संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| पञ्चतलविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - पञ्चतलविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत पञ्चतलविधानम् Translation - भाषांतर पञ्चभूमिविधानस्य लक्षणं वक्ष्यतेऽधुनाक्षुद्र मध्यं च मुख्यं च विशालं भागमुच्छ्रयम् ॥१॥प्रागुक्तवत्प्रगृह्यं तु कुर्यात्पञ्चतलं बुधःचतुर्विंशांशकं तुङ्गे सात्यर्धांशमसूरके ॥२॥बन्धांशं पादतुङ्गं स्यादत्यर्धं प्रस्तरोदयम्सपादद्विंशकं पादं मञ्चोर्ध्वं सशिवांशकम् ॥३॥तदूर्ध्वेऽङ्घ्रि द्विभागं स्यात्प्रस्तरोच्चं शिवांशकम्सत्रिपादांशकं पादं प्रस्तरोच्चं शिवांशकम् ॥४॥तदर्धं वेदिकोत्तुङ्गं चन्द्रा शं! च गलोदयम्मस्तकं चार्धभागं स्याच्छेषं तु तच्छिरोदयम् ॥५॥कर्णहर्म्यादिसंयुक्तं सर्वालङ्कारसंयुतम्ऐरावतमिति प्रोक्तं गन्ध स्कन्धोच्चसंवृतम् ॥६॥तदेव विस्तृतार्धेन चतुर्दिक्षु समन्वितम्निर्गमं तु यथायुक्तं चतुर्दिक्षु तलं भवेत् ॥७॥एतत्तु भूतकान्तं स्यात्पञ्चभौमविदो विदुःविशालेन त्रिपादेन पूर्ववद्भद्र संयुतम् ॥८॥चतुर्दिक्षु तलं कुर्यात्कर्णहर्म्यादिमण्डितम्विश्वकान्तमिति प्रोक्तमेवं पञ्चतलं विदुः ॥९॥अथवा विस्तृतं तुल्यं चतुर्दिक्ष्वालयं स्मृतम्तस्मात्त्रिभूलहर्म्यान्तं तद्द्वयोर्मूलदेशके ॥१०॥अन्तरालं प्रकुर्वीत पार्श्वे सोपानसंयुतम्सर्वं प्रदक्षिणं कुर्याद्युक्त्या द्वारं प्रकल्पयेत् ॥११॥मध्ये पञ्चचतुस्तद्द्वितलं पञ्चतलं भवेत्मूर्तिकान्तमिति प्रोक्तं पूर्ववत्परिकल्पयेत् ॥१२॥तदेव हर्म्ये विदिक्ष्वेच तत्तन्मौलालयं भवेत्गृहकान्तमिति प्रोक्तं पूर्ववत्परिकल्पयेत् ॥१३॥तद्बहिः परितो देशे कुर्यात्षोडशालयम्गृहकान्तादिहर्म्येषु चतुर्दिक्षु समालयम् ॥१४॥पञ्चविशत्युपपीठं प्रोक्तं यमकान्तमेव प्रकथ्यतेतदेवं परितो बाह्ये चतुर्विंशतिरालयम् ॥१५॥गृहकान्तादिहर्म्येषु चतुर्दिक्षु समालयम्महाकान्तमिति प्रोक्तमेतत्पञ्चतलं भवेत् ॥१६॥गृहकान्तादिहर्म्येषु चतुर्दिक्षु समालयम्कुर्यात्तत्कल्याणमेतदिदं पञ्चतलान्वितम् ॥१७॥प्रासादार्धं समं वापि त्रिपादं वा समं तु वाअन्तरालं विशालं स्यादथवा हस्तमानतः ॥१८॥त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात्नवपङ्क्तिकरान्तं स्यादन्तरालविशालकम् ॥१९॥अन्तराले यथायुक्त्या मण्डपाकारं विन्यसेत्अथवा त्रिकूटयुक्तं वा मूलस्य मुखपार्श्वयोः ॥२०॥यज्ञकान्तमिति प्रोक्तमेकानेकतलान्वितम्पञ्चषट्स्वेकभूमि स्याद्द्वितलं त्रितलं तु वा ॥२१॥पञ्चब्रह्ममिति प्रोक्तं सर्वालङ्कारसंयुतम्एतदष्टविधं प्रोक्तं शेषं प्रागुक्तवन्नयेत् ॥२२॥शिखरादि यथाकारं चैकाकारं तु योजयेत्सर्वेषां देवतानां च हर्म्यमेवं प्रकल्पयेत् ॥२३॥एतत्सर्वं हर्म्यके दिक्षु कूटम्शालानासिकापञ्जराढ्यम्नानारङ्गान्वितालिन्दयुक्तम्पूर्वोक्तानां युक्तितः कारयेत्तत् ॥२४॥इति मानसारे वास्तुशास्त्रे पञ्चतलविधानं नाम त्रयोविंशोऽध्यायः N/A References : N/A Last Updated : October 03, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP