संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः

अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


तत आचार्यः कलशानां परितः दशदिक्षु इन्द्रादीनां बलिदानार्थं पृथक् पृथक् एकस्मिन्पर्णपुटे पत्रावल्यां वा सदीपमाषभक्तबलिं दध्योदनं वा निधाय यजमानहस्तेन बलिदानं कारयेत् ॥ यजमानो हस्ते जलं गृहीत्वा देशकालौ सङ्कीर्त्य कृतस्य जलयात्राकर्मणः साङ्गतासिद्ध्यर्थं यथाशक्ति पूजनपूर्वकं क्षेत्रपालसमन्वित्येन्द्राद्दिशदिक्पालदेवतानां बलिदानं करिष्ये ॥ इति सङ्कल्पं कृत्वा गन्धाक्षतपुष्पाण्यादाय ॥ पूर्वे - ॐ त्रातारमिन्द्रमवितारमिन्द्रx हवेहवेसुहवx शूरमिन्द्रम् ॥ ह्वयामिशक्क्रम्पुरुहूतमिन्द्रx स्वस्तिनोमघवाधात्त्विन्द्रx ॥५०/२०॥ प्राच्याम् - इन्द्रं साङ्गं सपरिवारं सायुधं सशक्तिकम् एभिर्गन्धाद्युपचारैस्त्वामहं पूजयामि ॥ इन्द्राअय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय इमं सदीपमाषभक्तबलिं समर्पयामि ॥ भो इन्द्र दिशं रक्ष बलिं भक्ष मम सकुटुम्बस्याभ्युदयं कुरु ॥ आयुःकर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता कल्याणकर्ता वरदो भव ॥ अनेन बलिदानेन इन्द्रः प्रीयताम् ॥१॥
आग्नेय्याम् - ॐ त्वन्नोऽ अग्ग्रे व्वरुणस्य व्विद्द्वान्देवस्यहेडोऽअवयासिसीष्ट्ठाx ॥ यजिष्ट्ठो व्वह्नितमx शोशुचानो व्विश्श्वाद्द्वेषा़x  सिप्प्रमुमुग्ध्यस्म्मत् ॥३/२१॥ आग्नेय्याम् - अग्निं साङ्गं सपरिवारं सायुधं सशक्तिक एभिर्गन्धाद्युपचारैस्त्वामहं पूजयामि ॥ अग्नये साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय इमं सदीपमाषभक्तबलिं समर्पयामि ॥ भो अग्ने दिशं रक्ष बलिं भक्ष मम सकुटुम्बस्याभ्युदयं कुरु ॥ आयुःकर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता कल्याणकर्ता वरदो भव ॥ अनेन बलिदानेन अग्निः प्रीयताम् ॥२॥
दक्षिणस्याम् - ॐ यमाय त्वाङ्गिरस्वतेपितृमतेस्वाहा ॥ स्वाहाघर्म्मायस्वाहाघर्म्मx पित्रे ॥९/३८॥ दक्षिणस्याम् - यमं साङ्गं सपरिवारं सायुधं सशक्तिक एभिर्गन्धाद्युपचारैस्त्वामहं पूजयामि ॥ यमाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय एमं सदीपमाषभक्तबलिं समर्पयामि ॥ भो यम दिशं रक्ष बलिं भक्ष मम सकुटुम्बस्याभ्युदयं कुरु ॥ आयुःकर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता कल्याणकर्ता वरदो भव ॥ अनेन बलिदानेन यमः प्रीयताम् ॥३॥
नैरृत्याम् - ॐ असुन्वन्तमयजमानमिच्छस्तेनस्येत्त्यामन्न्विहितस्क्करस्य ॥ अन्न्यमस्म्मदिच्छसातऽइत्त्यानमो देवि निरृते तुब्भ्यमस्तु ॥६२/१२॥ नैरृत्याम् - निरृतिं साङ्गं सपरिवारं सायुधं सशक्तिकम् एभिर्गन्धाद्युपचारैस्त्वामहं पूजयामि ॥ नैरृतये साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय इमं सदीपमाषभक्तबलिं समर्पयामि ॥ भो निरृते दिशं रक्ष बलिं भक्ष मम सकुटुम्बस्याभ्युदयं कुरु ॥ आयुःकर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता कल्याणकर्ता वरदो भव ॥ अनेन बलिदानेन निरृतिः प्रीयताम् ॥४॥
पश्चिमायाम् - ॐ तत्त्वायामिब्ब्रह्मणाव्वन्दमानस्तदाशांस्तेयजमानोह विर्ब्भिx ॥ अहेडमानोव्वरुणेहबोद्ध्युरुशx समानऽआयुx प्प्रमेषीx ॥२/२१॥ पश्चिमायाम् - वरुणं साङ्गं सपरिवारं सायुधं सशक्तिकम् एभिर्गन्धाद्युपचारैस्त्वामहं पूजयामि ॥ वरुणाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय इमं सदीपभाषभक्तबलिं समर्पयामि ॥ भो वरुण दिशं रक्ष बलिं भक्ष मम सकुटुम्बस्याभ्युदयं कुरु ॥ आयुःकर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता कल्याणकर्ता वरदो भव ॥ अनेन बलिदानेन वरुणः प्रीयताम् ॥५॥
वायव्याम् - ॐ आनोनियुद्द्भिxशतिनीभिरद्ध्वरxसहस्त्रिणीभिरुपयाहि यज्ञम् ॥ व्वायोऽ अस्म्मिन्त्सवने मादयस्व यूयम्पात स्वस्तिभिx सदा नx ॥२८/२७॥ वायव्याम् - वायुं साङ्गं सपरिवारं सायुधं सशक्तिकम् एभिर्गन्धाद्युपचारैस्त्वामहं पूजयामि ॥ वायवे साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय इमं सदीपमाषभक्तबलिं समर्पयामि ॥ भो वायो दिशं रक्ष बलिं भक्ष मम सकुटुम्बस्याभ्युदयं कुरु ॥ आयुःकर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता कल्याणकर्ता वरदो भव ॥ अनेन बलिदानेन वायुः प्रीयताम् ॥६॥
उत्तरस्याम् - ॐ व्वयx सोम व्व्रते तव मनस्तनूषु बिब्भ्रतx ॥ प्रजावन्तx सचेमहि ॥५६/३॥ उदीच्याम् - सोमं साङ्गं सपरिवारं सायुधं सशक्तिकम् एभिर्गन्धाद्युपचारैस्त्वामहं पूजयामि ॥ सोमाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय इमं सदीपमाषभक्तबलिं समर्पयामि ॥ भो सोम दिशं रक्ष बलिं भक्ष मम सकुटुम्बस्याभ्युदयं कुरु ॥ आयुःकर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता कल्याणकर्ता वरदो भव ॥ अनेन बलिदानेन सोमः प्रीयताम् ॥७॥
ईशान्याम् - ॐ तमीशानञ्जगतस्तस्त्थुषस्प्पतिन्धियाञ्जिन्न्वमवसेहूमहेव्वयम् ॥ पूषानोयथाव्वेदसामसद्द्वृधेरक्षितापायुरदब्ब्धx स्वस्तये ॥१८/२५॥ ईशान्याम् - ईश्वरं साङ्गं सपरिवारं सायुधं सशक्तिकम् एभिर्गन्धाद्युपचारैस्त्वामहं पूजयामि ॥ ईश्वराय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय इमं सदीपमाषभक्तबलिं समर्पयामि ॥ भो ईश्वर दिशं रक्ष बलिं भक्ष मम सकुटुम्बस्याभ्युदयं कुरु ॥ आयुःकर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता कल्याणकर्ता वरदो भव ॥ अनेन बलिदानेन ईश्वरः प्रीयताम् ॥८॥
ऊर्ध्वायाम् - ॐ अस्म्मे रुद्द्रामेहनापर्व्वतासोव्वृत्रहत्त्ये भरहूतौसजोषाx ॥ यx शx सतेस्तुवतेधायिपज्ज्रxइन्द्रज्ज्येष्ट्ठाऽअस्म्मॉं२ऽ अवन्तु देवाx ॥५०/३३॥ पूर्वेशानयोर्मध्ये ऊर्ध्वायाम् - ब्रह्मणे साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय इमं सदीपमाषभक्तबलिं समर्पयामि ॥ भो ब्रह्मन् दिशं रक्ष बलिं भक्ष मम सकुटुम्बस्याभ्युदयं कुरु ॥ आयुःकर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता कल्याणकर्ता वरदो भव ॥ अनेन बलिदानेन ब्रह्मा प्रीयताम् ॥९॥
अधः - ॐ स्योना पृथिवि नोभवानृक्षरा निवेशनी ॥ यच्छा नx शर्म्म सप्प्रथाx ॥१३/३६॥ निरृतिपश्चिमयोर्मध्ये अधस्तात् - अनन्तं साङ्गं सपरिवारं सायुधं सशक्तिकम् एभिर्गन्धाद्युपचारैस्त्वामहं पूजयामि ॥ अनन्ताय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय इमं सदीपमाषभक्तबलिं समर्पयामि ॥ भो अनन्त दिशं रक्ष बलिं भक्ष मम सकुटुम्बस्याभ्युदयं कुरु ॥ आयुःकर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता कल्याणकर्ता वरदो भव ॥ अनेन बलिदानेन अनन्तः प्रीयताम् ॥१०॥
तत एकस्मिन्पत्रावल्यां सदीपमाषभक्तबलिं निधाय ॐ नहिस्प्पशमवि० ॥६०/३३॥ डाकिनीशाकिनीभूतप्रेतपिशाचसहितं श्रीक्षेत्रपालं एभिर्वन्धाद्युपचारैस्त्वामहं पूजयामि ॥ डकिनीशाकिनीह्भूतप्रेतपिशाचसहिताय श्रीक्षेत्रपालाय इमं सदीपमाषभक्तबलिं समर्पयामि ॥ भो डाकिनीशाकिनीभूतप्रेतपिशाचसहित क्षेत्रपाळ दिशं रक्ष बलिं भक्ष मम सकुटुम्बस्याभ्युदयं कुरु ॥ आयुःकर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता कल्याणकर्ता वरदो भव ॥ हस्ते जलं गृहीत्वा ॥ अनेन पूजनपूर्वकसदीपमाषभक्तबलिदानेन डाकिनीशाकिनीभूतप्रेतपिशाचसहितः क्षेत्रपालः प्रीयतां न मम ॥
॥ इति क्षेत्रपालसहितेन्द्रादिदेवानां पूजनपूर्वकबलिदानप्रयोगः समाप्तः ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP