मानसारम् - एकतलविधानम्
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
एकभूमिविधिं वक्ष्ये लक्षणं वक्ष्यतेऽधुना
जातिश्छन्दं विकल्पं तु चाभासं तु चतुर्विधम् ॥१॥
पूर्वहस्तेन संयुक्तं हर्म्यं जातिरिति स्मृतम्
छन्दं त्रिपादहस्तेन विकल्पं स्यात्तदर्धकम् ॥२॥
आभासं चार्धहस्तेन हर्म्यादीनां तु मानयेत्
एतदायादिशुद्ध्यर्थं स्थानकादि त्रिधा भवेत् ॥३॥
उत्सेधे मानं गृह्यं चेत्स्थानकं तत्प्रकथ्यते
विस्तारे मानं संकल्प्य चासनं तदुदीरितम् ॥४॥
परिणाहे पदे वापि मानं शयनमीरितम्
आसनं संचितं प्रोक्तं स्थानकं स्यात्त्वसंचितम् ॥५॥
अपसंचित शयनं चेत्तत्तत्त्रिविधहर्म्यके
स्थानकादि यस्य मूलं बिम्बहर्म्यं यथाक्रमम् ॥६॥
कुर्यात्तत्तद्विमानं स्याद्विपरीतं विनाशनम्
समाश्रं समवृत्तं यत्पुरुषं चेति कथ्यते ॥७॥
आयताकारधिष्ण्यं वा वनितेति प्रकीर्तितम्
पुंविमाने पुरुषं वनितायां वनितां क्षिपेत् ॥८॥
शक्तीनां वनितं वापि पुरुषं वापि कल्पयेत्
विस्तारोत्सेधभक्तिश्च पूर्ववच्चोक्तवत्क्रमात् ॥९॥
कुर्यात्तदेकभौमस्य कन्यसादीनि तुङ्गकम्
आगम्यमष्टधा हर्म्यं गण्यमानमिहोच्यते ॥१०॥
उत्सेधे चाष्टभागे तु चैकांशेन मसूरकम्
द्विभागं चाङ्घ्रिकोत्तुङ्गं मञ्चमेकेन कारयेत् ॥११॥
कन्धरं तत्समं कुर्यात्तद्द्वयं शिखरोदयम्
तदर्धं स्तूपिकोत्तुङ्गं वक्त्रं षड्विधमीरितम् ॥१२॥
हर्म्यताराष्टभागैकं हीनं वेदिविशालकम्
तच्चतुर्भागमेकांशं हीनं ग्रीवविशालकम् ॥१३॥
शिखरालम्बनान्तं च वेदितारसमन्वितम्
लम्बनं त्रिभागैकं मध्यनासिविशालकम् ॥१४॥
तत्समं च त्रिपादं वा चार्धं वा निर्गमं भवेत्
मध्यनासिविशाले तु चतुस्त्रिंशद्विभाजिते ॥१५॥
तत्त्रिभागं तु तुङ्गं स्यात्पञ्चांशं त्र्! यंशमेव वा
स्थितस्य लुपमूलं तु तदूर्ध्वे नासिकन्धरम् ॥१६॥
तदर्धं च त्रिभागं च कन्धरं मूर्ध्नि तत्समम्
तत्तुल्यं मौलितुङ्गं स्याद्युक्त्या तत्पालिकान्तकम् ॥१७॥
मध्यनास्यर्धमानेन सान्तरं नासिमानकम्
नासिकाग्राननं सर्वं किम्बरीसमलङ्कृतम् ॥१८॥
नासितारं त्रिभागैकं कुक्षितारमिति स्मृतम्
भूतादिचित्रसंयुक्तं सर्वालङ्कारसंयुतम् ॥१९॥
लम्बनोर्ध्वे दलं बध्वा सर्वालङ्कारसंयुतम्
आघ्राणं पत्रसंयुक्तं भूष्यै पट्टैरलङ्कृतम् ॥२०॥
करोटीवदलङ्कृत्य लम्बने पत्रसंयुतम्
पालिके लम्बनं तत्र श्रेण्या दर्पणवृत्तवत् ॥२१॥
युक्त्यालङ्कारसंयुक्तं शेषं प्रागुक्तवन्नयेत्
ग्रीवोच्चं त्रिभागैकं वेदिकोदयमीरितम् ॥२२॥
तत्समं तु गलाग्रे तु चोत्तरादीनि वर्गकम्
तदेवालम्बनं तत्र गोपानादिश्रियान्वितम् ॥२३॥
वेदितुङ्गसमं कुर्यात्क्षुद्र नासिविभूषितम्
अथवा तुङ्गमाने तु दशभागं विभाजिते ॥२४॥
सपादांशमधिष्ठानं तद्द्वयं पादतुङ्गकम्
तदर्धं प्रस्तरोच्चं तु चाश्विन्यंशे गलोदयम् ॥२५॥
तत्समं शिखरोत्तुङ्गं तदर्धं तच्छिखोदयम्
प्रस्तरोपरि चैकांशं कर्णहर्म्यं प्रकल्पयेत् ॥२६॥
तदूर्ध्वे पूर्ववद्ग्रीवं युक्त्या चांशेन योजयेत्
कर्णहर्म्यस्य विस्तारं षड्भागं तु विभाजिते ॥२७॥
एकांशं कर्णकूटं स्यान्मध्ये शाला द्ययांशकम्
एकं वा द्वित्रिदण्डेन निर्गमं भद्र मेव वा ॥२८॥
शालाकूटद्वयोर्मध्ये चैकहारा सपञ्जरम्
तत्तुङ्ग सप्तभागं स्यादेकांशं वेदिकोदयम् ॥२९॥
तदूर्ध्वेऽध्यर्धभागेन गलं त्र्! यंशकं मस्तकम्
तदर्धं स्तूपिकोत्तुङ्गं कर्णहर्म्यमिति स्मृतम् ॥३०॥
तदेवाधिष्ठानसंयुक्तं कर्णहर्म्यं विना तथा
तदूर्ध्वे वेदिकांशेन कर्णकम्पाब्जकम्पयुक् ॥३१॥
अथवा वेदिकोत्तुङ्ग शेषं भागमिहोच्यते
तदेव वेदिकाशेन नवभाग विभाजिते ॥३२॥
द्विभागं वाजनं मूले चोर्ध्वे कर्णं गुणांशकम्
तदूर्ध्वे कम्पमेकांशं दल द्व्यंशेन वाजनम् ॥३३॥
वेदितारं चतुर्भागं मध्यकोष्ठं शिवांशकम्
नासिकायुक्तकोष्ठं वा नासिकापञ्जरान्वितम् ॥३४॥
शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम्
अथवा हर्म्यतुङ्गे तु द्वादशांशं विभाजिते ॥३५॥
सार्धतुङ्गमधिष्ठानं पाददीर्घं गुणांशकम्
तदर्धं प्रस्तरोत्सेधं ग्रीवोच्चं तु गुणांशकम् ॥३६॥
शिखरोच्चं द्विभागं स्यात्स्तूपिकोच्चं शिवांशकम्
प्रस्तरोर्ध्वे द्विभागेन चान्तरं प्रस्तरान्वितम् ॥३७॥
उत्सेधदशभागे तु वेदितुङ्गं शिवांशकम्
पादतुङ्गं गुणांशं स्यात्त्रिपादांशकमञ्चकम् ॥३८॥
वेदिकोच्चं तु पादांशं कन्धरोच्चं शिवांशकम्
शिरस्तुङ्गाश्विनीभागे चोर्ध्वं कुम्भं शिवांशकम् ॥३९॥
तदूर्ध्वे ग्रीवमंशेन पूर्ववत्समलङ्कृतम्
अथवा मनुभागं तु हर्म्यतुङ्गं विभाजिते ॥४०॥
सत्रिपादमधिष्ठानं तद्द्वयं चाङ्ग्रहि भाजिते
तदर्धं प्रस्तरोत्सेधं युगांशांघ्रि तुङ्गकम् ॥४१॥
तदर्धं शिखरोत्तुङ्गं तदूर्ध्वे स्तुपिकमंशकम्
ग्रीवमञ्चोर्ध्वमंशेन यथेष्टाधिष्ठानसंयुतम् ॥४२॥
तदूर्ध्वे च द्विभागेन कर्णहर्म्यादिमण्डितम्
शेषं च कन्धरं प्रोक्तं पूर्ववत्समलङ्कृतम् ॥४३॥
अथवा हर्म्यतुङ्गे तु षोडशांशं विभाजिते
अधिष्ठानं द्विभागं स्यात्पादतुङ्गं युगांशकम् ॥४४॥
प्रस्तरं चाश्विनीभागं चोर्ध्वे भागं विशेषतः
मनुभागं युगांशं स्यात्प्रस्तरं च द्विभागिकम् ॥४५॥
तत्समं ग्रीवतुङ्गं स्याद्युगांशं शेखरोदयम्
तदर्धं स्तूपिकोत्तुङ्गं चाष्टवर्गमिति स्मृतम् ॥४६॥
मूलहर्म्यविशाले तु चाष्टभागं विभाजिते
षड्भागमूर्ध्वतले कुर्यात्तद्विस्तारमिति स्मृतम् ॥४७॥
ऊर्ध्वाङ्गं पूर्ववत्कुर्यात्सर्वालङ्कारसंयुतम्
तदेवाष्टांशकं चोर्ध्वे पादतुङ्गं द्वयांशकम् ॥४८॥
तदर्धं मञ्चतुङ्गं स्यात्तत्समं कन्धरोदयः
द्व्यर्धांशं शिखरोत्तुङ्गं चाध्यर्धांशं शिरोदयः ॥४९॥
ऊर्ध्वे पादोदये बन्धुभागमेकांश वेदिकम्
शेषं पूर्ववत्कुर्यादष्टवर्गविदो विदुः ॥५०॥
वेदवृद्ध्याष्टभागं स्याज्जन्मादिस्तूपिकान्तकम्
अधिष्ठान युगांशं स्यात्पादाधिक पालकांशकम् ॥५१॥
प्रस्तरोच्चं युगांशं स्यादूर्ध्वे पादं शरांशकम्
तदूर्ध्वे द्व्यंशमञ्चं स्याद्वेदिकोच्चं शिवांशकम् ॥५२॥
ग्रीवतुङ्गं द्विभागं स्याच्छिखरोच्चं वेदभागिकम्
स्तूपिकोच्चं द्विभागं स्यात्कर्णहर्म्यादिमण्डितम् ॥५३॥
एतदष्टविधं प्रोक्तमेकभूमिविधानके
विमानं समयं हर्म्यं चालयं वा चाधिष्ण्यकम् ॥५४॥
प्रासादं भवनं क्षेत्रं मन्दिरायतनं तथा
वेश्म च गृहमावासं क्षयं धाम सनातनम् ॥५५॥
वासं गेहमागारं वा सदनं वसितं गृहम्
निलयं तल कोष्ठं च स्थानं पर्यायवाचकम् ॥५६॥
विमानस्य तु विस्तारे त्रिभागं चांशकं गृहम्
हर्म्यतारे तु भूतांशं त्रियंशं गर्भगेहकम् ॥५७॥
गेहतारे तु सप्तांशं नालीतारं युगांशकम्
नालीतारं युगांशं स्याच्छरांशं गृहविस्तृतम् ॥५८॥
क्षयं व्यासं च रुद्रा शं! षड्भागं कोष्ठविस्तृतम्
सैकार्कभागविस्तारे सप्तांशे नालिके गृहम् ॥५९॥
पञ्चादशांशकं तारे साष्टांशं गर्भगेहकम्
विस्तारे च द्विभागे तु चैकांशं तुङ्गविस्मृतम् ॥६०॥
शेषं कुट्य विशालं स्याद्गर्भगेहावृतं तथा
अदातलभूरपि कोस्तास वितलान्तं मूलगृहम् ॥६१॥
अत्रगृह विमानविधिमाशाप गृहं नालिकाविक
विमानमिदमुक्तं स्याद् यमागतारानां गृहतारम् ॥६२॥
यत्तत्कुट्यविशालं तु द्वादशांश विभाजिते
पञ्चांशं तु बहिःकुर्यात् सान्त सप्तांशकं त्यजेत् ॥६३॥
तद्द्वयोर्मध्यदेशे तु वारथास्य मध्यमे
एतद्बहि स्थितस्तम्भं तदुच्चान्तरितोच्यते ॥६४॥
तत्पादमध्यमोच्यान्तमङ्गुलादङ्घ्रिमध्यमम्
एवं तु मध्यमं श्रेष्ठं हर्म्ये द्वारस्य योगतः ॥६५॥
क्षुद्र हर्म्ये तु युक्त्या च कुर्यात्तु शिल्पिवित्तमः
अन्तस्तम्भ विना वापि कुर्याद्बाह्यस्तु पादकम् ॥६६॥
विभजेत्पञ्चषष्टाष्टहर्म्यपादोदयं तथा
तत्तदेकांशहीनं स्याच्छुद्धद्वारोदयं भवेत् ॥६७॥
तदर्धं द्वारविस्तारं देवाणां हर्म्यमध्यमे
नागनन्दाङ्गुलारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥६८॥
एकहस्तावसानान्तं कन्यसादि त्रयं त्रयम्
द्वारपादस्य विस्तारं क्षुद्र हर्म्येषु योग्यकम् ॥६९॥
चतुर्विंशाङ्गुलं पञ्चविंशत्यङ्गुलमारभेत्
द्विद्व्यङ्गुलेन वृद्धिः स्यात्कन्यसादीनि पूर्ववत् ॥७०॥
चत्वारिंशाङ्गुलं चैकचत्वारिंशाङ्गुलान्तकम्
मध्यमं मानहर्म्ये तु द्वारपादस्य विस्तृतम् ॥७१॥
द्विहस्तं तु समारभ्य त्रित्र्! यंङ्गुलविवर्धनात्
तत्त्रिहस्ताविधिर्यावदधमादि त्रयं त्रयम् ॥७२॥
एवं तु द्वारपादं स्याद्विस्तारं चोत्तमालये
केचित्तु द्वारपादोच्चवशाद्द्वाराङ्घ्रिविस्तृतम् ॥७३॥
द्विहस्तं तु विशालं स्यात्समं वा बहुलं भवेत्
तदर्धं वा त्रयांशैकं द्वारपादस्य तत्तथा ॥७४॥
द्वारायामसमं पादौ चोर्ध्वयो पट्टिकाघनौ
सहैव विस्तृतं दीर्घं पादयुक्त्या प्रयोजयेत् ॥७५॥
देवभूसुरभूपानां सामन्तप्रमुखादीनाम्
योन्यं कवाटयुग्मं च श्रेष्ठं मध्यं च हर्म्यके ॥७६॥
अन्तर्वापि बहिर्वापि घाटनं कीलसंयुतम्
द्वारपादं च बाह्ये तु सर्वालङ्कारसंयुतम् ॥७७॥
द्वारोर्ध्वे द्वारपार्श्वे तु कुर्यात्तु द्वारदेवताम्
कवाटद्वारदेवानां स्पृष्टदोषं समावहेत् ॥७८॥
तस्मात्परिहरेच्छिल्पी चान्तस्तम्भं प्रयोजयेत्
जन्मादि पट्टिकान्तं च पञ्चांशं तु यथाविधि ॥७९॥
देवतास्थापनं कुर्याद्बाह्ये नालं प्रयोजयेत्
मसूराणां स्थानं स्यादनर्थं विप्रनालिका ॥८०॥
विस्तारायाममुत्सेधं लम्बनं वक्ष्यतेऽधुना
अष्टपङ्क्तिस्तथा भानुर्मनु षोडशकाङ्गुलम् ॥८१॥
पञ्चधा रुचितं नालं विस्तारं परिकीर्तितम्
वितस्त्याः स्तूपिहस्तान्तं पञ्चधायाममीरितम् ॥८२॥
एतत्क्षुद्रा विमाने तु मध्यदेशस्य वामके
पूर्वदिक्चोत्तरे वापि युक्त्या नालं प्रयोजयेत् ॥८३॥
यथापुर्वोक्तमाने तु तदूर्ध्वे च गुणांशकम्
मध्यमे चोत्तमे हर्म्यं दन्तनालं प्रमाणकम् ॥८४॥
यथाधिष्ठानतुङ्गं तत्समं नालोदयं भवेत्
उत्सेधे च त्रिभागैकं तस्याधो चाग्रलम्बनम् ॥८५॥
नालमूलविशाले तु भूतभागं विभाजिते
त्रयांशं चाग्रविस्तारं लम्बनं पञ्चभागिकम् ॥८६॥
कुड्मलोच्च त्रिभागं स्यात्पद्ममेकेन कारयेत्
तदूर्ध्वे वाजनं चांशं युक्त्या च समलङ्कृतम् ॥८७॥
धराय वाध वृत्तं वा भद्र तारं स्वलङ्कृतम्
एकद्वित्र्! यङ्गुलं वापि चतुष्पञ्चाङ्गुलेन वा ॥८८॥
मूलविस्तारमुत्सेधं युक्त्याच्छिद्रं प्रकल्पयेत्
मूलपादत्र्! यंशेन चाग्रे छिद्रं विशालकम् ॥८९॥
मूले तुङ्गं स वक्त्रं स्यात्तदा स्यान्निर्गमोदयम्
रम्भानालं प्रसूनाभं कुर्यात्तच्छिल्पिवित्तमः ॥९०॥
शीर्षं च शिखा ग्रीवं वृत्तं स्याद्वैजयन्तिकम्
तदेव कर्णकूटं चेद्वा भोगमिति कीर्तितम् ॥९१॥
तन्मध्ये भद्र संयुक्तं श्रीविशालमिति स्मृतम्
तदष्टाश्रं शीर्षं स्यात्स्वस्तिबन्धमिति स्मृतम् ॥९२॥
तदवं चतुरश्रं चेच्छिखरं श्रीकरं भवेत्
तद्द्व्यश्रवृत्तसंयुक्तं हस्तिपृष्ठमुदाहृतम् ॥९३॥
शिरो ग्रीवे षडश्रं स्यात्स्कन्धतारमिहोच्यते
मध्ये भद्र विशालं स्यात्कर्ण कूटोपसंयुतम् ॥९४॥
तच्छालाभद्र नास्यङ्गं शिरो ग्रीवं तु वृत्तकम्
अथवा चतुरश्रं स्यात्केसरं तत्प्रकथ्यते ॥९५॥
तदेवाकारमायामं तत्तन्नाम्ना प्रकीर्तितम् ॥९६॥
एवं प्रोक्तं हर्म्यके मध्यभद्रं
शालाकोष्ठं दिग्विदिक् कूटयुक्ता
हारा श्रान्ता नासिका पञ्जराढ्यं
कुर्यात्सर्वं वेदिकाभद्र युक्तम् ॥९७॥
हर्म्यतारसमं चतुरंशकं तत्त्रिपादमर्धमथापि च
कुड्यतारसमादि यथाक्रमम्
कन्यसं त्रिविधं मुखमण्डपम्
तन्मुखमण्डप मुख्यविमाने ॥९८॥
मध्यविमानस मण्डपपार्श्वे
अम्बरं दण्डमथ द्वयदण्डम्
हर्म्यवशादुपवेशनयुक्तम्
यत्तत्क्षुद्र विमाने तन्मुखे मण्डपं स्यात् ॥९९॥
तद्द्वयोर्मध्यदेशे चैकाद्यर्धं हस्तविस्तारम्
अथवा त्रिपादहस्तं स्यात् प्रासादार्धमथ कथितम् ॥१००॥
एकद्वित्रिदण्डं वा चान्तरालस्य वेशनं स्यात्
कुम्भे स्तम्भसहितनासिका पञ्जरयुक्तमेव वा ॥१०१॥
शालापञ्जरयुक्तं तोरणैः समलङ्कृत्य युक्त्या
एकद्वित्रिचतुर्हस्त्या स्तम्भयुक्तमिति कथितम् ॥१०२॥
अथवा द्वारयुतं पूर्ववद्द्वारमानेन कुर्यात्
तद्द्वारमुखसोपानं हस्तिहस्तेन भूषितं सम्यक् ॥१०३॥
युग्ममण्डपदेशे तत्सममूलेवमलङ्कृत्य
अन्यमण्डपदेशे यन्मानोरम्यमलङ्कृत्य ॥१०४॥
मण्डपे प्रस्तरस्योर्ध्वे कर्णहर्म्यादिमण्डितम्
यत्तन्नामान्तरालं चोर्ध्वे नासिकाजालपञ्जरं वापि ॥१०५॥
तत्तन्मण्डपमध्ये प्रासादवशाद्द्वारं संकल्प्यम्
पूर्ववत्कवाटयुक्तं मण्डपस्यान्तः सकीलयुक्तम् ॥१०६॥
तत्तद्बहिर्द्वारदेवा न्यसेदेतद्द्वारपार्श्वयोश्चैव
नन्दिमहाकालादौ चोक्तवद् द्वारदेवा न्यसेत् ॥१०७॥
मण्डपे दक्षिणे कोष्ठे नृत्तयुक्तैव विनायकमुक्तम्
मण्डपसौम्यकोष्ठे स्थानदुर्गयुक् स्थापयेत्तत्स्थम् ॥१०८॥
प्रासाददक्षिणे मध्यकोष्ठे व्यानदक्षिणामूर्तिम्
तदूर्ध्वे ग्रीवकोष्ठे गेयमूर्तिं वीरभद्रं वापि ॥१०९॥
पश्चिममूलतले मध्ये कोष्ठे लिङ्गमुद्भूतम्
अथवार्धनारीश्वर स्थानकं विष्णुं स्थापयेद्वापि ॥११०॥
तदूर्ध्वे ग्रीवकोष्ठे तु केशवनृसिंहाच्युतासीनम्
सौम्यके मूलतले कोष्ठे स्थानकं चतुर्मुखं स्यात् ॥१११॥
तदूर्ध्वे ग्रीवकोष्ठेऽथ नदं कमलं वापि
पूर्वे गलदेशे मध्यकोष्ठे गुहं गजारूढम् ॥११२॥
निशापतिं वाथ सर्वया तत्तद्देव्या सहासनमुक्तम्
इन्द्र स्य दक्षिणद्वारात्परितः षोडशविग्रहं कुर्यात् ॥११३॥
प्रस्तरोपरि देशे कोणे कोणे स्थापयेद्वृषभम्
कर्णैकमेकमूर्ध्वं च द्वयं वाथ वृषभसंयुक्तम् ॥११४॥
एकानेकतलं सर्वमेतद्देवान्पुराणसंयुक्तम्
एवं शिवहर्म्याणां योग्यं विनोदमन्यदेवानाम् ॥११५॥
तत्तद्द्वारमुक्तं एकानेकतलोपेतं सर्वम्
अथवा विष्णुविमाने देवस्थापनं वक्ष्यामः ॥११६॥
द्वारे चण्डप्रचण्डौ च मण्डपयाम्ये वनितम्
प्रागुक्तवत्सौम्यदेशे विमाने पूर्ववद्देवतां वापि ॥११७॥
हरिं वा गरुडं वा कुर्यात्पुरतोक्तचतुष्कोणे
शयनं वासनं सिंहं तार्क्ष्यं कृताञ्जल्यासनयुक्तम् ॥११८॥
पोत्री नृसिंहमथ केशवमश्वत्थं कर्णात्पूर्वादिदिक्षु चतुर्षु
पूर्वकान्तहर्म्येकभूमिगलदेशमिति प्रतिष्ठां कुर्यात् ॥११९॥
दुर्गमभिमथासनमच्युतं वा
प्राच्यां दिशि द्वितलहर्म्ये गलप्रदेशे
श्रीमाधवं नरहरिं कृत दक्षिणे च
नारायणं चाथ पश्चिमदिक् प्रदेशे ॥१२०॥
क्रोडं चोत्तर जनार्दनहर्म्यके तत्
त्रितले पूर्वदिग्देशे ग्रीवे तच्छ्रीधरं न्यसेत् ॥१२१॥
उत्तरे वासुदेवं चाथवान्यसंकर्षणं स्मृतम्
अनिरुद्धं पश्चिमदेशे चोर्ध्वे वा तदधो तले ॥१२२॥
एवं तु चोक्तवत्कृत्वा बौद्धादिजिनकालयम्
तत्तद्विमानयोर्ध्वे तु तत्तद्देवान्न्यसेत्क्रमात् ॥१२३॥
अन्येषां देवदेवीनां विमाने तत्तद्विधानतः
सर्वेषां हर्म्यके कुर्यात्तत्तद्वाहनमीरितम् ॥१२४॥
शयनं वासनं वापि प्रस्तरस्योपरि न्यसेत्
एवं तत्प्रोक्तवत्कुर्याद्धर्म्यं तत्सम्पदांपदम् ॥१२५॥
एकभूमिं कुर्यादधिकं चोपपीठ रुचिरार्थं संयुतम्
सोपपीठभवनैर्युतं तु वा कारयेत्तु कथितं पुरातनैः ॥१२६॥
एवं सर्वहर्म्यालङ्कारयुक्त्या
नानापादैर्वेदिकातारमञ्चम्
हीनाधिक्यं चेद्विनाशनं तस्मात्
कुर्यात्सर्वं चोक्तवत्सम्पदार्थम् ॥१२७॥
इति मानसारे वास्तुशास्त्रे एकभूमिविधानं नाम एकोनविंशोऽध्यायः
N/A
References : N/A
Last Updated : October 02, 2022
TOP