संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः Translation - भाषांतर नान्दीश्राद्धे कुशबटूनां यजमानस्य चोपवेशनार्थं मंडलम् ॥एतेषां पूजनमपि पूर्वत आरम्भ्य पश्चिमदिगन्तं कार्यम् ।तत्र प्रमाणानि टिप्पण्यां द्रष्टव्यानि ॥अथ नान्दीश्राद्धकर्ता यजमानः प्राड्मुखः प्रागग्रेषु दुर्भेषु प्रागुपक्रमान्पश्चिमापवर्गान् उदड्मुखान् विश्वेदेवास्थाने द्वौ सपत्नीकपित्रादिस्थाने द्वौ सपत्नीकमातामहादिस्थाने द्वौ एवं षट् कुशबटून्दूर्वाकाण्डानि वा संस्थाप्य यज्ञोपवीती पातितदक्षिणजानुः यवान् गृहीत्वा क्षणदानं कुर्यात् ॥ यथा हस्ते यवान् गृहीत्वा ( विश्वेदेवस्थानीयौ द्वौ कुशबटू संस्पृश्य । ) (१) ॐ नान्दीमुखाः सत्यवसुसंज्ञका विश्वेदेवा अद्य गायत्रीपुरश्चरणकर्माङ्गतया क्रियमाणे साङ्कल्पिकनान्दीश्राद्धे भवद्भ्यां क्षणः क्रियताम् ॥ तथा प्राप्नुतां भवन्तौ ॥ प्राप्नवाव ॥ पुनर्यवान् गृहीत्वा । ( पित्रादिस्थानीयौ द्वौ कुशबटू संस्पृश्य । ) गोत्रा नान्दीमुखाः पितृपितामहप्रपितामहाः सपत्नीकाः अद्य गायत्रीपुरश्चरणकर्माङ्गतया क्रियमाणे नान्दीश्राद्धे भवद्भ्यां क्षणः क्रियताम् ॥ तथा प्राप्नुतां भवन्तौ ॥ प्राप्नवाव ॥ पुनर्यवान्गृहीत्वा ( पूर्ववन्मातामहादिस्थानीयौ द्वौ कुशबटू संस्पृश्य ) द्वितीयगोत्रा नान्दीमुखा मातामहप्रमातामहवृद्धप्रमातामहाः सपत्नीकाः अद्य गायत्रीपुरश्चरणकर्माङ्गतया क्रियमाणे नान्दीश्राद्धे भवद्भ्यां क्षणः क्रियताम् ॥ तथा प्राप्नुतां भवन्तौ ॥ प्राप्नवाव ॥ ततः (२) पाद्यम् ॥ नान्दीमुखाः सत्यवसुसंज्ञका विश्वदेवाः इदं वः पाद्यं पादावनेजनं पादप्रक्षालनं वृद्धिः ॥ गोत्रा नान्दीमुखाः पितृपितामहप्रपितामहाः सपत्नीकाः इदं वः पाद्यं पादावनेजनं पादप्रक्षालनं वृद्धिः ॥ द्वितीयगोत्रा नान्दीमुखा मातामहप्रमातामहवृद्धप्रमातामहाः सपत्नीकाः इदं वः पाद्यं पादावनेजनं पादप्रक्षालनं वृद्धिः (३) सङ्कल्पः । हस्ते जलमादाय । अत्राद्येत्यादि० शुभपुण्यतिथौ करिष्यमाणगायत्रीपुरश्चरणकर्माङ्गतया सत्यवसुसंज्ञकविश्वेदेवपूर्वकं साङ्कल्पिकेन विधिना नान्दीश्राद्धं करिष्ये ॥ (४) आसनदानम् ॥ नान्दीमुखाः सत्यवसुसंज्ञका विश्वेदेवाः इदं वः आसनम् । सुखासनम् ॥ गोत्रा नान्दीमुखाः पितृपितामहप्रपितामहाः सपत्नीकाः इदं वः आसनम् । सुखासनम् ॥ द्वितीयगोत्रा नान्दीमुखा मातामहप्रमातामहवृद्धप्रमातामहाः सपत्नीकाः इदं वः आसनम् । सुखासनम् ॥ ततो (५) गन्धादिदानम् ॥ नान्दीमुखाः सत्यवसुसंज्ञकाः विश्वदेवाः इदं वो यथादत्तं गन्धाद्यर्चनं स्वाहा संपद्यतां वृद्धिः ॥ गोत्रा नान्दीमुखाः पितृपितामहप्रपितामहाः सपत्नीकाः इदं वो यथादत्तं गन्धाद्यर्चनं स्वाहा संपद्यतां वृद्धिः ॥ द्वितीयगोत्रा नान्दीमुखा मातामहप्रमातामहवृद्धप्रमातामहाः सपत्नीकाः इदं वो यथादत्तं गन्धाद्यर्चनं स्वाहा संपद्यतां वृद्धिः ॥ ततो (६) भोजननिष्कयद्रव्यदानम् ॥ नान्दीमुखाः सत्यवसुसंज्ञका विश्वेदेवाः युग्मब्राह्मण भोजनपर्याप्तमन्नं वा तन्निष्क्रयीभूतं किञ्चिद्धिरण्यम् अमृतरूपेण वः स्वाहा संपद्यतां वृद्धिः ॥ गोत्रा नान्दीमुखाः पितृपितामहप्रपितामहाः सपत्नीकाः युग्मब्राह्मणभोजनपर्याप्तमन्नं वा तन्निष्क्रयीभूतं किञ्चिद्धिरण्यम् अमृतरूपेण वः स्वाहा संपद्यतां वृद्धिः ॥ द्वितीयगोत्रा नान्दीमुखा मातामहप्रमातामहवृद्धप्रमातामहाः सपत्नीकाः युग्मब्राह्मणभोजनपर्याप्तमन्नं वा तन्निष्क्रयीभूतं किञ्चिद्धिरण्यम् अमृतरूपेण वः स्वाहा संपद्यतां वृद्धिः ॥७॥सक्षीरयवमुदकदानम् ॥ नान्दीमुखाः सत्यवसुसंज्ञका विश्वेदेवाः प्रीयन्ताम् । गोत्रा नान्दीमुखाः पितृपितामहप्रपितामहाः सपत्नीकाः प्रीयन्ताम् ॥ द्वितीयगोत्रा नान्दीमुखा मातामहप्रमातामहवृद्धप्रमातामहाः सपत्नीकाः प्रीयन्ताम् ॥८॥आशिषां ग्रहणम् ॥ गोत्रं नोऽभिवर्द्धताम् । अभिवर्द्धतां वो गोत्रम् ॥ दातारो नोऽभिवर्द्धन्ताम् । अभिवर्द्धन्तां वो दातारः ॥ सन्ततिर्नोऽभिवर्द्धताम् । अभिवर्द्धतां वः सन्ततिः ॥ श्रद्धा च नो मा व्यगमत् । मा व्यगमद् वः श्रद्धा ॥ अन्नं च नो बहु भवेत् । भवतु वो बह्वन्नम् ॥ बहुदेयं च नोऽस्तु । अस्तु वो बहुदेयम् ॥ अतिथींश्च लभेमहि । लभन्तां वोऽतिथयः ॥ याचितारश्च नः सन्तु । सन्तु वो याचितारः ॥ एता आशिषः सत्याः सन्तु । सन्त्वेता आशिषः सत्याः ॥९॥दक्षिणासङ्कल्पः । नान्दीमुखेभ्यः सत्यवसुसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः कृतस्य नान्दीश्राद्धस्य फलप्रतिष्ठासिद्ध्यर्थम् इमां द्राक्षामलकयवमूलनिष्क्रयीभूतां दक्षिणां दातुमहमुत्सृजे ॥ द्वितीयगोत्रेभ्यो नान्दीमुखेभ्यो मातामहप्रमातामहवृद्धप्रमातामहेभ्यः सपत्नीकेभ्यः कृतस्य नान्दीश्राद्धस्य फलप्रतिष्ठासिद्ध्यर्थम् इमां द्राक्षामलकयवमूलनिष्क्रयीभूतां दक्षिणां दातुमहमुत्सृजे ॥ करसंपुटौ कृत्वा । ‘ नान्दीश्राद्धं संपन्नम् ’ इति ब्राह्मणान्प्रार्थयेत् ॥ ‘ सुसंपन्नम् ’ इति ब्राह्मणाः प्रतिवदेयुः ॥ ततो ॥१०॥विसर्जनम् ॥ ॐ व्वाजे वाजेवत व्वाजिनो नो धनेषु व्विप्राऽअमृताऽऋतज्ञा़x ॥ अस्य मद्ध्वंx पिबत मादयद्ध्वन्तॄप्ता यात पथिभिर्द्देवयानैx ॥१८/९॥ ॥११॥अनुव्रज्य ॥ ॐ आमाव्वाजस्य प्प्रसवो जगम्म्यदेमेद्द्यावापृथिवी व्विश्श्वरूपे ॥ आमागन्ताम्पितरा मातरा चामा सोमोऽअमृतत्त्वेन गम्यात् ॥१९/९॥१२॥हस्ते जलं गृह्रीत्वा । मया कृतेऽस्मिन्नान्दीश्राद्धे न्यूनातिरिक्तो यो विधिः स उपविष्टब्राह्मणानां वचनात् श्रीनान्दीमुखप्रसादाच्च सर्वः परिपूर्णोऽस्तु ॥ अस्तु परिपूर्णः ॥ पुनर्जलं गृहीत्वा । अनेन साङ्कल्पिकेन विधिना नान्दीश्राद्धकर्मणा कृतेन नान्दीमुखाः पितरः प्रीयन्ताम् ॥॥ इति साङ्कल्पिकनान्दीश्राद्धप्रयोगः समाप्तः ॥ N/A References : N/A Last Updated : December 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP