अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता
श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥
अनुक्रमणिका प्रमाणे वाचन करावे.
ततो मंडपाद्यर्थं संभारानेकीकृत्य सांगं शास्त्रोक्तमंडपादिकं छायामंडपादिकं वा यथाशक्ति कुर्यात् ॥
अथ मंडपानेन सह गणपत्यादिदेवतासहितमुख्यदेवतानां वेदीमानं कुण्डमानञ्च संक्षेपतः कथ्यते ॥ सामान्यतो यत्र छायामण्डपः क्रियते तत्र न स्तंभानां मानं नात्र स्तंभार्थं यथोक्तयज्ञियवृक्षादिशाखानाञ्चानयनम् ॥ तत्र तु यन्त्रादिद्वारैव पूर्वदिङ्निश्चयं कृत्वा मंडपार्थं यज्ञकर्तुः पञ्चमांशेश कृतचतुर्विंशत्यङ्गुलहस्तमानेन दशद्वादशचतुर्दशषोडशाष्टादशविंशतिप्रभृतिविहितहस्तमानान्यतरमानं स्वीकृत्य चतुर्विंशत्यङ्गुलोच्चमर्धहस्तोच्चं वा, चतुर्दिक्षु चतुरष्टान्यतराङ्गुलाधिकहस्तद्वयमितचतुर्द्वारोपेतं मध्यममुत्तमं वा शिखरसहितं ध्वजापताकादियुक्तं मण्डपं विधाय तं वस्त्रादिना पुष्पपल्लवैश्च सुशोभितञ्च कृत्वा तत्रेशान्यां चतुर्विंशत्यङ्गुलोच्चं समचतुरस्रं त्रिवप्रान्वितञ्च गृहस्थापनार्थं गृहपीठम्, आग्नेय्यां चतुर्विंशत्यङ्गुलसमचतुरस्रं द्वादशाङ्गुलोच्चं गणपतिपीठ तदुत्तरे तत्सदृशमेव योगिनीपीठं, नैरृत्यां चतुर्विंशत्यङ्गुलसमचतुरस्त्रं द्वादशाङुलोच्चं चतुरंगुलोच्चं वा वास्तुपीठं, वायव्यकोणे चतुर्विंशत्यङ्गुलसमचतुरस्रं द्वादशाङ्गुलोच्चं क्षेत्रपालपीठं, तदुत्तरे चतुस्त्रिंशदङ्गुलसमचतुरस्रं द्वादशाङ्गुलोच्चं स्नानपीठं ( वारुणपीठं ), मध्ये मुख्यदेवस्य वेदी चेदुत्तरस्यां दिशि होमसंख्यामानसदृशम् एकद्वित्रिचतुःप्रभृतिहस्तात्मकं वर्णक्रमेण चतुरस्रवृत्तार्धचन्द्रत्र्यस्रयोन्यादिकं कुण्डं कुर्यात् ॥ अथ यत्र विशेषतया दिग्विधानं कुण्डकरणार्थं मुख्य देवतास्थापनार्थञ्च निर्दिष्टं तत्र तथैव मुख्यदेवतास्थापनं कुण्डञ्चापि विदध्यात् ॥ यथा विष्णुयागे मध्यवेदी कथिता तत्रोत्तरस्यामेव कुण्डम् ॥ तथैव श्रीमहारुद्रस्येशान्यामेव वेदी विहिता तत्र नियततयेशान्यां गृहवेद्या उक्तत्वेऽपि सा श्रीमहारुद्रवेद्या दक्षिणे कार्या न त्वीशान्याम् ॥ यत्र देव्युद्देशेन होमः क्रियते तत्र देव्या मध्यवेदी चेत् कुण्डविधानमुत्तमपक्षे पश्चिमस्यां दिशि गौणपक्षे उत्तरस्यां दिशि ज्ञेयम् ॥ परञ्च यत्र देव्यादावपि मण्डपस्य मध्य एव कुण्डकरणेच्छा चेत् तत्र देव्याः पीठं कुण्डमानसदृशं समचतुरस्रं वप्रान्वितं पूर्वस्यामीशान्यां वा कर्तव्यम् ॥ तथैव श्रीमहारुद्रेऽपि कृते न दोषः । देवतोद्देशेन विशेषतया मुख्यदेवस्य दिशि विधीयमानायामपि गनपत्यादीनां पीठानि पूर्ववदेव तत्र तत्र कर्तव्यानीति नात्र कुत्रापि व्यत्ययः । गायत्रीपुरश्चरणेऽपि यदा गायत्र्याः स्थापनं मण्डपस्य मध्य एव वेदीं विधाय कृतञ्चेत्तत्रापि मुख्यपक्षे पश्चिमदिशि गौणपक्षे उत्तरस्यां दिशि कुण्डमुचितम् । पञ्चकुण्डीपक्षे नवकुण्डीपक्षे तु मध्य एव मुख्यदेवतानां स्थापनार्थं वेदी भवति । अस्माकमभिप्रायस्तु गायत्रीपुरश्चरणेऽपि गायत्र्यर्थवाचके भगवतः श्रीसूर्यनारायणस्यैवोपासनायाः सत्त्वात्तत्रापि गायत्र्याः स्थापनमीशान्यां पूर्वस्यां दिशि वा कुण्डविधानं मध्य एवोचितम् ॥ एवं गणपत्यादीनां पीठानि कृत्वा मुख्यदेवस्यापि यथोक्तस्थले वेदीं कुर्यात् ॥ एवमस्माभिर्दिङ्मात्रं प्रदर्शितम् । एवं सत्यपि विद्वद्भिर्विद्वद्भ्यो यद्रोचते तद्विचार्य कार्यं वयं तु सर्वे गतानुगतिका बहुधेति दिक् ॥
N/A
References : N/A
Last Updated : December 13, 2016
TOP