संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ श्रीगायत्रीपद्धतिः

अथ श्रीगायत्रीपद्धतिः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


ब्रह्मविष्णुशिवाराध्यां गायत्रीं लोकपावनीम् ॥ नमस्कृत्यानुरोधेन लिखेयं पद्धतिं क्रमात् ॥१॥
साधको ब्राह्मे मुहूर्त्ते चोत्थाय यथोक्तं शौचं कृत्वा नद्यादौ स्नानं कृत्वा प्राणायामत्रयं कृत्वा अर्घ्यांतां संध्यां कुर्यात् । प्राणायामो यथा ॥ ॐभूः ॐभुवः ॐस्वः ॐमहः ॐजनः ॐतपः ॐसत्यं ॐतत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ॥ धियो यो नः प्रचोदयात् ॥ आपो ज्योतीरसोमृतं ब्रह्मभूर्भुवः स्वरोम् ॥ प्रणवस्य ब्रह्मा ऋषिः गायत्रीच्छंदः परमात्मा देवता शरीरशुद्ध्यर्थे जपे विनियोघ ॥ ब्रह्मणे नमः शिरसि ॥ गायत्रीछंदसे नमः मुखे ॥ परमात्मदेवतायै नमः हृदये ॥ करसंपुटं कृत्वा समस्तदुरितक्षयार्थं न्यासं करिष्ये ॥ व्याहृतीनां जमदग्निभरद्वाजात्रिगौतमकश्यपविश्वामित्रवसिष्ठादिभ्य ऋषिभ्यो नमः शिरसि ॥ सप्तर्चितनिलसवितृप्रजापतिवरुणेंद्रविश्वेदेवदेवताभ्यो नमः मुखे ॥ गात्र्युष्णिगनुष्ठुब्बृहती पंक्ति त्रिष्टुब्जगतीछंदोभ्यो नमः हृदि ॥ एवं करसंपुटं कृत्वा समस्तदुरितक्षयार्थे गायत्रीन्यासः ॥ गायत्र्या विश्वामित्र ऋषये नमः शिरसि ॥ गायत्रीछंदसे नमः मुखे ॥ परमात्मदेवतायै नमः हृदये ॥ ॐ भूः नमः हृदये ॥ ॐभुवः नमः मुखे ॥ ॐस्वः नमः दक्षांसे ॥ ॐमहः नमः वामांसे ॥ ॐजनः नमः दक्षिणोरौ ॥ ॐ तपः नमः वामोरौ ॥ ॐ सत्यं नमः जठरे ॥ इति व्याहृतिन्यासः ॥ अथाक्षरन्यासः ॥ ॐतत् नमः गुल्फयोः ॥ ॐसं नमः पदपार्श्वयोः ॥ ॐविं नमः जान्वोः ॥ ॐतुं नमः पादमुखयोः ॥ ॐर्वं नमः जंघयोः ॥ ॐरें नमः नाभौ ॥ ॐणिं नमः हृदये ॥ ॐ यं नमः कंठे ॥ ॐभं नमः हस्तयोः ॥ ॐ र्गों नमः मणिबंधयोः ॥ ॐ दें नमः कूर्परयोः ॥ ॐ वं नमः बाहुमूलयोः ॥ ॐस्यं नमः आस्ये ॥ ॐधीं नमः नासापुटयोः ॥ ॐमं नमः कपोलयोः ॥ ॐहिं नमो नेत्रयोः ॥ ॐधिं नमः कर्णयोः ॥ ॐयों नमः भ्रूमध्ये ॥ ॐयों नमः मस्तके ॥ ॐनः नमः पश्चिमवक्त्रे ॥ ॐप्रं नमः उत्तरवक्त्रे ॥ इत्यक्षरन्यासः ॥ अथ पदन्यासः ॥ ॐतत् नमः शिरसि ॥ ॐसवितुर्नमः भ्रुवोर्मध्ये ॥ ॐवरेण्यं नमः नेत्रयोः ॥ ॐभर्गः नमः मुखे ॥ ॐदेवस्य नमः जठरे ॥ ॐधीमहि नमः हृदये ॥ ॐधियः नमः नाभौ ॥ ॐयः नमः गुह्ये ॥ ॐनः नमः जान्वोः ॥ ॐप्रचोदयात् नमः पादयोः ॥ ॐआपोज्योती रसो‍ऽमृतं ब्रह्म भूर्भुवः स्वरोमिति शिरसि ॥ इति पदन्यासः ॥ अथ पादन्यासः ॥ ॐतत्सवितुर्वरेण्यं नमः नाभ्यादिपादपर्यंतम् ॥ ॐभर्गो देवस्य धीमहि नमः हृदयादिनाभ्यन्तम् ॥ ॐधियो यो नः प्रचोदयात् नमः मूर्धादिहृदयांतम् ॥ ॐपरोरजसे सावदोम् इति मूर्ध्नि विन्यसेत् ॥ अथ षडंगन्यासः । ॐब्रह्मणे हृदयाय नमः ॥ ॐविष्णवे शिरसे स्वाहा ॥ ॐरुद्राय शिखायै वषट् ॥ ॐईश्वराय कवचाय हुम् ॥ ॐसदाशिवाय नेत्रत्रयाय वौषट् ॥ ॐसर्वात्मने अस्त्राय फट् ॥ इति मंत्रेणोर्ध्वाधस्तालत्रयं कृत्वा छोटिकमुद्रया दिग्बंधनं विधाय मूलेन व्यापकं कुर्य्यात् ॥ इति षडंगम् ॥ अथ लयांगन्यासः ॥ ॐ अं आं इं ईं उं ऊं ऋं ॠं लृं लॄं एं ऐं ओं औं अं अः कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं ळं क्षं ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ॥ धियो यो नः प्रचोदयात् ॥ क्षं ळं हं सं षं शं वं लं रं यं मं भं बं फं पं नं धं दं थं तं णं ढं डं ठं टं ञं झं जं छं चं ङं घं गं खं कं अः अं औं ओं ऐं एं लॄं लृं ॠं ऋं ऊं उं ईं इं आं अं त्यादचोप्रनः योयोधिहिमधीस्यवदेर्गोभण्यंरेर्वतुवित्सतस्वःवःर्भुभू ॐ इति हृदयादिमुखांतम् ॥ एवमेव हृदयादिकेशांतम् तथैव व्यापयेत् ॥ इति लयांगन्यासः ॥ इति विन्यस्य पीठन्यासं कुर्यात् ॥ ॐमं मंडूकाय नमः मूलाधारे ॥ ॐकं कालाग्निरुद्राय नमः स्वाधिष्ठाने ॥ ॐमं मूलप्रकृत्यै नमः नाभौ ॥ ॐआं आधारशक्तये नमः हृदये ॥ पुनस्तत्रैव ॥ कं कूर्माय नमः ॥ अं अनन्ताय नमः ॥ वं वराहाय नमः ॥ धं धरिण्यै नमः ॥ सं सुधासिन्धवे नमः ॥ रं रत्नद्वीपाय नमः ॥ मं मणिमंडपाय नमः ॥ कं कल्पवृक्षाय नमः ॥ स्वं स्वर्णवेदिकायै नमः ॥ रं रत्नसिंहासनाय नमः ॥ धं धर्माय नमः दक्षांसे ॥ ज्ञां ज्ञानाय नमः वामांशे ॥ वं वैराग्याय नमः वामोरौ ॥ ऐं ऐश्वर्याय नमः दक्षोरौ ॥ अं अधर्माय नमः मुखे ॥ अं अज्ञानाय नम वामपार्श्वे ॥ अं अवैराग्याय नमः नाभौ ॥ अं अनैस्व्हर्याय नमः दक्षपार्श्वे ॥ पुनर्हृदि । अं अनंताय नमः ॥ अं अंबुजाय नमः ॥ आं आनन्दकन्दाय नमः ॥ सं संविन्नालाय नमः ॥ सं सर्वतत्त्वात्मकपद्माय नमः ॥ प्रं प्रकृतिमयपत्रेभ्यो नमः ॥ विं विकारमयकेसरेभ्यो नमः ॥ पं पंचाशद्वर्णकर्णिकायै नमः ॥ ॐ मं दशकलात्मने वह्निमंडलाय नमः ॥ अं द्वादशकलात्मने सूर्यमंडलाय नमः ॥ उं षोडशकलात्मने चंद्रमंडलाय नमः ॥ सं सत्त्वाय नमः ॥ रं रजसे नमः ॥ तं तमसे नमः ॥ आं आत्मने नमः ॥ अं अंतरात्मने नमः ॥ पं परमात्मने नमः ॥ ह्रीं ज्ञानात्मने नमः ॥ मां मायातत्त्वाय नमः ॥ कं कलातत्त्वाय नमः ॥  विं विद्यातत्त्वाय नमः ॥ पं परतत्त्वाय नमः ॥ ततोऽष्टदले रां दीप्तायै नमः ॥ रीं सूक्ष्मायै नमः ॥ रूं जयायै नमः ॥ रें भद्रायै नमः ॥ रैं विभूत्यै नमः ॥ रों विमलायै नमः ॥ रौं अमोधायै नमः ॥ रं विद्युतायै नमः ॥ पीठमध्ये । रः सर्वतोमुख्यै नमः ॥ तदुपरि नित्यपूजाचक्रं विधाय ॥ ॐ ब्रह्मविष्णुरुद्रांबिकात्मकाय सौरपीठात्मने नमः ॥ इति पीठन्यासः ॥ मूलेन प्राणायामत्रयं कृत्वा मूलेन व्यापकं कृत्वा ध्यायेत् ॥ मुक्ताविद्रुमहेमनीलधवलच्छाअयैर्मुखैस्त्रीक्षणैर्युक्तामिंदुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् ॥ गायत्रीं वरदाभयांकुशकशाः शुभ्रं कपालं गुणं शंखं चक्रमथारविंदयुगलं हस्तैर्वहंतीं भजे ॥ इति ध्यात्वा बहिः पूजोक्तरीत्या देवीं सौवर्णीं च संपूज्य गंधपुष्पधूपदीपनैवेद्यतांबूलाद्युपचारान्प्रकल्प्य किंचिज्जपेत् ॥ स्वाग्तं देवदेवेशि सन्निधौ मे महेश्वरि ॥ गृहाण मानसीं पूजां यथार्थपरिभाविताम् ॥१॥
दशधा मूलं जपित्वा जपं देव्याः करे समर्प्य मनसा पुष्पांजलिं दत्त्वा क्षणं तदात्मकं विभाव्य वरदाभयांकुशकशाकपालगुणशंखचक्राब्जयोन्यादिमुद्राः प्रदर्शयेत् ॥ इति मानसी पूजा ॥ अथ बहिःपूजार्थमनुज्ञाप्य बहिःपूजां कुर्यात् । स्ववामे अस्रक्षालितत्रिपदिकां निधाय तदुपरि अस्रक्षालितं कलशं निधाय शुद्धतोयं मूलेनापूर्य्य मूलेनाष्टकृत्वोऽभिमंत्र्य जातवेदसे इत्यृचा त्र्यंबकमितिऋचा गायत्र्या च सकृतभिमंत्र्य गंधपुष्पाभ्यां पूजयेत् ॥ इति कलशसंस्थापनम् ॥ अथ सामान्यार्घ्यस्थापनविधिः ॥ अस्रक्षालितां त्रिपदिकां निधाय तत्रास्रक्षालितं ताम्रपात्रं निधाय मूलेन शुद्धजलमापूर्य्य मूलेनाष्टवारं संमंत्र्य गंधपुष्पाभ्यां पूजयेत् ॥ इति सामान्यार्घ्यस्थापनविधिः ॥ अथ विशेषार्घ्यस्थापनविधिः ॥ पीठात्मनोर्मध्ये चंदनेन कनिष्ठिकया त्रिकोणं षट्कोणं च कृत्वा । अग्नये हृदयाय नमः ॥ ईशानाय शिरसे स्वाहा ॥ निरृतये शिखायै वषट्‍ ॥ वायवे कवचाय हुम् ॥ पुरः नेत्रत्रयाय बौषट्‍ ॥ पूर्वे अस्त्राय फट् ॥ सामान्यार्घ्यजलेन प्रोक्ष्य चंदनेन पूजयेत् ॥ त्रिकोणे आधारं स्थापयामि ॥ आं आधारशक्तिं स्थापयामि ॥ पृथिवीद्वीपं स्थापयामि ॥ तत्र पूजा ॥ मं अग्निमंडलाय दशकलात्मने नमः ॥ धूं धूम्रायै नमः ॥१॥
उं उष्मायै नमः ॥२॥
ज्वं ज्वलिन्यै नमः ॥३॥
ज्वां ज्वालिन्यै नमः ॥४॥
विं विस्फुलिंगिन्यै नमः ॥५॥
सु सुश्रियै नमः ॥६॥
सुं सुरूपायै नमः ॥७॥
कं कपिलायै नमः ॥८॥
हं हव्यवाहनायै नमः ॥९॥
कं कव्यवाहनायै नमः ॥१०॥
इति आधारपूजा ॥ आधारोपरि अर्घ्यपात्रं संस्थाप्य पात्रोपरि पूजा ॥ अं अर्कमंडलाय द्वादशकलात्मने नमः ॥ तं तपिन्यै नमः ॥१॥
तां तापिन्यै नमः ॥२॥
धूं धूम्रायै नमः ॥३॥
मं मरीच्यै नमः ॥४॥
ज्वां ज्वालिन्यै नमः ॥५॥
रुं रुच्यै नमः ॥६॥
सुं सुषुम्णायै नमः ॥७॥
भों भोगदायै नमः ॥८॥
विं विश्वायै नमः ॥९॥
बों बोधिन्यै नमः ॥१०॥
धां धारिण्यै नमः ॥११॥
क्षं क्षमायै नमः ॥१२॥
इत्यर्घ्यपात्रपूजा ॥ विलोममातृकामुच्चरन् शुद्धजलमापूरयेत् ॥ ॐक्षं नमः ॥ प्रणवः सर्वत्र ॥ ळं नमः ॥ हं नमः ॥ सं नमः ॥ षं नमः ॥ शं नमः ॥ वं नमः ॥ लं नमः ॥ रं नमः ॥ यं नमः ॥ मं नमः ॥ भं नमः ॥ बं नमः ॥ फं नमः ॥ पं नमः ॥ नं नमः ॥ धं नमः ॥ दं नमः ॥ थं नमः ॥ तं नमः ॥ णं नमः ॥ ढं नमः ॥ डं नमः ॥ ठं नमः ॥ टं नमः ॥ ञं नमः ॥ झं नमः ॥ जं नमः ॥ छं नमः ॥ चं नमः ॥ ङं नमः ॥ घं नमः ॥ गं नमः ॥ खं नमः ॥ कं नमः ॥ अः नमः ॥ अं नमः ॥ औं नमः ॥ ओं नमः ॥ ऐं नमः ॥ एं नमः ॥ लॄं नमः ॥ लृं नमः ॥ ॠं नमः ॥ ऋं नमः ॥ ऊं नमः ॥ उं नमः ॥ ईं नमः ॥ इं नमः ॥ आं नमः ॥ अं नमः ॥ तत्र पूजा ॥ उं सोममंडलाय षोडशकलात्मने नमः ॥ अं अमृतायै नमः ॥१॥
मां मानदायै नमः ॥२॥
पूं पूषायै नमः ॥३॥
तुं तुष्ट्यै नमः ॥४॥
पुं पुष्ट्यै नमः ॥५॥
रं रत्यै नमः ॥६॥
धृं धृत्यै नमः ॥७॥
शं शशिन्यै नमः ॥८॥
चं चन्द्रिकायै नमः ॥९॥
कां कान्त्यै नमः ॥१०॥
ज्यों ज्योत्स्नायै नमः ॥११॥
श्रीं श्रियै नमः ॥१२॥
प्रीं प्रीत्यै नमः ॥१३॥
अं अङ्गदायै नमः ॥१४॥
पूं पूर्णायै नमः ॥१५॥
पूं पूर्णामृतायै नमः ॥१६॥
अंकुशमुद्रया तीर्थमावाह्य ॥ गंगे च यमुने चैव गोदावरि सरस्वति ॥ नर्मदे सिंधु कावेरि जले‍ऽस्मिन्सन्निधौ भव ॥ योनिमुद्रां प्रदर्श्य धेनुमुद्रयाऽमृतीकृत्य शंखमुद्रां प्रदर्श्य गंधादिभिः संपूज्य मूलेनाष्टवारमभिमंत्र्य मत्स्यमुद्रयाऽऽच्छाद्य सामान्यार्घ्यजलेन सिंचेत् ॥ ॐ आत्मतत्त्वाय नमः ॥ ॐ विद्यातत्त्वाय नमः ॥ ॐ शिवतत्त्वाय नमः ॥ परो रजसे सावदोमिति सप्तकृत्वोऽभिमंत्र्य तज्जलदेवतात्मैक्यं विभाव्य किंचित्पाअत्रांतरे गृहीत्वा पूजोपकरणसामग्रीमात्मानं च त्रिः प्रोक्षयेत् ॥ इति विशेषार्घ्यस्थापनविधिः ॥ अर्घ्यस्योत्तरे पात्रचतुष्टयं पाद्यार्घ्याचमनीयमधुपर्कार्थं संस्थाप्य सकृत्यभिमंत्र्य तोयेनापूर्य्य मूलेन त्रिवारमभिमंत्र्य न्यासक्रमेण धर्माईन्प्रोक्षणीरूपेण संपूज्य तस्मिन्पीठोपरि देवतां विभाव्य सर्वांगेषु पंचपुष्पांजलिं दत्वा मूलाधारात्कुंडलीमुत्थाप्य द्वारे स्थित्वा तत्र परमात्मना संयोज्य तद्दृष्ट्याऽमृतधारया देवीं प्रीणयित्वा देवीं प्रसन्नां विभाव्य स्वस्मिन्देव्यात्मैक्य विभाव्यासनादिदीपान्तानुपचारान्प्रकल्पयेत् ॥ ( बाह्यनैवेद्यं न देयमिति संप्रदायः शिवो भूत्वा शिवं यजेदिति वचनात् ॥ )
अथ पीठपूजा ॥ मं मंडूकाय नमः ॥ कां कालाग्निरुद्राय नमः ॥ मूं मूलप्रकृत्यै नमः ॥ आं आधारशक्त्यै नमः ॥ कूं कूर्माय नमः ॥ अं अनंताय नमः ॥ वं वराहाय नमः ॥ धं धरित्र्यै नमः ॥ सुं सुधासिंधवे नमः ॥ रं रत्नद्वीपाय नमः ॥ मं मणिमंडपाय नमः ॥ कं कल्पतरवे नमः ॥ स्वं स्बर्णवेदिकायै नमः ॥ तदुपरि रत्नसिंहासनाय नमः ॥ आग्नेयादिकोणेषु  ॥ धं धर्माय नमः ॥ ज्ञां ज्ञानाय नमः ॥ व वैराग्याय नमः ॥ ऐं ऐश्वर्याय नमः ॥ पूर्वादिदिक्षु ॥ अं अधर्माय नमः ॥ अं अज्ञानाय नमः ॥ अं अवैराग्याय नमः ॥ अं अनैश्वर्याय नमः ॥ मध्ये ॥ अं अनंताय नमः ॥ अं अंबुजाय नमः ॥ आं आनंदकन्दाय नमः ॥ सं सविन्नालाय नमः ॥ सं सर्वतत्त्वात्मकपद्माय नमः ॥ पं प्रकृतिमयपत्रेभ्यो नमः ॥ विं विकारमयकेशरेभ्यो नमः ॥ पं पंछाशद्वर्णकर्णिकायै नमः ॥ मं दशकलात्मने वह्निमंडलाय नमः ॥ अं द्वादशकलात्मने सूर्यमंडलाय नमः ॥ उं षोडशकलात्मने सोममंडलाय नमः ॥ सं सत्त्वाय नमः ॥ रं रजते नमः ॥ तं तमसे नमः ॥ आं आत्मने नमः ॥ अं अंतरात्मने नमः ॥ पं परमात्मने नमः ॥ ज्ञां ज्ञानात्मने नमः ॥ मां मायातत्त्वाय नमः ॥ कं कलातत्त्वाय नमः ॥ विं विद्यातत्त्वाय नमः ॥ पं परतत्त्वाय नमः ॥ एतान्युपर्युपरि ॥ पीठस्य पूर्वादिभागे । रां दीप्तायै नमः ॥ रीं सूक्ष्मायै नमः ॥ रूं जयायै नमः ॥ रें भद्रायै नमः ॥ रैं विभूत्यै नमः ॥ रों विमलायै नमः ॥ रौं अमोघायै नमः ॥ रं विद्युतायै नमः ॥ रः सर्वतोमुख्यै नमः ॥ पीठमध्ये ॥ परदेवतायै नमः ॥ तदुपरि बिंदुत्रिकोणवृत्तदलाष्टकरेखात्मकं चतुरस्रं चतुर्द्वारोपशोभितं यंत्रं संस्थाप्य ब्रह्मविष्णुरुद्रबिंबात्मकसौरपीठाय नमः ॥ इति पीठ पूजयेत् ॥ इति पूजा समाप्ता ॥
अथ पूर्वोक्तऋष्यादिन्यासं कृत्वा प्राणानायम्य मूलेन व्यापकं गायत्र्युच्चारपूर्वकं हस्ता भ्यां पुष्पांजलि गृहीत्वा नासारंध्रेण पुष्पसंचयकल्पितयंत्रमये कल्पितमूर्तिं निक्षिप्य तत्तत्स्थानगतानि आवरणानि ध्यात्वा आवाहनादिमुद्राः प्रदर्श्याऽऽवाहनं सन्निधापनं इहावाहिता भव ॥ पुष्पेण देव्या हृदि करं निधाय “ आं ह्रीं क्रौं ” इति द्वादशवारं जपेत् ॥ ततो भूतशुद्धिं प्राणप्रतिष्ठां विधाय पूजयेत् ॥ “ नमः ” इतिमंट्रेण देव्याः पादांबुजे पाद्यं दद्यात् ॥ “ स्वाहे ” तिमंत्रेण मूर्ध्न्यर्घ्यं “ वमि ” ति मंत्रेण मुखे आचमनम् ॥ ततः स्नानशालायां सुगंधिसलिलैः स्नापयित्वा मूलेन शतसंख्येन वा राजोपचारैः सम्पूज्य देवतां प्रसन्नां नमः ॥ नैरृत्यकोणे सावित्र्यै नमः ॥ वायव्यकोणे सरस्वत्यै नमः ॥ त्रिकोणांतरालेषु ब्रह्मणे नमः ॥ विष्णवे नमः ॥ रुद्राय नमः ॥ वायव्यकोणे सरस्वत्यै नमः ॥ त्रिकोणांतरालेषु ब्रह्मणे नमः ॥ विष्णवे नमः ॥ रुद्राय नमः ॥ मूलेन पुष्पांजलिं गृहीत्वा ॥ “ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ॥ भक्त्या समर्पये तुभ्यं प्रथमावरनार्चनम् ॥ ” अनेन पुष्पांजलिं दद्यात् ॥ ततो द्वितीयावरणम् ॥ अष्टदलेषु पूर्वादिदिक्षु ॥ ॐ आदित्याय नमः ॥ भानवे नमः ॥ भास्कराय नमः ॥ रवये नमः ॥ आग्नेयादिकेशरेषु ॥ उषायै नमः ॥ प्रज्ञायै नमः ॥ प्रभायै नमः ॥ संध्यायै नमः ॥ मूलमुच्चरन् “ अभीष्टसिद्धिं मे देहि० ” इति पुष्पांजलिं दद्यात् ॥ इति द्वितीयावरणम् ॥ अथ तृतीयम् ॥ हृदि ब्रह्मणे नमः । हृदयाय नमः ॥ शिरसि विष्णवे नमः । शिरसे स्वाहा ॥ ईशाने रुद्राय नमः । शिखायै वषट् ॥ नैरृत्ये ईश्वराय नमः । कवचाय हुम् ॥ वायव्ये सदाशिवाय नमः । नेत्रत्रयाय वौषट् ॥ आग्नेये सर्वात्मने नमः । अस्त्राय फट् ॥ तत्तद्देवताभ्यो नमः ॥ मूलेन । “ अभीष्ट० ” ॥ इति तृतीयावरणम् ॥ अथ चतुर्थम् ॥ तद्बहिः पूर्वाद्यष्टदलेषु ॥ ॐ अमृतायै नमः ॥ नित्यायै नमः ॥ विश्वंभरायै नमः ॥ ईशान्यै नमः ॥ प्रभायै नमः ॥ जयायै नमः ॥ विजयायै नमः ॥ शांत्यै नमः ॥ मूलेन पुष्पांजलिम् “ अभीष्टसिद्धिं० ” ॥ इति चतुर्थावरणम् ॥ अथ पंचमम् ॥ तद्बहिः पूर्वाद्यष्टदिक्षु ॥ ॐकांत्यै नमः ॥ दुर्गायै नमः ॥ सरस्वत्यै नमः ॥ विश्वरूपायै नग्नः ॥ विशालायै नमः ॥ ईशानायै नमः ॥ व्यापिन्यै नमः ॥ विमलायै नमः ॥ मूलमुच्चरन् “ अभीष्टसिद्धिं० ” इति पुष्पांजलिं दद्यात् ॥ इति पंचमावरणम् ॥ अथ षष्ठम् ॥ पूर्वाद्यष्टदिक्षु ॥ ॐ तमोपहारिण्यै नमः ॥ सूक्ष्मायै नमः ॥ विश्वयोन्यै नमः ॥ जयावहायै नमः ॥ पद्मालयायै नमः ॥ परायै नमः ॥ शोभायै नमः ॥ पद्मरूपायै नमः । मूलेन पुष्पांजलिम् “ अभीष्टसिद्धिं० ” इति षष्ठावरणम् ॥ अथ सप्तमम् ॥ पूर्वाद्यष्टदिक्षु ॥ ॐआं ब्राह्म्यै नमः ॥ ॐ ईं माहेश्वर्यिअ नमः ॥ ॐ ऊं कौमार्यै नमः ॥ ॐऋं वैष्णव्यै नमः ॥ ॐलृं वाराह्यै नमः ॥ ओं इन्द्राण्यै नमः ॥ ॐऔं चामुंडायै नमः ॥ ॐअः अरुणायै नमः ॥ मूलमुच्चार्य “ अभीष्ट० ” पुष्पांजलिं दद्यात् ॥ इति सप्तमावरणम् ॥ अथाष्टमावरणम् ॥ मध्ये तद्बहिः पूर्वाद्यष्टदिक्षु ॥ सूं सूर्याय नमः ॥ ॐसों सोमाय नमः ॥ ॐभौं भौमाय नमः ॥ ॐबुं बुधाय नमः ॥ ॐगुं गुरवे नमः ॥ ॐशुं शुक्राय नमः ॥ ॐशं शनैश्चराय नमः ॥ ॐरां राहवे नमः ॥ ॐकें केतवे नमः ॥ मूलेन “ अभीष्ट० ” पुष्पांजलिं दद्यात् ॥ इत्यष्टमावरणम् ॥ अथ नवमम् ॥ पूर्वादिदशदिक्षु ॥ ॐलं इंद्राय नमः ॥ ॐरं अग्नये नमः ॥ ॐयं यमाय नमः ॥ ॐक्षं निरृतये नमः ॥ ॐवं वरुणाय नमः ॥ ॐयं वायवे नमः ॥ ॐसं सोमाय नमः ॥ ॐईं ईशानाय नमः ॥ ॐब्रं ब्रह्मणे नमः ॥ ॐअं अनंताय नमः ॥ मूलेन “ अभीष्ट० ” पुष्पांजलिं दद्यात् ॥ इति नवमारणम् ॥ अथ दशमम् ॥ ॐवं वज्राय नमः ॥ शं शक्तये नमः ॥ ॐदं दंडाय नमः ॥ ॐखं खङ्गाय नमः ॥ ॐपां पाशाय नमः ॥ अं अंकुशाय नमः ॥ ॐगं गदायै नमः ॥ ॐत्रिं त्रिशूलाय नमः ॥ ॐचं चक्राय नमः ॥ ॐअं अंबुजाय नमः ॥ मूलेन “ अभीष्ट० ” पुष्पांजलि दद्यात् ॥ इति दशमावरणम् ॥ पुनः पंचोपचारैः संपूज्य नीराजनं पुष्पांजलिं दत्त्वा यस्य स्मृत्येति पूजां समर्प्य जपफलं देव्याः करे समर्प्य पुष्पांजलिं दत्त्वा क्षमाप्य स्वहृदि उद्वास्य पुनरृष्यादि न्यासं कृत्वा निर्माल्यं विसृजेत् ॥ इति नित्यपूजापद्धतिः समाप्ता ॥ अथनैमित्तिकमाह ॥ गुरुजन्मदिवसे स्वजन्मदिवसे जन्मनक्षत्रे विद्याप्राप्तिदिवसे पूर्णायां व्यतीपाते वा विशेष्यं पूजयेत् ॥ इति नैमित्तिकम् ॥
अथ पुरश्चरणविधिः ॥ कर्ता स्वशक्त्या गुरुं संपूज्य तदनुज्ञया देहशुद्ध्यर्थं चांद्रायणं प्राजापत्यं वा समाचरेत् ॥ पुरश्चरणदिवसे सुगंधसलिलैः स्नात्वा पूजाप्रदेशे चतुरस्रं चतुर्द्वारं मंडपं विधाय हृष्टधीर्वाङ्नियमितो मिताहारो जितेंद्रियः प्रातरारभ्यामध्याह्नं जपेत् ॥ एं च चतुर्विंशतिलक्षं जपेत् ॥ तदुक्तम् ॥ उक्तलक्षविधानेन कृत्वा विप्रो जितेन्द्रियः ॥ क्षीरौदनं तिलं दूर्वाक्षीरद्रुमसमिद्द्रुमान् ॥ अष्टद्रव्येण च पृथक्सहस्रत्रितयं हुनेत् ॥ मंत्रफलसिद्ध्ये जपदशांशहोमः ॥ तद्दशांशेन तर्पणम् ॥ तद्दशांशेन मार्जनम् ॥ तद्दशांशेन ब्राह्मणभोजनम् ॥ इति पुरश्चरणविधिः ॥
अथ काम्यमुच्यते ॥ विद्यार्थी वाग्भवाद्यां लक्ष्मीकामः श्रीबीजं वश्यार्थे कामबीजं सर्वकामार्थे मायाबीजम् आयुःकामार्थे मृत्युंजयं चतुरक्षरीसहितं जपेत ॥ इति काम्यविधिः ॥ तत्त्वसंख्यासहस्राणि समंत्रं जुहुयात्तिलैः ॥ सर्वपापविनिर्मुक्तो दीर्घमायुश्च विंदति ॥ आयुष्यं साज्यहविषा केवलेनाथ सर्पिषा ॥ पर्वांकितैस्तिलैर्मंत्री जुहुयात्त्रिसहस्रकम् ॥ अरुणाक्षैस्त्रिमध्वाज्यैः प्रसूनैर्ब्रह्मवृक्षजैः ॥ बहुना किमिहोक्तेन यथावत्साधु साधिता ॥ द्विजन्मनामियं विद्या सिद्धकामदुहा स्मृता ॥
॥ इति श्रीगायत्रीपद्धतिः संपूर्णा ॥

N/A

References : N/A
Last Updated : December 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP