अथ कुण्डरचनाप्रकारः
श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥
अनुक्रमणिका प्रमाणे वाचन करावे.
विदन्तु विद्वांसो यत् प्रायो वर्णक्रमेण ब्राह्मणानां चतुरस्रं कुण्डं प्रशस्तम् ॥ तस्मात्पूर्वमाहुतिमानसदृशं सर्वत्र यज्ञकर्मणि एकद्वित्रिचतुर्हस्ताद्यन्यतरहस्तामानं स्वीकृत्य मण्डपे यथोक्तस्थळे चतुरस्रं कुण्डं विधेयम् ॥ पूर्वोक्तरीत्या कर्तुः पञ्चमांशं निष्कास्य तत्प्रमाणायां काष्ठपट्टिकायां समॉंश्चतुर्विंशतिभागान्विरच्य हस्तः कार्यः ॥ स एव चतुर्विंशत्यङ्गुलाख्यो हस्तशब्देन व्यवहियते ॥ तस्य चतुर्विंशतितमो भागोऽङ्गुलम् ॥ यथा लक्ष्याहुतावष्टचत्वारिंशदङ्गुले चतुर्हस्ते कर्तुः पञ्चमांशे कृतहस्त्स्य चतुर्विंशतितमभागाङ्गुलप्रमाणानि यस्यां पट्टिकायाम् अष्टचत्वारिंशदङ्गुलानि स्युस्तत्प्रमाणायां काष्ठपट्टिकायां सौकर्यार्थं समप्रमाणानि चतुर्विंशत्यङ्गुलानि कृत्वा हस्तः कार्यः । तद्धस्तेनैव सर्वत्र तद्धस्तप्रमाणं समचतुरस्रं सक्षेत्रसमखातं क्रमेणोपरितश्चतुस्त्रिद्व्यङ्गुलप्रमाणत्रिमेखलान्वितं सकण्ठं सनाभि कुण्डं कुर्यात् ॥
अथ गायत्र्याः पीठम् ॥ प्रायो लोके जपप्रधानकं कर्म, होमप्रधानकं कर्म, उभयात्मकञ्च कर्म दृश्यते । यथा श्रीमहारुद्रादौ अभिषेकात्मकमपि कर्म दृश्यते । तथा श्रीमहारुद्रादौ अभिषेकात्मकमपि कर्म दृश्यते ॥ इति कृत्वा कुण्डदर्पणकारेण - “ होमप्रधानके कुण्डे चतुःस्तंभान्तरे खनेत् ॥ अन्यत्र मध्ये वेदी क्रियते । परञ्च गायत्रीपुरश्चरणस्य तु सर्वथा जपप्रधानकत्वात् गायत्र्या वेदी मध्ये एव कार्येति संबुध्यते ॥ तथैव यत्रैककुण्डं क्रियते तत्र तत् ईशान्याम् उत्तरस्यां पश्चिमायां वेति कुण्डासिद्ध्यामेव प्रतिपादितम् ॥ यथा - चैकं यदा पश्चिमसोमशैवे ॥ इति दिक् ॥
॥ इति संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता ॥
N/A
References : N/A
Last Updated : December 13, 2016
TOP