मानसारम् - अष्टतलविधानम्
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
अष्टतलविमानस्य लक्षणं वक्ष्यतेऽधुना
पूर्ववत्तुङ्गमानेन कुट्यमाद्यङ्गं मानयेत् ॥१॥
पूर्ववद्भक्तिमानेन कूटशालादि मानयेत्
भूकान्तं भूपकान्तं च स्वर्गकान्तं तथैव च ॥२॥
महाकान्तं जनकान्तं च तपकान्तं सत्यकान्तकम्
देवकान्तमिति प्रोक्तमष्टधा नाममेव च ॥३॥
षोडशांशकमाधिक्यं भागं हर्म्यविशालकम्
एकांशं कर्णकूटं स्याद्धारान्तर शिवांशकम् ॥४॥
विभागेनानुशाला च तदर्धं चान्तरालकम्
सप्तांशेन महाशाला हर्म्यमेतत्तु विन्यसेत् ॥५॥
चतुष्कोणे चतुष्कूटं कोष्ठे हारादिरष्टधा
क्षुद्र शालाष्टधा प्रोक्तं कोष्ठशाला चतुष्टयम् ॥६॥
मध्यशालात्रिभागेन भद्र शाला च मध्यमे
तत्तत्पार्श्वद्वयो द्विद्विभागार्ध शालयेत् ॥७॥
एव मूलतलाद्यैश्च चोर्ध्वेऽर्ध्वतला न्यसेत्
अथवाष्टादशांशे तु कूटहारा च पूर्ववत् ॥८॥
षड्भागेन महाशाला चतुःशाला त्रिभागिकम्
मध्यशालैर्युगांशेन भद्र शाला च मध्यमे ॥९॥
अनुशाला च मध्ये च एकभागेन भद्र कम्
शेषं पूर्ववत्कुर्याद् भूकान्तमुदीरितम् ॥१०॥
एकोनविंशदंशेन चाष्टभूमिविशालके
एकैक कूटविस्तारं महाशाला शरंशकम् ॥११॥
अनुशाला त्रिभागा वा भारान्तर द्विभागिकम्
महाशाला त्रिभागेन भद्र शालाविशालता ॥१२॥
शेषं प्रागुक्तवत्कुर्याद्देव भागाधिकं ततः
मध्यशालाशराशेन युक्त्या तन्मध्यभद्र कम् ॥१३॥
शेषं तु पूर्ववत्कुर्याद्भूपकान्तमिति स्मृतम्
एवं चाष्टतले क्षुद्र हर्म्यमेवं प्रकल्पयेत् ॥१४॥
एकविंशांशकं चाष्टतलहर्म्ये विशालके
मध्ये सप्ताष्टकं चैव महाशाला प्रकल्पयेत् ॥१५॥
तन्मध्ये भूतभागेन मध्यशाला सभद्र कम्
तद्बहिश्च त्रिभागेन भद्र शालाविभूषितम् ॥१६॥
शेषं प्रागुक्तवत्कुर्यात्स्वर्गकान्तमिति स्मृतम्
एवमष्टतलं कुर्यान्मध्यमालयमेव च ॥१७॥
द्वाविंशांशकं तारे च श्रेष्ठमष्टतलं भवेत्
तन्मध्ये चाष्टभागेन महाशालाविशालकम् ॥१८॥
तन्मध्ये वेदभागेन कोष्ठशाला सभद्र कम्
महाकान्तमिति प्रोक्तं तन्मध्ये च द्विभागतः ॥१९॥
भद्र शालासमायुक्तं जनकान्तमिति स्मृतम्
तच्छालाया द्विपार्श्वे तु नेत्रशाला सभद्र कम् ॥२०॥
एतत्तु तपकान्तं स्याच्छेषं प्रागुक्तवन्नयेत्
तदेव मध्यशाले तु तत्पार्श्वे च विशेषतः ॥२१॥
एकैकं कूटविस्तारं तत्समं हारसंयुतम्
एतत्तु सत्यकान्तं स्याच्छेषं पूर्ववदाचरेत् ॥२२॥
तदेवमनुशाला च कुर्यान्मध्य सभद्र कम्
देवकान्तमिति प्रोक्तं चोर्ध्वोर्ध्वतलं न्यसेत् ॥२३॥
एवं श्रेष्ठं त्वष्टतले सर्वालङ्कारसंयुतम्
जन्मादिस्तूपिपर्यन्तं चाङ्गमानमिहोच्यते ॥२४॥
सैकाष्टपञ्चसैकांशं हर्म्ये तुङ्गं विभाजिते
आधारं चाष्टभागेन वेदांशं चरणायुतम् ॥२५॥
तदर्धं वलभ्युत्सेधं सार्धवह्न्यंशमङ्घ्रिकम्
सत्रिपादांशकं मञ्चमूर्ध्वे पादं गुणांशकम् ॥२६॥
तदर्धं चोर्ध्वमञ्चं स्यात्त्रिपादाक्षाङ्घ्रितुङ्गकम्
सपादांशं प्रस्तरोत्तुङ्गं द्व्यर्धांशं चरणायुतम् ॥२७॥
तदर्धं प्रस्तरोत्सेधं जङ्घायामं च सार्धकम्
प्रस्तरं चैकभागेन द्व्यंशपादाधिकमङ्घ्रिकम् ॥२८॥
ऊर्ध्वमञ्च त्रिपादं स्यात्सभागं पादतुङ्गकम्
एकांशं प्रस्तरोत्सेधं तदूर्ध्वे च त्रिभागिकम् ॥२९॥
तत्त्रिभागैकवेदिं स्याद्द्विभागं गलतुङ्गकम्
सपादं चांशकं चोर्ध्वे शिर शेषं शिखोदयम् ॥३०॥
केचित्तदेव तुङ्गे तु सप्तभागाधिकं तथा
ऊर्ध्वोर्ध्वपादमूले तु युक्त्यांशेन मसूरकम् ॥३१॥
तलानां चैकभागेन कर्णहर्म्यावृता न्यसेत्
अन्तर प्रस्तरोपेतं सर्वालङ्कारसंयुतम् ॥३२॥
तस्यान्तस्यैकभागेन कुर्यादावृतालिन्दकम्
मूले भागे पदांशेन चोर्ध्वोर्ध्वतलांशकम् ॥३३॥
नेत्रशालार्धशाला च भद्र शालादिभूषितम्
तोरणैस्तलशालादिनासिकाभिरलङ्कृतम् ॥३४॥
कोष्टेशाला च मध्ये च चोर्ध्वशाला च मण्डितम्
नासिकापञ्जराढ्यं च भद्र नास्यैरलङ्कृतम् ॥३५॥
क्षुद्र शालाप्रदेशे तु सर्वालङ्कारसंयुतम्
कर्णकूटाङ्गमध्ये तु नासिकापञ्जरान्वितम् ॥३६॥
सर्वाङ्गं क्षुद्र नास्याङ्गं प्रस्तरालङ्कृतिक्रिया
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥३७॥
नागरद्रा विडादीनां वेसरादीन् शिखान्वितम्
सर्वालङ्कारसंयुक्तं पूर्ववत्परिकल्पयेत् ॥३८॥
इति मानसारे वास्तुशास्त्रे अष्टतलविधानं नाम षड्विंशोऽध्यायः
N/A
References : N/A
Last Updated : October 03, 2022
TOP