संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| श्रीगायत्रीपुरश्चरणविधिः श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत श्रीगायत्रीपुरश्चरणविधिः Translation - भाषांतर ॥ श्रीगणेशाय नमः ॥ अथ गायत्रीपुरश्चरणविधिरुच्यते ॥ तत्र पुरश्चरणं नाम मंत्रफलसिद्ध्यर्थमुपोद्घातत्वेन पूर्वसेवनम् ॥ अन्यच्च ॥ पूजा त्रैकालिकी नित्यं जपस्तर्पणमेव च ॥ होमं ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते ॥१॥इति ॥ कुलार्णवे ॥ पंचांगानि महादेवि जपो होमश्च तर्पणम् ॥ अभिषेकश्च विप्राणामाराधनमपीश्वरि ॥२॥ पूर्वपूर्वदशांशेन पुरश्चरणमुच्यते ॥३॥इति ॥ पुरश्चरणस्थानानि विश्वामित्रकल्पे ॥ पर्वताग्रे नदीतीरे बिल्वमूले जलाशये ॥ गोष्ठे देवालयेऽश्वत्थे उद्याने तुलसीवने ॥४॥पुण्यक्षेत्रे गुरोः पार्श्वे चित्तैकाग्र्यस्थलेऽपि च ॥ पुरश्चरणकृन्मंत्री सिध्यत्येव न संशयः ॥५॥इति ॥ पुरशरणं कर्चुं योग्यतासिद्ध्यर्थं दिहशुद्धिप्रकारमाह विश्वामित्रः ॥ आत्मनः शोधनार्थाय लक्षत्रयं जपेद् बुधः ॥ अथवाऽप्यष्टलक्षं तु गायत्रीं श्रुतिचोदिताम् ॥६॥चतुर्विंशतिलक्षं वा याज्ञवल्क्यमतं यथा ॥७॥इति ॥ ( अथवा नद्यादितीर्थे सर्वप्रायश्चित्तविधिना षडब्दं त्र्यब्दं सार्धाब्दं वा यथाशक्ति कृच्छ्रचांद्रायणादि सर्वप्रायश्चित्तं कृत्वा पुरश्चरणं कुर्यादिति ॥ ) अथान्नशुद्धिप्रकारः विश्वामित्रकल्पे ॥ अयाचितोञ्छ्शुक्लश्च भिक्षावृत्तिचतुष्टयम् ॥ तांत्रिकैर्वैदिकैश्चैव अन्नशुद्धिः प्रकीर्तिता ॥८॥अन्नानुसारिकर्माणि बुद्धिः कर्मानुसारतः ॥ ( तत्र तपोयुक्तेन तापसेन क्षत्रियवैश्यशूद्रादीनामन्नं न ग्राह्यम् ॥ ) पललस्पर्शमात्रेण तपो दहति निश्चितम् ॥९॥इत्युक्तेः ॥ भिक्षान्नं शुद्धमानीय कृत्वाभागचतुष्टयम् ॥ एकभागो द्विजार्थाय गोग्रासाय द्वितीयकः ॥ आतिथ्याय तृतीयश्च तुरीयस्तु स्वकीयकः ॥१०॥इति ॥ ग्रासप्रमाणं तत्संख्या च तत्रैव ॥ कुक्कुटांडप्रमाणं तु ग्रासमानं विधीयते ॥ द्व्यष्टौ ग्रासा गृहस्थस्य वानप्रस्थास्तदर्धकम् ॥११॥ब्रह्मचारी यथेष्टं च गोमूत्रं विधिपूर्वकम् ॥ प्रोक्षणं नववारं स्यात्षड्वारं च त्रिवारकम् ॥१२॥अच्छिद्रं च करं कृत्वा सावित्रीं च तदित्यृचम् ॥ मंत्रमुच्चार्य मनसा उक्तमार्गेण प्रोक्षयेत् ॥१३॥इति ॥ आहारनियमस्तत्रैव ॥ अशक्तो वापि शक्तो वा आहारे नियते कृते ॥ षण्मासे तस्य सिद्धिः स्याद् गुरुभक्तिरतः सदा ॥१४॥एकाहं पंचगव्याशी ह्येकाहं मारुताशनः ॥ एकाहं ब्राह्मणान्नाशी गायत्रीजपकर्मणि ॥१५॥इति ॥ मतांतरे तु ॥ स्नात्वा तु शतगायत्र्याः शतमंतर्जले जपेत् ॥ शतेनापस्ततः पीत्वा सर्वपापैः प्रमुच्यते ॥ चांद्रायणादिकृच्छ्रस्य फलं प्राप्नोति निश्चितम् ॥१६॥इति ॥ ( यदा लोकेषणा त्यक्तुं न शक्यते तदर्थोऽयं विधिरुच्यते ॥ ) क्षीराहारी फलाशी वा शाकाशी वा हविष्यभुक् ॥ भिक्षाशी वा जपेद्यत्तत्कृच्छ्रचांद्रसमं भवेत् ॥१७॥इति ॥ वर्ज्याहारस्तत्रैव ॥ लवणं क्षारमाम्लं च गृंजनादिनिषेधितम् ॥ तांबूलं च द्विभुक्तिश्च दुष्टवासः प्रमत्तताम् ॥१८॥श्रुतिस्मृतिविरोधं च जपं रात्रौ विवर्जयेत् ॥ श्राद्धादेरनुरोधेन जपं यदि त्यजेन्नरः ॥१९॥स भवेद्देवताद्रोहे पितृन्सप्त नयेदधः ॥२०॥इति ॥ अथ नित्यानुष्ठेयधर्मास्तत्रैव ॥ भूशय्या ब्रह्मचारित्वं मौनचर्यास्तथैव च ॥ नित्यं त्रिषवणं स्ननं क्षुद्रकर्मविवर्जनम् ॥२१॥नित्यपूजा नित्यदानमानंदस्तुतिकीर्तनम् ॥ नैमित्तिकार्चनं चैव विश्वासो गुरुदेवयोः ॥२२॥जपनिष्ठा द्वादशैते धर्माः स्युर्मंत्रसिद्धिदाः ॥ नित्यसूर्यमुपस्थाय तस्य चाभिमुखो जपेत् ॥२३॥देवताप्रतिमादौ वा वह्नौ वाऽभ्यर्च्य तन्मुखः ॥ स्नानपूजाजपध्यानहोम तर्पणतत्परः ॥२४॥निष्कामो देवतायां च सर्वकर्मनिवेदकः ॥ एवमादींष्च नियमान्पुरश्चरणकृच्चरेद् ॥२५॥इति ॥ पुरश्चरणारंभे वर्ज्यमासादि तत्रैव ॥ ज्येष्ठाषाढौ भाद्रपदं पौषं तु मळमासकम् ॥ अंगारशनिवारौ तु व्यतिपातं च वैधृतिम् ॥२६॥अष्टमीं नवमीं षष्ठीं चतुर्थीं च त्रयोदशीम् ॥ चतुर्दशीममावास्यां प्रदोषं च तथा निशाम् ॥२७॥यमाग्निरुद्रसार्पेन्द्रवसुश्रवणजन्मभम् ॥ मेषकर्कतुलाकुंभमकरालिकलग्नकम् ॥२८॥सर्वाण्येतानि वर्ज्यानि पुरश्चरणकर्मणि ॥ संध्यागर्जितनिर्घोषभूकंपोक्लानिपातने ॥२९॥एतानन्यांश्च दिवसान्स्मृत्युक्तांश्च परित्यजेत् ॥३०॥इति ॥ पुरश्चरणकालः रुद्रयामले ॥ वैशाखे श्रावणे वापि आश्विने कार्त्तिके तथा ॥ फाल्गुने मार्गशीर्षे वा मंत्री कुर्यात्पुरस्क्रियाम् ॥३१॥तिथ्यादिनिर्णयः चंद्रिकायाम् ॥ पूर्णिमा पंचमी चैव द्वितीया सप्तमी तथा ॥ त्रयोदशी च दशमी प्रशस्ता सर्वकर्मसु ॥३२॥इति ॥ रुद्रयामले ॥ गुरुशुक्रोदये शुद्धे लग्ने सद्वारशोधिते ॥ चंद्रतारानुकूल्ये च शुक्लपक्षे विशेषतः ॥ पुरश्चरणक कुर्यान्मंत्रसिद्धिः प्रजायते ॥३३॥इति ॥ जपस्थानानि नारदीये ॥ शिवस्य संनिधाने च सूर्याग्न्योर्वा गुरोरपि ॥ दीपस्य ज्वलितस्यापि जपकर्म प्रशस्यते ॥३४॥गृहे जपं समं विद्याद्गोष्ठे शतगुणं भवेत् ॥ नद्यां शतसहस्रं स्यादनंतं शिवसन्निधौ ॥३५॥समुद्रतीरे च ह्रदे गिरौ देवालयेषु च ॥ पुण्याश्रमेषु सर्वेषु जपः कोटिगुणो भवेत् ॥३६॥इत्युक्तस्थानानामन्यतमं स्थानमाश्रित्य दीपस्थानं विचिंतयेत् ॥ तद्यथा ॥ कूर्मस्यैव मुखं विद्धि दीपस्थानं सुसिद्धिदम् ॥ चतुरस्रं भुवं भित्त्वा कोष्ठानां नवकं लिखेत् ॥३७॥पूर्वकोष्ठादि विलिखेत्सप्तवर्गान्यनुक्रमात् ॥ लक्षावीशे मध्यकोष्ठे स्वरान्युग्मक्रमाल्लिखेत् ॥३८॥दिक्षु पूर्वोदितो यत्र नामस्याद्याक्षरं भवेत् । मुखं तदाऽस्य जानीयाद्धस्तावुभयतः स्थितौ ॥३९॥पृष्ठं कुक्षी उभे पादौ द्वौ शीर्ष्णं पुच्छमीरितम् ॥ कूर्मचक्रामिदं प्रोक्तं मंत्राणां सिद्धिसाधनम् ॥४०॥इति ॥ कुरुक्षेत्रे प्रयागे च गंगासागरसंगमे ॥ महाकाले च काश्यां च कूर्मस्थानं न चिन्तयेत् ॥४१॥इति ॥ अथासनानि शारदायाम् ॥ कृष्णाजिने ज्ञानसिद्धिर्मोक्षश्रीर्व्याघ्रचर्मणि ॥ स्यात्पौष्टिकं च कौशेयं शांतिकं वेत्रविष्टरम् ॥४२॥वंशासने व्याधिनाशः कंबले दुःखमोचनम् ॥ सर्वाभावे त्वासनार्थं कुशविष्टरमिष्यते ॥४३॥इति ॥ जपमाला तत्रैव ॥ रुद्राक्षश्वएतपद्माक्षमाले तु अखिले जपेत् ॥ अतिस्थूलोऽतिसूक्ष्मश्च स्फुटितो भंगुरिर्लघुः ॥४४॥भिन्नः पुरा धृतो जीर्णो रुद्राक्षो वरदः स्मृतः ॥ अष्टोत्तरशतैर्माला प्रशस्ता सर्वकर्मसु ॥४५॥गुरुं प्रकाशयेद्धीमान्मंत्रं नैव प्रकाशयेत् ॥ अथ मालां च मुद्रां च गुरोरपि न दर्शयेत् ॥४६॥इति ॥ मालासंस्कारस्तत्रैव ॥ क्षालयेत्पंचगव्येन सद्योजातेन तज्जलैः ॥ चंदनागरुगंधाद्यैर्वामदेवेन घर्षयेत् ॥४७॥धूपयेत्तामघोरेण लेपयेत्पुरुषेण तु ॥ मंत्रयेत्पंचमेनैव प्रत्येकं तु शतं शतम् ॥४८॥मेरुं च पंचमेनैव तथा मंत्रेण मंत्रयेत् ॥ येन प्रतिष्ठिता माला तमेव तु मनुं जपेत् ॥४९॥इति ॥ जपप्रकारः विश्वामित्रकल्पे ॥ ॐकारं पूर्वमुच्चार्य भूर्भुवः स्वस्तथैव च ॥ गायत्रीं प्रणवांतां च मध्ये त्रिप्रणवां तथा ॥५०॥एवं नित्यं जपं कुर्याद्ब्राह्मणो विप्रपुंगवः ॥ भिन्नापादा तु गायत्री ब्रह्महत्याप्रणाशिनी ॥५१॥अभिन्नपादा गायत्रीब्रह्महत्यां प्रयच्छति ॥ अच्छिन्नपादगायत्रीजपं कुर्वंति ये द्विजाः ॥५२॥अधोमुखाश्च तिष्ठंति कल्पकोटिशतानि च ॥ धर्मशास्त्रपुराणेषु इतिहासेषु सुव्रत ॥५३॥पंचप्रणवसंयुक्तां जपेदित्यनुशासनम् ॥ जपसंख्याष्टभागान्ते पादो जाप्यस्तुरीयकः ॥५४॥स द्विजः परमो ज्ञेयः परं सायुज्यमाप्नुयात् ॥ अन्यथा प्रजपेद्यस्तु स जपो विफलो भवेत् ॥५५॥प्रारंभदिनमारभ्य समाप्तिदिवसावधि ॥ न न्यूनं नातिरिक्तं च जपं कुर्याद् दिनेदिने ॥५६॥नैरंतर्येण कुर्वींत स्वस्ववृत्तिं न लिंपयेत् ॥ प्रातरारभ्य विधिवज्जपेन्मध्यंदिनावधि ॥५७॥मनःसंहरणं शौचं यानं मंत्रार्थचिंतनम् ॥५८॥इति ॥ जपसंख्या तत्रैव ॥ गायत्रीछन्दोमंत्रस्य यथासंख्याक्षराणि च ॥ तावल्लक्षाणि कर्त्तव्यं पुरश्चरणकं तथा ॥५९॥इति ॥ प्रपंचसारेऽपि ॥ एवं कृत्वा तु सिद्ध्यर्थं गायत्रीं दीक्षितो जपेत् ॥ तत्तलक्षं विधानेन भिक्षाशी विजितेंद्रियः ॥६०॥इति ॥ होमद्रव्याणि तत्संख्या च शारदायाम् ॥ क्षीरोदनं तिला दूर्वाः क्षीरद्रुमसमिद्वरान् ॥ पृथक्सहस्रत्रितयं जुहुयान्मंत्रसिद्ध्ये ॥६१॥इति ॥ विश्वामित्रोऽपि ॥ तिलैः पत्रैः प्रसूनैश्च यवैश्च मधुना प्लुतैः ॥ कुर्याद्दशांशतो होमं ततः सिद्धो भवेन्मनुः ॥६२॥इति ॥ अत्र दशांशतस्तर्पणं दशांशहोम इत्यर्थः ॥ होमात्पूर्वं तर्पणस्योक्तत्वात् ॥ होमार्थं मंडपकुंडादिनिर्णयस्तद्रचनाप्रकारश्च तत्तद्ग्रंथेभ्योऽवगंतव्यः ॥ विस्तरभयान्नेह लिखितः ॥॥ इति श्रीगायत्रेपुरशरणविधिः समाप्तः ॥ N/A References : N/A Last Updated : December 14, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP