संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| नयनोन्मीलनलक्षणम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - नयनोन्मीलनलक्षणम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत नयनोन्मीलनलक्षणम् Translation - भाषांतर देवानामपि देवीनां भक्तानां नेत्रमोक्षणम्लिङ्गानां लक्षणोद्घारं वस्त्वादीनां यथाक्रमम् ॥१॥स्थपतिः प्रकृतिः प्रोक्तः स्थापको जीवमिष्यतेतस्मात्क्रियारम्भतः सह कुर्यात्तु संसदा ॥२॥एवं विधाय चान्येन वस्त्वादय कृतान्यपिवस्तोवास्तोस्तु हानिः कर्तृनाशं भवेद् ध्रुवम् ॥३॥किं सृजेन्नयनोन्मेषमन्धकारानुपत्तयेउदिते तु सहस्रांशौ यथा गच्छति समन्ततः ॥४॥तथैवमस्तमानादि लोचनस्य जनस्य चअन्तर्बहिश्च रागश्च अर्थनाशं न संशयः ॥५॥अकृत्वा नयनोन्मोक्षं चक्षूरोगो भवेद् ध्रुवम्तस्मात्तु नयनोन्मोक्षलक्षणं वक्ष्यतेऽधुना ॥६॥हर्म्ये वा मण्डपे वापि स्थपतिस्थापकावुभौस्थापनात्पूर्वके कुर्यादुक्तवदङ्कुरार्पणम् ॥७॥पश्चात्तु सुमुहूर्ते च कुर्यान्नयनमोक्षणम्प्रासादाभिमुखे चैव चोत्तरे वाथ दक्षिणे ॥८॥नयनोन्मीलनं यागमण्डपं कल्पयेत्सुधीःनवहस्तं सप्तहस्तं पञ्चहस्तमथापि वा ॥९॥चतुरश्रसमाकारं षोडशस्तम्भमेव चद्वादशस्तम्भमेवं वा कूटं वाथ प्रपाङ्गकम् ॥१०॥चतुर्दिक्षु चतुर्द्वारं चतुस्तोरणसंयुतम्तन्मण्डपस्य मध्ये तु वेदिं कुर्यात्तु चोक्तवत् ॥११॥तदग्रे चाग्निकुण्डं स्याद् गोमयालेपनं भवेत्विधानध्वजसंयुक्तं नानावस्त्रेण संयुतम् ॥१२॥पादानां समलङ्कृत्य कदली फलैर्युतम्परितश्चोर्ध्वदेशे तु रम्भामाल्यैरलङ्कृतम् ॥१३॥पुष्पमाल्यैरलङ्कृत्य रत्नैःसर्वैरलङ्कृतम्पश्चात्तु शिल्पिभिः प्राज्ञाः कुर्यात् नयनमोक्षणम् ॥१४॥वेदिकापश्चिमे वाथ दक्षिणे वाथ नैरृतेकल्पयेत्स्थण्डिलं वाथ दारु पीठमथापि वा ॥१५॥तदूर्ध्वे स्थापयेद् बिम्बं सकूर्चाद्यैरलङ्कृतम्तत्पूर्वे शुद्धमाल्येन स्थण्डिलं मण्डलं न्यसेत् ॥१६॥तदूर्ध्वे स्थापयेद्धेमपात्रे नैरृत्य पूरितम्क्षौमेणाच्छादनं कुर्यादन्तः कूर्चैरलङ्कृतम् ॥१७॥वेदिकोपरि शाल्येन कुर्यान्मण्डलं बुधःपञ्चविंशत्पदं वाथ कल्पयेत्पीठमेव वा ॥१८॥दर्भैरास्तीर्य पश्चात्तु शुद्धतण्डुलरेखयानानापुष्पैश्च लाजैश्च प्रोक्षयेच्छोभनार्थकम् ॥१९॥नवकुम्भे नवैर्वापि पञ्चविंशतिरेव वाविधिवत्क्षालयेत्सर्वसूत्रैरावेष्टनं भवेत् ॥२०॥शुद्धतोयेन संपूर्य वेदिकोपरि विन्यसेत्मध्ये प्रधानकुम्भः स्यादन्ये क्रमात्समन्ततः ॥२१॥सर्ववस्त्रैश्च सम्वेष्ट्य सकूर्चाद्यप्रपल्लवान्सविधानफलं चैव पुष्पमाल्यैरलङ्कृतम् ॥२२॥उपवेद्युपरि स्थाप्य चोक्तवच्चाष्टमङ्गलम्पश्चात्तु शिल्पिभिः प्राज्ञैः पादप्रक्षालनं कुरु ॥२३॥विध्युक्ताचमनं कुर्यात्सकलीकरणं क्रमात्पुण्याहं वाचयित्वा तु प्रोक्षयेत्प्रतिमादिकम् ॥२४॥ब्राह्मादीनां च देवानां तत्तत्स्वनाममन्त्रकैःप्रणवादिनमोऽन्तेन क्रमादाराधयेत्पुनः ॥२५॥धूपदीपं ददेत्प्राज्ञो मध्यकुम्भस्य मध्यमेआराध्य गन्धपुष्पैश्च भुवनादिपतिं जपेत् ॥२६॥घृतगुलशस्यदधि क्षीरान्नं वा निवेदयेत्धूपदीपम् ददेत्ताम्बुलादि निवेदयेत् ॥२७॥दर्शयेद्धेनुमुद्रा दीन् गीतादीन् नृत्तघोषणैःतदग्रे स्थपतिः प्राज्ञो होमं कुर्यात्ततः क्रमात् ॥२८॥समिदाज्यचरुं लाजप्रत्येकमष्टोत्तरशताहुतिःशुद्धतोयेन सङ्खाया पञ्चविंशतिरेव वा ॥२९॥हृल्लेखं बीजम्मुच्चार्य स्वाहान्तं प्रणवान्तकम्बिम्बं गायत्रिमन्त्रेण पूर्णाहुतिं च कारयेत् ॥३०॥अग्निकार्यावसाने तु विधिवद् बिम्बमाश्रयेत्पुण्याहं वाचयित्वा तु ब्राह्मणैः सह घोषणैः ॥३१॥रत्नशुद्धिं ततः कुर्याद् गन्धपुष्पैरवार्चयेत्स्थपतिः प्रोक्षयेद् बिम्बं सर्वमङ्गलघोषणैः ॥३२॥धूपदीपं दधेत् पश्चाद् बिम्बं गायत्रीमन्त्रतःआराध्य गन्धपुष्पैश्च धेनुमुद्रां! प्रदर्शयेत् ॥३३॥नववस्त्रेण गोप्याङ्गं बिम्बस्य नेत्रमालिखेत्सर्वान्दक्षिणशास्त्रेण स्पर्शयेत्त्वेकचित्तवत् ॥३४॥अक्षिरेखां समालिख्य सव्येऽक्षि कृष्णमण्डलम्ज्योतिर्मण्डलकं ध्यात्वा सौरमन्त्रं समुच्चरेत् ॥३५॥पश्चात्तु वामनेत्रे तु शशिमन्त्रं समुच्चरेत्ललाटे लोचनं लेख्य अग्निबीजं समुच्चरेत् ॥३६॥पश्चात्तु स्वर्णलिप्येन पयसाज्येन लेपयेत्ततः प्रच्छादनं कुर्याद् वत्साङ्गकनकैः सह ॥३७॥पायसं धनधान्यादिराशिं दर्शयेत्पुनःस्थपतिर्वरवेषाढ्यः प्राप्तपञ्चाङ्गभूषणः ॥३८॥श्वेतानुलेपनं लिप्य नववस्त्रोत्तरीयवान्स्वर्णयज्ञोपवीतश्च शितपुष्पशिवा शुचिः ॥३९॥स्वमूर्तिसव्यं चास्ये व मूलकुम्भं तथोत्तरेअन्यकुम्भानि सर्वाणि धारयेत् परिचारकैः ॥४०॥छत्रचामरसंयुक्तं सर्वमङ्गलघोषणैःहर्म्यप्रदक्षिणं कुर्यात्स्वाध्यायघोषणैः सह ॥४१तद्बिम्बं च समाश्रित्य सजलेनाभिषेचयेत्अन्येन सर्वकुम्भानां जलेनोपाङ्गादि पूजयेत् ॥४२॥एवं कुम्भान्परिक्षिप्य तत्तत्सूत्रं समुच्चरेत्नानावस्त्रेण संयुक्तं नानापुष्पैरलङ्कृतम् ॥४३॥गन्धानुलेपनालिप्य सर्वाभरणभूषितम्धूपदीपं ददेत् पश्चान्नृत्तगीतादिघोषणैः ॥४४॥मूर्धादिप्राणपर्यन्तं मातृकाक्षरं न्यसेत्पादादि मूर्धपर्यन्तं पर्यायादि साक्षरं न्यसेत् ॥४५॥अष्टत्रिंशत्कलाः सर्वे तत्तदङ्गानि विन्यसेत्अङ्गपादैः करैर्वक्त्रं करणानि च विन्यसेत् ॥४६॥पश्चात्तु मूलमन्त्रेण समध्यानपरायणम्आराध्य गन्धपुष्पैश्च धूपदीपं दधेत्पुनः ॥४७॥पश्चात्तु ताम्बुलादीनि नैवेद्यानिं निवेदयेत्ब्राह्मणैश्चाक्षतैः प्रोक्ष्य कुर्यात्तु स्वस्तिघोषणैः ॥४८॥नृत्तगीतादिमुद्रै श्च दर्शयेच्छिल्पिवित्तमःनयनोन्मीलनं प्रोक्तं पश्चाद् ग्रामप्रदक्षिणम् ॥४९॥लक्षणोद्धारमेवोक्तमुक्तवद् रेखया लिखेत्प्रतिमां लोहजं प्रोक्तं तथा रत्नं तु विन्यसेत् ॥५०॥शिलालिङ्गं तु बिम्बानां यत्तत्कर्मावसानकेस्थापनात्पूर्वके रत्नं विन्यासं कारयेद् बुधः ॥५१॥पीठं तस्य च मध्ये तु नवकोष्ठं प्रकल्पयेत्पद्मरागं तु तन्मध्ये वज्रं चेन्द्र वद् न्यसेत् ॥५२॥प्रवालं चाग्निकोष्ठे तु महानीलं यमे तथावैदूर्यं न्यसेन्नैरृत्ये मरतकं पश्चिमे तथा ॥५३॥वायव्ये पुष्परागं च मौक्तिकं तु कुबेरकेइन्द्र नीलं तु ईशे तु विन्यसेत् विधिवित्तमः ॥५४॥स्थपतिः स्थापकश्चोभौ स्थापयेद् बिम्बलिङ्गकम्एवं तु रत्नविन्यासं शेषमङ्गं यथोक्तवत् ॥५५॥हृदयकमलमध्ये दीपवत्तत्परं स्यात्कमलजहरिहरादिदेवतानां च सर्वम् ॥५६॥विधिमिह सकलरूपं च चक्षुरुन्मीलनं चकृतिमिति रखिलमुक्तं मानसारं पुराणैः ॥५७॥पितामहेन्द्र प्रमुखैः समस्तैःदेवैरिदं शास्त्रवरं पुरोदितम्तस्मात्समुद्धृत्य हि मानसारम्शास्त्रं कृतम् लोकहितार्थमेतत् ॥५८॥इति मानसारे वास्तुशास्त्रे नयनोन्मीलनलक्षणविधानं नाम सप्ततितमोऽध्यायःमानसारं संपूर्णम् N/A References : N/A Last Updated : October 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP