मानसारम् - शक्तिलक्षणम्
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
शक्तीनां चित्रवर्णादिलक्षणं वक्ष्यतेऽधुना
सरस्वती च सावित्री लक्ष्मीश्च मही तथा ॥१॥
मनोन्मनी सप्तमातृश्च दुर्गा चैव यथाक्रमम्
पूर्वोक्तद्र व्यसर्वेषां सर्वशक्ति प्रकारयेत् ॥२॥
पद्मपीठोपरि स्थाप्य देवीं पद्मासनासनाम्
शुद्धस्फटिकसंकाशं मुक्ताभरणभूषणम् ॥३॥
चतुर्बहुं द्विनेत्रं च केशबन्धं च मौलिनीम्
शुद्धश्वेताङ्गुलोपेतां ग्राहकुण्डलभूषणाम् ॥४॥
ललाटे भ्रमरकं स्यान्मौक्तिकापट्टमेव वा
कर्णपुष्पैश्च मौक्त्येन कर्णदामैरलङ्कृतम् ॥५॥
हारोपग्रीवसंयुक्तं मुक्तारत्नावली तथा
कुचबन्धनसंयुक्ता बाहुमालाविभूषणी ॥६॥
केयूरकटकैर्युक्तं प्रकोष्ठवलयं तथा
मणिबन्धकटकं वा मौक्तिका पौरमेव च ॥७॥
मध्याङ्गुलं विना सर्वे मौलिक रत्नाङ्गुलीयकैः
नीवीं च लम्बनं चैव मौक्तिका पट्टयुक्तिका ॥८॥
पादजालां भुजङ्गानां गुल्फस्योपरि भूषणीम्
पादनूपुरसंयुक्तं पादरत्नाङ्गुलीयकैः ॥९॥
मौक्तिकोत्तरीयसंयुक्तां सर्वालङ्करभूषणम्
पुरतः सव्य संदर्शं पुस्तकं वामहस्तके ॥१०॥
दक्षिणे परहस्ते तु चाक्षमालावधारिणीम्
कुण्डिका वामहस्तौ च धारयेत्तु सरस्वती ॥११॥
अथवा द्विभुजं कुर्यात्कुन्तलं मकुटं भवेत्
दक्षिणं वरदं हस्तं वामहस्ते च पद्मकम् ॥१२॥
करण्डमकुटं वापि हेमवर्णाङ्गशोभितम्
पीताम्बरं यथारत्नं मुक्ताभरणमेव च ॥१३॥
कर्णयोः स्वर्णताटङ्कं सूत्रयुक्तं सुमङ्गलाम्
द्विनेत्रीं प्रसन्नवदनां सर्वाभरणभूषणीम् ॥१४॥
पितामहस्य पार्श्वे तु स्थानकं चासनं तु वा
वामभागे तु सावित्रीं श्वेतरक्तमथापि वा ॥१५॥
श्यामाङ्गवर्णमेवं वा द्विभुजं च द्विनेत्रकम्
स्थानकं चासनं वापि करण्डमकुटान्वितम् ॥१६॥
अथवा केशबन्धं वा कर्णे मकरकुण्डलम्
दुकूलाम्बरधरं वापि पीताम्बरमथापि वा ॥१७॥
सर्वाभरणसंयुक्तां वरदं वामहस्तके
दक्षिणे चोत्पलं कुर्याच्छेषं प्रागुक्तवन्नयेत् ॥१८॥
सरस्वतीं च सावित्रीं दशतालेन कारयेत्
रक्ताब्जं पीठतश्चोर्ध्वे देवी पद्मासना भवेत् ॥१९॥
चतुर्भुजं त्रिनेत्रं च मकुटं कुन्तलं भवेत्
प्रसन्नवदनां देवीं शुद्धकाञ्चनसन्निभाम् ॥२०॥
पीताम्बरधरां रक्तां शुकपोताम्
विशालाक्षमायतं कुर्यादपाङ्गकोणे स्मिताननाम् ॥२१॥
दक्षिणे त्वभयं पूर्वे डिण्डिमं वामहस्तके
अपरे दक्षिणे पद्मं चाक्षमालामथापि वा ॥२२॥
वामे नीलोत्पलं वापि रक्तपद्मोद्धृतं तु वा
पीनोन्नतस्तनतटां फाले भ्रमरकान्विताम् ॥२३॥
अथवा रत्नपट्टं स्यात्स्वर्णताटङ्कं कर्णयोः
मकरं कुण्डलं वापि कर्णयोः स्वर्णदामयुक् ॥२४॥
हारोपग्रीवसंयुक्तां ससूत्रैश्च सुमङ्गलीम्
कुचतटैश्च केकैश्च हेमपट्टविभूषिणीम् ॥२५॥
रत्नानि चन्द्र बीरं स्यात्स्वर्णरत्नोत्तरीययुक्
वुष्णीषात् पादपर्यंतं हारांतर शतांशकम्
उष्णीषं तु चतुर्मात्रं नेत्रांतं तु युगांगुलं
पुटांतं वेदमात्रं स्यात् मात्राणा मेढ्राग्रं तु सीमकं
तत्समं भागानुभागं स्यात् मूरुदीर्घ मुखद्वयं
जानुकंठ समा कुर्यात् जंघा च चोरुतुल्यकं
पादजानु समोच्चं स्यात् देवमुक्तंगमानयेत्
अंगुष्ठात् पार्ष्णिपर्यंतं तलंशो उशमात्रकं
चतुर्विंशतिमात्रं स्यात् --सीमकं-- स्यते
कूर्परं च द्विमात्रं स्यात् प्रकोष्ठमष्टादशांगुलं
मध्याङ्गुलाग्रसीमांतं तलं द्वादशमात्रकं
रुद्रा शं! मुखतारम् स्यात् गलतारं युगद्वयं
वत्समं बाहुमूलं स्यात् जानुविस्तारं तत्समं
बाहुपर्यंतविस्तारं षड्त्रिंशाङ्गुलं तथा
कुक्षियोरंतरं वापि विंशमात्रं प्रशस्यते
मध्योदरतारं च पंचादशांगुलं भवेत्
श्रोणिदेशविशालं स्यात् सप्तादशाङ्गुलं भवेत्
नवाधिक्यं दशाङ्गुल्यं कटिदेशे विशालकं
ऊरुमूलविशालं स्यात् द्वादशांगुलमिष्यते
वृरुमध्ये विशालं तु सार्द्धपंक्त्यंगुलं भवेत्
जंघामूलविशालं तु सार्धसप्तांगुलं तथा
जिह्वामध्य षडंगुल्यं विस्तारं तु युगांगुलं
नलकां गुल्फविस्तारं सत्रिपादाब्धिमात्रकं
सार्धवेदाङ्गुलं पार्ष्णिविस्तारं परिकीर्त्तितं
षड्यवाधिकपंचांशं प्रपादं विस्तारं भवेत्
तलाग्रातारं शरांगुल्यां वेदांशांगुष्ठदीर्घकं
द्विमात्रं तस्य विस्तारं तारार्धमं नखविस्तृतं
तर्जन्यंगुष्ठ तत्तुल्यं दीर्घं विस्तारमंशकं
त्रयंगुल्यं सार्धपक्षांशं मध्यंगुल्यं च त्रये पादै
मध्यमादि कनिष्ठांतं दीर्घमेव प्रसस्यते
विस्तारं सप्तषट्पंच यवमानमुदीरितम्
तदर्धं च तदर्धं च नखविस्तारमुच्यते
बाहुमध्यविशाले तु सप्तांशं कूर्परं तथा
वेदांगुल्यं प्रकोष्ठं च मणिवंध त्र्! ययंशकं
त्रियंशं सार्द्धं पक्षांशं षडंशं तलमूलां चा
तलाग्रांतर गुगांगुलं
तलदीर्घ षडंगुल्यं शेषांशं मध्यमांगुलं
सार्द्धपंचांगुलं दीर्घं तर्जन्यनामिकाद्वयो
सार्धपंक्त्यंगुलां दीर्घं कनिष्ठये तत्मथापि वा
अंशं षड्यवं सप्तषड्यवं चतुर्यवं क्रमात्
अंगुष्ठादि कनिष्ठांतं विस्तारं परिकीर्त्तितं
स्थूलमूलं कृशाग्रं तु दुक्तमानेन योज्ययेत्
अग्रे त्रिद्विभागेन नखतारं प्रशस्यते
तच्चतुर्भागमाधिक्यं नखतायामुदाहृतं
एकद्वित्रियवं वापि नखाग्रं कारयेत् सुधो
अंगुष्ठेव च द्विपर्व स्यात् त्रिपंचांचांन्यदंगुलैः
ज्ञानरेखादि रेखैश्च कुर्यात्तुतलमध्यमे
केशांता दक्षिणे सूत्रांतं भूवोर्मध्येभूवस्थिति
अक्षायामद्वयंगुलं तदर्धं तस्य विस्त्रितं
भूवायाम युगांगुल्यं द्वयविस्तार भागिकं
त्र्! यंगुलं पुटपर्यंतं नासिका विस्त्रितं भवेत्
तदर्धं मध्यविस्तारं तदर्धं स्यात् तदमांगुलं
केयूरकटकस्वर्णरत्नपूरिमसंयुतम् ॥२६॥
प्रकोष्ठवलयं रत्नैः कटकं मणिबन्धकैः
रत्नेन कटिसूत्रं स्याद्र त्नदामादिभूषिणीम् ॥२७॥
रत्नहेमं च वस्त्रेण कुर्यान्नीव्यं च लम्बयेत्
नलकान्तं स्त्रिलम्बं स्यात्सर्वरत्नानि शोभिताम् ॥२८॥
भुजङ्गाङ्गवलयं पादौ चोर्ध्वाधो रत्नबन्धनम्
पादनूपुरसंयुक्ताङ्गुलीरत्नाङ्गुलीयकम् ॥२९॥
बाहुमूलादि संभूष्य सर्वाभरणभूषिणीम्
अथवा द्विभुजं चैव वामहस्ते च सन्धिमत् ॥३०॥
दक्षिणे रत्नपद्मं स्याच्छेषं प्रागुक्तवन्नयेत्
एवं प्रोक्तं महालक्ष्मीं स्थापयेत्सर्वहर्म्यके ॥३१॥
सामान्यं लक्ष्मीं कुर्याद् द्विभुजं च द्विनेत्रके
रक्तपद्मोद्धृतं हस्तौ सर्वाभरणभूषिणीम् ॥३२॥
शेषं तु पूर्ववत्कुर्याद् देवीं पार्श्वे विशेषतः
ऐरावतद्वयोश्चैव कुर्यादारादयेत्सुधीः ॥३३॥
सर्वासमालये द्वारे मध्यरङ्गे तु पूजयेत्
अथवा विष्णुपार्श्वे तु लक्ष्मीलक्षणमुच्यते ॥३४॥
द्विभुजां च द्विनेत्रां च करण्डमकुटान्विताम्
अथवा केशबन्धं स्याद्वामहस्तोद्धृताब्जकम् ॥३५॥
दक्षिणं हस्तं वरदं च अथवा लम्बनं भवेत्
स्थानकं चासनं वापि स्थापयेद् विष्णुदक्षिणे ॥३६॥
कुर्यात्तु सर्वलक्ष्मीनां मध्यमं दशतालके
सर्वाभरणसंयुक्तां हेमवर्णाङ्गशोभिताम् ॥३७॥
एतेषाम् इन्दिराः प्रोक्ताः महिशक्तिमिहोच्यते
द्विभुजं च द्विनेत्रं च करण्डमकुटान्वितम् ॥३८॥
दुकूलवसनोपेतां मकुटं कुन्तलं तु वा
स्थानकं चासनं वापि विष्णुमूर्त्यापसव्यके ॥३९॥
दक्षिणे चोत्पलं धृत्वा वामभागं तु लम्बनम्
अथवा वरदं वामे श्यामवर्णाङ्गशोभिताम् ॥४०॥
मानयेद् दशतालेन सर्वं शेषं तु पूर्ववत्
मकरकुण्डलसंयुक्तां सर्वाभरणभूषिणीम् ॥४१॥
भूशक्तिलक्षणं प्रोक्तं गौरीलक्षणमुच्यते
द्विभुजं च द्विनेत्रं च कुर्यादासनं स्थानकं तु वा ॥४२॥
करण्डं केशबन्धं वा कुन्तलं मकुटं भवेत्
दक्षिणे चोत्पलं वामे वरदं स्थानमेव वा ॥४३॥
अथवा लम्बहस्तं स्याद्गोबालाकारवद् भवेत्
दुकूलवसनोपेतां पीताम्बरधरामेव वा ॥४४॥
दीर्घबाहुं विशालक्षीं श्यामवर्णां महोदराम्
स्तनतटोतुङ्ग विस्तीर्णश्रोनि देशोद्भवा भवेत् ॥४५॥
कटि चोरु विशालं स्यान्मध्यकञ्चीनलम्बवत्
विशालास्य सुग्रीवं तुङ्गतुण्डं स्मिताननम् ॥४६॥
चन्द्र रेखावतंसं स्याद् भ्रमरावृतमालिकम्
अथवा फालपट्टं स्यात्कर्णयोर्ग्राहकुण्डली ॥४७॥
कर्णपुष्पैश्च दामं स्याद्धेमसूत्रं सुमङ्गली
हारोपग्रीवसंयुक्तां बाहुमालाविभूषिणीम् ॥४८॥
कटकं कटिसूत्रं स्यात्केयूरपुरिमान्वितम्
रक्तांशुकोत्तरीयं स्यान्मौक्तिकोत्तरीयमेव च ॥४९॥
प्रकोष्ठवलयं चैव वलयैर्मणिबन्धकैः
भुजङ्गकटकाङ्घ्रिकौ पादनूपुरसंयुतम् ॥५०॥
सर्वाङ्गुलोक्तवज्ज्ञात्वा कुर्याद्र क्ताङ्गुलीयकैः
दक्षिणे कुञ्चितं पादम् वामपादं तु लम्बितम् ॥५१॥
पुष्पं च वरदं स्थाने हस्तं वामेऽथ चासने
दक्षिणं स्वस्तिकं पादं वामादन्तकरान्तकम् ॥५२॥
कुञ्चितं वामपादं स्याद् दक्षिणं कुञ्चितं तु वा
पुष्पधृक् लम्बहस्तं स्यात्स्थानकं च त्रिभागिकम् ॥५३॥
मानयेदङ्गमानं च मध्यमं दशतालके
लिङ्गस्य वामपार्श्वे तु विग्रहाणां तु वामके ॥५४॥
स्थापयेत्स्थावरे गौरीं तथा जङ्गममेव च
गौरीं च पार्वतीं चैव मनोमन्यामथ वक्ष्यते ॥५५॥
चतुर्भुजां त्रिनेत्रां च जटामकुटमण्डिताम्
समपदस्थानकं देवीं दशतालेन मानयेत् ॥५६॥
दक्षिणे चाभयं पूर्वे वरदं वामहस्तके
अपरे दक्षिणे चाब्जं वामहस्ते तु चोत्पलम् ॥५७॥
श्वेतरक्तं च वर्णं वा श्यामवर्णाङ्गशोभितम्
केचित्तु कुन्तलनिभं तुङ्गं मकुटं कुन्तलं तु वा ॥५८॥
वामे बालशशिं कुर्यादवामे तुरगान्वितम्
दुकूलवसनोपेतं सर्वाभरणभूषितम् ॥५९॥
तदेव वृषमाश्रित्य पृष्ठे देवी त्रिभागिकम्
दक्षिणं स्वस्तिकं पादं वामपादं च कुञ्चितम् ॥६०॥
पुरतो वामहस्ताक्षं शिरस्योपरि विन्यसेत्
शेषं तु पूर्वदेवीं च चोत्पलं वासनाभयम् ॥६१॥
तदेव परहस्तौ च वामे रक्ताब्जधारिणीम्
दक्षिणे चाक्षमाला च कुर्यात्प्रोक्तं पुरातनैः ॥६२॥
एवं मनोन्मनीं शक्त्या स्थापयेच्छिवहर्म्यके
वाराही चैव कौमारी चामुण्डी भैरवीं तथा ॥६३॥
माहेन्द्री वैष्णवी चैव ब्रह्माणी सप्तमातरः
एतेषां सर्वशक्तीनां नवतालेन कारयेत् ॥६४॥
भद्र पीठोपरि स्थाप्यमासने सप्तमातरः
शयने दक्षिणे पादान् वामपादान्प्रलम्बयेत् ॥६५॥
चतुर्भुजं त्रिनेत्रैश्च सर्वाभरणभूषिणीम्
चामुण्डी चैव रुद्रा णी तानि शक्तिः त्रिलोचनी ॥६६॥
ब्रह्माणी चैव रुद्रा णी जटामकुटमण्डितौ
वाराहीपोत्रवक्त्री स्यात् किरीटमकुटान्वितम् ॥६७॥
कौमारी करण्डमौली च किरीटी वैष्णवी तथा
चामुण्डी ज्वालमौली च भैरवी पिबरालका ॥६८॥
शूलं मरुगणं चैव पूर्वं चापरदक्षिणे
कपालं पूर्वहस्ते च पाशं चापरहस्तकौ ॥६९॥
एवं तु वानमुद्धृत्य चामुण्डी भैरवी उभौ
चामुण्डी श्यामवर्णाभा भैरवी रक्तवर्णिनी ॥७०॥
केचित्तु भैरवी पूर्वे वरदाभयहस्तकौ
शूलं डमरुकं चैव सव्यवामकेऽपरे ॥७१॥
रक्ताम्बरपरा पार्श्वे कुचाभौ रक्तकञ्चुलौ
चामुण्डी च शिरोमाला सर्वाभरणभूषिणी ॥७२॥
कृष्णाम्बरधरी कृष्णलम्बकूर्चासभैरवी
वैष्णवी चैव वाराही श्यामवर्णा विशोभिनी ॥७३॥
चक्रं च दक्षिणे हस्ते शङ्खं वामकरेऽपरे
पूर्वे च वरदं वामे दक्षिणे त्वभयमुभौ ॥७४॥
पीताम्बरं च संरक्तां सर्वाभरणभूषिणीम्
एवं तु वैष्णवी प्रोक्ता वाराही दक्षिणे हलम् ॥७५॥
वामहस्तोपरि पाशं दक्षिणेत्वभ करे
वरदं वामहस्ते तु सर्वाभरणभूषिणीम् ॥७६॥
पीताम्बरधरं चैव कौमारी रक्तवर्णिनी
वरदं चाभयं पूर्वे वामे तु द्वारहस्तकौ ॥७७॥
दक्षिणे च स्यात् शक्तिं च वामहस्तकौ
श्यामवर्णाम्बरं चैव सर्वाभरणभूषिणीम् ॥७८॥
कौमारीलक्षणं प्रोक्तं ब्रह्माणी च चतुर्मुखी
वरदाभयहस्तौ च कुण्डिकासाक्षमालाधृक् ॥७९॥
वामेत्ववामपूर्वे तु चा यथाक्रमम्
शुद्धवस्त्राम्बरयुक्तां सर्वाभरणभूषिणीम् ॥८०॥
एवमुक्तं तथा ब्राह्मी रुद्रा णी श्वेतवर्णिनी
वरदाभयहस्तौ च पूर्वे च वामदक्षिणे ॥८१॥
वामे च हरिणं सव्ये परुशं परहस्तके
चर्माम्बरधरायुक्ता सर्वाभरणभूषिणी ॥८२॥
वामे तु शङ्खपत्रं स्यादवामे करकुण्डलम्
रुद्र णीलक्षणं प्रोक्तं चामुण्डी वामकर्णके ॥८३॥
शङ्खपत्रं च वामे तु शङ्खकुण्डलसंयुतम्
अन्यथा सर्वशक्तीनां ग्राहकुण्डलभूषिणीम् ॥८४॥
हारोपग्रीवसंयुक्तां केयूरकटकान्विताम्
मणिबन्धनवलयादिसर्वरत्नाङ्गुलीयकैः ॥८५॥
बाहुमाल्यादिसंभूष्य साकं चुलकान्विताम्
उक्तानां सर्वशक्तीनां सर्वाभरणभूषितैः ॥८६॥
भद्र पीठोपरि देशे महिष्य हतः शिरः
तदूर्ध्वे तारकां देवीं स्थानकां ऋजुं भावयेत् ॥८७॥
चतुर्भुजं द्विनेत्रं च श्यामवर्णाङ्गशोभिताम्
किरीटमकुटोपेतां सर्वाभरणभूषिणीम् ॥८८॥
पूर्वेऽभयं करे सव्ये चक्रं चापरदक्षिणे
ऊरुमूलाश्रितं वामवरदं वा करपूर्वके ॥८९॥
वामे चान्यकरे शङ्खं पीताम्बरधरं भवेत्
एवं कात्यायनीं प्रोक्तं शेषं प्रागुक्तवन्नयेत् ॥९०॥
मूर्ध्नि च मध्ये ललाटमध्ये
नासाग्रमध्ये चन्द्र देशनाभेः
ऊर्ध्वाधो पादद्वयमध्यगुल्फे
कुर्यात्तु सूत्रं तु सुखासने च ॥९१॥
तदेव सूत्रं त्वथ कायदेशे
चोरुद्वयोर्मध्यमके च सूत्रम्
जानुद्वयोर्मध्यमपादयोस्तम्
मध्ये च सूत्रमृजुस्थानके तत् ॥९२॥
भङ्गद्वयो मूर्ध्नि ललाटसव्ये
नासापुटे सव्यकचक्षुर्मध्ये
नाभेश्च सव्ये स्थितपादवामे
सूत्रं हि तिष्ठेत्तु कुरु दासने च ॥९३॥
इति मानसारे वास्तुशास्त्रे शक्तिलक्षणविधानं नाम चतुष्पञ्चाशदध्यायः
N/A
References : N/A
Last Updated : October 07, 2022
TOP