संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| गर्भविन्यासविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - गर्भविन्यासविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत गर्भविन्यासविधानम् Translation - भाषांतर देवानामालयादीनां द्विजातीनां च वक्ष्यतेगृहग्रामादि सर्वेषां गर्भविन्यासमुच्यते ॥१॥नानाद्र व्यसुसंपूर्णं गर्भं सर्वशुभप्रदम्हीनद्र व्यमनैश्वर्यं गर्भं तदशुभप्रदम् ॥२॥गर्भन्यासं तु तस्मात्तु निक्षिपेत्सम्यगुक्तवत्गर्भावटस्थ निम्नं स्यादधिष्ठानसमोन्नतम् ॥३॥इष्टकैरपि पाषाणैश्चतुरश्रं समं भवेत्जलं संपूर्य तन्मूले तस्यान्तं सर्वमृत् क्षिपेत् ॥४॥नद्यद्रि मृत्तिका चैवं वल्मीकस्य तु मृत्तिकाकर्कटावटमृद्भिश्च स्थलितलमिति स्थित ॥५॥समुद्र तीरमृद्भिश्च वृक्षशृङ्गस्य मृत्तिकागोखुराग्रमृच्चैव चैव तु दशमृत्तिका ॥६॥तदूर्ध्वे मध्यदेशे तु पीनकं तं विनिक्षिपेत्इन्द्रे चोत्पलकन्दंतु याम्ये कौमुदकन्दकम् ॥७॥पश्चिमे न्यस्य सौगन्धिं काकोली तु चोत्तरेतस्योपरि विन्यसेदष्टधान्यं यथाक्रमम् ॥८॥शालिमीशानके न्यस्य व्रीहिं प्राग्दिशि विन्यसेत्कोद्र वं चाग्निकोणे तु कङ्गुं याम्ये तु विन्यसेत् ॥९॥मुद्गं नैरृत्यकोणे तु मा प्रत्यग्विनिक्षिपेत्कुलुत्थं वामकोणे तु तिलं विन्यस्य चोत्तरे ॥१०॥तस्य चोपरि निक्षिप्य मञ्जूषान्तं विनिर्मितम्तन्मानं चैकभूमादिद्वादशाद्यं तलानि वै ॥११॥हर्म्याणां तद्वशात्कुर्यात्तत्तदाकारवद्भवेत्त्रिचतुर्मात्रमारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥१२॥पञ्चषड्विंशमात्रान्तं द्वादशं विपुलं भवेत्तद्विस्तारसमं वापि तदष्टांशोनमेव च ॥१३॥पञ्चांशोनमेवं वा गर्भभाजनमुच्छ्रयम्एवं चतुर्विधं प्रोक्तं दण्डमानेन वक्ष्यते ॥१४॥हर्म्यपादस्य विष्कम्भसमं मञ्जूषविस्तृतिःतदष्टांशैकहीनं वा तत्त्रिपादं प्रकल्पयेत् ॥१५॥तुङ्गं प्रागुक्तवत्कुर्याद्भित्तिरात्तिमिहोच्यतेएकद्वित्रियमेवापि सर्वभित्तिविशलकम् ॥१६॥तद्भित्तिभागमेकं वापि विधानं तदुच्छ्रयम्मञ्जूषोच्छ्रं चतुर्भागं तत्तदेकासनं भवेत् ॥१७॥तद्द्वयं चाङ्घ्रितुङ्गं तु स्यादेकांशं प्रस्तरान्वितम्त्रिवर्गमण्डपाकारमद्भिःस्वान्तं प्रविष्टके ॥१८॥पञ्चविंशतिकोष्ठं वा नवकोष्ठैकमेव चएकांशं कोष्ठभित्त्युच्छ्रं घनं प्रागुक्तवन्नयेत् ॥१९॥उपपीठपदे देवान् कोष्ठं चोक्तक्रमं न्यसेत्पूर्वान्हं च तदा ज्ञात्वा कारयेदधिवासनम् ॥२०॥गन्धाक्षतैश्च पुष्पैश्च धूपदीपेन चार्चयेत्सकलीकरणं कुर्यात् पुण्याहं वाचयेत्ततः ॥२१॥स्थिरवास्तुं ततो गच्छेत्प्रस्तरे तु पदैः सहमन्त्रःहे वास्तो त्विह गर्भस्य वृद्धिं कुरु नमाम्यहम् ॥२२॥ब्रह्मादिदेवतानां च ओङ्कारादिनमोऽन्तकम्तत्तत्स्वनाममन्त्रेण अर्चयेद्वास्तुदेवताः ॥२३॥क्षालयेत्पञ्चगव्यैस्तु गर्भमञ्जूषिकां बुधःसूत्रैरावेष्टनं कुर्यात्तस्य चोपरि विन्यसेत् ॥२४॥तदेव गन्धजलैः पूर्णकुम्भं विनिक्षिपेत्परितस्तु चतुर्विंशत्कलशान् जलपूरितान् ॥२५॥निक्षिप्य सूत्रैरावेष्ट्य वस्त्रं पल्लवकूर्चकैःअलङ्कृत्य स्थपति वरवेषोत्तरीयवान् ॥२६॥गन्धपुष्पैः समभ्यर्च्य भुवनाधिपतिं जपेत्तस्य दक्षिणपार्श्वे चाक्षतैः स्थण्डिलं न्यसेत् ॥२७॥ब्रह्मादिदेवतानां च सामान्यं हि बलिं क्षिपेत्तत्प्राचि देशे सौम्ये तु जुहुयाद्वास्तुहोमकम् ॥२८॥प्रत्येकं पञ्चविंशैस्तत्समिदाज्यं तिलं चरुम्ब्रह्मार्यविवस्वांश्च मित्रभूधरदेवताः ॥२९॥एतेभ्यो नामविस्तारमादिमन्त्रं समुच्चरेत्सह मङ्गलघोषणैः ॥३०॥पश्चात्तु स्यण्डिलं कुर्याच्छस्तशालिभिरक्षतैःआदव न्यस्य मण्डूकमथवा परमासनम् ॥३१॥दर्भं प्रस्त्रणं कृत्वा दर्भैरास्तीर्य चोपरिसकलाख्यं पदं कृत्वा जलपुष्पकेण बुधः ॥३२॥व्याहृत्यन्तो यदा वह्नि होमस्थानं विसर्जयेत्शालिभिस्तिलकं कृत्वा पश्चाद्ग्रामस्य चोत्तरे ॥३३॥पीत्वा शुद्धं पयोऽब्धेस्तु शयेत्ततच्छिल्पतन्त्रवित्सूत्रग्राही तक्षकश्च वर्धकी द्र व्यसंयुतम् ॥३४॥तत्रस्थं स्थपतिं श्रेष्ठं सेवां कुर्यात्तु जाग्रतःस्वाध्यायं मन्त्रघोषैश्च ब्राह्मणैश्च युतस्ततः ॥३५॥पश्चात्स्नात्वा तु वाचम्य विश्वत प्रविशयेत्सकलीकरणं कृत्वा स्थपतिर्वरवेषवान् ॥३६॥सुमुहूर्ते सुलग्ने च तद्द्रव्यभाजनात्ततःनिक्षिपय चोक्तवत्पश्चात्सर्वमङ्गलघोषणैः ॥३७॥स्वस्तिं वृषभं चैव लक्ष्मीं दर्पणमेव चस्वर्णेन स्वस्तिकं कुर्याद्वृषभं चायसेन तु ॥३८॥लक्ष्मीं ताम्रेण कुर्यात्तु दर्पणं रजतेन तुस्वस्तिकं चेन्द्र कोष्ठे तु चतुः विन्यस्य क्रमात् ॥३९॥जयन्ते कोष्ठके चैव जातिहिङ्गुल्य निक्षिपेत्हरितालं भृशे वासे वितथे च मनःशिला ॥४०॥विन्यसेद्भृङ्गराजस्य कोष्ठके माक्षिं निक्षिपेत्सुग्रीवस्य तु कोष्ठे तु राजावन्तं तु निक्षिपेत् ॥४१॥शोषे गैरिकं न्यस्य मुख्यके चास्य निक्षिपेत्अदिते गन्धकं न्यस्य मधुरागं तु मध्यमे ॥४२॥ततश्चाप्य प्रवालं तु साविन्द्रे पुष्परागकम्विवस्वते च वैसूर्यं वज्रमिन्द्र स्य कोष्ठके ॥४३॥मित्रकस्येन्द्र नीलं स्यात्तथा रुद्र स्य कोष्ठकेमहानीलं विनिक्षिप्य मरतकं तु भूधरे ॥४४॥मुक्ता पवत्स्यवासेषु विन्यसेत्तु यथाक्रमम्विष्णुकान्ताग्निकोष्ठे तु त्रिशूलं चेन्द्र कोष्ठके ॥४५॥श्रीदेव्याग्निकोष्ठे तु श्रयन्ते निहकोष्ठकेदूर्वां नैरृत्यकोष्ठे तु भृङ्गीं वारुणकोष्ठके ॥४६॥अपामार्गं च वायव्ये चैकपत्राम्बुजोत्तरेविन्यसेच्चोषधिं चाष्टौ मृणालमेवं क्रमात्ततः ॥४७॥जयन्ते चन्दनं क्षिप्य चान्तरिक्षेऽगुरुं तथाविथते क्षिप्य कर्पूरं मृगे शैलं विनिक्षिपेत् ॥४८॥सुग्रीवे च लवङ्गं स्याद्रो गे लयायतं क्षिपेत्मुख्ये जातिफलं क्षिप्य उदिते कोलकं न्यसेत् ॥४९॥कपालं च त्रिशूलं च खट्वांङ्गं खण्डमेव चवृषभं चैव साम्बं च हर्णं शार्ङ्गमेव च ॥५०॥एवं चाष्टविधं रूपं सौवर्णेन प्रकल्पयेत्इन्द्रा दिकोष्ठेषु कपालादि न्यसेत्क्रमात् ॥५१॥गर्भभाजनमाच्छाद्य विधानेन तु निष्फलम्तद्भाजनं च ताम्रे परवेष गुरोः सह ॥५२॥वास्तुप्रदक्षिणं कुर्यात्स्थापयेत्स्थपतिर्बुधःघटादि कलशं चैव तज्जलेनाभिषेचयेत् ॥५३॥स्वाध्यायवेदघोषैश्च सर्वमङ्गलघोषणैःभाजनान्तं समान्तश्च आशैलादि विवस्वतः ॥५४॥ध्यात्वानन्तस्य मूर्त्तिं धरातलं तु सागरम्पर्वताष्टमहानागैरष्टदिक्पालकैः क्रमात् ॥५५॥तत्तत्स्वनाममन्त्रेण पूजयेच्च विशेषतःसृष्टिं विश्वकर्माणं ध्यानं कृत्वा तु वार्चयेत् ॥५६॥सृष्टिस्थितिलयाधारं भुवनाधिपतिं मनाक्गन्धपुष्पादिधूपैश्च नैवेद्यादिभिरर्चयेत् ॥५७॥सारदारु शिला वापि चेन्द्र नीलं प्रकल्पयेत्त्रिचतुष्पञ्चमात्रं वा स्वस्तिकं तद्द्विधायतम् ॥५८॥चतुरश्रं तु तन्मूले वृतं वाथ तदग्रकम् ॥५९॥एवं द्वित्र्! यङ्गुलं वापि लोहजैः प्रतिमोदयम्चतुर्भुजं त्रिनेत्रं च जटामकुटभूषितम् ॥६०॥वरदाभयसंयुक्तं कृष्णापरशुधारिणम्स्थानकं चासनं वापि एतत्तु प्रतिमं भवेत् ॥६१॥कीलतारसममध्यर्धं द्विगुणं वा गलका भवेत्चतुरश्रं समं कृत्वा सारदारुजलाश्मना ॥६२॥फलका भाजनोर्ध्वे तु तदूर्ध्वे चेन्द्र कीलकम्ततः प्रतिमसंयुक्तं स्थापयेत्स्थपतिर्बुधः ॥६३॥परितस्त्विष्टकाभिः सहस्रैराउषधः सहदृढीकृत्यमथ ज्ञात्वा पुष्पवस्त्रैश्च शोभितम् ॥६४॥हर्म्यादिद्वारसर्वेषां पादमूले वा दक्षिणेतत्पादमूले देशे वा तथोपानप्रदेशके ॥६५॥कुमुदाग्रे गले वापि विस्तरे प्रकरैः बुधःकुड्यस्तम्भे गृहस्तम्भे हर्म्यगर्भं विनिक्षिपेत् ॥६६॥तान्यत्सेधं तथाभाति भवेत्सर्वविपत्करम्एवं रुद्रा लये गर्भमन्यगर्भमिहोच्यते ॥६७॥विष्णुधिष्ण्यस्य गर्भान्तं रुद्र चिह्नं विवर्जयेत्प्रागुक्तं द्र व्यसंयुक्तं विष्णुचिह्नानि योजयेत् ॥६८॥मध्ये चक्रं तु भौमेन भाजनान्तं विनिक्षिपेत्रौप्येण शङ्खं ताम्रेण चापं चैव तु वामके ॥६९॥लतासीसेन खङ्गं च वायव्येन तु दक्षिणेप्राङ्मुखे तार्क्ष्यरूपं च हेमजेन प्रकारयेत् ॥७०॥एवं च विष्णुगर्भं स्याद्ब्रह्मगर्भमिहोच्यतेब्रह्मगर्भम्यत्र वस्तूनि वास्तूनि ब्रह्मस्थाने विशेषतः ॥७१॥ब्रह्मगर्भं क्षिपेत्काले तस्य चिह्नं च योजयेत्ओङ्करं निर्मितम् हेमं मध्यकोष्ठे तु विन्यसेत् ॥७२॥हेमजं यज्ञसूत्रं स्यादोङ्कारस्योपरि न्यसेत्स्वस्तिकादीनि वर्णेन चतुर्दिक्षु विनिक्षिपेत् ॥७३॥मण्डलं वा ततो निर्मितं ताम्रमेव चअक्षमालां च ताम्रेण कृष्णवर्णं च वामके ॥७४॥ब्रह्मगर्भमिति प्रोक्तं प्रतिमं तत्स्वरूपकम्अन्य देवदेवीनां सर्वेषामालयादिभिः ॥७५॥तत्तच्चिन्हानि रूपं च स्वर्णलोहेन निर्भितःपूर्वद्र व्येण संयुक्तं गर्भमेवं विनिक्षिपेत् ॥७६॥नरगर्भम्देवगर्भमिति प्रोक्तं नरगर्भमिहोच्यतेद्विजातीनां च वर्णानां गृहगर्भं यथाक्रमम् ॥७७॥पूर्वद्र व्यं तु सर्वेषु तत्तच्चिन्हं च संयुतम्चक्रं च कण्डलं दण्डं यज्ञसूत्रं च हेमकम् ॥७८॥ओङ्कार निर्मितं हेमं तच्चतुर्दिशि मध्यमेएवं ब्राह्मणगर्भं स्याद्भूपतीनां च वक्ष्यते ॥७९॥खजं खङ्गं च छत्रं च चामरं च चतुष्टयम्हेमनिर्मितसर्वं च चतुर्दिक्षु विनिक्षिपेत् ॥८०॥तुलां हेमेन निर्माय मध्यकोष्ठे तु विन्यसेत्एवं तु वैश्यगर्भं स्यादनुक्तं शास्त्रमार्गवत् ॥८१॥लाङ्गलं च युगं स्वर्णेन मध्यमं न्यसेत्ब्रह्मरूपं द्विजातीनां भूपानां चेन्द्र रूपकम् ॥८२॥विशां वैश्रवणं रूपं शूद्रा णां नररूपकम्एवं तु प्रतिमं प्रोक्तमेतद्गर्भोपरि न्यसेत् ॥८३॥गृहगर्भमिति प्रोक्तं ग्रामगर्भमिहोच्यतेग्रामगर्भम्ग्रामादीनां नगरादीनां पुरपत्तनखर्वटे ॥८४॥कोष्ठकोलादि सर्वेषां गर्भस्थानमिहोच्यतेस्थिरवास्तुकुक्षिदेशे चरवास्तु तथापि च ॥८५॥ग्रामद्वारस्य योगे वा गर्भश्वभ्रं प्रकल्पयेत्पुरुषाञ्जलिमात्रे तु श्वभ्रव्यासं तु निम्नकम् ॥८६॥मृत्कन्दजलधान्यादीन् पूर्वोक्तानि च विन्यसेत्पञ्चाङ्गुलमारभ्य द्विद्व्यङ्गुल विवर्धनात् ॥८७॥सैकार्काङ्गुलान्तं च भाजने पञ्चधा ततिपञ्चविंशतिकोष्ठे वा नवकोष्ठमथापि वा ॥८८॥शेषं तु पूर्ववत्कुर्याद्द्रव्यादीनां तु पूर्ववत्इन्द्रे राजतदन्ती वाग्नौ मेषं च वायसा ॥८९॥मृत्पुरुषामहिषं याम्ये नर वैकत नैरृतेपश्चिमे राजतं ग्राह्यं वायव्ये मृगं चायसम् ॥९०॥इतस्ततस्तु सौम्ये तु राजता वृषभेशकेएवं प्रक्षिप्य वेश्मस्य पूर्वोक्तैर्द्र व्यकैः सह ॥९१॥ग्रामगर्भमिति प्रोक्तं जलगर्भमिहोच्यतेजलगर्भम्वापीकूपतटाकेषु मध्ये गर्भं नराञ्जलिम् ॥९२॥मण्डूकं पाञ्चजन्यं च मत्स्यं कूर्मं च राजतम्इन्द्रा दिषु चतुर्दिक्षु विन्यसेत्तु यथाक्रमम् ॥९३॥मध्ये सुवर्णकुलीरं शेषं प्रगुक्तवन्नयेत्एकद्वादशभूम्यन्तं चेष्टके द्वादशान्ततः ॥९४॥हर्म्यं निर्माणतो वक्ष्ये प्रथमेष्टकलक्षणम्सप्ताङ्गुल्यं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥९५॥एकोनविंशदङ्गुल्यं त्रिंशदङ्गुलान्तकम्विस्तारात्पादमाधिक्यमर्धपादोनमाधिकम् ॥९६॥तत्समं चाधिकं वापि चेष्टकायाममिष्यतेविस्तारार्धं घनं कुर्यातमं तु चतुरष्टकम् ॥९७॥शैलजं शिला चैव चेष्टके पेष्टकां तथास्त्रीपुन्नपुंसकं ज्ञात्वा शिला वा चेष्टकैस्तथा ॥९८॥गर्भेण सहितं स्थाप्य पूर्वके तु प्रदेशकेअथवा पाञ्चन्त पूर्वे तु हितकाले विनिक्षिपेत् ॥९९॥ईशाने वाथ नैरृत्ये वायव्ये वाथे दक्षिणेएवं सर्वेषु हर्म्याणां शिवसद्मैः विशेषतः ॥१००॥पूर्वोक्तस्थानदेशे वा मध्ये वा प्रथमेष्टकेजन्मान्तं वाथवा प्रान्तं कुमुदान्तं वा गलान्तकम् ॥१०१॥पट्टिकान्तं क्षिपेच्चापि विन्यसेत्प्रथमेष्टकम्पूर्ववच्चौषधिरक्तं निक्षिपेदिष्टकैः सह ॥१०२॥इष्टश्चाविधि वासादौ स्थापयेत्प्रथमेष्टकम्प्रागिष्टके सकारं तु दक्षिणे तु षकारकम् ॥१०३॥पश्चिमे तु सकारं स्याच्च्योत्तरे तु वकारकम्मध्ये तु प्रणवं प्रोक्तं विन्यसेच्चाक्षरं क्रमात् ॥१०४॥प्रागिष्टकं दक्षिणं दीर्घं दक्षिणे पश्चिमायतम्पश्चिमं चोत्तरायामं चोतरं चेन्द्र कायतम् ॥१०५॥मध्ये चौषधिरक्तानि विन्यसेच्चोक्तवद्बुधःस्थपतिः स्थापकश्चोभौ कुर्यात् कर्ममिदं क्रमात् ॥१०६॥शिलेष्टकास्त्रिलिङ्गा ज्ञात्वा संग्राह्य शिल्पिराट्पुरुषं देवविमानस्य स्थापयेत्पुरुषेष्टकम् ॥१०७॥गर्भन्यासं च रात्रौ च दिवाकालेष्टका भवेत्गृहगर्भमन्तर्मुखं स्याद्ग्रामगर्भं बहिर्मुखम् ॥१०८॥गर्भन्यासविधिं सम्यक् प्रोक्तं तत्प्रथमेष्टकम्अनुक्तं कर्म यद्यस्तु स्वगृहे त्वासमोक्तवत् ॥१०९॥इति मानसारे वास्तुशास्त्रे गर्भविन्यासविधानं नाम द्वादशोऽध्यायः N/A References : N/A Last Updated : October 02, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP