संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ कुण्डस्थदेवतापूजनप्रयोगः

अथ कुण्डस्थदेवतापूजनप्रयोगः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


सपत्नीको यजमानः कुण्डस्य समीपे कुण्डपश्चिमदिग्भागे उपविश्य आचमनं प्राणायामञ्च कृत्वा हस्ते जलं गृहीत्वा देशकालौ सङ्कीर्त्य सङ्कल्पं कुर्यात् । अद्येत्यादि० शुभपुण्यतिथौ भगवत्या जगदम्बिकायाः श्रीगायत्रीदेव्याः प्रीत्यर्थं सव्याह्तिचतुर्विंशतिवर्णात्मकस्य श्रीगायत्रीमन्त्रस्य ब्राह्मणद्वारा कृतस्य अमुकलक्षजपानुष्ठानकर्मणो दशांशेन होमार्थं मया प्रारब्धस्य सग्रहमखश्रीगायत्रीपुरश्चरणकर्मणः साङ्गतासिद्ध्यर्थम् अस्मिन्कुण्डे कुण्डस्थदेवतानाम् अग्निप्रतिष्ठां करिष्ये ॥ तत आचार्यानुज्ञया कश्चिद्विप्र उत्थाय हस्ते कुशान् गृहीत्वा तैः अग्न्यायतनं ( कुण्डं ) सम्मार्ज्य कुशोदकेन प्रोक्षयेत् । ॐ आपोहिष्ठामयो० ॥ ॐ योवः शिवतमो० ॥ ॐ तस्माऽअरङ्ग० ॥३॥
ततो यजमानो हस्तेऽक्षतानादाय कुण्डं स्पृष्ट्वा आवाहयेत् ॥ आवाहयामि तत्कुण्डं विश्वकर्मविनिर्मितम् । शरीर यच्च ते दिव्यमग्न्यधिष्ठानमद्भुतम् ॥ ॐ भूर्भुवः स्वः कुण्डाय नमः कुण्डम् आवाह० स्थाप० ॥ सर्वोपचारार्थे गन्धं पुष्पं सम० । ततः प्रार्थयेत् ॥ ये च कुण्डे स्थिता देवाः कुण्डाङ्गे याश्च देवताः । ऋद्धिं यच्छन्तु ते सर्वे यज्ञसिद्धिं ददन्तु नः ॥ इति सम्प्रार्थ कुण्डमध्ये देवान् आवाहयेत् । हस्तेऽक्षतानादाय । ॐ व्विश्श्वकर्म्मन्न्हविषाव्वर्द्धनेनत्त्रातारमिन्द्रमकृणोरवद्ध्यम् । तस्म्मैव्विशx समनमन्तपूर्व्वीरयमुग्ग्रोव्विहव्वयोयथासत् । उपयामगृहीतोसीन्द्रायत्त्वाव्विश्श्वकर्म्मणऽपषते योनिरिन्द्रायत्त्वाव्विश्श्वकर्म्मण ॥४६/८॥ कुण्डमध्ये - ॐ भूर्भुवः स्वः विश्वकर्मणे नमः विश्वकर्मणम् आवा० स्थाप० ॥ भो विश्वकर्मन् इहागच्छ इह तिष्ठ ॥ ततः प्रार्थयेत् ॥ ब्रह्म वक्त्रं भुजौ क्षत्रमूरू वैश्यः प्रकीर्तितः । पादौ यस्य तु शूद्रो हि विश्वकर्मात्मने नमः । अज्ञानाज्ज्ञानतो वापि दोषाः स्युः खननोद्भवाः ॥ नाशय त्वखिलांस्तॉंस्तु विश्वकर्मन्नमोऽस्तु ते ॥१॥
ततो मेखलायोनिकण्ठनाभिवास्तुदेवतानाम् आवाहनं कुर्यात् ॥ तत्रादौ समूंढमस्यापाxसुरेस्वाहा ॥१५/५॥ विष्णो यज्ञपते देव दुष्टदैत्यनिषूदन ॥ विभो यज्ञस्य रक्षार्थं कुण्डे सन्निहितो भव ॥१॥
उपरिमेखलायां श्वेतवर्णालङ्कृतायां - ॐ भूर्भुवः स्वः विष्णवे नमः विष्णुम् आवा० स्थाप० । भो विष्णो इहागच्छ इह तिष्ठ ॥२॥
पुनरक्षतानादाय । ॐ ब्रह्मजज्ज्ञानम्प्रथमम्पुरस्ताद्द्विसीमतxसुरुचोव्वेनऽआवx ॥ सबुद्ध्न्याxउपमाऽअस्यव्विष्ट्ठाxसतश्चर्योनिमसश्चव्विवx ॥३/१३॥ हंसपृष्ठसमारूढ आदिदेव जगत्पते । रक्षार्थं मम यज्ञx मेखलायां स्थिरो भव ॥१॥
मध्यमेखलायां रक्तवर्णालङ्कृतायां - ॐ भूर्भुवः स्वः ब्रह्मणे नमः ब्रह्माणम् आवा० स्थाप० । भो ब्रह्मन् इहागच्छ इह तिष्ठ ॥३॥
पुनर्हस्तेऽक्षतानादाय ॥ ॐ नमस्त्तेरुद्द्रमन्न्यवंऽउतोतऽइषवे नमंx ॥ बाहुब्भ्यामुततेनमx ॥१/१६॥ गङ्गाधर महादेव वृषारूढ महेश्वर । आगच्छ मम यज्ञेऽस्मिन्रक्षार्थं रक्षसां गणात् ॥१॥
अधोमेखलाथां कृष्णवर्णालंकृतायां - ॐ भूर्भुवः स्वः रुद्राय नमः रुद्रम् आवा० स्थाप० ॥ भो रुद्र इहागच्छ इह तिष्ठ ॥४॥
ततो योन्यावाहनम् । हस्तेऽक्षतानादाय क्षत्रस्ययोनिरसिक्षत्रस्यनाभिरसि ॥ मात्त्वाहिxसीन्मामाxसीx ॥१/२०॥ आगच्छ देवि कल्याणि जगदुत्पत्तिहेतुके ॥ मनोभवयुते रम्ये योनि त्वं सुस्थिरा भव ॥१॥
जगदुत्पत्तिकायै मनोभवयुतायै योन्यै नमः योनिमावा० स्थाप० ॥ भो जगदुत्पत्तिके मनोभवयुते योनि इहागच्छ इह तिष्ठ ॥५॥
ततः प्रार्थयेत् ॥ सेवन्ते महतीं योनिं देवर्षिसिद्धमानवाः ॥ चतुरशीतिलक्षाणि पन्नगाद्याः सरीसृपाः ॥ पशवः पक्षिणः सर्वे संसरन्ति यतो भवि । योनिरित्येव विख्याता जगदुत्पत्तिहेतुका ॥ मनोभवयुता देवी रतिसौख्यप्रदायिनी ॥ मोहयित्री सुराणाञ्च जगद्धात्रि नमोऽस्तु ते ॥ योने त्वं विश्वरूपाऽसि प्रकृतिर्विश्वधारिणी ॥ कामस्था कामरूपा च विश्वयोन्यै नमो नमः ॥४॥
अथ कण्ठदेवतावाहनम् । हस्तेऽक्षतानादाय । ॐ नीलग्ग्रीवाxशितिकण्ठादिवxरुद्द्राऽउपश्श्रिताx ॥ तेषाxसहस्रयोजनेवधन्न्वानितन्न्मसि ॥५६/१६॥ कुण्डस्य कण्ठदेशोऽयं नीलजीमूतसन्निभः ॥ अस्मिन्नावाहये रुद्रं शितिकण्ठं कपालिनम् ॥ ॐ भूर्भुवः स्वः कण्ठे रुद्राय नमः रुद्रम् आवा० स्थाप० । भो रुद्र इहागच्छ इह तिष्ठ ॥६॥
ततः प्रार्थयेत् ॥ कण्ठ मङ्गलरूपेण सर्वकुण्डे प्रतिष्ठितः । परितो मेखलास्त्वत्तो रचिता विश्वकर्मणा ॥ ततो नाभ्यावाहनम् ॥ ॐ नाभिर्म्मेचित्तंव्विज्ञानम्पायुर्म्मेपचितिर्ब्भसत् । आनन्दनन्दावाण्डौ मे भगxसौभाग्ग्यम्पसx ॥ जङ्घब्भ्यां पद्भ्यां धर्म्मेस्म्मिव्विशिराजाप्प्रतिष्ट्ठितx ॥९/२०॥ पद्माकाराऽथवा कुण्डसदृशाकृतिबिभ्रती । आधारः सर्वकुण्डानां नाभिमावाहयामि ताम् । ॐ भूर्भुवः स्वः नाभ्यै नमः नाभिम् आवा० स्थाप० ॥ भो नाभे इहागच्छ इह तिष्ठ ॥७॥
ततः प्रार्थयेत् ॥ नाभे त्वं कुण्डमध्ये तु सर्वदेवैः प्रतिष्ठिता । अतस्त्वां पूजयामीह शुभदा सिद्धिदा भव ॥ ततः कुण्डमध्ये नैरृत्यकोणे वास्तुपुरुषमावाहयेत् ॥ ॐ वास्तोष्पते प्रतिजानीह्यस्मान्स्वावेशोऽअनमीवो भवानः । यत्त्वे महे प्रतितन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे ॥ ( पा० गृ० ) ॥ आवाहयामि देवेशं वास्तुदेवं महाबलम् । देवदेवं गणाध्यक्षं पातालतलवासिनम् ॥ ॐ भूर्भुवः स्वः नैरृत्यकोणे वास्तुपुरुषाय नमः वास्तुपुरुषम् आवा० स्थाप० ॥८॥
भो वास्तुपुरुष इहागच्छ इह तिष्ठ ॥ ततः प्रार्थयेत् । यस्य देहे स्थिता क्षोणी ब्रह्माण्डं विश्वमङ्गलम् । व्यापिनं भीमरूपञ्च सुरूपं विश्वरूपिणम् ॥ पितामहसुतं मुख्यं वन्दे वास्तोष्पतिं प्रभुम् ॥ वास्तु पुरुष देवेश सर्वविघ्नहरो भव । शान्तिं कुरु सुखं देहि सर्वान्कामान्प्रयच्छ मे ॥ एवं कुण्डस्थितान् सर्वान्देवानावाह्यैकतन्त्रेण प्रतिष्ठां कृत्वा पूजयेत् । हस्ते‍ऽक्षतानादाय । ॐ मनोजुतिर्जु० । ॐ भूर्भुवः स्वः विश्वकर्मापुष्पाण्यादाय ॥ ॐ भूर्भुवः स्वः विश्वकर्मादिवास्तुपुरुषान्तेभ्यः कुण्डस्यदेवेभ्यो नमः सर्वोपचारार्थे गन्धाक्षतपुष्पाणि सम० ॥ इति सम्पूज्य । एकस्मिन्पात्रे बलिदानार्थं स्वः विश्वकर्मादिवास्तुपुरुषान्तेभ्यः कुण्डस्थदेवेभ्यो नमः यथाशक्ति अमुं दध्योदनबलिं सम० ॥ पुनर्जलं गृहीत्वा । अनेन यथाशक्ति विश्वकर्मादिवास्तुपुरुषान्तानां कुण्डस्थदेवानां पूजनेन बलिदानेन च विश्वकर्मादिवाग्तुपुरुषान्ताः सर्वे कुण्डस्थदेवाः प्रीयन्तां न मम ॥
॥ इति कुण्डस्थदेवतापूजनप्रयोगः ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP