मानसारम् - द्वितलविधानम्
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
द्वितलानामलङ्कारं वक्ष्ये संक्षिप्यतेऽधुना
विस्तारोत्सेध हर्म्ये वा पूर्ववत्परिकल्पयेत् ॥१॥
उपानादिस्तूपिपर्यन्तं अष्टाविंशद्विभाजिते
अधारोच्चं गुणांशं स्यात्पादतुङ्गं षडंशकम् ॥२॥
बन्ध्वशं प्रस्तरोत्सेधं चोर्ध्वे पादं शराशकम्
तदूर्ध्वे पादमञ्चोर्ध्वे शिवांशं वेदिकोदयम् ॥३॥
तद्द्वयं कन्धरोत्सेधं वेदांशं शिखरोदयम्
तदूर्ध्वे स्तूपियुग्मांशं तुङ्गं तु परिकल्पयेत् ॥४॥
एकत्रिंशांशकं तुङ्गं सार्धबन्ध मसूरकम्
सप्तांशं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ॥५॥॥
तदूर्ध्वेऽर्धमधिष्ठानं द्व्यंश वेदाङ्घ्रितुङ्गकम्
तदर्धं प्रस्तरोत्सेधं तदर्धं वेदिकोदयम् ॥६॥
तद्द्वयं वेदितुङ्गं स्याच्छिखरोच्चं युगांशकम्
स्तूपितुङ्गं द्व्यांशं स्याद्द्वितले तद्द्वितीयकम् ॥७॥
तदेवोर्ध्वमधिष्ठानं विमानांशे कवितस्तिकम्
तदूर्ध्वेऽङ्घ्रि शरांशं स्यात्कर्णहर्म्यादिमण्डितम् ॥८॥
शेषं तु पूर्ववत्कुर्यात्तृतीयद्वितलं भवेत्
तुङ्गे द्विरष्टभागं स्यादध्यर्धांशं मसूरकम् ॥९॥
गुणांशं चाङ्घ्रितुङ्गं स्यात्प्रस्तरं सार्धभागिकम्
तदूर्ध्वमंशमधिष्ठानं तदूर्ध्वे द्व्यंशकाङ्घ्रिकम् ॥१०॥
शिवांशं प्रस्तरोत्तुङ्गं त्रिपादं वोर्ध्वमसूरकम्
पादांशं वेदिकोत्तुङ्गं सपादांशं गलोदयम् ॥११॥
द्व्यर्धांशं शिरतुङ्गं स्यात् पादांशं शिखरोदयम्
चतुर्थं द्वितलं प्रोक्तं तदेव शिखरं विदुः ॥१२॥
लम्बनं सार्धभागेन गोपानादि क्रियान्वितम्
शेषं प्रागुक्तवत्कुर्यात्पञ्चधा द्वितलं विदुः ॥१३॥
एकादशांशकं तुङ्गमेकांशेन मसूरकम्
अग्निकाङ्घ्रितुङ्गं स्याच्छिवांशं प्रस्तरोदयम् ॥१४॥
तदूर्ध्वे चोपपीठं स्यात्तत्समं च मसूरकम्
तद्द्वयं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ॥१५॥
तत्समं वेदितुङ्गं स्याच्छिवांशं गलतुङ्गकम्
शिखरोच्चं द्विभागं स्यादेकांशं स्तूपिकोदयम् ॥१६॥
षष्ठमं द्वितलं प्रोक्तं सप्तमं वक्ष्यतेऽधुना
एकादशांशकं तुङ्गे चैकांशेन मसूरकम् ॥१७॥
द्विभागं पादतुङ्गं स्यात्प्रस्तरं चाम्बरांशकम्
कुर्यात्तत्र वनं चोर्ध्वे त्रिपादांश मसूरकम् ॥१८॥
तद्द्वयं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम्
तदूर्ध्वेऽङ्घ्रि सपादांशं एकांशं प्रस्तरोदयम् ॥१९॥
पादांशं वेदिकोत्तुङ्गं तद्द्वयं गलतुङ्गकम्
शिखरोच्चं शिवांशं स्यात्तदर्धं तच्छिखोदयम् ॥२०॥
द्वितले सप्तकं प्रोक्तं त्रयाङ्घ्रिकर्णहर्म्यकम्
तदेवांशाधिकं तुङ्गे तन्मूले प्रस्तरोर्ध्वके ॥२१॥
अंशेन चोपपीठं स्यादधिकं द्वितलं स्मृतम्
एवं दण्डवशात्कुर्यान्निर्गमं तदिहोच्यते ॥२२॥
प्रागुक्तविस्तृतं बाह्ये निर्गमं परितस्तथा
एकदण्डं द्विदण्डं वा त्रिदण्डं निर्गमं स्मृतम् ॥२३॥
एकहस्तं द्विहस्तं वा त्रिहस्तं वाथ निर्गमम्
त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् ॥२४॥
एकादशार्कहस्तान्तं पञ्चधा निर्गमं भवेत्
पञ्चषट्करमारभ्य द्विद्विहस्तविवर्धनात् ॥२५॥
सैकार्कमनुहस्तान्तं निर्गमं पञ्चधा भवेत्
क्षुद्रा ल्पमध्यमुख्यानां युक्त्या तत्रैव योजयेत् ॥२६॥
अथ हर्म्यविशालार्धं तत्समं निर्गमं तु वा
यत्तद्भक्तिविशले तु कूटमेकैकभागिकम् ॥२७॥
एकं वाथ द्विपादं वा तस्य हारा विशालकम्
द्विभागं वा त्रिभागं वा मध्यशालाविशालता ॥२८॥
हर्म्ये चोर्ध्वतले पादं बाह्यकूटादि विन्यसेत्
कर्णहर्म्याकृतिं वाथ चान्तरं प्रस्तरं तु वा ॥२९॥
त्रिचतुः पञ्चाङ्गुलं वापि द्वितलेऽङ्घ्रि विशालकम्
तच्चतुः पञ्चषट्सप्तसाष्टांशाङ्घ्रिविशालके ॥३०॥
तत्तदेकांशहीनं स्यादूर्ध्वे पादविशालकम्
शाला कूटश्च पादौ च बाह्ये मध्यान्तरालकम् ॥३१॥
नासिकापञ्जरैः शालाकुम्भपादादिभूषितम्
तोरणैर्नीडभद्रा दि मूले चोर्ध्वे च भूषितम् ॥३२॥
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम्
नानागोपानसंयुक्तं क्षुद्र नास्यैर्विभूषितम् ॥३३॥
अर्धशालाविशेषोऽस्ति चोर्ध्वशालासमन्वितम्
तदूर्ध्वे प्रस्तरान्तः स्यान्नासिकाभिरलङ्कृतम् ॥३४॥
कूटानां चतुरश्रं स्यान्मध्ये मध्यं तु नासिका
एकद्वित्रिचतुर्दण्डं मध्यभद्रै स्तु निर्गमम् ॥३५॥
चतुःशाला चतुःकूटं चाष्टभारं सपञ्जरम्
एकदण्डार्धदण्डं वा चोर्ध्वकूटादिवेशनम् ॥३६॥
मध्यकोष्ठे द्विपार्श्वे तु चार्धशालासमन्वितम्
तदूर्ध्वे मध्यमे नासि तत्पार्श्वे वक्त्रनासिकम् ॥३७॥
तत्पार्श्वं शालयोः पार्श्वे क्षुद्र नास्यैर्विभूषितम्
कूटकोष्ठादिसर्वाङ्गं युक्त्या तु समलङ्कृतम् ॥३८॥
शेषं तु पूर्ववत्कुर्यात्कर्णहर्म्यादि चोक्तवत्
सप्ताष्टक द्विभूम्ये तु शेषाणां वक्ष्यतेऽधुना ॥३९॥
विस्तारार्धद्विगुणं वा त्रिगुणं वा तदुच्छ्रयम्
तन्मुखे मण्डपाग्रे तु कुर्यदधिकमण्डपम् ॥४०॥
तत्पुरे मध्यमे द्वारं गवाक्षं वाथ कल्पयेत्
दक्षिणे मध्यमे द्वारं स्यादग्रे मध्यमण्डपम् ॥४१॥
चतुर्द्वारसमायुक्तं पूर्वे सोपानसंयुतम्
तद्घनं तलसर्वाङ्गं कूटकोष्ठादिभूषितम् ॥४२॥
सोपपीठमधिष्ठानं सोपपीठ मसूरकम्
तदूर्ध्वे पादमञ्चं च संयुक्तं तत्त्रिबर्हकम् ॥४३॥
पूर्ववन्मानयुक्त्या च विमानान्तस्य निर्गमम्
कुर्यात्तत्पादतुङ्गेषु षड्भागांशविहीनकम् ॥४४॥
प्रस्तरस्योपरि न्यस्य चान्तर्मण्डलकुट्यकम्
कर्णहर्म्यादिसंयुक्तं सर्वालङ्कारसंयुतम् ॥४५॥
आरोप्यं प्रदक्षिणं सौम्यमेवं प्रकल्पयेत्
शेषं तु पूर्ववत्कुर्यात्सर्वदेवांश्च सद्मके ॥४६॥
श्रीकरं विजयं सिद्धं पौष्टिकान्तकं प्रभूतकम्
स्वस्तिकं पुष्कलं नाम प्रथमाद्यष्टसद्मके ॥४७॥
पूर्ववच्चोक्तदेवानां सर्वहर्म्येषु योजयेत्
अथवा विष्णुहर्म्ये तु गले पूर्वे जनार्दनम् ॥४८॥
दक्षिणे दक्षिणामूर्तिं नारसिंहमथापि वा
पश्चिमे केशवं प्रोक्तं चोत्तरे श्रीधरं भवेत् ॥४९॥
अथवा पितामहं स्यान्नागरादौ च हर्म्यके
द्वारदेवादि सर्वेषां पूर्ववत्कल्पयेत्सुधीः ॥५०॥
तदेव शिवहर्म्ये तु मण्डपे तु विशेषतः
सौम्ये तु कालरूपं वा प्रोक्तवांस्तत्रदैवतम् ॥५१॥
स्थापयेत्क्षेत्रपालानां षण्मुखं चापि कल्पयेत्
आरोग्यं हर्म्यमूले तु कर्णहर्म्यात्प्रवेशयेत् ॥५२॥
सर्वेषां देवताहर्म्ये पूर्ववद्देवता न्यसेत्
उक्तवच्छाखमार्गेण ऊहापोहेन योजयेत् ॥५३॥
वेदाश्रान्तं वर्तुलाभं गजाश्रं
वृत्ताश्राभं द्व्यश्रवृत्तं तमेव च
तद्दीर्घं तच्छिरोग्रीवयुक्तम्
उक्तं प्रागवद्भूषणादि द्विभूमौ ॥५४॥
हाराप्रान्ते द्व्यंशकैकांशमलिन्दम्
मञ्चस्योर्ध्वे चावृत प्रस्तरं च
आरुह्य सार्धहर्म्यमूलं यद्
युक्त्या भक्त्या यन्मानोरम्यम् कुर्यात् ॥५५॥
इति मानसारे वास्तुशास्त्रे द्वितलविधानं नाम विंशोऽध्यायः
N/A
References : N/A
Last Updated : October 02, 2022
![Top](/portal/service/themes/silver/images/up.gif)
TOP