मानसारम् - कल्पवृक्षविधानम्
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
देवानां चक्रवर्त्यादिभूपालानां च योग्यकम्
कल्पवृक्षादिनस्तारं मानं लक्षणमुच्यते ॥१॥
तोरणोदयपादं तु पादार्धाधिकोदयम्
एवं वृक्षस्य तुङ्गस्य आसनस्योपरि न्यसेत् ॥२॥
आसनायाममध्ये तु तोरणस्योपरि न्यसेत्
षट्सप्ताष्टाङ्गुलं वापि मानदेवाङ्गुलेन वा ॥३॥
कल्पवृक्षस्य मूले तु विशालं परिकीर्तितम्
तत्तदेकाङ्गुलार्धहीनं वृक्षस्याग्रविशालकम् ॥४॥
वृक्षपादमिति प्रोक्तं चक्रवल्ल्यादिभूषितम्
अथवा ऋज्वाङ्ग तं कुर्यान्मूलादग्रविशालकम् ॥५॥
भुजङ्गेनावृतं पादं मूर्ध्नि पञ्चफणान्वितम्
उल्लासनफणं सर्वं स्फुरज्जिह्वेक्षणान्वितम् ॥६॥
षट्सप्ताष्टनवाङ्गुल्य दशमेकादशाङ्गुलम्
द्वादशाङ्गुलमेवं वा सैकार्काङ्गुलमेव वा ॥७॥
चतुर्दशाङ्गुलान्तं स्यान्नवभेदफणान्वितम्
तत्समं मध्यविस्तारं किञ्चिद्धीनाग्रविस्तृतम् ॥८॥
तदर्धं मूलविस्तारं पुच्छाग्राङ्गुलकं ततः
आमूलाग्रं क्षयं कुर्याद्युक्त्या च सर्वरूपकम् ॥९॥
वक्त्रं व्यालान्तरं भावे शेषं युक्त्या प्रयोजयेत्
तदूर्ध्वे वृक्षशाखाश्च नवपङ्क्तीश्च शाखयुक् ॥१०॥
एकादश च शाखाश्च त्रयोविंशच्च संख्यया
तन्नवविधं प्रोक्तं कन्यसादि त्रयं त्रयम् ॥११॥
नरेन्द्र स्याधिराजस्य सार्वभौमस्य योजयेत्
नवशाखां समारभ्य द्विद्विशाखाविवर्धनात् ॥१२॥
पञ्चविंशतिशाखान्तं देवानां नवधा भवेत्
एकादशाङ्गुलारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥१३॥
नवविंशाङ्गुलान्तं स्यात्कन्यसादि त्रयं त्रयम्
शाखायामं नव प्रोक्तं भूपतीनां च संमतम् ॥१४॥
त्रयोदशाङ्गुलारभ्य द्विद्व्यङ्गुलविवर्धनात्
एकत्रिंशाङ्गुलान्तं स्यात्कन्यसादुत्तमाङ्गकम् ॥१५॥
एवं नवविधं प्रोक्तमायामं देवं प्रयोजयेत्
त्रिचतुष्पञ्चषट्सप्ताष्टनन्ददशाङ्गुलम् ॥१६॥
एकादशाङ्गुलान्तं स्यात्कन्यसादीनि पूर्ववत्
शाखाविशालता प्रोक्तं भूपानां च यथाक्रमम् ॥१७॥
पञ्चाङ्गुलं समारभ्य एकैकाङ्गुलवर्धनात्
त्रयोदशाङ्गुलान्तं स्यात्तथा शाखाविशालता ॥१८॥
एवं नवविधं प्रोक्तं देवतानां च योग्यकम्
तत्समं चार्धमेवं वा तच्छाखाबहुलं भवेत् ॥१९॥
पादाग्रोपरि शाखाच सर्वमूलं तु योजयेत्
वृक्षमूलविशालं स्यात्समं द्व्यर्धाङ्गुलाधिकम् ॥२०॥
त्रिपादाधिकमेवं तत्तत्समाधिकमेव वा
शाखामूलविशालं स्याद्युक्त्या तत्रैव योजयेत् ॥२२॥
शाखामूले तु शालानां मूलवल्ल्यादिपत्रयुक्
महावल्लीचूलनं स्याच्छिन्नवल्ल्यादि पार्श्वयोः ॥२३॥
चक्राकारं यथाशाखा भ्रमचूलनमण्डणम्
पत्रपुच्छाग्रचूलं स्यात्समग्रं चाग्रवल्लिका ॥२४॥
एकानेकस्य शाखानां चान्तराले सपुष्पकैः
पत्रैर्मूलादिवल्ल्यैश्च वल्लीमूलं च वल्लिके ॥२५॥
बहुवल्ल्यादिपत्रैश्च पुष्पैश्च फलकैरपि
कुर्यात्तु पत्रशाखायां फलहीनाध्वनानि च ॥२६॥
बालवल्ल्यादिपत्रैश्च सुरपुष्पसूनुकाकृतम्
सर्वेषामपि वल्ल्या च श्यामवर्णनिभं भवेत् ॥२७॥
वल्ल्यग्रं तु सर्वेषां रक्तवर्णेन शोभितम्
सर्वेषां पत्रचिन्हं स्याद्धेमवर्णेन शोभितम् ॥२८॥
पत्राग्रं क्षुद्र वल्ल्या च सर्वं श्यामनिभं भवेत्
भ्रमरैरभिसंयुक्तं सर्वशाखानिरेतने ॥२९॥
नानापत्रैश्च पुष्पैश्च नानावलैश्च संयुतम्
नानारत्नैश्च दामं च नानापक्ष्यभिरामयेत् ॥३०॥
नाना वानरैर्युक्तं नानादेवाभिरामयेत्
सिद्धविद्याधराद्यैश्च शाखैः शाखान्तरालकैः ॥३१॥
अन्तर्बहिश्च सर्वेषां सर्वत्र परिकल्पयेत्
वृक्षमूलादिचाग्रान्तं युक्त्या पत्रादिशोभितम् ॥३२॥
सर्वाङ्गं क्षुद्र पर्वं स्यात्पत्रवल्ल्यादिनिर्गमम्
शाखामूलस्य पर्वे तु मौलिमुण्डं च योजयेत् ॥३३॥
पत्रवल्ल्यैश्चाग्रैश्च भ्रमशीषीदिसंयुतम्
भ्रमराकृति सर्वत्र अत्रवल्ल्यादिभिस्तथा ॥३४॥
एवं तु कल्पवृक्षं स्यात् शे युक्त्या प्रयोजयेत् ॥३५॥
मुक्ता प्रयाङ्गमथ मण्डपमध्यदेशे
सिंहासनं मकरचिह्नतोरणार्थम्
कल्पद्रुमल्य पुरतो बहिरङ्कणं स्यात्
चक्रश्वरस्तु परिरभ्य विराजते स्म ॥३६॥
सम्पूर्णचन्द्र वदनामहाराजपुत्रा
राजाङ्गनानगरवारविलासिनीभिः
विद्वद्भिरन्यदपि वन्दिकुमारमुख्यैः
संसेव्यमानचरणाम्बुरुहास्त राजभिः ॥३७॥
इति मानसारे वास्तुशास्त्रे कल्पवृक्षविधानं नाम अष्टाचत्वारिंशोऽध्यायः
N/A
References : N/A
Last Updated : October 07, 2022
TOP