे पृथगेववा
अन्तर्वापि बहिर्वापि परितस्तु यथा प्रपा ॥१५॥

यत्र देशे प्रपां कुर्यात्तत्र दोषो न विद्यते
इति प्रपाङ्गमुक्तं तं मण्डपं वक्ष्यतेऽधुना ॥१६॥

देवालयेषु सर्वेषु संमुखे बहुमण्डपम्
पुण्यक्षेत्रे तथारामे ग्रामादौ वास्तुमध्यमे ॥१७॥

चतुर्दिक्षु विदिक्षु वापि बाह्याभ्यन्तरतोऽथवा
नराणां गृहमध्ये च संमुखे मण्डपं तु वा ॥१८॥

सर्वेषां वासयोग्यार्थं मण्डपं यागमण्डपम्
नृपाणामभिषेकार्थं मण्डपं नृत्तमण्डपम् ॥१९॥

पाणिपीडनसिद्ध्यर्थं तथा मैत्रं च मण्डपम्
उपनयनमण्डपं चैव तथा च स्नानमण्डपम् ॥२०॥

अर्भकानां मुखालोकं मण्डपं सतीमण्डपम्
क्षौरार्थं मण्डपं चैव चाग्निकार्यार्थमण्डपम् ॥२१॥

सुखान्वितार्थं कल्पेत मण्डपं विधिवत्क्रमात्
मण्डपानां च सर्वेषां स्थानमुक्तं पुरातनैः ॥२२॥

प्रासादाभिमुखे सप्तमण्डपं कल्पयेत्क्रमात्
आदौ स्नपनार्थं च द्वितीयाध्ययनमण्डपम् ॥२३॥

विशेषं स्नपनार्थं च मण्डपं च तृतीयकम्
चतुर्थं प्रतिमागारं पञ्चमं स्थापनमण्डपम् ॥२४॥

षष्ठं चापि ततः कुर्यात्तत्तत्तीर्थमण्डपम्
सप्तमं नृत्तगीतार्थमागार तत्साधकार्थकम् ॥२५॥

अथवा तन्मुखे कुर्यादेकद्वित्रि च मण्डपम्
स्नपनं प्रतिमाङ्गानां गीतनृत्तार्थमण्डपम् ॥२६॥

मण्डपं द्वितीयं चैतत् अग्रमण्डप तन्मुखे
आदौ चाध्ययनार्थं स्यात्प्रतिमामण्डपं तथा ॥२७॥

तत्रैव मण्डपं कुर्यात्प्रतिमामण्डपं बुधः
त्रिचतुःपञ्चषट्सप्तचाष्टरन्ध्रं विभित्तिकम् ॥२८॥

प्रथमात्सप्तमान्तं च भित्तिरेकं प्रकल्पयेत्
तस्मात्तथैकपङ्क्त्यन्तमेकभागैर्विवर्धनात् ॥२९॥

मण्डपानां च सप्तानां प्रत्येकं पञ्चधा भवेत्
एवं तु चतुरश्रं स्यात्तस्मादेकेन वर्धनात् ॥३०॥

तत्समाधिकायामं समं वा चायतं तु वा
युग्मभित्तिश च यः कुर्यान्मध्यस्तम्भान्परित्यजेत् ॥३१॥

तत्त्वधिष्ठान पादं च प्रस्तरं च त्रिवर्गकम्
तदूर्ध्वे मण्डपानां च चूलिकाकर्णहर्म्यकम् ॥३२॥

अन्तर प्रस्तरोपेतं कुर्यात्तु समलङ्कतम्
सोपपीठमधिष्ठानं केवलं वा मसूरकम् ॥३३॥

हर्म्योपपीठयुक्तं चेत्सोपपीठादिमण्डपम्
पीनोपपीठहर्म्यं चेन्मण्डपं च त्रिवर्गकम् ॥३४॥

हर्म्यं च विपरीतं चेत्स्वामिनो मरणं ध्रुवम्
प्रस्तरं तत्र यत्तत्र प्रासादवदलङ्कृतम् ॥३५॥

प्रासादवदलङ्कृत्य चाधिकालङ्कृतं तु वा
बाह्यं चालयवद् भूष्यं मण्डपान्तमितीष्यते ॥३६॥

तेषां क्रमेण विन्यासं लक्षणं वक्ष्यतेऽधुना
चतुरश्रसमाकारं सममानं त्रिभित्तिकम् ॥३७॥

षोडशस्तम्भसंयुक्तं चतुर्द्वारसमन्वितम्
चतुर्दिक् भद्र विस्तारमेकभागेन निर्गमम् ॥३८॥

चतुरश्रं चतुर्भक्तिः षोडशस्तम्भसंयुतम्
चतुर्दिक्षु चतुर्द्वारमेकभागेन भद्र कम् ॥३९॥

द्वात्रिंशत्क्षुद्र नास्यङ्गं शेषं प्रागुक्तवन्नयेत्
षड्भागं चतुरश्रं स्यात् षट्त्रिंशत्पादसंयुतम् ॥४०॥

चतुर्दिक्षु चतुर्द्वारं मध्यपादान्परित्यजेत्
द्विभक्त्यै भक्त विस्तारमेकभागेन निर्गमम् ॥४१॥

द्वात्रिंशत्क्षुद्र नास्यङ्गं सर्वालङ्कारसंयुतम्
चतुःषष्ट्यङ्घ्रिसंयुक्तं सप्तसप्तद्विभागिकम् ॥४२॥

चतुष्पादं त्यजेन्मध्ये चतुर्द्वारं चतुर्दिशि
त्रिभक्तिविस्तृतं भद्र मेकभागेन निर्गमम् ॥४३॥

षष्ठ्यङ्घ्रिकयुक्तं वापि तन्मध्ये चोर्ध्वकूटकम्
चत्वारिंशत्तु नास्यङ्गं शेषं पूर्ववदाचरेत् ॥४४॥

चतुरष्टाष्टभित्तिश्च चतुःषष्ट्यङ्घ्रिसंयुतम्
चतुर्दिक्षु चतुर्द्वारं मध्यपादान्परित्यजेत् ॥४५॥

चतुर्भागेन भद्रं स्यादेकभागेन निर्गमम्
पूर्ववत्क्षुद्र नास्यङ्गं युक्त्या तत्रैव योजयेत् ॥४६॥

नन्दनन्दविभागेन विस्तारायामतत्समम्
कल्पयेन्नवरङ्गं स्यात्षट्षट्पादान्परित्यजेत् ॥४७॥

नन्दाष्टभागसंयुक्तं त्रिभागैकेन भद्र कम्
चतुर्दिक्षु चतुर्द्वारं तत्तदग्रे सभद्र कम् ॥४८॥

सर्वालङ्कारसंयुक्तं षडष्टे वाल्पनासिका
तन्मध्ये चोर्ध्वतुङ्गं स्याच्चत्वारिंशाष्टनासिकम् ॥४९॥

तदेवषोडशस्तम्भं त्यजेत्कर्णचतुष्टये
चतुर्दिक्षु चतुर्भागं वेदभागैकभद्र कम् ॥५०॥

सर्वालङ्कारसंयुक्तं शेषं युक्त्या प्रयोजयेत्
एकादशभागेन मण्डपं चतुरश्रकम् ॥५१॥

सालिन्द्रं नवरङ्गं स्यादष्टोत्तरशताङ्घ्रिकम्
तद्बहिः परितोलिन्द्र मेकभागेन कारयेत् ॥५२॥

चतुर्दिक् पञ्चभागेन भद्रं चांशेन निर्गमम्
चतुर्दिक्षु चतुर्द्वार चतुःषष्ट्यल्पनासिकम् ॥५३॥

नभोर्ध्वे कूटसंयुक्तं सर्वालङ्कारसंयुतम्
एवं तु चतुरश्रं स्यात्तदायाममिहोच्यते ॥५४॥

त्रिभक्ति विस्तृतं चैव षड्भक्त्यायाम कल्पयेत्
मूलाग्रे द्वारसंयुक्तं पार्श्वे द्वारं न योजयेत् ॥५५॥

अथवा हीनाधिकांशेन दीर्घ मध्ये प्रवेशनम्
अंशेनावृतालिन्दं स्यात् शेषं प्रागुक्तवन्नयेत् ॥५६॥

चतुर्भाग विशाले तु चाष्टभागायतं तथा
द्व्यंशषड्भाग विस्तारं दीर्घ मध्ये च मण्डपम् ॥५७॥

परितस्तस्य बाह्ये तु भागेनालिन्द्र मिष्यते
यथेष्टद्वारसंयुक्तं शेषं प्रागुक्तवन्नयेत् ॥५८॥

भूतभागेन विस्तारं दशभागं तथायतम्
तन्मध्ये त्र्! यंशविस्तारं चाष्टांशायाममण्डपम् ॥५९॥

तद्बहिः परितो वा रमेकभागेन कारयेत्
शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ॥६०॥

षड्भागेन विशालं स्यात्तत्समेनाधिकायतम्
द्विभागं मध्यरङ्गं स्यात्परितो द्व्यंशेन मण्डपम् ॥६१॥

शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम्
विस्तारं चाष्टभागं स्यादायामं षोडशांशकम् ॥६२॥

तन्मध्ये वेदभागेन द्वादशांशेन मण्डपम्
परितं द्व्यंशेनालिन्द्रं स्याच्छेषं पूर्ववदाचरेत् ॥६३॥

नवभागेन विस्तारं चाष्टदशांशमायतम्
त्रिभागे द्वादशांशेन मध्यरङ्गं प्रकल्पयेत् ॥६४॥

तद्बाह्येऽलिन्द्र मंशेन परितो द्विंशेन मण्डपम्
अथवा चैकभागे तु चान्तर्बाह्येत्वलिन्द्र कम् ॥६५॥

चतुष्कर्णे चतुर्मासं चेष्टदिग्गतभित्तिकम्
उक्तवद् द्वारसंयुक्तं सर्वालङ्कारसंयुतम् ॥६६॥

विशाले दशभागे तु विंशत्यंशं तथायतम्
परितोऽलिन्द्र भागं स्याद्विस्तारं द्विगुणायतम् ॥६७॥

मध्यत्रिभागविस्तारं तस्यान्त द्विंशमण्डपम्
तस्यान्तश्चैकभागेन चावृतालिन्द्र मिष्यते ॥६८॥

मध्ये च द्विंशविस्तारं द्वादशायतनं तथा
एवं तु मण्डपकारं शेषं प्रागुक्तवन्नयेत् ॥६९॥

विस्तारे रुद्र भागं स्याद्विस्तारं द्विगुणायतम्
मध्ये त्रिभागविस्तारं मनुभागायतं तथा ॥७०॥

कुर्यान्मण्डप बाह्ये तु सर्वं प्रागुक्तवन्नयेत्
विस्तारं रुद्र भागं स्याद्विस्ताराद्द्विगुणायतम् ॥७१॥

यथामध्येऽङ्कणं कुर्यात्पञ्चभागेन विस्तृतम्
परितॐऽशेनलिङ्गं स्याद् द्व्यंशेनावृतालिङ्गकम् ॥७२॥

अथवा सप्ताङ्गविस्तारं द्विर्नवांशं कर्णायतम्
तद्बाह्ये तु द्विभागेन मण्डपं परितस्तथा ॥७३॥

तदेवांशाधिकं स्याद् दीर्घ द्वित्रिमण्डपम्
प्रत्येकं पञ्चभागेन सभा कूटं च मण्डपम् ॥७४॥

अथवा मण्डपाकारं युक्त्या तत्रैव योजयेत्
चतुर्दिक्षु चतुर्द्वारं कुर्याद् भद्रै रलङ्कृतम् ॥७५॥

एवं तु मण्डपं प्रोक्तं तन्नाममिहोच्यते
प्रथमं हिमजं चैव ततो निषदजं भवेत् ॥७६॥

तृतीयं विजयं चैव चतुर्थं माल्यजं तथा
पञ्चमं पारियात्रं च षष्ठं स्याद् गन्धमादनम् ॥७७॥

सप्तमं हेमकूटं स्यान्मण्डपाख्यानि सप्तकम्
एवं हर्म्यमुखे कुर्यादन्यत्सर्वमिहोच्यते ॥७८॥

एकादश चतुरंशं स्यात् आयताश्रकमेव च
अंशेनावृतवारं स्याच्चतुर्द्वारं चतुर्दिशि ॥७९॥

एकभागेन भद्रं स्यात्सर्वालङ्कारसंयुतम्
एवं तु मेरुजं प्रोक्तं पुस्तकार्जनयोग्यकम् ॥८०॥

द्विभक्तिचतुरंशेन भद्र स्यावृतलिन्द्र कम्
एवं तु विजयं प्रोक्तं विवाहार्थं हि मण्डपम् ॥८१॥

देवतार्थं समुद्दिश्य पानीयाय मण्डपम्
पूर्वोक्तविजयं नाम मण्डपं तत्र कारयेत् ॥८२॥

त्रिभागं चतुरश्रं स्याच्चतुर्द्वारसमन्वितम्
द्विरष्टरविपादं स्यात् सिद्धयागादि सर्वशः ॥८३॥

चतुरश्रं चतुर्भागं मध्यस्तम्भान्परित्यजेत्
मध्ये तु चाङ्गणं कुर्यात् अंशेनावृतमण्डपम् ॥८४॥

एकद्वित्रिचतुर्द्वारं कल्पयेत्तु यथेष्टकम्
एकांशमावृतद्वारं पार्श्वे वारं प्रकल्पयेत् ॥८५॥

एकद्विभागविस्तारं निर्गमं भद्र संयुतम्
तत्पार्श्वे च मुखे वापि सोपानं तत्प्रकल्पयेत् ॥८६॥

एवं तु पद्मकं प्रोक्तं देवानां पचनालयम्
सिचाख्यमण्डपं चापि पचनालयमेव च ॥८७॥

विस्तारे वेदभागेन पञ्चभागं तदायतम्
द्वित्रिभागाङ्कणं मध्ये चांशेनावृतमण्डपम् ॥८८॥

तद्बहिः परितो देशे चांशेनालिन्द्र मिष्यते
त्र्! यंशं तद्भद्र विस्तारं निर्गमांशेन योजयेत् ॥८९॥

वातायनसमायुक्तमेकद्वारं प्रकल्पयेत्
अङ्गणे च प्रपायुक्तं पद्माख्यं पुष्पमण्डपम् ॥९०॥

पञ्चांशं चतुरश्रं स्यात्तत्त्रिभागाङ्गणं भवेत्
तद्बहिः परितॐऽशेन मण्डपं परिकल्पयेत् ॥९१॥

वातायनसमायुक्तं भद्र शेषं तु पूर्ववत्
जलसंपूरितार्थाय भद्र मण्डपमीरितम् ॥९२॥

तदेकभागाधिकं वापि द्विभागाधिकमायतम्
तद्धि द्वित्रिभागं वा तारं पञ्चाशमायतम् ॥९३॥

विस्तारे मण्डपं कुर्यात् इष्टदिग्गतभित्तिकम्
अग्रे च द्वारमेकं स्याद्युक्त्या चाङ्गणसंयुतम् ॥९४॥

तद्बहिः परितॐऽशेन द्वारं कुर्याद्विचक्षणः
मण्डपं भद्र संयुक्तं धान्यनिक्षेपयोग्यकम् ॥९५॥

षड्भागेन विशाले तु चायामं चाष्टभागिकम्
वेदभागेन विस्तारं षड्भागायामतोऽङ्गणम् ॥९६॥

तत्तद्बाह्यावृतांशेन वसपं परिकल्पयेत्
आयामे मध्यसूत्रात्तु वामे द्वारं तु योजयेत् ॥९७॥

कूटाङ्गं मण्डपं कुर्यात्प्रच्छादनमथापि वा
शिवाख्यमण्डपं प्रोक्तं धान्यकर्णन योग्यकम् ॥९८॥

पञ्चसप्तांशविस्तारं तस्याद् द्विंशाधिकायतम्
मण्डपं तत्तदंशेन समाश्रं वायतं तु वा ॥९९॥

तत्त्रिभागाङ्गणं मध्ये चैकद्व्यंशेन मण्डपम्
वातायनसमायुक्तं इष्टदिग्वारसंयुतम् ॥१००॥

मध्ये प्रच्छादनं कुर्वात्प्रपाङ्गं वाधिकल्पयेत्
एकभागेन बाह्ये तु परितो भूपलिन्दकम् ॥१०१॥

तत्तद्भागेन संयुक्तं मेनं प्रागुक्तवन्नयेत्
एवं तु मण्डपं प्रोक्तं नृत्तश्रवणयोग्यकम् ॥१०२॥

तदेव चेष्टदिग्वासं कुर्यादेवं तु जालकम्
वस्त्राभरणशास्त्रादीन् रत्नकोशादियोग्यकम् ॥१०३॥

विस्तारं सप्तभागं स्याद्यथेष्टांशं तथायतम्
समाश्रं वाथ वेदाश्रं कुर्यादास्थानमण्डपम् ॥१०४॥

विस्तारं द्विगुणं वापि त्रिगुणं वा तदायतम्
समाश्रं सप्तसप्तांशे त्रित्रिमध्यमरङ्गकम् ॥१०५॥

परितो कैकभागं द्व्यंशैकं मण्डपं तु वा
पृष्ठे तत्पार्श्वयोर्मध्ये मुखे पादसमन्वितम् ॥१०६॥

पार्श्वयोः पृष्ठतः द्वारं द्वारं तु प्रस्तरं तु वा
पार्श्वैकद्वारसंयुक्तं युक्त्या सोपानसंयुतम् ॥१०७॥

चतुर्दिक्षु द्विभागैकं विस्तारं भद्र निर्गमम्
अथवा मुखभद्रे तु निर्गमं तद्द्विभागिकम् ॥१०८॥

तदग्रे वाथ पार्श्वे च कुर्यात्सोपानभूषणम्
तस्य मध्ये च रङ्गे तु मौक्तिकेन प्रपान्वितम् ॥१०९॥

तन्मध्ये शासनादीनां तोरणं कल्पवृक्षकम्
तन्मानं चोक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ॥११०॥

मण्डपे द्वे विमानं स्यादेकं वा द्वितलं तु वा
मण्डपाग्रे प्रपाङ्गं स्याद्यथेष्टाय्तामं कल्पयेत् ॥१११॥

तस्य मध्ये त्रिभागेन विस्तारमायामं चोक्तवद् भवेत्
नाटकादि प्रच्छादनं शेषभागावृतं प्रपा ॥११२॥

प्रपाग्रैकद्विभागं वा कर्णे लाङ्गलभित्तिकम्
तन्मुखे त्यंश विस्तारं भद्र मंशेन निर्गमम् ॥११३॥

विस्तारसमभद्रं वा सोपानं मुखभद्र योः
शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ॥११४॥

अथवा मण्डपदेवाख्ये द्वित्रिभागेन पूर्ववत्
अथवा मण्डपाख्ये तत्प्रपासंयुक्तं बाह्यके ॥११५॥

एकभाग द्विभाग वा परितोऽलिन्द्र मिष्यते
शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ॥११६॥

अथवा मण्डपोदेशे सप्तसप्तांश हस्तिकम्
त्रिपञ्चांशेन विस्तारमायामं मध्यरङ्गकम् ॥११७॥

तद्बाह्ये चैकभागेन मण्डपं परितस्तथा
तन्मुखे च त्रिभागेन भद्रं शेषं तु पूर्ववत् ॥११८॥

अथवा मण्डपाद्ये तत्प्रपासंयुक्तं बाह्यके
एकभाग द्विभागं वा परितोऽलिन्द्र मिष्यते ॥११९॥

शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम्
शतपादयुतं वाथ सहस्राङ्घ्रिक मण्डपम् ॥१२०॥

युक्त्या तद्भक्तिमध्येन यथेष्टायतविस्तृतम्
देवानां भूपतीनां च कुर्यादास्थानमण्डपम् ॥१२१॥

अष्टांशं चतुरश्रं वा नवांशं चतुरश्रकम्
तत्तदायाममेवं च भूपतीनां च योग्यकम् ॥१२२॥

मण्डपं पूर्ववत्कुर्याद्देवता चोत्सवार्थकम्
सालाख्या तु कृताख्या स्यात्कुट्याधो रङ्गके सुधीः ॥१२३॥

दशांशं चतुरश्रं स्यात्षट्षडशं तु मध्यमे
ऊर्ध्वकूटसमायुक्तं परितो द्व्यंशेन मण्डपम् ॥१२४॥

मध्ये द्वारं द्विभागं स्याद् द्विषड्भागेन चाग्रतः
तद्भागेन द्विभागेन द्वारे पार्श्वे तु वदिकम् ॥१२५॥

परितोऽलिन्द्र भागेन वारन मुखभद्र कम्
अथवा नेत्रभद्रं स्यात् शेषं युक्त्या प्रयोजयेत् ॥१२६॥

दर्भाख्यं मण्डपं प्रोक्तं कुञ्जरस्यालयं तथा
एकादशांशविस्तारमायतं विंशदंशकम् ॥१२७॥

एकभाग द्विभागं वा मण्डपं परितस्तथा
शेषं तु चाङ्गणं मध्ये चेष्टदिग्द्वारसंयुतम् ॥१२८॥

अष्टमेकैकपङ्क्तिः स्यादश्वानां निलयान्वितम्
कौशिकं मण्डपं प्रोक्तं शेषं युक्त्या प्रयोजयेत् ॥१२९॥

द्वादशांशं तु विस्तारमायामं तद्द्वयं भवेत्
अष्टांशं चाङ्गणं मध्ये परितः द्व्यंशेन मण्डपम् ॥१३०॥

इष्टदिगवारसंयुक्तमिष्टदिग्गतभित्तिकम्
कूलधारणमित्युक्तं गोसङ्घैर्वा सयोग्यकम् ॥१३१॥

त्रयोदशांशविस्तारं समाश्रं वायताश्रकम्
विस्तारं च यदायामं युक्त्या तत्रैव योजयेत् ॥१३२॥

सप्तांशं विस्तृतं मध्ये कल्पयेदङ्गणं भवेत्
तस्य बाह्यावृतांशेन कारयेत्तन्मसूरकम् ॥१३३॥

विस्तारद्वयमायामशेषं युक्त्या प्रयोजयेत्
तद्बाह्ये मण्डपं कुर्याद् द्विंशेनावृतमेव च ॥१३४॥

चतुर्दिक्षु चतुर्द्वारमिष्टदिग्गतभित्तिकम्
तत्तद्बाह्यावृतांशेन कुर्यात्तत्समलिन्द्र कम् ॥१३५॥

पञ्चांशं चन्द्र विस्तारं निर्गमं भद्र संयुतम्
सुखाङ्गाख्यमिति प्रोक्तं सत्रयोग्यं तु मण्डपम् ॥१३६॥

मन्वंशसमविस्तारमधिकायतम्
दक्षिणे पश्चिमे वपि चतुर्दशांशमायतम् ॥१३७॥

तदंशेनावृतालिन्दं त्र्! यंश मध्ये तु मण्डपम्
मध्यस्तम्भं तु सर्वेषां युक्त्या द्वारं प्रयोजयेत् ॥१३८॥

तन्मुखे द्व्यंशमावृत्य द्वा शेषं तथाङ्गणम्
परितश्चैकभागेन तद्बाह्ये भ्रमलिन्द्र कम् ॥१३९॥

एवं तु सौख्यकं प्रोक्तं शेषं प्रागुक्तवन्नयेत्
नदीतीरे तटाके वा सिन्धुतीरे प्रकल्पयेत् ॥१४०॥

सर्वेषां देवतानां च तीर्थयोग्यं प्रकीर्तितम्
पञ्चदशांशविस्तारमेकत्रिंशायतं तथा ॥१४१॥

अथवा चतुरश्रं स्याच्चतुर्द्वारसमन्वितम्
तन्मध्ये पञ्चभागेन सप्तभागाङ्गणं तथा ॥१४२॥

तद्बाह्ये परितॐऽशेन कुर्यादन्तरलिन्दकम्
खलूरिकापि तद्बाह्ये त्रित्रिभागेन मण्डपम् ॥१४३॥

तद्बाह्यावृतालिन्दमेकभागेन कारयेत्
तद्बहिश्चावृतांशेन कारयेद् भ्रमालिन्दकम् ॥१४४॥

पञ्चाशं द्विंशविस्तारं निर्गमं भद्र संयुतम्
मण्डपस्य बहिर्देशे प्रपां परितस्तु कारयेत् ॥१४५॥

मण्डपे चोर्ध्वकूटं स्यान्मालिकाकृति विन्यसेत्
अथवा रुद्र संयुक्तं वातायनसमन्वितम् ॥१४६॥

कर्णे ककर भद्रं स्याद्युक्त्या तत्रैव योजयेत्
सर्वालङ्कारसंयुक्तं मालिकाख्यं तु मण्डपम् ॥१४७॥

मध्यं कर्णे जलं पूर्य जलं पुष्पैरलङ्कृतम्
एवं वसन्तयोग्यं स्याद् देवानां क्षत्रियादिनाम् ॥१४८

षोडशांशेन विस्तारं द्वात्रिंशायामकं तथा
पूर्ववच्चतुरश्रं स्यान्मध्यस्तम्भान्परित्यजेत् ॥१४९॥

मध्याङ्गणं तु षड्भागं शेषं प्रागुक्तवन्नयेत्
तदेव षोडशांशे तु मध्यरङ्कात् षडंशकम् ॥१५०॥

तद्बाह्यावृतांशेन चान्तरलिन्दमिष्यते
तद्बहिश्च त्रियंशेन मण्डपं परितस्तथा ॥१५१॥

तद्बाह्यावृतांशेन लिन्द्रं कुर्याद् विचक्षणः
तत्पुरे पृष्ठपार्श्वे तु भ्रमलिन्द्रै कभागतः ॥१५२

तच्चतुष्कर्णदेशे तु कर्करी चाष्टभद्र कम्
ऊर्ध्वकूटसमायुक्तं द्वारभद्रै स्तु संयुतम् ॥१५३॥

तन्मुखे पुरतः पार्श्वे द्वारसंयुक्तभद्र कम्
तत्कर्णं च द्वयोर्भद्रं चतुर्थं कर्करीकृतम् ॥१५४॥

कर्करीभद्र संयुक्तं मण्डपस्य विशालकम्
एकद्वित्र्! यैकभागं स्यात्कर्करीभद्र निर्गमम् ॥१५५॥

मधे भद्रे तु विस्तारं पञ्चषड्भागमेव वा
तत्समं निर्गमं वापि द्वित्रिवेदांशमेव वा ॥१५६॥

भद्रै स्तत्पुरपार्श्वे तु कुर्याद् द्वारं तदंशकम्
एकद्वित्रितलं मध्ये मण्डपे चोर्ध्वकूटकम् ॥१५७॥

एवं तु मालिकाकारं शेषं प्रागुक्तवन्नयेत्
सर्वालङ्कारसंयुक्तं माल्याकृतमितीरितम् ॥१५८॥

देवतालोकनयोग्यं देवदेवस्य मण्डपम्
एवं तु मण्डपं प्रोक्तं देवभूसुरभूपतेः ॥१५९॥

विस्तारे चैकभक्त्ये वा यथेष्टायामवर्धनात्
सर्वेषां मण्डपानां तु पूर्वोक्तानां तदायतम् ॥१६०॥

द्विभक्तिविस्तृतं तस्मात् एकभागाधिकायतम्
मध्येकभक्तिवासं स्यात्पुर पार्श्वे च मण्डपम् ॥१६१॥

आत्मार्थं विप्रसद्मे तु यजनार्थमुदीरितम्
तदेव द्विगुणायामं मध्यरङ्ग द्विभागतः ॥१६२॥

तत्पार्श्वे चैकभागेन वासं कुर्याद् विचक्षणः
तत्पुरेऽलिन्दमेकांशमथवा निर्वासमण्डपम् ॥१६३॥

अथवा वंशमूले तु चैकद्विंशेन वासकम्
एवं तु विप्रयोग्यं स्याद्धनदाख्यं तु मण्डपम् ॥१६४॥

त्रिभक्ति विस्तृतं तस्मात् एकभागाधिकायतम्
तदर्धेन द्विभागेन मण्डपं चोन्नतासनम् ॥१६५॥

पृष्ठे च पार्श्वयोः कुड्यं पुरतो पादसंमितम्
तन्मुखे द्वित्रिभागेन निर्गमं चासनसंयुतम् ॥१६६॥

कर्णे लाङ्गलभित्तिः स्याद् भ्रमरावृतबाह्यके
एकांशेनाङ्घ्रिसंयुक्तं पुर पार्श्वे तु भद्र कम् ॥१६७॥

धनाधिपमण्डपं स्याद् देवभूसुरयोग्यकम्
तदेव मध्याङ्गणसंयुक्तं क्षौरार्थं द्विजभूपतेः ॥१६८॥

तदेव भागाधिकायाममिष्टदिग्गतभित्तिकम्
भूपतीनां च वैश्यानां कोशरत्नादियोग्यकम् ॥१६९॥

तदेवाधिकमायामं मध्यभागाङ्गणं भवेत्
एकभागावृतावासमिष्टदिग्गतभित्तिकम् ॥१७०॥

आयाममध्यसूत्रं तु वामे द्वारं प्रकल्पयेत्
कर्णैककर्करीभद्रं स्याद् भ्रमरांशेन पूर्ववत् ॥१७१॥

शूद्रा णां च इति प्रोक्तं धान्यागारमथ नामकम्
चतुरंशं विस्तारं स्यात् एकभागाधिकायतम् ॥१७२॥

पञ्चांश द्व्यंशकेनैव मण्डपं परिकल्पयेत्
तन्मुखेव त्रिभागन निर्गमं भद्र विस्तृतम् ॥१७३॥

तत्पुरे तु द्विपार्श्वे वा प्रपां चैकेन कारयेत्
भद्रा न्तं कुड्यसंयुक्तं मण्डपं पृष्ठपार्श्वयोः ॥१७४॥

देवतानां च मौनार्थं भूषणाख्यं तु मण्डपम्
तदेकभागाधिकायामं विस्तारं पूर्ववद् भवेत् ॥१७५॥

तद्भागद्विभागेन विस्तारं मण्डपं भवेत्
द्वित्रिभागाङ्गणं पूर्वे एकभागं खलूरकम् ॥१७६॥

मण्डपं तु विना दीर्घे द्वारं कुर्याद् विचक्षणः
भूषणाख्यं च विप्राणां योग्यं पुंसवनार्थकम् ॥१७७॥

तदेव भागाधिकायामं विस्तारं पूर्ववद् भवेत्
त्रिचतुर्भागमायामं मण्डपं परितो भवेत् ॥१७८॥

एवं सुभूषणाख्यं स्याच्छेषं पूर्वोक्तवन्नयेत्
भूसुरादित्रयाना चोपनयनादियोग्यकम् ॥१७९॥

वेदाष्टांशविस्तारमायामं मण्डपं भवेत्
वंशे मूलाग्रयोः सन्धिर्द्विचतुर्भागेन कारयेत् ॥१८०॥

एकद्विवासयोर्मध्ये द्विचतुर्भागाङ्गणं भवेत्
एतत्पार्श्वे द्वयोश्चैकं चातुर्भागेन द्वारकम् ॥१८१॥

दीर्घे च मध्य सूत्रं तु वामे द्वारं प्रकल्पयेत्
अथवा तस्य मध्ये तु कुड्यवासं विभाजिते ॥१८२॥

कुलाभद्वारसंयुक्तं शेषं युक्त्या प्रयोजयेत्
एवं तु भूषनाख्यं स्यात् शूद्रा णां पचनालयम् ॥१८३॥

तद् द्विभागेन विस्तारे तस्माद् द्विंशाधिकायतम्
पञ्चांशेन द्विभागेन पूर्ववद् द्वारसंयुतम् ॥१८४॥

वासमेतद्द्वयोर्मध्ये त्रित्रिभागाङ्गणं भवेत्
एकांशेन त्रिभागेन पार्श्वे द्वारं प्रयोजयेत् ॥१८५॥

तद्बाह्ये परितोऽलिन्दमेकभागेन कारयेत्
दीर्घे मध्यमभागे तु द्वारं संकल्पयेत्सुधीः ॥१८६॥

एकद्वित्रिभागेन निर्गमं भद्र विस्तृतम्
एवं तु मण्डपं हर्म्यं देवभूसुरभूपतेः ॥१८७॥

पचनार्थमिति प्रोक्तं नानातलद्वारैरपि
तस्माद् द्व्यधिकायामं विस्तारं पूर्ववद् भवेत् ॥१८८॥

तन्मध्ये चाङ्गणांशेन परितो द्विशेन मण्डपम्
तस्यान्तं चैकभागेन परितस्तु खलूरिका ॥१८९॥

तद्दीर्घं मध्यसूत्रात्तु वामे द्वारं प्रकल्पयेत्
शेषं तु पूर्ववत्कुर्यान्मण्डपं हर्म्यमीरितम् ॥१९०॥

सर्वेषामपि वर्णानां बालालोकनयोग्यकम्
षड्भागविस्तृत चैव सप्तभागायतं तथा ॥१९१॥

तद्भागेन द्वित्रिभागेन मध्यरङ्गं प्रकल्पयेत्
मध्यस्तम्भान्परित्यज्य परितः द्व्यंशेन मण्डपम् ॥१९२॥

तद्बाह्ये चावृतांशेन भूवृतालिन्दसंयुतम्
चतुर्दिक्षु चतुर्द्वारं कर्णे लाङ्गलभित्तिकम् ॥१९३॥

चतुर्दिग्भद्र संयुक्तमेकद्वित्रिकभागिकम्
देवानां च विलासार्थं शृङ्गाराख्यं तु मण्डपम् ॥१९४॥

आयामं चाष्टभागेन विस्तारं पूर्ववद् भवेत्
तद्भागे द्विचतुर्भागं तन्मध्ये चाङ्गणं भवेत् ॥१९५॥

तद्बहिश्चावृतांशेन कुर्यात्तत्तदलिन्द्र कम्
तद्बहिश्चावृतांशेन मण्डपं द्विंशमेव वा ॥१९६॥

चतुर्वासं चतुष्कर्णे द्विद्विभागेन योजयेत्
तद्बहिश्चैकभागेन परितो वारमिष्यते ॥१९७॥

तद्दीर्घे मध्यसूत्रं तु वामे द्वारं तु पूर्ववत्
वंशमूलाग्रयोः सर्वे कर्करीकृतनेत्रकम् ॥१९८॥

द्व्यंशैकं तत्र विस्तारं निर्गमं भद्र संयुतम्
सर्वेषामपि वर्णानां सूगतं सर्वदेशिकम् ॥१९९॥

चतुर्भागाधिकायामं विस्तारं पूर्ववद् भवेत्
ललाटे द्व्यंशविस्तारं रसभागं तदायतम् ॥२००॥

पुरतः पृष्ठवाग्रे तु एकभागेनलिन्द्र कम्
वंशमूले तु वासं स्यात्कुर्यात्तु द्वित्रिभागतः ॥२०१॥

शेषं प्रागुक्तवत्सर्वं युक्त्या तत्रैव योजयेत्
तदेवाग्रे चतुर्भागं चोक्तवन्मण्डपं तु वा ॥२०२॥

केचित्षडष्टभागेन विस्तारायाम कल्पयेत्
ललाटे द्विंशषड्भागं विस्तारायाम मण्डपम् ॥२०३॥

एकांशे तत्पुरेऽलिन्द्रं द्वित्रिभागाङ्गणं भवेत्
तत्पुरे पार्श्वयोः शेषं महावारं तु कल्पयेत् ॥२०४॥

ललाटे द्विंशविस्तारमायामं मण्डपं भवेत्
एवं तु प्रागतं प्रोक्तं सर्वकर्मसुखावहम् ॥२०५॥

सप्तांशं तु विस्तारं नवभागं तदायतम्
त्रिभागं पञ्चभागेन चाङ्गणं विस्तृतायतम् ॥२०६॥

तद्बहिश्च द्विभागेन परितो मण्डप भवेत्
अथवा तत्त्रिभागेन ललाटे मण्डपं भवेत् ॥२०७॥

तत्पुरे च द्विभागेन युक्त्या मध्ये तु चाङ्गणम्
तत्पुरे च द्विपार्श्वे च एकभागेनलिन्द्र कम् ॥२०८॥

तद्बहिश्चावृतांशेन मण्डपानां तु अलिन्दकम्
मध्ये चरं तु संकल्प्य विस्तरे चाथ दैवतम् ॥२०९॥

तद्द्वित्रिभागेन विस्तारं निर्गमं भद्र संयुतम्
एकं वाथ द्वयं वापि द्वारं च त्रयमेव च ॥२१०॥

तद्बहिश्चावृतांशेन कुर्यादावृतालिन्दकम्
सर्वालङ्कारसंयुक्तं कर्णहर्म्यादिमण्डितम् ॥२११॥

द्रो णाख्यं मण्डपं प्रोक्तं देवारामं प्रकल्पयेत्
अथवा भूपतीनां च आत्मार्थं यजनार्थकम् ॥२१२॥

विप्राणां शुभकर्मार्थं सन्ध्यायोग्यकमण्डपम्
अथवा तपस्विनीनां च मठं वा नाटकाहकम् ॥२१३॥

एकभागाधिकायामं विस्तारं पूर्ववत्क्रमात्
षट्त्रिभागाङ्गणं मध्ये परितद्विंशेन मण्डपम् ॥२१४॥

ललाटे मण्डपे पूर्वे चैकभागेनलिन्द्र कम्
एवं तु भूपहर्म्ये तु मल्लयोग्यं तु कारयेत् ॥२१५॥

तस्माद्व्यंशाधिकायामं विस्तारं सप्तभागिकम्
पञ्चांशं चैकपङ्क्त्यंशं तन्मध्ये चाङ्गणं भवेत् ॥२१६॥

तद्बाह्ये परितः उर्यादेकभागेन वेदिकाम्
एतद् द्रो णं च भूपानामायुधाभ्यासमण्डपम् ॥२१७॥

पञ्चदशांशकं दीर्घं नेत्रत्रिभागमण्डपम्
तत्पुरेऽलिन्द्र मेकांशं नवांशेन युताङ्गणम् ॥२१८॥

तत्पार्श्वे पुरतश्चैव युगांशेन खलूरिकाः
द्रो णाख्यमण्डपं चैव मेषयुद्धार्थयोग्यकम् ॥२१९॥

अष्टाष्टांशविस्तारमायामं तत्र कल्पयेत्
तन्मध्ये द्विद्विभागेन कल्पयेद् विवृताङ्गणम् ॥२२०॥

तद्बहिश्चावृतांशेन कुर्याच्चैका खलूरिका
तद्बहिश्च द्वयांशेन मण्डप परितस्तथा ॥२२१॥

कर्णे च द्विद्विभागेन कुर्याद् वासं चतुष्टयम्
तद्बहिश्चावृतांशेन संयुक्तं भद्रा लिन्दकम् ॥२२२॥

मध्यसूत्रात् तु वामे तु द्वारं कुर्याद् विचक्षणः
तद्बहिश्चावृतांशेन कुर्याच्चैव खलूरिकम् ॥२२३॥

चतुष्कर्णेऽष्टनेत्रं स्याद् भद्र युक् कर्करीकृतम्
अथवा वेदभागेन मध्यकोष्ठं समाश्रकम् ॥२२४॥

तद्बहिश्चावृतांशेन जलपादं च निम्नकम्
तद्बहिः परितो भागे कुर्याच्चैव खलूरिकाः ॥२२५॥

तन्मध्ये मण्डपं कुर्यात्कर्णे लाङ्गलभित्तिकम्
मध्यस्तम्भं त्यजेत् शस्तं दिक्षु स्तम्भं त्यजेत्तुवा ॥२२६॥

ऊर्ध्वकूटं समायुक्तं सर्वालङ्कारसंयुतम्
तद्बहिः परितो देशे यथेष्टांशप्रपाङ्गकम् ॥२२७॥

नृपाणां भोजनार्थं स्यात्खर्वटाख्यं तु मण्डपम्
तदेव भागैकवेदांशं मध्यरङ्गं तमिष्यते ॥२२८॥

तद्बाह्ये तद्विभागेन मण्डपावृतमिष्यते
तद्बहिश्चावृतांशेन कुर्यात्तद्भ्रमालिन्दकम् ॥२२९॥

तच्चतुर्दिक्षु मध्ये च स्तम्भं सर्वोपरि त्यजेत्
द्विभागैकं नेत्रविस्ता निर्गमं भद्र संयुतम् ॥२३०॥

मध्यभद्रं तु विस्तारं निर्गमं च द्विभागिकम्
चतुर्दिक्षु चतुर्द्वारं कर्णे च कर्करीकृतम् ॥२३१॥

ऊर्ध्वकूटं समायुक्तं सर्वालङ्कारसंयुतम्
तन्मुखे तत्समांशेन विस्तारायामं कारयेत् ॥२३२॥

चतुःषड्भागविस्तारायामं मण्डपाङ्गणम्
पुरश्च पार्श्वयोश्चैव द्व्यंशेन मुखमण्डपम् ॥२३३॥

द्वारं तन्मुखभद्रं स्यात्कर्णेषु कर्करीकृतम्
मण्डपे चाङ्गणं ज्ञात्वा विधानं विविधाननम् ॥२३४॥

सर्वालङ्कारसंयुक्तं वातायनसमायुतम्
एवं तु खर्वटं प्रोक्तमभिषेकार्थमण्डपम् ॥२३५॥

नवभागं तु विस्तारं तत्समांशमुखायतम्
मध्यरङ्गं त्रिभागं स्यादंशेनावृतलिन्द्र कम् ॥२३६॥

तद्बहिश्च द्विभागेन मण्डपावृतमेव च
तस्मात्त्रिभागषड्भागं विस्तारायामरङ्गकम् ॥२३७॥

कुर्यात्तु शिल्पिविद्वद्भिर्मुखमण्डप मध्यमे
तत्पुरे पार्श्वयोश्चैव एकभागेन लिन्द्र कम् ॥२३८॥

तद्बहिस्तद्वशात्कुर्यान्मण्डपं तद्द्वयांशकम्
शेषं प्रागुक्तवत्कुर्यात् श्रीरूपाख्यं च मण्डपम् ॥२३९॥

एवं देवालये कुर्याद् भूपाकयोग्यकम्
दशभागविशालं स्याद्विंशत्यंशं तदायतम् ॥२४०॥

मध्यरङ्गं युगांशं स्यात्मध्यस्तम्भान् परित्यजेत्
तद्बदिश्चावृतांशेन लिन्द्रं द्व्यंशेन मण्डपम् ॥२४१॥

तद्बहिश्चावृतांशेन चोर्ध्वे तु जलस्थलम्
तस्मात्तु तन्मुखे रङ्गं द्व्यंशं षड्भागमेव च ॥२४२॥

तन्मुखे पार्श्वयोश्चैव मण्डपाकारं योजयेत्
मङ्गलाख्यमिति प्रोक्तं शेषं तु पुरतोक्तवत् ॥२४३॥

एवं तु नृपहर्म्ये तु तुलाभारार्थयोग्यकम्
भूपानां च यथास्थानं मण्डपं वक्ष्यते क्रमात् ॥२४४॥

एकादशविभागेन मूलविस्तारदीर्घकम्
तत्समांशेन विस्तारमेकद्वित्रिमुखायतम् ॥२४५॥

विस्तारसमसूत्रं स्यात्कुर्यादास्थानमण्डपम्
मूलमण्डपमध्ये तु पञ्चपञ्चांशरङ्गकम् ॥२४६॥

तद्बाह्ये द्वित्रिभागेन परितो मण्डपं भवेत्
चतुर्दिक्षु चतुर्द्वारं कर्णे लाङ्गलभित्तिकम् ॥२४७॥

बाह्ये च द्वित्रिभागेन भूवृतालिन्दकम्
चतुर्दिक्षु त्रिभागेन भद्र द्वारणसंयुतम् ॥२४८॥

पार्श्वे सोपानसंयुक्तं हस्तिहस्तविभूषितम्
सोपपीठमधिष्ठानं स्तम्भादीन्प्रस्तरान्वितम् ॥२४९॥

प्रस्तरोर्ध्वे विशेषोऽस्ति चूली हर्म्यादिमण्डितम्
मध्यरङ्गोर्ध्वकूटं स्यात् एकद्वित्रितलं तु वा ॥२५०॥

रत्नप्रासादरङ्गे तु प्रागुक्तवदलङ्कृतम्
तन्मुखे च प्रपां कुर्याद् युक्त्यायामं तु कल्पयेत् ॥२५१॥

नाटका विस्तरं पञ्चपञ्चभागेन योजयेत्
पार्श्वे चैव त्रिभागेन बहुपादसमन्वितम् ॥२५२॥

सोपपीठाङ्घ्रिसंयुक्तं प्रस्तरं च प्रपाङ्गकम्
प्रमुखे भद्र सोपानं कर्णे लाङ्गलभित्तिकम् ॥२५३॥

शिले वा दारुजे वापि मिश्रद्र व्येण कारयेत्
शेषं तु देवतास्थानं मण्डपोक्तवदाचरेत् ॥२५४॥

एवमास्थानयोग्यं स्यात्ततस्वराक्षरयोग्यकम्
चतुःषड्भागविस्तारमायामं तत्प्रकल्पयेत् ॥२५५॥

द्विचतुर्भागविस्तारमायामं मण्डपं भवेत्
विस्ताराद् द्विभागेन वंशमूले तु व्रासकम् ॥२५६॥

तदग्रे द्वित्रिभागेन कुड्यपादसमन्वितम्
तद्बहिश्चावृतांशेन वारं कान्ताख्यमण्डपम् ॥२५७॥

एवं तु युवराजस्य लीलालोकनमण्डपम्
सर्वालङ्कारसंयुक्तं चोर्ध्वकूटसमन्वितम् ॥२५८॥

षडष्टांशेन विस्तारमायामं मण्डपं भवेत्
द्वित्रिभागेन वासं स्यात्त्रिचतुर्भागमण्डपम् ॥२५९॥

वंशमूलाग्रयोर्वासं तन्मध्ये मण्डपं भवेत्
तत्पुरेऽलिन्द्र मेकांशं चेष्टदिग्गतभित्तिकम् ॥२६०॥

मुखेऽष्टद्व्यंशमायामं विस्तारं मुखवारकम्
द्वित्रिभागेन वासं स्यात् अग्रे मूले निर्योजयेत् ॥२६१॥

अथवा मूलवासैश्च द्वित्रिभागेन योजयेत्
द्विचतुर्भागविस्तारायामं मूलमण्डपम् ॥२६२॥

तत्पुरे पृष्ठदेशे तु चैकैकांशेनालिन्द्र कम्
परितः कुड्यसंयुक्तं तद्बहिर्वारमेव च ॥२६३॥

तस्मादेव द्विभागेन निर्गमं भद्र विस्तृतम्
मण्डपे वंशमूलाग्रे त्रिभागं भद्र विशालकम् ॥२६४॥

निर्गमं च द्विभागं स्याद् भद्रा वृतवारकम्
मण्डपे चोर्ध्वकूटं स्यात् शालाकारं तु योजयेत् ॥२६५॥

अष्टवक्त्रसमायुक्तं कर्णेषु कर्करीकृतम्
मध्यसूत्रं तु वामे तु दारं कुर्याद् विचक्षणः ॥२६६॥

श्रीविशालमिति प्रोक्तं महिष्यावासमण्डपम्
चतुःषड्भागविस्तारं आयाम मण्डपं भवेत् ॥२६७॥

द्विद्विभागेन संयुक्तं तन्मध्ये चाङ्गणं भवेत्
द्विचतुर्भागविस्तारं वासमायाममीरितम् ॥२६८॥

तत्पुरे पृष्ठभागान्तं चैकद्व्यंशेन कारयेत्
तद्बहिर्वारमेकेन परितः कूटाकृतिस्तथा ॥२६९॥

वंशमूलाग्रयोर्वासं तद्वारं वासमध्यमे
मण्डपे सूत्रमध्यं तु वामे द्वारं तथायते ॥२७०॥

एवं सोमार्कनामस्य वैश्यानां च पचनालयम्
तदेव विस्तारदीर्घेषु द्विद्विभागेन वर्धनात् ॥२७१॥

अन्यत् क्षित्रियसर्वेषां युगभागेन मण्डपम्
विस्तारं द्विगुणान्तं स्याद् द्विद्विभागेन वर्धनात् ॥२७२॥

यथा तद्विनियोगार्थं मण्डपं वैश्यशूद्र योः
तत्तच्चित्तवशात्सर्वमष्टदिग्भागभित्तिकम् ॥२७३॥

देवानां भूसुराणां च मण्डपं जातिरूपकम्
भूपानां मण्डपे सर्वे छन्दरूपमितीरितम् ॥२७४॥

वैश्यकानां तु सर्वेषां विकल्पं चेति कथ्यते
शूद्रा णां मण्डपं सर्वमाभांसमिति कीर्तितम् ॥२७५॥

केचिद् भद्रं विशेषेण जातिरुक्ता पुरातनैः
द्विवक्त्रं दण्डकं प्रोक्तं त्रिवक्त्रं स्वस्तिकं तथा ॥२७६॥

त्रिवक्त्रं लाङ्गलाकारं नन्द्यावर्त्तं चतुर्मुखम्
षण्मुखं मौलिकं प्रोक्तं मण्डप चाष्टवक्त्रयुक् ॥२७७॥

एवं तु सर्वतोभद्रं सर्वालङ्कारसंयुतम्
वक्ष्यते विधिना सम्यक् सर्वग्रामार्थमण्डपम् ॥२७८॥

समाश्रं वायतायामं युग्मं वायुग्मभित्तिकम्
लुपां वा प्रस्तराङ्गं वा तप्लच्छादनमेव च ॥२७९॥

लुपायुक्तं तु सर्वाङ्गं सभा चेति प्रकीर्तितम्
परितः प्रस्तरं मध्ये चोर्ध्वे कूटं तु मण्डपम् ॥२८०॥

प्रस्तराङ्गं तु सर्वाङ्गं मण्डपं चेति कथ्यते
मण्डपं वा सभां वापि ग्रामयोग्यं यथादिशि ॥२८१॥

नगरे च यथाकारं द्विगुणाध्यर्धकायतम्
पादूनं द्विगुणं वापि द्विगुणं पत्तने न्यसेत् ॥२८२॥

विस्तारद्विगुणायामं शूद्र खर्बटयोग्यकम्
अधिष्ठानाद्यलङ्कारं सर्वं प्रागुक्तवन्नयेत् ॥२८३॥

यात्रामार्गेषु सर्वेषां कारयेन्मण्डपं सुधीः
प्रपाङ्गं मण्डपं वापि यथायुक्त्या प्रयोजयेत् ॥२८४॥

ब्रह्मक्षत्रियवैश्यशूद्र चतुर्वर्णे यदुक्तं तु तद्
देवानां भवति त्वनन्तरान्तरं शूद्रै र्विशा क्षत्रियैः
तद्विप्रैर्भवति त्वनन्तरान्तरं क्षत्रैर्विशा शूद्र कम्
राजानो भवति त्वनन्तरान्तरं शूद्रै र्विशां वश्यकैः ॥२८५॥

शूद्रै र्युक्तं मण्डपं शूद्र काणाम्
अन्येषां तज्जातियोग्यं तु कुर्यात्
चोक्तद्विप्रजात्यादि चोक्तम्
कर्ता भर्ता सर्वथा नाशमीयात् ॥२८६॥

इति मानसारे वास्तुशास्त्रे मण्डपविधानं नाम चतुस्त्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : October 03, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP