संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ आचार्याद्यृत्विग्वरणप्रयोगः श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ आचार्याद्यृत्विग्वरणप्रयोगः श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ आचार्याद्यृत्विग्वरणप्रयोगः Translation - भाषांतर तत आचार्याद्यृत्विजां वरणार्थमेकस्मिन्पात्रे आपः क्षीरमित्याद्यष्टद्रव्याण्येकीकृत्य तत्राचारात्फलं हिरण्यञ्च प्रक्षिप्य द्वितीयेन पात्रेण तत्पात्रं पिधाय रक्तसूत्रेणावेष्ट्य सपत्नीको यजमानः उदङ्मुखो भूत्वा प्राड्मुखैराचार्यादिभिर्दत्तं तदर्घपात्रं गृहीत्वोत्थायोदड्मुख एव तिष्ठेतु ॥ ततः सर्वे आचार्याद्यृत्विजः ‘ आशुः शिशान ’ इति द्वादशर्चमप्रतिरथसूक्तम् ‘ आनोभद्राः ’ इत्यनुवाकं ‘ द्यौः शान्तिरि’ति कण्डिकां वा जपेयुः ॥ तत उदङ्मुखो यजमानः प्राङ्मुखोपविष्टान्ब्राह्मणान्प्रार्थयेत् ॥ ( सुमुहूर्तादि कर्तव्यं शोभने मण्डपे द्विजैः ॥ शान्तिपाठोऽर्घदानं च पृच्छापूर्वं समाचरेत् ॥ ) ॐ आदित्याद्या ग्रहाः सर्वे राहुकेतुपुरःसराः ॥ ग्रहदेवाधिदेवैश्च नक्षत्राणां च दैवतैः ॥१॥इन्द्रादिभिश्च दिक्पालैर्ब्रह्मविष्णुमहेश्वरैः ॥ वास्तुदुर्गागणेशैश्च क्षेत्रपालादिसंयुतैः ॥२॥भूम्यन्तरिक्षदेवैश्च कुलदेवैश्च मातृभिः ॥ चतुर्भिश्चैव वेदैश्च रुद्रेण सहितैस्तथा ॥३॥सागरा द्वीपपातालान्यूर्ध्वलोकसुरैः सह ॥ पर्वता ऋषयः सर्वे गंगाद्याः सरितो द्रुमाः ॥४॥मन्त्राधिष्ठितदेवैश्च ब्रह्मन्नाचार्य ऋत्विजः ॥ आयुरारोग्यपुत्रादिसुखश्रीप्राप्तये मम ॥५॥आपद्विघ्नविनाशाय शत्रुबुद्धिक्षयाय च ॥ विशेषकाम्यहोमेन सहितं समिधादिभिः ॥६॥स्वागतं वो द्विजश्रेष्ठा मदनुग्रहकारकाः ॥ अयमर्घ इदं पाद्यं भवद्भिः प्रतिगृह्यताम् ॥७॥चरणक्षालनाद्देवास्तुष्यन्ति शुद्धमानसाः ॥ तज्जलेनैव संसिक्ताः पूर्णकामा भवन्तु मे ॥८॥इमं वोऽर्घं प्रयच्छामि गृह्णन्तु प्रीतमानसाः ॥ पावयन्तु च मां नित्यं पूरयन्तु मनोरथान् ॥९॥इति सर्वान्प्रार्थयेत् ॥ ततः ‘ अर्घोऽर्घोऽर्घः ’ इति केनचिद्विप्रेणोक्ते सति यजमानः ‘ प्रतिगृह्यतामि’ति वदन् अर्घपात्रं ब्राह्मणहस्ते दद्यात् ॥ ‘ प्रतिगृह्णीम ’ इति विप्रा वदेयुः ॥ ततो यजमानः सपत्नीक उदङ्मुख एवोपविश्य तत आचार्यं कर्तुं योग्यस्य प्रा xखोपविष्टस्य विप्रस्य साक्षतेन पाणिना दक्षिणजानु आलभ्य स्वगोत्रोच्चारपूर्वकं तं वृणुयात् ॥ तद्यथा । “ अमुकगोत्रोत्पन्नः अमुकप्रवरान्वितः अमुकोऽहम् ” “ अमुकगोत्रोत्पन्नम् अमुकप्रवरान्वितं शुक्लयजुर्वेदान्तर्गतवाजिमाध्यान्दिनीयशाखाध्यायिनम् अमुकशर्माणं ब्राह्मणम् अस्मिन्सग्रहमखगायत्रीपुरश्चरणकर्मणि आचार्यत्वेन त्वामहं वृणे ” इति वदन् अक्षतान्ब्राह्मणहस्ते दद्यात् । ततो विप्रो यजमानेन दत्तानक्षतान्गृहीत्वा ‘ वृतोऽस्मी’ति वदेत् ॥ ॐ व्व्रतेन दीक्क्षामाप्प्नोति दीक्क्षयाप्प्नोति दक्क्षिणाम् । दक्क्षिणाश्श्रद्धामाप्प्नोतिश्श्रद्धयासत्त्यमाप्प्यते ॥३०/१९॥ ततो यजमानो वृतायाचार्याय एतत्ते पाद्यं पादप्रक्षालनम् एष तेऽर्घः इति पाद्यं हस्ते अर्घं च दत्वा गन्धादिभिस्तं संपूज्याचारात् रक्तसूत्रेणाचार्यहस्ते कङ्कणबन्धनं कुर्यात् ॥ ॐ यदाबद्ध्नन्दाक्षायणाहिरण्ण्यxशतानीकाय सुमनस्यमानाx ॥ तन्न्मऽआवद्ध्नामिशतशारदायायुष्म्माञ्जरदष्ट्टिर्य्यथासम् ॥५२/३४॥ ततो प्रार्थयेत् । आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः । तथा त्वं मम यज्ञेऽस्मिन् आचार्यो भव सुव्रत ॥ ‘ भवामी’त्याचार्यो वदेत् ॥ ॐ बृहस्प्पतेऽअतियदर्य्यो० ॥३/२६॥ ततो ब्रह्माणं वृणुयात् ॥ यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् ‘ अमुकगोत्रोत्पन्नम् अमुकप्रवरान्वितं शुक्लयजुर्वेदान्तर्गतवाजिमाध्यन्दिनीयशाखाध्यायिनम् अमुकशर्माणं ब्राह्मणम् अस्मिन्सग्रहमखगायत्रीपुरश्चरणकर्मणि ब्रह्मत्वेन त्वामहं वृणे ’ इत्युक्त्वा विप्रहस्तेऽक्षतान्दद्यात् । अक्षतानादाय ‘ वृतोऽस्मी’ति विप्रो वदेत् ॥ ॐ व्व्रतेनं दीक्षा० । यजमानः ‘ वृताय ब्रह्मणे एत्तत्ते पाद्यं पादप्रक्षालनम्, एष तेऽर्घः ’ इत्युक्त्वा हस्ते अर्घं दत्त्वा गन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात् ॥ ॐ यदा बद्ध्नन्दाक्षायणा० ॥ ततः प्रार्थयेत् ॥ यथा चतुर्मुखो ब्रह्मा सर्वलोकपितामहः । तथा त्वं मम यज्ञेऽस्मिन्ब्रह्मा भव द्विजोत्तम ॥ ‘ भवामी’ति विप्रो वदेत् । ॐ ब्रहम जज्ज्ञानं० ॥३/१३॥ ततः कर्मणो निर्विघ्नतासिद्ध्यर्थं गणपतिमंत्रजपार्थं गाणपत्यं वृणुयात् ॥ यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् ‘ अमुकगो०अमुकप्र०अमुकवेदशाखाध्यायिनम् अमुकशर्माणं ब्राह्मणम् अस्मिन्सग्रहमखगायत्रीपुरश्चरणकर्मणि गाणपत्यत्वेन त्वामहं वृणे ’ इत्युक्त्वा विप्रहस्तेऽक्षतान्दद्यात् । अक्षतानादाय ‘ वृतोऽस्मी’ति विप्रो वदेत् । ॐ व्व्रतेन दीक्षा० ॥ यजमानो ‘ वृताय गाणपत्याय एतत्ते पाद्यं पादप्रक्षालनम् ’ एष तेऽर्घः ’ इत्यर्घं हस्ते दत्त्वा गन्धादिभिस्तं सम्पूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात् ॥ ॐ यदा बद्ध्नन्दाक्षायणा० । ततो यजमानः प्रार्थयेत् ॥ वाञ्छितार्थफलावाप्त्यै पूजितोऽसि सुरासुरैः ॥ निर्विघ्नं ऋतुसंसिद्ध्यै त्वामहं गणपं वृणे ॥ ॐ गणानान्त्वा० ॥ ततः सदस्यवरणम् ॥ यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् ‘ अमुकगो० अमुकप्रव० अमुकवेद० अमुकश० अस्मिन्सग्रहमखगायत्रीपुरश्चरणकर्मणि सदस्यत्वेन त्वामहं वृणे ’ इत्युक्त्वा विप्रहस्तेऽक्षतान् दद्यात् ॥ अक्षतानादाय ‘ वृतोऽस्मी’ति विप्रो वदेत् ॥ व्व्रतेनं० । ततो यजमानो ‘ वृताय सदस्याय एतत्ते पाद्यं पादप्रक्षालनम्, एष तेऽर्घ ’ इत्यर्घं हस्ते दत्वा गन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात् । ॐ यदा बद्ध्नन्दाक्षायणा० । ततो यजमानः प्रार्थयेत् ॥ कर्मणामुपदेष्टारं सर्वकर्मविदुत्तमम् । कर्मिणं वेदतत्त्वज्ञं सदस्यं त्वामहं वृणे ॥ ॐ सदसस्प्पातिमद्द्भुतं प्रियमिन्द्रस्य काम्म्यम् । सनिम्मेधामयासिषxस्वाहा ॥१३/३२॥ ततः अर्वोपद्रष्ट्रवरनम् ॥ यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् ‘ अमुकगोत्रोत्पन्नम् अमुकप्र० अमुकवेद० अमुकश० ब्राह्मणम् अस्मिन्स० गायत्रीपुर० सर्वोपद्रष्ट्रत्वेन त्वामहं वृणे ’ इत्युक्त्वा विप्रहस्तेऽक्षतान्दद्यात् ॥ अक्षतानादाय ‘ वृतोऽस्मी’ति विप्रो वदेत् ॥ ॐव्व्रतेन० । यजमानो ‘ वृताय एतत्ते पाद्यं पादप्रक्षालनम्, एष तेऽर्घः ’ इत्यर्घं हस्ते दत्वा गन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात् ॥ ॐ यदाबद्ध्नन्दाक्षायणा० ॥ ततो यजमानः प्रार्थयेत् ॥ भगवन् सर्वकर्मज्ञ सर्वंधर्मभृतांवर ॥ गायत्र्या मम यज्ञेऽस्मिन् उपद्रष्टा भव द्विज ॥ ततः अष्टौ द्वारपालान्वृणुयात् ॥ तत्र पृर्वद्वारे होमकाले ऋग्वेदस्य सूक्तजपार्थं द्वौ ऋग्वेदिनौ विप्रौ वृणुयात् ॥ यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् ‘ अमुकगो० अमुकप्रव० अमुकवेद० अमुकश० अस्मिन्सग्र० गायत्रीपुरश्चरणकर्मणि पर्वद्वारे ऋग्वेदसूक्तजपार्थे त्वामहं बृणे ’ इत्यक्षतान् विप्रहस्ते दद्यात् । अक्षतान्गृहेत्वा ‘ वृतोऽस्मी’ति विप्रो वदेत् । ॐ व्व्रतेन० । यजमानो ‘ वृताय एतत्ते पाद्यं पादप्रक्षालनम्, एष तेऽर्धः ’ इत्यर्घं हस्ते दत्वा गन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात् ॥ ॐ यदा बद्ध्नन्दाक्षायणा० । ततः प्रार्थयेत् ॥ ऋग्वेदः पद्मपत्राक्षो गायत्रः सोमदैवतः ॥ अत्रिगोत्रस्तु विप्रेन्द्र ऋत्विक् त्वं मे मखे भव ॥ ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्त्विजम् ॥ होतारं रत्नधातमम् ॥ एवं द्वितीयं वृणुयात् ॥ ततो दक्षिणद्वारे यजुर्वेदस्य सूक्तजपार्थे द्वयोर्विप्रयोर्वरणम् ॥ यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् ‘ अमुकगोत्रोत्पन्नम् अमुकप्र० अमुकवेद० अमुकश० अस्मिन्स० गायत्रीपुरश्चरणकर्मणि दक्षिनद्वारे यजुर्वेदसूक्तजपार्थे त्वामहं वृणे ’ इत्युक्त्वाऽक्षतान् विप्रहस्ते दद्यात् । ‘ वृतोऽस्मी’ति विप्रो वदेत् ॥ ॐ व्व्रतेन० ॥ ततो यजमानः ‘ वृताय एतत्ते षाद्यं पादप्रक्षालनम्, एष तेऽर्घः ’ इत्यर्घं हस्ते दत्वा गन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात् ॥ ॐ यदा बन्धन्दाक्षायणा० ॥ ततः प्रार्थयेत् ॥ कातराक्षो यजुर्वेदस्त्रैष्टुभो विष्णुदैवतः । काश्यपेयस्तु विप्रेन्द्र ऋत्विक् त्वं मे मखे भव ॥ ॐइषेत्त्वोर्ज्जेत्त्वा० ॥१/१॥ एव द्वितीयमपि वृणुयात् ॥ ततः पश्चिमद्वारे सामवेदसूक्तजपार्थे द्वयोर्विप्रयोर्वरणं कुर्यात् ॥ यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् “ अमुकगो० अमुकप्र० अमुकवेद० अमुकशर्मा० अस्मिन्सग्रहमखगायत्रीपुरश्चरणकर्मणि पश्चिमद्वारे सामवेदसूक्तजपार्थे त्वामहं वृणे ” इत्युक्त्वाऽक्षतान्विप्रहस्ते दद्यात् ॥ ‘ वृतोऽस्मी’ति विप्रो वदेत् ॥ ॐव्व्रतेन० ॥ /१९॥ततो यजमानो ‘ वृताय एतत्ते पाद्यं पादप्रक्षालनम् एष तेऽर्घ ’ इत्यर्घं हस्ते दत्वा गन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात् । ॐ वदाबद्ध्नन्दाक्षायणा० ॥५२/३४॥ ततः प्रार्थयेत् ॥ सामवेदस्तु पिङ्गाक्षो जाग्रतः शक्रदैवतः ॥ भारद्वाजस्तु विप्रेन्द्र ऋत्विक् त्वं मे मखे भव ॥ ॐ अग्र आयाहि० । एवं द्वितीयमपि सामगायिनं वृणुयात् ॥ तत उत्तरद्वारेऽथर्ववेदसूक्तजपार्थे द्वयोर्विप्रयोर्वरणम् ॥ यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् “ अमुकगो०अमुकप्र० अमुकवेद० अमुकश० अस्मिन्सग्रहमखगायत्रीपुर० उत्तरद्वारे अथर्ववेदसूक्तजपार्थे त्वामहं वृणे ” इत्युक्त्वा विप्रहस्तेऽक्षतान्दद्यात् ॥ ‘ वृतोऽस्मी’ति विप्रो वदेत् ॥ ॐ व्व्रतेन० ॥३०/१९॥ ततो यजमानो ‘ वृताय एतत्ते पाद्यं पादप्रक्षालनम् एष तेऽर्घ इत्यर्घं हस्ते दत्वा अन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात् ॥ ॐ यदा बद्ध्नन्दाक्षायणा० ॥५२/३४॥ ततः प्रार्थयेत् ॥ बृहन्नेत्रोऽथर्ववेदोऽनुष्टुभो रुद्रदैवतः । वैशम्पायन विप्रेन्द्र ऋत्विक् त्वं मे मखे भव ॥ ॐ शन्नोदेवी० ॥ एवं द्वितीयमपि विप्रं वृणुयात् ॥ ततो जपार्थं होमार्थं वा ब्राह्मणानां वरणम् ॥ यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् “ अमुकगो० अमुकप्र० अमुकवेद० अमुकश० अस्मिन्सग्रहमखगायत्रीपुरश्चरणकर्मणि जपार्थ होमार्थं वा ऋत्विक्त्वेन त्वामहं वृणे ” इत्युक्त्वा विप्रहस्तेऽक्षतान्दद्यात् ॥ ‘ वृतोऽस्मी’ति विप्रो वदेत् ॥ ॐ व्व्रतेन० ॥३०/१९॥ ततो यजमानः ‘ वृताय एतत्ते पाद्यं पादप्रक्षालनम् एष तेऽर्घ ’ इत्यर्घं हस्ते दत्वा गन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात् ॥ ॐ यदा बद्ध्नन्दाक्षायणा० ॥५२/३४॥ ततः प्रार्थयेत् । भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद ॥ गायत्र्याश्चैव यज्ञेऽस्मिनृत्विक् त्वं मे प्रभो भव ॥ एवं होमार्थं जपार्थं वा यावत्सङ्ख्याकानाम् ऋत्विजां प्रयोजनं तावत्संख्याकान् ऋत्विजो वृणुयात् ॥॥ इति आचार्याद्यृत्विग्वरणप्रयोगः ॥ N/A References : N/A Last Updated : December 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP