संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ श्रीगायत्रीपंजरस्तोत्रम् श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ श्रीगायत्रीपंजरस्तोत्रम् श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ श्रीगायत्रीपंजरस्तोत्रम् Translation - भाषांतर भगवंतं देवदेवं ब्रह्माणं परमेष्ठिनम् ॥ विधातारं विश्वसृजं पद्मयोनिं प्रजापतिम् ॥१॥शुद्धस्फटिकसंकाशं महेन्द्रशिखरोपमम् ॥ बद्धपिंगजटाजूटं तडीत्कनककुण्डलम् ॥२॥शरच्चंद्राभवदनं स्फुरदिन्दीवरेक्षणम् ॥ हिरण्मयं विश्वरूपमुपवीताजिनावृतम् ॥३॥मौत्किकाभाक्षवलयस्तंत्रीलयसमन्वितः ॥ कर्पूरोद्धूलिततनुः स्रष्टुर्नयनवर्द्धनम् ॥४॥विनयेनोपसंगम्य शिरसा प्रणिपत्य च ॥ नारदः परिपप्रच्छ देवर्षिगणमध्यगः ॥५॥नारद उवाच ॥ भगवन्देवदेवेश सर्वज्ञ करुणानिधे ॥ श्रोतुमिच्छामि प्रश्नेन भोगमोक्षैकसाधनम् ॥६॥ऐश्वर्यस्य समग्रस्य फलदं द्वंद्ववर्जितम् ॥ ब्रह्महत्यादिपापघ्नं पापाद्यरिभयापहम् ॥७॥यदेकं निष्कलं सूक्ष्मं निरंजनमनामयम् ॥ यत्ते प्रियतमं लोके तन्मे ब्रूहि पितर्मम ॥८॥ब्रह्मोवाच ॥ शृणु नारद वक्ष्यामि ब्रह्ममूलं सनातनम् ॥ सृष्ट्यादौ मन्मुखे क्षिप्तं देवदेवेन विष्णुना ॥९॥प्रपंचबीजमित्याहुरुत्पत्तिस्थितिहेतुकम् ॥ पुरा मया तु कथितं कश्यपाय सुधीमते ॥१०॥सावित्रीपंजरं नाम रहस्यं निगमत्रये ॥ ऋष्यादिकं च दिग्वर्णं सांगावरणकं क्रमात् ॥११॥वाहनायुधमंत्रास्त्रं मूर्तिध्यानसमन्वितम् ॥ स्तोत्रं शृणु प्रवक्ष्यामि तव स्नेहाच्च नारद ॥१२॥ब्रह्मनिष्ठाय देयं स्याददेयं यस्य कस्यचित् ॥ आचम्य नियतः पश्चादात्मध्यानपुरःसरम् ॥१३॥ओमित्यादौ विचिंत्याथ व्योमहेमाब्जसंस्थितम् ॥ धर्मकंदगतज्ञानमैश्वर्याष्टदलान्वितम् ॥१४॥वैराग्यकर्णिकासीनां ब्रणवग्रहमध्यगाम् ॥ ब्रह्मवेदिसमायुक्तां चैतन्यपुरमध्यगाम् ॥१५॥तत्त्वहंससमाकीर्णां शब्दपीठे सुसंस्थिताम् ॥ नादबिंदुकलातीतां गोपुरैरुपशोभिताम् ॥१६॥विद्याविद्यामृतत्वादिप्रकारैरभिसं वृताम् ॥ निगमार्गलसंछन्नां निर्गुणद्वारवाटिकाम् ॥१७॥चतुवर्गफलोपेतां महाकल्पवनैर्वृताम् ॥ सांद्रानंदसुधासिंधुनिगमद्वारवाटिकाम् ॥१८॥ध्यानधारणयोगादितृणगुल्मलतावृताम् ॥ सदसच्चित्स्वरूपाख्यमृगपक्षिसमाकुलाम् ॥१९॥विद्याविद्याविचारत्वाल्लोकालोकाचलावृताम् ॥ अविकारसमाश्लिष्टनिजध्यानगुणावृताम् ॥ पंचीकरणपंचोत्थभूततत्त्वनिवेदिताम् ॥२०॥वेदोपनिषदर्थाख्यदेवर्षिगणसेविताम् । इतिहासग्रहगणैः सदारैरभिवंदिताम् ॥२१॥गाथाप्सरोभिर्यक्षैश्च गणकिंनरसेविताम् ॥ नारसिंहपुराणाख्यैः पुरुषैः कल्पचारणैः ॥२२॥कृतगानविनोदादिकथालापनतत्पराम् ॥ तदित्यवाङ्मनोगम्यतेजोरूपधरां परम् ॥२३॥जगतः प्रसवित्रीं तां सवितुः सृष्टिकारिणीम् ॥ वरेण्यमित्यन्नमयीं पुरुषार्थफलप्रदाम् ॥२४॥अविद्यावर्णवर्ज्यां च तेजोवद्गर्भसंज्ञिकाम् ॥ देवस्य सच्चिदानंदपरब्रह्मरसात्मिकाम् ॥२५॥धीमह्यहं सवैतद्वद्ब्रह्माद्वैतस्वरूपिणीम् ॥ धियो यो नस्तु सविता प्रचोदयादुपासिताम् ॥२६॥परोसौ सविता साक्षादेनोनिर्हरणाय च ॥ परो रजस इत्यादि परं ब्रह्मसनातनम् ॥२७॥आपो ज्योतिरिति द्वाभ्यां पांचभौतिकसंज्ञकम् ॥ रसोऽमृतं ब्रह्मपदैस्तां नित्यां तपिनीं पराम् ॥२८॥भूर्भुवः सुवरित्येतैर्निगमत्वप्रकाशिकाम् ॥ महर्जनस्तपः सत्यलोकोपरि सुसंस्थिताम् ॥२९॥तादृगस्याविराड्रूपकिरीटवरराजिताम् ॥ व्योमकेशालकाकाशरहस्यं प्रवदाम्यहम् ॥३०॥मेघभ्रुकुटिकाक्रांतविधिविष्णुशिवार्चिताम् ॥ गुरुभार्गवकर्णांतां सोमसूर्याग्निलोचनाम् ॥३१॥इलापिंगलसूक्ष्माभ्यां वायुनासापुटान्विताम् ॥ संध्याद्विरोष्ठपुटितां लसद्वाग्भूपजिह्विकाम् ॥३२॥संध्यासौ द्युमणे कंठलसद्बाहुसमन्विताम् ॥ पर्ज्जन्यहृदयासक्तवसुसुस्तनमंडलाम् ॥३३॥आकाशोदरवित्रस्तनाभ्यवान्तरदेशकाम् ॥ प्राजापत्याख्यजघनां कटींद्राणीतिसंज्ञिकाम् ॥३४॥ऊरूमलयमेरुभ्यां शोभमानाऽसुरद्विषम् ॥ जानुनीजह्नुकुशिकवैश्वदेवसदाभुजाम् ॥३५॥अयनद्वयजंघाद्यं खुराद्यपितृसंज्ञिकाम् ॥ पदांघ्रिनखरोमाद्यभूतलद्रुमालंछिताम् ॥३६॥ग्रहराश्यृक्षदेवर्षिमूर्तिं च परसंज्ञिकाम् ॥ तिथमासर्तुवर्षाख्यसुकेतुनिमिषात्मिकाम् ॥३७॥अहोरात्रार्द्धमासाख्यां सूर्याचंद्रमसात्मिकाम् ॥ मायाकल्पितवैचिव्यसंध्याच्छादनसंवृताम् ॥३८॥ज्वलत्कालानलमख्यां तडित्कोटिसमप्रभाम् ॥ कोटीसूर्यप्रतीकाशां चंद्रकोटीसुशीतलाम् ॥३९॥सुधामंडलमध्यस्थां सांद्रनंदाऽमृतात्मिकाम् ॥ प्रागतीतां मनोगम्यां वरदां वेदमातरम् ॥४०॥चराचरमयीं नित्यां ब्रह्माक्षरसमन्विताम् ॥ ध्यात्वा स्वात्मनिभेदेन ब्रह्मपंजरमारभेत् ॥४१॥पंजरस्य ऋषिश्चाहं छंदो विकृतिरुच्यते ॥ देवता च परो हंसः परब्रह्माधिदेवता ॥४२॥प्रणवो बीजशक्तिः स्यादोंकीलकमुदाहृतम् ॥ तत्तत्त्वं धीमहि क्षेत्रं धियोऽस्त्रं यः परं पदम् ॥४३॥मंत्रमापो ज्योतिरिति योनिर्हंसः सबंधकम् ॥ विनियोगस्तु सिद्ध्यर्थं पुरुषार्थचतुष्टये ॥४४॥ततस्तैरंगषट्कं स्यात्तैरेव व्यापकत्रयम् ॥ पूर्वोक्तदेवतां ध्यायेत्साकारगुणसंयुताम् ॥४५॥पंचवक्त्रां दशभुजां त्रिपंचनयनैर्युताम् ॥ मुक्ताविद्रुमसौवर्णां सिततशुभ्रसमाननाम् ॥४६॥वाणीं परां रमाम मायां चामरैर्दर्पणैर्युताम् ॥ षडंगदेवतामंत्रै रूपाद्यवयवात्मिकाम् ॥४७॥मृगेंद्रवृषपक्षींद्रमृगहंसासने स्थिताम् ॥ आर्द्धेन्दुबद्धमुकुटकिरीटमणीकुंडलाम् ॥४८॥रत्नतातंकमांगल्यपरग्रैवेयनूपुराम् ॥ अंगुलीयककेयूरकंकणाद्यैरलंकृताम् ॥४९॥दिव्यस्रग्वस्त्रसंछन्नरविमण्डलमध्यगाम् ॥ वराभय्याब्जयुगलां शंखचक्रगदांकुशान् ॥५०॥शुभ्रं कपालं दधतीं वहंतीमक्षमालिकाम् ॥ गायत्रीं वरदां देवीं सावित्रीं वेदमातरम् ॥५१॥आदित्यपथगामिन्यां स्मरेद्ब्रह्मस्वरूपिणीम् ॥ विचित्रमंत्रजननीं स्मरेद्विद्यां सरस्वतीम् ॥५२॥त्रिपदा ऋङ्मयी पूर्वामुखी ब्रह्मास्त्रसंज्ञिका ॥ चतुर्विंशतितत्त्वाख्या पातु प्राचीं दिशं मम ॥५३॥चतुष्पादयजुर्ब्रह्मदंडाख्या पातु दक्षिणाम् ॥ षट्त्रिंशत्तत्त्वयुक्ता सा पातु मे दक्षिणां दिशम् ॥५४॥प्रत्यड्मुखी पंचपदी पंचाश्तत्तरूपिणी ॥ पातु प्रतीचीमनिशं सामब्रह्मशिरोंऽकिता ॥५५॥सौम्या ब्रह्मस्वरूपाख्या साथर्वांगिरसात्मिका ॥ उदीचीं षट्पदा पातु चतुष्षष्टिकलात्मिका ॥५६॥पंचाशत्तत्त्वचर्चिता भवपादा शताक्षरी ॥ व्योमाख्या पातु मे चोर्ध्वां दिशं वेदांगसंस्थिता ॥५७॥विद्युन्निभा ब्रह्मसंज्ञा मृगारूढा चतुर्भुजा ॥ चापेषुचर्मासिधरा पातु मे पावकीं दिशम् ॥५८॥ब्राह्मी कुमारी गायत्री रक्तांगी हंसवाहिनी ॥ बिभ्रत्कमण्डल्वक्षस्रक्स्रुवान्मे पातु नैरृतीम् ॥५९॥चतुर्भुजा वेदमाता शुक्लांगी वृषवाहिनी ॥ वराभयकपालाक्षस्रग्विणी पातु वारुणीम् ॥६०॥श्यामा सरस्वती वृद्धा वैष्णवी गरुडासना ॥ शंखाराब्जाभयकरा पातु शैवीं दिशं मम ॥६१॥चतुर्भुजा वेदमाता गौरांगी सिंहवाहना ॥ वराभयाब्जयुगलैर्भुजैः पात्वधरां दिशम् ॥६२॥तत्तत्पार्श्वस्थिताः स्वस्थवाहनायुधभूषणाः ॥ स्वस्वदिक्षु स्थिताः पांतु ग्रहशक्त्यंगदेवताः ॥ मंत्राधिदेवतारूपा मुद्राधिष्ठानदेवता ॥६३॥व्यापकत्वेन पात्वस्मानापादतलमस्तकी ॥ तत्पदं मे शिरः पातु भालं मे सवितुः पदम् ॥६४॥वरेण्यं मे दृशौ पातु श्रुती भर्गः सदा मम ॥ घ्राणं देवस्य मे पातु पातु धीमह इमे मुखम् ॥६५॥जिह्वां मम धियः पांतु कंठं मे पातु यः पदम् ॥ नः पदं पातु मे स्कंधौ भुजौ पातु प्रचोदयात् ॥६६॥करौ मे च परः पातु पादौ मे रजसेऽवतु ॥ असौ मे हृदयं पातु मम मध्यमदावतु ॥६७॥ओं मे नाभिं सदा पातु कटिं मे पातु मे सदा ॥ ओमापः सक्थिनी पातु गुह्यं ज्योतिः सदा मम ॥६८॥ऊरू मम रसः पातु जानुनी अमृतं मम ॥ जंघे ब्रह्मपदं पातु गुल्फौ भूः पातु मे सद ॥६९॥पादौ मम भुवः पातु सुवः पात्वखिलं वपुः ॥ रोमाणि मे महः पातु रोमकं पातु मे जनः ॥७०॥प्राणांश्च धातुतत्त्वानि तदीशः पातु मे तपः ॥ सत्यं पातु ममायूंषि हंसो बुद्धिं च पातु मे ॥७१॥शुचिषत्पातु मे शुक्रं वसुः पातु श्रियं मम ॥ मतिं पात्वंतरिक्षसद्धोता दानं च पातु मे ॥७२॥वेदिषत्पातु मे विद्यामतिथिः पातु मे गृहम् ॥ धर्मं दुरोणसत्पातु नृषुत्पातु सुतान्मम ॥७३॥वरसत्पातु मे भार्यामृतसत्पातु मे सुतान् ॥ व्योमसत्पातु मे बंधून् भ्रातॄनब्जाश्च पातु मे ॥७४॥पशून्मे पातु गोजाश्च ऋतजाः पातु मे भवम् ॥ सर्वं मे अद्रिजाः पातु यानं मे पात्वृतं सदा ॥७५॥अनुक्तमथ यत्स्थानं शरीरेंतर्बहिश्च यत् ॥ तत्सर्वं पातु मे नित्यं हंसः सोहमहर्निशम् ॥७६॥इदं तु कथितं सम्यङ्मया ते ब्रह्मपंजरम् ॥ संध्ययोः प्रत्यहं भक्त्या जपकाले विशेषतः ॥७७॥धारयेद् द्विजवर्यो यः श्रावयेद्वा समाहितः ॥ स विष्णुः स शिवः सोऽहं सोऽक्षरः स विराट् स्वराट् ॥७८॥शताक्षरात्मकं देव्यां नामाष्टाविंशतिः शतम् ॥ शृणु वक्ष्यामि तत्सर्वमति गुह्यं सनातनम् ॥७९॥भूतिदा भुवना वाणी वसुधा सुमना मही ॥ हरिणी जननी नंदा सविसर्गा तपस्विनी ॥८०॥पयस्विनी सती त्यागा चैंदवी सत्यवी रसा ॥ विश्वा तुर्य्या परा रेच्या निर्घृणी यमिनी भवा ॥८१॥गोवेद्या च जरिष्ठा च स्कंदिनी धीर्मतिर्हिमा ॥ भीषणा योनिनी पक्षी नदी प्रज्ञा च चोदिनी ॥८२॥धनिनी यामिनी पद्मा रोहिणी रमणी ऋषिः ॥ सेनामुखी सामयी च बकुला दोषवर्जिता ॥८३॥सर्वकामदुधा सोमोद्भवाऽहंकारवर्जिता ॥ द्विपदा च चतुष्पादा त्रिपदा चैव षट्पदा ॥८४॥अष्टापदी नवपदी सा सहस्राक्षरात्मिका ॥ इदं यः परमं गुह्यं सावित्रीमंत्रपंजरम् ॥८५॥नामाष्टविंशतिशतं शृणुयाच्छ्रावयेत्पठेत् ॥ मर्त्यानाममृतत्वाय भीतानामभयाय च ॥८६॥मोक्षाय च मुमुक्षूणां श्रीकामानां श्रिये सदा ॥ विजयाय युयुत्सूनां व्याधितानामरोगकृत् ॥८७॥वश्याय वश्यकामानां विद्यायै वेदकामिनाम् ॥ द्रविणाय दरिद्राणां पापिनां पापशांतये ॥८८॥वादिनां वादविजये कवीनां कविताप्रदम् ॥ अन्नाय क्षुधितानां च स्वर्गाय नाकमिच्छताम् ॥८९॥पशुभ्यः पशुकामानां पुत्रेभ्यः पुत्रकांक्षिणाम् ॥ क्लेशिनां शोकशांत्यर्थं नृणां शत्रुभयाय च ॥९०॥राजवश्याय द्रष्टव्यं पंजरं नृपसेविनाम् ॥ भक्त्यर्थं विष्णुभक्तानाम विष्णौ सर्वांतरात्मनि ॥९१॥नायकं विथिसृष्टानां शांतये भवति ध्रुवम् ॥९२॥जप्यं त्रिवर्गसंयुक्तं गृहस्थेन विशेषतः ॥ मुनीनां ज्ञानसिद्ध्यर्थं यतीनाम मोक्षदिद्धये ॥९३॥उद्यतं चंद्रकिरणमुपस्थान कृतांजलिः ॥ कानने वा स्वभवने तिष्ठञ्छुद्धो जपेदिदम् ॥९४॥सर्वान्कामानवाप्नोति तथैव शिवसंनिधौ ॥ मम प्रीतिकरं दिव्यं विष्णुभक्तिविवर्द्धनम् ॥९५॥ज्वरार्तानां कुशाग्रेण मार्जयेत्कुष्ठरोगिणाम् ॥ अंगमंगं यथालिंगं कवचेन तु साधकः ॥९६॥मंडलेन विशुद्ध्येत सर्वरोगैर्न संशयः ॥ मृतप्रजा च या नारी जन्मवंध्या तथैव च ॥९७॥कन्या दिवंध्या या नारी तासामंगं प्रमार्जयेत् ॥ पुत्रानरोगिणस्तास्तु लभंते दीर्घजीविनः ॥९८॥तास्ताः संवत्सरादर्वाग्गर्भं तु दधिरे पुनः ॥ पतिविद्वेषिणी या स्त्री अंगं तस्याह प्रमार्जयेत् ॥९९॥तमेव भजते सा स्त्री पतिं कामवशं नयेत् ॥ अश्वत्ये राजवश्यार्थं बिल्वमूले स्वरूपभाक् ॥१००॥पालाशमूले विद्यार्थी तेजसाभिमुखो रवौ ॥ कन्यार्थी चंडिकागेहे जपेच्छत्रुभयाय च ॥१०१॥श्रीकामो विष्णुगेहे च उद्याने श्रीर्वशी भवेत् ॥ आरोग्यार्थे स्वगेहे च मोक्षार्थी शैलमस्तके ॥१०२॥सर्वकामो विष्णुगेहे मोक्षार्थी यत्र कुत्रचित् ॥ जपारंभे तु हृदयं जपांते कवचं पठेत् ॥१०३॥किमत्र बहुनोक्तेन शृणु नारद तत्त्वतः ॥ यं यं चिंतयते नित्यं तं तं प्राप्नोति निश्चितम् ॥१०४॥॥ इति श्रीमद्वसिष्ठसंहितायां ब्रह्मनारदसंवादे श्रीगायत्रीपंजरस्तोत्रं संपूर्णम् ॥ N/A References : N/A Last Updated : December 14, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP