संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ अजपाजपसङ्कल्पः श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ अजपाजपसङ्कल्पः श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ अजपाजपसङ्कल्पः Translation - भाषांतर अजपानामगायत्री योगिनां मोक्षदायिनी ॥ तस्याः सङ्कल्पमात्रेण नरः पापैः प्रमुच्यते ॥१॥षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः ॥ एतत्संख्येति मन्त्रेण जीवो जपति सर्वदा ॥२॥हकारेण बहिर्याति सकारेण विशेत्पुनः ॥ हंसः सोऽहमिमं मन्त्रं जीवो जपति सर्वदा ॥३॥हस्ते जलं गृहीत्वा ॥ अस्य श्री अजपागायत्रीमन्त्रस्य हंसऋषिः । अव्यक्ता गायत्री छन्दः । परमात्मा अर्धनारीश्वरो देवता ॥ हं बीजम् ॥ सः शक्तिः । सोऽहं कीलकम् । मम सर्वपापक्षयार्थे अजपासङ्कल्पे विनियोगः ॥ ॐ हंसऋषये नमः शिरसि ॥ ॐ अव्यक्तागायत्रीच्छन्दसे नमो मुखे ॥ ॐ सोऽहं कीलकाय नमः सर्वाङ्गे ॥ ॐ विनियोगाय नमः करसम्पुटे ॥ अथ करादिन्यासाः ॥ ॐ ह्रां सूर्यात्मने अङ्गुष्ठाभ्यां नमः ॥ ॐ ह्रैं निराभासात्मने अनामिकाभ्यां नमः ॥ ॐ ह्रौं अव्यक्तात्मने कनिष्ठिकाभ्यां नमः । ॐ ह्रः अणुसूक्ष्मात्मने करतलकरपृष्ठाभ्यां नमः ॥ एवं हृदयादिन्यासाः ॥ ॐ ह्रां सूर्यात्मने हृदयाय नमः । ॐ ह्रीं सोमात्मने शिरसे स्वाहा । ॐ ह्रूं निरञ्जनात्मने शिखायै वषट् ॥ ॐ ह्रैं निराभासात्मने कवचाय हुम् ॥ ॐ ह्रौं अव्यक्तात्मने नेत्रत्रयाय वौषाट् ॥ ॐ ह्रः अणुसूक्ष्मात्मने अस्त्राय फट् ॥ अथ ध्यानम् ॥ उद्यद्भानुस्फुरिततडिदाकारमर्धाम्बिकेशं पाशाभीती वरदपरशू धारयन्तं कराब्जैः ॥ दिव्याकल्पैर्नवमणिमयैः शोभितं विश्वमूलं सौम्याग्नेयं वपुरवतु नश्चन्द्रचूडं त्रिनेत्रम् ॥१॥एवं ध्यात्वा उदयादारभ्य उदयपर्यन्तं प्राणजप्ताजपाजपसङ्कल्पं कुर्यात् ॥ तद्यथा - गुदस्थाने मूलाधारे चतुर्दले पद्मे रक्तचर्णे वं शं षं सं चतुर्बीजयुक्ते चतुःकलासहिते तत्र अग्निरृषिः । गायत्रीछन्दः । गं बीजम् । गणपतिर्देवता । राकिनी शक्तिः । प्राणजप्तेन षट्शतेन अजपागायत्रीमंत्रजपेन पूर्वेद्युर्जप्तेन श्रीमहागणपतिः प्रीयताम् ॥१॥तस्योपरि लिङ्गस्थाने स्वाधिष्ठाने षड्दले पद्मे पीतवर्णे बं भं मं यं रं लं षड्बीजयुक्ते षट्कलासहिते तत्र अग्निरृषिः । गायत्री छन्दः । अं बीजम् । ब्रह्मा देवता । लाकिनी शक्तिः । प्राणजप्तेन षट्सहस्रेण अजपागायत्रीमंत्रजपेन पूर्वेद्युर्जप्तेन श्रीब्रह्मा प्रीयताम् ॥२॥तस्योपरि नाभौ मणिपूरके दशदले पद्मे नीलवर्णे डं ढं णं तं थं दं धं नं पं फं दशबीजयुक्ते दशकलासहिते तत्र वायुरृषिः । उष्णिक् छन्दः । उं बीजम् । विष्णुर्देवता ॥ शाकिनी शक्तिः ॥ प्राणजप्तेन षट्सहस्रेण अजपागायत्रीमन्त्रजपेन पूर्वेद्युर्जप्तेन श्रीमहाविष्णुः प्रीयताम् ॥३॥तस्योपरि हृदयस्थाने अनाहतचक्रे द्वादशदले पद्मे कं खं गं घं ङं चं छं जं झं ञं टं ठं द्वादशबीजयुक्ते द्वादशकलासहिते तत्र अग्निरृषिः । गायत्री छन्दः । मं बीजम् । रुद्रो देवता । डाकिनी शक्तिः । प्राणजप्तेन षटसहस्रेण अजपागायत्रीमन्त्रजपेन पूर्वेद्युर्जप्तेन श्रीमहारुद्रो देवता प्रीयताम् ॥४॥तस्योपरि कण्ठस्थाने विशुद्धिचक्रे षोडशदले पद्मे वैडूर्यवर्णे अं आं इं ईं उं ऊं ऋं ॠं लृं लॄं एं ऐं ओं औं अं अः षोडशवर्णयुक्ते षोडशकलासहिते तत्र परमात्मा ऋषिः । अव्यक्ता गायत्री छन्दः । ॐ बीजम् । ईशो देवता ॥ ज्ञानशक्तिः । प्राणजप्तेन सहस्रैकेन अजपागयत्रीमंत्रजपेन पूर्वेद्युर्जप्तेन ईशो देवता प्रीयताम् ॥५॥तस्योपरि भ्रुवोर्मध्ये आज्ञाचक्रे द्विदले पद्मे गौरवर्णे हं क्षं बीजयुक्ते द्विकलासहिते तत्र गुरुरृषिः । बृहद्गायत्री छन्दः । यं बीजम् । परमगुरुर्देवता । हाकिनी शक्तिः । प्राणजप्तेन सहस्रैकेन अजपागायत्रीमंत्रजपेन पूर्वेद्युर्जप्तेन श्रीपरमगुरुः प्रीयताम् ॥६॥तस्योपरि ब्रह्मरन्ध्रे सहस्रदलपद्मे शुद्धस्फटिकसन्निभे नानाबीजयुक्ते नानाकळासहिते अं आं इं ईं उं ऊं ऋं ॠं लृं लॄं एं ऐं ओं औं अं अः कं खं गं घं ङं च छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं ळं क्षं सहस्रकलासहिते तर परमशिव ऋषिः । अव्यक्ता गायत्री छन्दः । हं बीजम् । परमशिवो देवता । अचिन्त्या शक्तिः । प्राणजप्तेन सहस्रैकेन अजपागायत्रीमंत्रजपेन पूर्वेद्युर्जप्तेन श्रीपरमशिवो देवः प्रीयताम् ॥७॥ततः करसम्पुटं कृत्वा प्रार्थयेत् ॥ अजपा नाम गायत्री त्रैलोक्येषु च विश्रुता ॥ अजपां जपतो नित्यं पुनर्जन्म न विद्यते ॥१॥ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्ति द्वन्द्वातीतं त्रिगुणरहितं तत्त्वमस्यादिलक्ष्यम् ॥ एकं नित्यं विमलमचलं सर्वदा साक्षिभूतं भावातीतं गगनसदृशं सद्गुरुं तं नमामि ॥२॥हस्ते जलं गृहीत्वा - अनेन अजपागायत्रीमंत्रजपनिवेदनेन तत्तद्देवताः प्रीयन्तां न मम ॥ इति अजपागायत्रीजपनिवेदनम् ॥ N/A References : N/A Last Updated : December 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP