मानसारम् - उपपीठविधानम्
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
उपपीठविधिं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना
अधिष्ठानोन्नते देशे चोपपीठं हि संश्रितम् ॥१॥
एते तत्त्वमधिष्ठानं तुङ्गं तच्चतुरंशकतम्
विभजेत्त्वादिमांशेन एकैकांशं विवर्धनात् ॥२॥
तदष्टांशावसानं स्याज्जन्मादिपट्टिकान्तिकम्
एवं हि चोपपीथोच्चं नवभिर्भेदमीरितम् ॥३॥
अथवा द्वादशान्तं वा मध्यभूम्यन्तिकम् क्रमात्
अथवा क्षुद्र हर्म्ये तु चतुर्भागांशमुन्नतम् ॥४॥
द्विभागं वा त्रिभागं वा चतुर्भागमथापि वा
पञ्चादशोदयं वापि रिन्तिकादिशरोन्नतम् ॥५॥
अथवा मध्यहर्म्ये तु द्विभागं वा त्रिभागिकम्
चतुर्भागं पञ्चभागं षड्भागावसानकम् ॥६॥
शान्तिकं सर्वभूम्यन्तं पञ्चधोत्तुङ्गमीरितम्
अथवा मुख्यहर्म्ये तु त्रयं वा चतुरंशकम् ॥७॥
पञ्चांशं वा षडंशं वा सप्तांशं वावसानकम्
एवं पञ्चविधं प्रोक्तं शान्तिकादिशरोन्नतम् ॥८॥
क्षुद्रो त्सेधं वापि पादाधिकमेव च
पादोनद्विगुणं वापि द्विगुणं चा विशेषतः ॥९॥
मूलहर्म्यस्य पदं तु वप्रजन्म तु बाह्यतः
उपपीठनिर्गमं स्याद्भागमानेन वक्ष्यते ॥१०॥
सप्ताष्टनवभागं वा दशमेकादशस् तथा
द्वादशैकार्कभागं वा चतुर्दशांशकमेव वा ॥११॥
पञ्चादशांशकं वापि विभजेत्तु विशेषतः
तत्तद्भागैकभागं वा द्विभागं वा त्रिभागिकम् ॥१२॥
चतुर्भागं पञ्चभागं वा षट्सप्ताष्टकमेव च
पूर्ववन्निर्गमं प्रोक्तं यन्मानोरम्य मानतः ॥१३॥
अथवा हस्तमानेन निर्गमं तत्प्रवक्ष्यते
एकहस्तं समारभ्य चतुर्थांशेन वर्धनात् ॥१४॥
तत्त्रिहस्तावसानं स्यान्निर्गमं नवधा भवेत्
अथवा दण्डमानेन चोपपीठस्य निर्गमम् ॥१५॥
दण्डं सार्धं द्विदण्डं वा सार्धद्विदण्डमेव च
त्रिदण्डं चार्धमाधिक्यं चतुर्दण्डमथापि वा ॥१६॥
पञ्चषट्सप्तदण्डं वा दण्डाष्टनवदण्डकम्
निर्गमं चोपपीठं स्यात्पादबाह्यावसानकम् ॥१७॥
एतत्तु निर्गमं प्रोक्तं गण्यमानमिहोच्यते
उत्सेधे तु चतुर्विंशत्पञ्चांशोपानमीरितम् ॥१८॥
एकेन कम्पमित्युक्तं ग्रीवोच्चं द्वादशान्तकम्
कम्पमेकं तु वेदांशं वाजनं कम्पमंशकम् ॥१९॥
वेदिभद्र मिति प्रोक्तमथवा द्वादशांशकम्
जन्म द्वयांशमंशकं पद्मं कम्पमर्धेन कारयेत् ॥२०॥
पञ्चांशं कण्ठमर्धेन क्षेपणं पद्ममंशकम्
तदर्धं पट्टिकोत्सेधं कम्पमर्धेन कारयेत् ॥२१॥
अथवा भागमानेन सार्धांशं पादुकोदयम्
तदूर्ध्वे तत्समाब्जं कम्पमर्धेन कारयेत् ॥२२॥
सार्धपञ्चांशकं ग्रावं क्षेपणं चार्धभागिकम्
तदूर्ध्वे पद्ममंशेन वाजनं चैकभागिकम् ॥२३॥
तदूर्ध्वे सार्धकम्पं स्याद्योजयेत्तु विचक्षणः
तदेवांशेन युग्मेन सोपानाम्बुजमेव वा ॥२४॥
कम्पमर्धं तथा कर्णं तदूर्ध्वेऽशेन पट्टिका
पञ्चांश कन्धरं प्रोक्तं कम्पमर्धेन कारयेत् ॥२५॥
द्व्यंशं तद्वाजनोत्तुङ्गं कम्पमर्धेन कारयेत्
सर्वहर्म्येषु योग्यं स्याद्वेदिभद्रं चतुर्विधम् ॥२६॥
प्रतिभद्रं चतुर्विधम्
विंशत्यंशं षडाधिक्यं चोपपीठोदयं भवेत्
तदंशेन त्र्! यंशकं च जन्म कम्पं शिवांशकम् ॥२७॥
तदूर्ध्वे चाक्षमब्जं स्यात्कम्पमेकेन कारयेत्
ग्रीवमेकादशांशं स्यात्तदूर्ध्वे कम्पमंशकम् ॥२८॥
तद्द्वयं चाम्बुजं चोर्ध्वे कपोतोच्चं गुणांशकम्
तदूर्ध्वेऽन्तरितं चांशं तत्समं प्रतिवाजनम् ॥२९॥
केचिच्चोपपीठोच्चं स्याद्द्वात्रिंशतिकं भवेत्
जन्मोच्च द्व्यंशकं चैव क्षेपणं चार्धभागिकम् ॥३०॥
सार्धद्व्यंशेन पद्मं स्यात्क्षुद्रा ब्जं चार्धकं भवेत्
तत्समं चोर्ध्वकम्पं स्याद्द्व्यशं चोपरि कन्धरम् ॥३१॥
कम्पमर्धं तथाब्जं स्याद्द्व्यंशं चोपरि पट्टिका
तदूर्ध्वे सार्ध पद्मा कम्प कन्धरं दशांशकम् ॥३२॥
अर्धांशं कम्पमर्धेन चाधोपद्मं च कारयेत्
तदूर्ध्वे कम्पमर्धांशमंशं चोपरि कन्धरम् ॥३३॥
उत्तरं चांशकं चोर्ध्वे क्षेपणार्धार्धकाम्बुजम्
कपोतोच्चं त्रियंशं स्यादालिङ्गं चार्धमागिकम् ॥३४॥
एकं चान्तरितं चोर्ध्वे सार्धांशं प्रतिवाजनम्
अथवा चोपपीठोच्चं तदेकांशाधिकं तथा ॥३५॥
सार्धदृग्जन्ममुत्सेधं कम्पमर्धं तदूर्ध्वके
पद्मतुङ्गं तु वन्यंशं कम्पमर्धेन कारयेत् ॥३६॥
तत्समं कन्धरं प्रोक्तं कम्पमर्धं तथाम्बुजम्
तदूर्ध्वे च द्विभागेन वज्रकुम्भं प्रकारयेत् ॥३७॥॥
दलमध्यार्धकं पञ्चद्विसप्तांशं गलोदयम्
उत्तरं चार्धकम्पं स्यात्तदूर्ध्वे च सरोरुहम् ॥३८॥
कपोतोच्च त्रियांशं चालिङ्गं चार्धकं भवेत्
अंशेनान्तरितं चोर्ध्वे सार्धांशं प्रतिवाजनम् ॥३९॥
तदंशेनांशमाधिक्यं जन्म सार्धद्वयांशकम्
तदूर्ध्वे कम्पमर्धेन पद्मोत्सेधं गुणांशकम् ॥४०॥
कम्पमर्धं तथा कर्णं कम्पमर्धं तथाम्बुजम्
द्विभागं रत्नपट्टं स्याद्दलार्धं क्षेपणार्धकम् ॥४१॥
कर्णमंशं तदूर्ध्वेऽर्धं क्षेपणं चैकमम्बुजम्
तदूर्ध्वे क्षेपणं सार्धं कर्णमेकादशांशकम् ॥४२॥
अंशोत्तरार्धं कम्पार्धमम्बुजैः क्षमूर्ध्वके
कपोतं सार्धमालिङ्गं सार्धांशान्तरितं तथा ॥४३॥
एकभागं प्रतिं चैव सार्धांशं चोर्ध्ववाजनम्
प्रतिभद्र मिति प्रोक्तं पादतस्तु चतुर्विधम् ॥४४॥
देवभूसुरभूपानां हर्म्याणामासनान्वितम्
मञ्चभद्रं चतुर्विधम्
तुङ्गे त्रिंशतिभागेन जन्मतुङ्गं गुणांशकम् ॥४५॥
अर्धेन कम्पमूर्ध्वे तु गुणांशेन महाम्बुजम्
अर्धेन कम्प कण्ठं दृक् चार्धं कम्पं तथाम्बुजम् ॥४६॥
कपोतं सार्ध युग्मांशं प्रतिवाजन संमितम्
तदूर्ध्वे कम्पमष्टांशमुत्तरं चैकभागिकम् ॥४७॥
तदूर्ध्वे च क्षेपणं स्यात्सार्धं पद्मं गोपानकस्त्रिभिः
शेषमालिङ्गान्तरितं प्रतिवाजन संयुतम् ॥४८॥
तदेव भागांशमाधिक्यं त्रियं चोपानमीरितम्
अर्धेनोपरि कम्पं स्यात्सार्धत्र्! यंशं सरोरुहम् ॥४९॥
क्षेपणं सार्धमर्धांशं कम्प कर्णं तथाम्बुजम्
सार्धद्वयं तु गोपानं त्रिंशं तत्प्रतिवाजनम् ॥५०॥
तदूर्ध्वे गलमष्टांशमुत्तरं चैकभागिकम्
कम्पमर्धं तथाब्जं स्यात्कपोतोच्चं त्रियंशकम् ॥५१॥
अर्धमर्धांशकं चैवमध्यर्धं यथाक्रमम्
आलिङ्गान्तरितं चैव प्रतिवाजन संमितम् ॥५२॥
सद्वात्रिंशतिक तुङ्गं द्व्यंशेनोपानमीरितम्
कम्पमर्धेन तस्योर्ध्वे सार्धद्व्यंशं महाम्बुजम् ॥५३॥
क्षुद्रा ब्जं सार्धं कम्पार्धं द्व्यंशेनान्तरितोपरि
कम्पमर्धं तथा पद्मं पट्टिकोच्चं तथांशकम् ॥५४॥
पञ्चमर्धं तथा कम्पं पञ्चभागेन तद्गलम्
एकंशं चोत्तरं चोर्ध्वे कम्पमर्धं तथाम्बुजम् ॥५५॥
कपोताध्यर्धभागं स्यात्तत्समं प्रतिवाजनम्
तदूर्ध्वेऽन्तरितं कर्णं च त्रियंशं चोत्तरांशकम् ॥५६॥
कम्पमर्धं तथा पद्मं कपोतोच्चं गुणांशकम्
शेषमालिङ्गान्तरितं गलमंशेनोत्तरम् ॥५७॥
चतुस्त्रिंशतिकं भागं कृत्वा तत्तुङ्गमानतः
जन्मतुङ्ग गुणांश स्यात्कम्पमर्धेन कारयेत् ॥५८॥
सार्धवह्न्यंशमब्जं च क्षुद्र पद्मं तदूर्ध्वके
कम्पमर्धं तु सप्तांशं गलमंशेन चान्तरम् ॥५९॥
अर्धेन कम्पमर्धेन पद्मं सार्धद्वियांशुकम्
कपोतं सार्ध चन्द्रा शं!मालिङ्गादिप्रतिष्ठितम् ॥६०॥
षडंशं चान्तरे कर्णे चोत्तरांशं तदूर्ध्वके
अर्धेनार्धेन कम्पाब्जं गोपानोच्चं गुणांशकम् ॥६१॥
तदूर्ध्वे द्व्यंशकेनैवालिङ्गादिवाजनम्
मञ्चभद्र मिदं नाम्ना चतुर्भेदमितीरितम् ॥६२॥
निर्गमम्
उमापतिविष्णुहर्म्याणां चक्रवर्तिस्तथालये
यत्तदेवमुक्तानि तन्त्रविद्भिः पुरातनैः ॥६३॥
तत्तद्देवादिसर्वेषां निर्गमानि यथोच्यते
तत्तदङ्गानि सर्वेषामुपानादि यथाक्रमम् ॥६४॥
तत्समं निर्गमं वापि तत्पादाधिकमेव च
तदर्धाधिकभागं वा तत्रि भागाधिकं ततः ॥६५॥
तत्समाधिकमेवं वा पादादोपाननिर्गमम्
अथवा पादविष्कम्भं दण्डमानेन मानयेत् ॥६६॥
एकदण्डसमं वापि तत्पादाधिकमेव च
तदर्धधिकमेवं वा तत्त्रिपादाधिकं तु वा ॥६७॥
द्विदण्डं वा त्रिदण्डं वा जन्मनिर्गममीरितम्
अथवा हस्तमानेन पादहस्तं समारभेत् ॥६८॥
तत्समं वर्धयेत्तस्मात्सार्धहस्तावसानकम्
जन्मनिर्गममेवोक्तं पद्मनिर्गममिष्यते ॥६९॥
तुङ्गं तत्सममेवं वा पादाधिक्यार्धाधिकम्
पादोनद्विगुणं वापि पद्ममेवं तु निर्गमम् ॥७०॥
अथवा हस्तमनेन पूर्ववद्विधि वक्ष्यते
उपमानस्य मानेन युक्त्या पद्मं तु निर्गमम् ॥७१॥
क्षुद्र पद्मानि कम्पानि तत्समं वाथ निर्गमम्
पट्टिकादीनि सर्वाणि तत्समं निर्गमं भवेत् ॥७२॥
भागपादादिसर्वेषामुद्ग्रीवास्तुवशान्न्यसेत्
पादानामपि सर्वेषां पत्रजात्यैरलङ्कृतम् ॥७३॥
अन्तरे नाटकैर्युक्तं पद्मानां तु दलैर्युतम्
चतुरश्राकृतिं चैव प्रथमादीन् कम्पवाजनैः ॥७४॥
अथवा रक्तपुष्पैश्च पत्राद्यैरलङ्कृतम्
अन्यैर्युक्तं स्वलङ्कृत्य प्रतिवाजनदेशके ॥७५॥
प्रतिवाजनं तेषां कृतेः कर्करीकृतम्
अन्येन वान्तरं चैव व्यालसिंहादिरूपकैः ॥७६॥
खङ्गेव श्रोणिसंयुक्तं वृत्ताश्रं पुष्पकैर्युतम्
अन्यानुक्तं च सर्वेषां युक्त्या तत्रैव योजयेत् ॥७७॥
इति मानसारे वास्तुशास्त्रे उपपीठविधानं नाम त्रयोदशोऽध्यायः
N/A
References : N/A
Last Updated : October 02, 2022
TOP