संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| भक्तलक्षणम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - भक्तलक्षणम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत भक्तलक्षणम् Translation - भाषांतर अधुना वक्ष्यते सर्वभक्तानां लक्षणं क्रमात्पादं चतुर्विधं प्रोक्तं तद्वशान्मानं गृह्यते ॥१॥प्रथमं सालोक्यमथ द्वितीयं सामीप्यमुच्यतेसारूप्यं च तृतीयं स्यात्सायुज्यं तु चतुर्थकम् ॥२॥भक्तिज्ञानं च वैराग्यं युक्तं सालोक्यमीरितम्ज्ञानं वैराग्यसंयुक्तं सामीप्यमिति कथ्यते ॥३॥केवलं ध्यानसंयुक्तं सारूप्यमिति निश्चयम्शुद्धज्ञानसमायुक्तं सायुज्यं परमार्थवत् ॥४॥उत्तमं नवतालेन सालोक्याङ्गं प्रमीयतेअधमं दशतालेन सामीप्याङ्गस्य निर्मितम् ॥५॥मध्यमं दशतालेन सारूप्यं मानयेत्सुधीःउत्तमं दशतालेन सायुज्यं कथितं बुधैः ॥६॥एवं क्रमेण भक्तानां तालमानं प्रवक्ष्यतेउष्णीषात्पादपर्यन्तं भावोत्तरशतांशकम् ॥७॥उष्णीषं तु चतुर्मात्रं नेत्रान्तं तु युगाङ्गुलम्पुटान्तं वेदमात्रं स्यात्तत्समं हनुसीमकम् ॥८॥कर्णोच्चं वेदमात्रं स्याद् भद्र काद्धृदयान्तकम्हृदयं नाभिसीमान्तं नाभिर्मेढ्रं तु सीमकम् ॥९॥तत्समं भानुभागं स्याच्चोरुदीर्घं मुखद्वयम्जानु कर्ण समं कुर्याज्जङ्घा चोरुतुल्यकम् ॥१०॥पादं जानुसमोच्चं स्यादेवमुत्तुङ्गं मापयेत्अङ्गुष्ठात्पार्ष्णिपर्यन्तं तलं षोडशमात्रकम् ॥११॥चतुर्विंशतिमात्रं स्याद्बाहुदीर्घं प्रशस्यतेकूर्परं च द्विमात्रं स्यात्प्रकोष्ठाष्टादशाङ्गुलम् ॥१२॥मध्याङ्गुल्यग्रसीमान्तं तलं द्वादशमात्रकम्रुद्रा शं! मुखतारं स्याद् गलतारं युगद्वयम् ॥१३॥तत्समं बाहुमूलं स्याज्जानुविस्तारं तत्समम्बाहुपर्यन्तविस्तारं षट्त्रिंशाङ्गुलकं तथा ॥१४॥कक्षयोरन्तरं तारं विशमात्रं प्रशस्यतेमध्योदरतारं च पञ्चादशाङ्गुलं भवेत् ॥१५॥श्रोणिदेशविशालं स्यात्सप्तादशाङ्गुलं भवेत्नवाधिक्यं दशाङ्गुल्यं कटिदेशविशालकम् ॥१६॥ऊरुमूलविशालं तु सार्धं द्वादशाङ्गुलं भवेत्जङ्घामूलविशालं तु सार्धसप्ताङ्गुलं तथा ॥१७॥जङ्घामध्यं षडङ्गुल्यं विस्तारं तु युगाङ्गुलम्नलकागुल्फविस्तारं सत्रिपादाङ्घ्रिमात्रकम् ॥१८॥सार्धवेदाङ्गुलं पार्ष्णिविस्तारं परिकीर्तितम्षड्भागिकं च पञ्चांशं प्रपदं विस्तृतं भवेत् ॥१९॥तलातारं शराङ्गुल्यं वेदांशमङ्गुष्ठदीर्घकम्द्विमात्रं तत्रविस्तारं तारार्धं नखविस्तृतम् ॥२०॥तर्जन्याङ्गुष्ठतत्तुल्यं दीर्घं विस्तारमंशकम्त्र्! यङ्गुलं सार्धपक्षांशं द्व्यङ्गुलं च क्रमेण वै ॥२१॥मध्यमादि कनिष्ठान्तं दीर्घमेवं प्रशस्यतेविस्तारं सप्तषट्पञ्चयवमानमुदीरितम् ॥२२॥तदर्धं च तदर्धं च नखविस्तारमुच्यतेबाहुमध्यविशालं तु सप्तांशं कूर्परं तथा ॥२३॥वेदाङ्गुलं प्रकोष्ठं च मणिबन्धं त्रियङ्गुलम्षडंशं तलमूलं चाग्रं तारं युगाङ्गुलम् ॥२४॥तलदीर्घं षडङ्गुल्यं शेषांशं मध्यमाङ्गुलम्सार्धपञ्चाङ्गुलं दीर्घं तर्जन्यनामिकाद्वयम् ॥२५॥सार्धवह्न्यङ्गुलं दीर्घं कनिष्ठाङ्गुष्ठयोस्तथाअंशकं षड्यवं सप्त षड्यवं तुर्यवं भवेत् ॥२६॥अङ्गष्ठादिकनिष्ठान्तं विस्तारं परिकीर्तितम्स्थूलमूल कृशाग्रं तु उक्तमानेन योजयेत् ॥२७॥अग्रे च त्रित्रिभागेन नखतारं प्रशस्यतेत्रिचतुर्भागमाधिक्यं नखायाममुदाहृतम् ॥२८॥एकद्वित्रियवं वापि नखाग्रं कारयेत्सुधीःअङ्गुष्ठे च द्विपर्वं स्यात्त्रिपर्वं चान्यथाङ्गुलैः ॥२९॥ज्ञानरेखादिरेखैश्च कुर्यात्तु तलमध्यमेफेशान्तं दक्षसूत्रान्तं द्वयोर्मध्ये भ्रुवः स्थितिः ॥३०॥अक्षायाम द्वयाङ्गुल्यं तदर्धं तस्यविस्तृतम्कर्णायामं युगाङ्गुल्यं कर्णनालं तु तत्समम् ॥३१॥विस्तारं द्व्यङ्गुलं प्रोक्तं शेषमूह्यं विचक्षणःनवतालोत्तमं प्रोक्तं शेषं च दशतालवत् ॥३२॥सद्विरष्टशतं भागं द्वितीये च पदं तथापादादुष्णीषसीमान्तं कन्यसपङ्क्तितालवत् ॥३३॥उष्णीषात्केशपर्यन्तमुत्तुङ्गं वेदमात्रकम्तस्मान्नेत्रं तु सूत्रान्तं सार्धवेदङ्गुलं भवेत् ॥३४॥तस्मात्तु पुटसीमान्तं वेदमात्रं प्रशस्यतेपुटान्ताद्धनुसीमान्तं सार्धवह्न्यङ्गुलं भवेत् ॥३५॥गलमध्यर्धमात्रं स्याद् गलतुङ्गं युगाङ्गुलम्कर्णाद्धृदयमानं हृदयं नाभिसीमकम् ॥३६॥नाभ्यन्तं मेढ्रसीमान्तं समं वा युगत्रयम्मेढ्रमूरुदीर्घं स्यात्पञ्चविंशाङ्गुलं भवेत् ॥३७॥जानुपादतलं वेदमात्रं जङ्घोरुतुल्यकम्पार्ष्णिद्व्यङ्गुष्ठसीमान्तं सार्धषोडशमात्रकम् ॥३८॥हिक्कासूत्रादधो बाहुदीर्घं पञ्चशराङ्गुलम्कूर्परं च द्विमात्रं स्यात्प्रकोष्ठमेकोनविंशतिः ॥३९॥मध्याङ्गुल्यग्रसीमान्तं सार्धभान्वंशकं तलम्सार्धरुद्रा शं! वक्त्रं च विस्तारं परिकीर्तितम् ॥४०॥गलतारं सार्धमष्टांशं बाहुजानु च तत्समम्षट्षट्सार्धैकभागं स्याद्बाहुपर्यन्तविस्तृतम् ॥४१॥सार्धविंशतिमात्रं स्यात्कक्षान्तरमुदाहृतम्सार्धपञ्चादशाङ्गुल्यं मध्योदरविशालकम् ॥४२॥सार्धमष्टादशाङ्गुल्यं श्रोणिदेष विशालकम्एकोनविंशतिभागं कटिविस्तारमिष्यते ॥४३॥सार्धद्वादशमात्रं स्यादूरुमूलविशालकम्जङ्घामध्ये तु विस्तारं सार्धषड्द्व्यङ्गुलं भवेत् ॥४४॥नलकान्तर युगाङ्गुलं गुल्फतारं शराङ्गुलम्प्रपदं तु षडङ्गुल्यं वेदांशमङ्गुष्ठदीर्घकम् ॥४५॥तत्समं तर्जनीदीर्घमर्धाङ्गुलविहीनकम्अन्याङ्गुली च दीर्घं स्याद् विस्तारं तत्समूह्यताम् ॥४६॥कूर्परस्य तु विस्तारं सार्धषट्द्व्यङ्गुलं भवेत्प्रकोष्ठतारं शराङ्गुल्यं मणिबन्धं युगाङ्गुलम् ॥४७॥तलतारं शराङ्गुल्यं तलदीर्घं सप्तमात्रकम्मध्याङ्गुलायतं सार्धपञ्चमात्रं प्रशस्यते ॥४८॥तर्जन्यायामदीर्घं स्याद्बाणांशं तत्प्रकल्पयेत्सार्धवद्व्यङ्गुलं दीर्घम् कनिष्ठाङ्गुष्ठयोस्तथा ॥४९॥श्रोत्रदीर्घं युगाङ्गुल्यं नालालम्बनं तत्समम्अन्यान्यनुक्तसर्वाङ्गमत्तमं दशतालवत् ॥५०॥कारयेच्छिल्पिभिः कुर्यात्तत्र दोषो न विद्यते ॥५१॥इति मानसारे वास्तुशास्त्रे भक्तलक्षणविधानं नाम एकोनषष्टितमोऽध्यायः N/A References : N/A Last Updated : October 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP