संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत

ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


तत्रादौ भगवत्याः श्रीगायत्रीदेव्याः पूजनार्थं कलशादिमधुपर्कान्तानां सप्तपात्राणां स्थापनार्थम् एकस्मिन्प्रक्षालिते शुद्धे समे काष्ठपीठे स्ववामहस्ततः आरभ्य दक्षिणसंस्थं सप्त यन्त्राणि कुर्यात् । तद्यथा । प्रथमं कलशस्थापनार्थ बिन्दुत्रिकोणषट्कोणवृत्तचतुरस्रात्मकं यन्त्रं कुर्यात् । तृतीयं विशेषार्घपात्रस्थापनार्थं बिन्दुत्रिकोणषट्कोणवृत्तचतुरस्रात्मकं यन्त्रं कुर्यात् । तृतीय विशेषार्घपात्रस्थापनार्थं बिन्दुत्रिकोणषट्कोणवृत्तचतुरस्रात्मकं यन्त्रं कुर्यात् । पाद्यादिमधुपर्कान्तानां चतुर्णां पात्राणां स्थापनार्थं बिन्दुत्रिकोणवृत्तचतुरस्रात्मकानि चत्वारि यन्त्राणि कुर्यात् ॥ एवं सप्तयन्त्रनिर्मितां काष्ठपट्टिकां स्वदेवतयोर्मध्ये स्थापयित्वा स्ववाहमस्ततः प्रथमे बिन्दुत्रिकोणषट्कोणवृत्तचतुरस्रात्मके यंत्रे ( १ ) कलशस्थापनं कुर्यात् ॥ यन्त्रं शङ्खमुद्रयाऽवष्टभ्य अक्षतैः पूजयेत् । भगवत्याः श्रीगायत्रीदेव्याः मूलमन्त्रमुच्चार्य यन्त्रस्य मध्यबिन्दुं पूजयेत् । ॐ भू० ॐ तत्सवितु० ॥ इति ॥ ततः स्वपुरः पारिभाषिक ( कल्पित ) पूर्वादिक्रमेण स्वाग्रतः प्रादक्षिण्येन त्रिकोणस्य प्रतिकोणं पूजयेत् । यथा - पूर्वकोणे ( पश्चिमे ) ॐ भगवत्यै श्रीगायत्रीदेव्यै नमः । नैरृत्यकोणे ( ईशान्यां ) ॐ भगवत्यैं श्रीसावित्रीदेव्यै नमः । वायव्यां ( आग्नेय्यां ) ॐ भगवत्यै श्रीसरस्वतीदेव्यै नमः ॥३॥
षट्कोणस्य परितः स्वाग्रादिक्रमेण षडङ्गानि पूजयेत् । आग्नेय्यां ( वायव्यां ) भूर्भुवः स्वः तत्सवितुर्ब्रह्मात्मने हृदयाय नमः । ईशान्या ( नैरृत्यां ) ॐ भूर्भुवः स्वः वरेणियं विष्ण्वात्मने शिरसे स्वाहा । नैरृत्यां ( ईशान्यां ) ॐ भूर्भुवः स्वः भर्गो देवस्य रुद्रात्मने शिखायै वषट् । वायव्यां ( आग्नेय्यां ) ॐ भूर्भुवः स्वः धीमहि ईश्वरात्मने कवचाय हुम् । पुरः ॐ भूर्भुवः स्वः धियो यो नः सदाशिवात्मने नेत्रत्रयाय वौषट् । स्वपुरः कल्पितपूर्वदक्षिनपश्चिमोत्तरासु दिक्षु ( पश्चिमोत्तरपूर्वदक्षिणदिक्षु ) क्रमेण ॐ भूर्भुवः स्वः प्रचोदयात् सर्वात्मने अस्त्राय फट् ॥६॥
वृत्तं मूलमन्त्रेण “ भगवत्यै श्रीगायत्रीदेव्यै नमः ” इति पूजयेत् । ततो यन्त्रस्य चतुरस्रे स्वाग्रतः कल्पितपूर्वादिदिक्षु पूर्वे ( पश्चिमे ) ॐ आदित्याय नमः । दक्षिणे ( उत्तरे ) ॐ भानवे नमः । पश्चिमे ( पूर्वे ) ॐ भास्कराय नमः । उत्तरे ( दक्षिणे ) ॐ रवये नमः ॥ तथैव चतुरस्रे स्वपुरतः कल्पिताग्नेयादिविदिक्षु । आग्नेय्यां ( वायव्यां ) ॐ उषायै नमः । नैरृत्यां ( ईशान्यां ) ॐ प्रज्ञायै नमः । वायव्यां ( आग्नेय्यां ) ॐ प्रभायै नमः । ईशान्यां ( नैरृत्यां ) ॐ सन्ध्यायै नमः । एवं कलशयन्त्रं सम्पूज्य तत्र “ ॐ अस्त्राय फडी”ति मन्त्रेण क्षालितां त्रिपदिकाम् ( आधारं ) “ ॐ मं वह्निमण्डलाय दशकलात्मने भगवत्याः श्रीगायत्रीदेव्याः कलशपात्राधाराय नमः ” इति संस्थाप्य तदुपरि वह्नेः दश कलाः पश्चिमादिप्रादक्षिण्येन पूजयेत् ॥ ॐ यं धूम्रार्चिषे नमः ॥१॥
ॐ रं उष्मायै नमः ॥२॥
ॐ लं ज्वलिन्यै नमः ॥३॥
ॐ वं ज्वालिन्यै नमः ॥४॥
ॐ शं विस्फुलिङ्ग्यै नमः ॥५॥
ॐ षं सुश्रियै नमः ॥६॥
ॐ सं सुरूपायै नमः ॥७॥
ॐ हं कपिलायै नमः ॥८॥
ॐ ळं हव्यवाहायै नमः ॥९॥
ॐ क्षं कव्यवाहायै नमः ॥१०॥
इति वह्नेः कलाः सम्पूज्य तदुपरि “ ॐ अस्त्राय फट् ” इति अस्त्रमन्त्राक्षालितं कलशपात्रं “ ॐ अं द्वादशकलात्मने सूर्यमण्डलाय भगवत्याः श्रीगायत्रीदेव्याः कलशपात्राय नमः ” इत्याधारोपरि संस्थाप्य पश्चिमादिप्रादक्षिण्येन तत्र सूर्यस्य द्वादशकलाः पूजयेत् ॥ ॐ कं भं तपिन्यै नमः ॥१॥
ॐ खं बं तापिन्यै नमः ॥२॥
ॐ गं फं धूर्मायै नमः ॥३॥
ॐ घं पं परिच्यै नमः ॥४॥
ॐ ङं नं ज्वालिन्यै नमः ॥५॥
ॐ चं धं रुच्यै नमः ॥६॥
ॐ छं दं सुषुम्णायै नमः ॥७॥
ॐ जं थं भोगदायै नमः ॥८॥
ॐ झं तं विश्वायै नमः ॥९॥
ञं णं बोधिन्यै नमः ॥१०॥
ॐ टं ढं धारिण्यै नमः ॥११॥
ॐ ठं डं क्षमायै नमः ॥१२॥
इति सूर्यस्य द्वादश कलाः सम्पूज्य तस्मिन्पात्रे पात्रान्तरेण विलोममातृकया गायत्रीमूलमंत्रेण च जलं पूरयेत् ॥ ॐ क्षं ळं हं सं षं शं वं लं रं यं मं भं बं फं पं नं धं दं थं तं णं ढं डं ठं टं ञं झं जं छं चं ङं घं गं खं अः अं औं ओं ऐं एं लृं लॄं ऋं ॠं  ऊं उं ईं इं आं अं । त् या द चो प्र नः यो यो धि हि म धी स्य व दे र्गो भ म् य णि रे व तुः वि स त् त स्वः वः भु भूः ॐ ॥ इति शुद्धोदकेन कलशपात्रं सम्पूर्य तस्मिञ्जले सोमस्य ( चन्द्रस्य ) षोडश कलाः पश्चिमादिप्रादक्षिण्येन गन्धाक्षतपुष्पैः पूजयेत् ॥ ॐ अं अमृतायै नमः ॥१॥
ॐ आं मानदायै नमः ॥२॥
ॐ इं पूषायै नमः ॥३॥
ॐ ईं तुष्ट्यै नमः ॥४॥
ॐ उं पुष्ट्यै नमः ॥५॥
ॐ ऊं रत्यै नमः ॥६॥
ॐ ऋं धृत्यै नमः ॥७॥
ॐ ऋं शशिन्यै नमः ॥८॥
ॐ लृं चन्द्रिकायै नमः ॥९॥
ॐ लॄं कान्त्यै नमः ॥१०॥
ॐ एं ज्योत्स्नायै नमः ॥११॥
ॐ ऐं श्रियै नमः ॥१२॥
ॐ ओं प्रीत्यै नमः ॥१३॥
ॐ औं अङ्गदायै नमः ॥१४॥
ॐ अं पूर्णायै नमः ॥१५॥
ॐ अं पूर्णामृतायै नमः ॥१६॥
इति चन्द्रकलाः संपूज्य । “ ॐ उं सोममण्डलाय षोडशकलात्मने भगवत्याः श्रीगायत्रीदेव्याः कलशपात्रामृताय नमः ” इति जलं सम्पूज्य तस्मिञ्जले भगवत्याः श्रीगायत्रीदेव्या बिन्दुत्रिकोणषट्कोणवृत्तचतुरस्रात्मकं गायत्रीयन्त्रं विभाग्य तस्मिन् गायत्रीदेव्या यन्त्रदेवताः स्वाग्रतः कल्पितपूर्वादिक्रमेण पूजयेत् । मध्ये बिन्दुं मूलमंत्रेण पूजयेत् । ॐ भू० ॐतत्सवितु० । ततः त्रिकोणस्य पूर्वकोणे ( पश्चिमे ) ॐ गायत्रीदेव्यै नमः ॥ नैरृत्याः ( ईशान्यां ) ॐ श्रीसावित्रीदेव्यै नमः । वायव्यां ( आग्नेय्यां ) ॐ श्रीसरस्वतीदेव्यै नमः ॥ ततः षट्कोणेषु स्वाग्रतः कल्पिताग्नेय्यादिक्रमेण षडङ्गानि पूजयेत् । आगेय्यां ( वायव्यां ) ॐ भूर्भुवः स्वः तत्सवितुर्ब्रह्मात्मने हृदयाय नन्मः । ईशान्यां ( नैरृत्यां ) ॐ वरेणियं विष्ण्वात्मने शिरसे स्वाहा । नैरृत्यां ( ईशान्या ) ॐ भर्गो देवस्य रुद्रात्मने शिखायै वषट् । वायव्यां ( आग्नेय्यां ) ॐ धीमहि ईश्वरात्मने कवचाय हुम् । पुरः ॐ धियो यो नः सदाशिवात्मने नेत्रत्रयाय वौषट । ततः स्वाग्रतः कल्पितपूर्वादिदिक्षु । पूर्वे ( पश्चिमे ) ॐ प्रचोदयात् अस्त्राय फट्‍ । दक्षिणे ( उत्तरे ) ॐ प्रचोदयात् अस्त्राय फट् । पश्चिमे ( पूर्वे ) ॐ प्रचोदयात्त अस्त्राय फट् । उत्तरे ( दक्षिणे ) ॐ प्रचोदयात् अस्त्राय फट् ॥ एवं षडङ्गानि संपूज्य षट्कोणस्य परितः स्वाग्रतः कल्पितपूर्वादिक्रमेण प्रथमं दिक्षु आदित्यादीनावाह्य आग्नेयादिक्रमेण विदिक्षूस्वाग्रतः कल्पितपूर्वादिक्रमेण प्रथमं दिक्षु आदित्यादीनावाह्य आग्नेयादिक्रमेण विदिक्षूषादीन् आवाहयेत् ॥ पूर्वे ( पश्चिमे ) ॐ आदित्याय नमः । दक्षिणे ( उत्तरे ) ॐ भास्कराय नमः । पश्चिमे ( पूर्वे ) ॐ भानवे नमः । उत्तरे ( दक्षिणे ) ॐ रवये नमः आग्नेये ( वायव्ये ) ॐ उषायै नमः । नैरृत्ये ( ईशान्यां ) ॐ प्रज्ञायै नमः । वायव्ये ( आग्नेये ) ॐ प्रभायै नमः । ईशाने ( नैरृत्ये ) ॐ सन्ध्यायै नमः ॥ एवं भगवत्याः श्रीगायत्रीदेव्या यंत्रदेवताः संपूज्य तस्मिन्कलशजले भगवत्याः श्रीगायत्रीदेव्या मूलमंत्रेण आवाहनादिमुद्राः प्रदर्शयन् भगवतीं श्रीगायत्रीदेवीमावाहयेत् ॥ मूलमंत्रेण भो भग० गायत्रि त्वम् अस्मिन्कलशजले आवाहिता भव । भो भग० गायत्रि त्वम्‍ अस्मिन्कलशजले संस्थापिता भव । भो भग० गायत्रि त्वम् अस्मिन्कलशजले सन्निहिता भव । भो भग० गायत्रि त्वम् अस्मिन्कलशजले सन्निरुद्धा भव । भो भग० गायत्रि त्वम् अस्मिन्कलशजले सम्मुखीकृता भव । भो भग० गायत्रि त्वम् अस्मिन्कलशजले षडङ्गेन सकलीकृता भव । भो भग० गायत्रि त्वम् अस्मिन्कलशजले अवगुण्ठिता भव । भो भग० गायत्रि त्वम् अस्मिन्कलशजले अमृतीकृता भव । भो भग० गायत्रि त्वम् अस्मिन्कलशजले परमीकृता भव ॥९॥ इति कलशे नव आवाहनादिमुद्राः प्रदर्श्य । ततस्तत्मिञ्जले “ ॐ गङ्गे च यमुने चैव० ” इति अङ्कुशमुद्रया सूर्यमण्डलात्तीर्थान्यावाह्य । तज्जलं गालिनीमुद्रया निरीक्ष्य ।  “ ॐ हुं फट् ” इति अवगुण्ठ्य धेनुमुद्रयाऽमृतीकृत्य । शङ्खमुद्रयाऽवष्टभ्य । योनिमुद्रयोद्दीप्य । गन्धाक्षतपुष्पैर्भगवत्यै “ श्रीगायत्रीदेव्यै नमः ” इति भगवतीं श्रीगायत्रीदेवीं सम्पूज्य । अस्त्रमंत्रेण तज्जलं चक्रमुद्रया संरक्ष्य । मत्स्यमुद्रयाऽऽच्छाद्य । गायत्रीमूलमन्त्रेणाष्टवारमभिमन्त्रयेत् ॥ इति कलशस्थापनविधिः ॥१॥
ततस्तद्दक्षिणे ( २ ) सामान्यार्घपात्रस्थापनार्थं बिन्दुत्रिकोणवृत्तचतुरस्रात्मकं यन्त्रं विलिख्य । शङ्खमुद्रयाऽवष्टभ्य । मध्ये बिन्दौ भगवतीं श्रीगायत्रीदेवीं मूलमन्त्रेण ॐ भू० ॐ तत्सवितु० । सम्पूज्य । ततस्त्रिकोणे स्वाग्रतः पूर्वकोणे ( पश्चिमे ) ॐ भगवत्यै श्रीगायत्रीदेव्यै नमः । नैरृत्यकोणे ( ईशानकोणे ) ॐ भगवत्यै श्रीसावित्रीदेव्यै नमः । वायव्यकोणे ( आग्नेयकोणे ) ॐ भगवत्यै श्रीसरस्वतीदेव्यै नमः । इति पूजयेत् ॥ ततो मूलमन्त्रमुच्चार्य यन्त्रस्य वृत्तं पूजयेत् । ॐ भू० तत्सवितु० । ततः चतुरस्रे षडङ्गानि आग्नेय्यादिक्रमेण पूजयेत् । तद्यथा ॥ आग्नेय्यां ( वायव्यां ) ॐ भूर्भुवः स्वः तत्सवितुर्ब्रह्मात्मने हृदयाय नमः । ईशान्यां ( नैरृत्यां ) ॐ भूर्भुवः स्वः वरेणियं विष्ण्वात्मने शिरसे स्वाहा । नैरृत्यां ( ईशान्यां ) ॐ भूर्भुवः स्वः भर्गो देवस्य रुद्रात्मने शिखायै वषट् । वायव्यां ( आग्नेय्यां ) ॐ भूर्भुवः स्वः धीमहि ईश्वरात्मने कवचाय हुम् ॥ पुरः पूर्वे ( पश्चिमे ) ॐ भूर्भुवः स्वः धियो यो नः सदाशिवात्मने नेत्रत्रयाय वौषट् । चतुर्दिक्षु पूर्वादिक्रमेण । पूर्वे ( पश्चिमे ) ॐ प्रचोदयात् अस्त्राय फट् । दक्षिणे ( उत्तरे ) ॐ प्रचोदयात् अस्त्राय फट् । पश्चिमे ( पूर्वे ) ॐ प्रचोदयात् अस्त्राय फट् । उत्तरे ( दक्षिणे ) ॐ प्रचोदयात् अस्त्राय फट् ॥ एवं यन्त्रे षडङ्गानि सम्पूज्य । “ ॐ अस्त्राय फट् ” इत्याधारं प्रक्षाल्य । यन्त्रोपरि “ ॐ मं वह्निमण्डलाय दशकलात्मने भगवत्याः श्रीगायत्रीदेव्याः सामान्यार्घपात्राधाराय नमः ” इति सामान्यार्घपात्राधारं संस्थाप्य । गायत्रीमूलमंत्रेणाधारं सम्पूज्य । ततः “ अस्त्राय फट् ” इति सामान्यार्घपात्रं प्रक्षाल्य । “ ॐ अं सूर्यमण्डलाय द्वादशकलात्मने भगवत्याः श्रीगायत्रीदेव्याः सामान्यार्घपात्राय नमः ” इति सामान्यार्घपात्रम् आधारे प्रतिष्ठाप्य । ततो गायत्रीमूलमंत्रेण सामान्यार्घपात्रं सम्पूज्य । तत्र विलोममातृकया भगवत्याः श्रीगायत्रीदेव्या मूलमन्त्रेण च शुद्धजलं प्रपूरयेत् ॥ ==================== तद्यथा ।  ॐ क्षं ळं हं सं षं शं वं लं रं यं मं भं बं फं पं नं धं दं थं तं णं ढं डं ठं टं ञं झं जं छं चं ङं घं गं खं कं अः अं औं ओं ऐं एं लॄं लृं ॠं ऋं ऊं उं ईं इं आं अं । त् या द चो प्र नः यो यो धि हि म धी स्य व दे र्गो भ यं णि रे व तुः वि स त् त स्वः वः भु भूः ॐ ॥ इति जलं प्रपूर्य । तत्र “ ॐ उं सोममण्डलाय षोडशकलात्मने भगवत्याः श्रीगायत्रीदेव्याः सामान्यार्घपात्रामृताय नमः ” इति जलं सम्पूज्य तत्र “ गंगे च यमुने चैव० ” इति अङ्कुशमुद्रया सूर्यमण्डलात्तीर्थान्यावाह्य । तज्जलं गालिनीमुद्रया निरीक्ष्य “ हुं फट् ” इति अवगुण्ठ्य मत्स्यमुद्रया आच्छाद्य । भगवत्याः श्रीगायत्र्याः मूलमंत्रेणाष्टवारम् अभिमन्त्र्य धेनुमुद्रां योनिमुद्राञ्च प्रदर्शयेत् ॥ इति सामान्यर्घस्थापनम् ॥२॥
ततस्तद्दक्षिणे ( ३ ) विशेषार्घपात्रस्थापनार्थं बिन्दुत्रिकोणषट्कोणवृत्तचत्तुरस्रात्मकं श्रीगायत्रीयन्त्रं विलिख्य अक्षतैः पूजयेत् ॥ ततो यन्त्रं शङ्खमुद्रयाऽवष्टभ्य । भगवत्याः श्रीगायत्रीदेव्या मूलमंत्रमुच्चारयन् यन्त्रस्य मध्ये बिन्दुं पूजयेत् । ॐ भू० ॐ तत्सवितु० । “ ॐ भगवत्यै श्रीगायत्रीदेव्यै नमः ” इति बिन्दुं सम्पूज्य । ततस्त्रिकोणे स्वागतः प्रादक्षिण्येन कल्पितपूर्वादिक्रमेण । पूर्वे ( पश्चिमे ) ॐ भगवत्यै श्रीगायत्रीदेव्यै नमः । नैरृत्यां ( ईशान्यां ) ॐ भग० श्रीसावित्रीदैव्यै नमः । वायव्यां ( आग्नेय्यां ) ॐ भग० श्रीसरस्वतीदेव्यै नमः ॥ ततः स्वपुरतः कल्पिताग्नेय्यादिक्रमेण षटकोणेपु षडङ्गानि पूजयेत् ॥ ॐ आग्नेय्यां ( वायव्यां ) ॐ भूर्भुवः स्वः तत्सवितुर्ब्रह्मात्मने हृदयाय नमः । ईशान्यां ( नैरृत्यां ) ॐ वरेणियं विष्ण्वात्मने शिरसे स्वाहा । नैरृत्यां ( ईशान्यां ) ईश्वरात्मनें कवचाय हुम् । पुरः ( पश्चिमे ) ॐ धियो यो नः सदाशिवात्मने नेत्रत्रयाय वौषट् । ततः स्वपुरः कल्पितपूर्वादिचतुर्दिक्षु । पूर्वे ( पश्चिमे ) ॐ प्रचोदयात् अस्त्राय फट् । दक्षिणे ( उत्तरे ) ॐ प्रचोदयात् अस्त्राय फट् । पश्चिमे ( पूर्वे ) ॐ प्रचोदयात् अस्त्राय फट् । उत्तरे ( दक्षिणे ) ॐ प्रचोदयात् अस्त्राय फट् ॥ एवं षडङ्गानि संपूज्य ततः षट्कोणस्य परितः स्वागतः कल्पितपूर्वादिचतुर्दिक्षु आदित्यादीन् आग्नेय्यादिविदिक्षु उषादींश्चावाहयेत् । पूर्वे ( पश्चिमे ) ॐ भास्कराय नमः । उत्तरे ( दक्षिणे ) ॐ रवये नमः । तथैव कल्पिताग्नेय्यादिक्रमेण विदिक्षु । अग्नेय्यां ( वायव्यां ) ॐ उषायै नमः । नैरृत्यां ( ईशान्यां ) ॐ प्रज्ञायै नमः । वायव्यां ( आग्नेय्यां ) ॐ प्रभायै नमः । ईशान्यां ( नैरृत्यां ) ॐ सन्ध्यायै नमः ॥ एवं गायत्र्या विशेषार्घयन्त्रं सम्पूज्य । तत्र “ ॐ अस्त्राय फट् ” इति अस्त्रमंत्रक्षालितम् ( त्रिपदीम् ) आधारं “ ॐ मं वह्निमण्डलाय दशकलात्मने भगवत्याः श्रीगायत्रीदेव्या विशेषार्घपात्राधाराय नमः ” इति संस्थाप्य तदुपरि वह्नेर्द शकलाः पश्चिमादिप्रादक्षिण्येन पूजयेत् ॥ ॐ यं धूम्रार्चिषे नमः । ॐ रं उष्मायै नमः । ॐ लं ज्वलिन्यै नमः । ॐ वं ज्वालिन्यै नमः । ॐ शं विस्फुलिङ्ग्यै नमः । ॐ षं सुश्रियै नमः । ॐ सुरूपायै नमः । ॐ हं कपिलायै नमः । ॐ ळं हव्यवाहायै नमः । क्षं कव्यवाहायै नमः । इति वह्नेः कलाः सम्पूज्य तदुपरि “ अस्त्राय फट् ” इति अस्त्रमंत्रेण क्षालितं विशेषार्घ्यपात्रं “ ॐ अं सूर्यमण्डलाय द्वादशकलात्मने भगवत्याः श्रीगायत्रीदेव्या विशेषार्घपात्राय नमः ” इति संस्थाप्य । तदुपरि पश्चिमादिप्रादक्षिण्यक्रमेण सूर्यस्य द्वादश कलाः पूजयेत् ॥ ॐ कं भं तपिन्यै नमः । ॐ खं बं तापिन्यै नमः । ॐ गं फं धूम्रायै नमः । ॐ घं पं मरीच्यै नमः । ॐ ङं नं ज्वालिन्यै नमः । ॐ चं धं रुच्यै नमः । ॐ छं दं सुषुम्णायै नमः । ॐ जं थं भोगदायै नमः । ॐ झं तं विश्वायै नमः । ॐ ञं णं बोधिन्यै नमः । ॐ टं ढं धारिण्यै नमः । ॐ ठं डं क्षमायै नमः ॥ इति सूर्यस्य द्वादश कलाः समभ्यर्च्य । तस्मिन्पात्रे पात्रान्तरेण विलोममातृकया गायत्रीमूलमंत्रेण च जलं पूरयेत् ॥ ॐ क्षं ळं हं सं षं शं वं लं रं यं मं भं बं फं पं नं धं दं थं तं णं ढं डं ठं टं ञं झं जं छं चं ङं घं गं खं कं अः अं औं ओं ऐं एं लॄं लृं ॠं ऋं ऊं उं ईं इं आं अं । त् या द चो प्र नः यो यो धि हि म धी स्य व दे र्गो भ म् य णि रे व तुः वि स त् त स्वः वः भु भूः ॐ ॥ इति शुद्धोदकेन विशेषार्घपात्रं सम्पूर्य । तस्मिञ्जले सोमस्य ( चन्द्रस्य ) षोडशकलाः पश्चिमादिप्रादक्षिण्येन गन्धाक्षतपुष्पैः सम्पूजयेत् । ॐ अं अमृतायै नमः । ॐ आं मानदायै नमः । ॐ इं पूषायै नमः । ॐ ईं तुष्ट्यै नमः । ॐ उं पुष्ट्यै नमः । ॐ ऊं रत्यै नमः । ॐ ऋं धृत्यै नमः । ॐ ॠं शशिन्यै नमः । ॐ लृं चन्द्रिकायै नमः । ॐ लॄं कान्त्यै नमः । ॐ एं ज्योत्स्नायै नमः । ॐ ऐं श्रियै नमः । ॐ ओं प्रीत्यै नमः । ॐ औं अङ्गदायै नमः । ॐ अं पूर्णायै नमः । ॐ अः पूर्णामृतायै नमः । इति चन्द्रस्य षोडशकलाः संपूज्य । “ ॐ उं सोममण्डलाय षोडशकलात्मने भगवत्याः श्रीगायत्रीदेव्या विशेषार्घामृताय नमः ” इति जलं सम्पूज्य । तस्मिञ्जले भगवत्याः श्रीगायत्रीदेव्याः बिन्दुत्रिकोणषट्कोणवृत्तचतुरस्रात्मकं यन्त्रं विभाव्य तस्मिन् श्रीगायत्रीयन्त्रदेवताः स्वाग्रतः कल्पितपूर्वादिक्रमेण पूजयेत् ॥ मध्ये बिन्दु मूलमन्त्रेण पूजयेत् । ॐ भू० ” तत्सवितु० । त्रिकोणस्य पूर्वकोणे ( पश्चिमे ) ॐ श्रीगायत्रीदेव्यै नमः । नैरृत्यां ( ईशान्यां ) ॐ श्रीसावित्रीदैव्यै नमः । वायव्यां ( आग्नेय्यां ) ॐ श्रीसरस्वतीदेव्यै नमः ॥ ततः स्वाग्रतः कल्पिताग्नेय्यादिक्रमेण षट्कोणेषु षडङ्गानि पूजयेत् । ॐ आग्नेय्यां ( वायव्यां ) ॐ भूर्भुवः स्वः तत्सवितुर्ब्रह्मात्मने हृदयाय नमः । ईशान्यां ( नैरृत्यां ) ॐ वरेणियं विष्ण्वात्मने शिरसे स्वाहा । नैरृत्यां ( ईशान्यां ) ॐ भर्गो देवस्य रुद्रात्मने शिखायै वषट् । वायव्यां ( आग्नेय्यां ) ॐ धीमहि ईश्वरात्मने कवचाय हुम् । पुरः ( पश्चिमे ) ॐ धियो यो नः सदाशिवात्मने नेत्रत्रयाय वौषट् । स्वाग्रतः कल्पितपूर्वादिचतुर्दिक्षु । पूर्वे ( पश्चिमे ) ॐ प्रचोदयात् अस्त्राय फट् ॥ दक्षिणे ( उत्तरे ) ॐ प्रचोदयात् अस्त्राय फट् । पश्चिमे ( पूर्वे ) ॐ प्रचोदयात् अस्त्राय फट् । उत्तरे ( दक्षिणे ) ॐ प्रचोदयात् अस्त्राय फट् ॥ एवं षडङ्गानि संपूज्य । षट्कोणस्य दिक्षु स्वाग्रतः कल्पितपूर्वादिक्रमेण चतुर आदित्यादिदेवान् पूजयेत् ॥ पूर्वे ( पश्चिमे ) ॐ आदित्याय नमः । दक्षिणे ( उत्तरे ) ॐ भास्कराय नमः । पश्चिमे ( पूर्वे ) ॐ भानवे नमः । उत्तरे ( दक्षिणे ) ॐ रवये नमः ॥ तत्रैव कल्पिताग्नेय्यादिक्रमेण विदिक्षु उषादीन् । आग्नेय्यां ( वायव्यां ) ॐ उषायै नमः । नैरृत्यां ( ईशान्यां ) ॐ प्रज्ञायै नमः । वायव्यां ( आग्नेय्यां ) ॐ प्रभायै नमः । ईशान्यां ( नैरृत्यां ) ॐ सन्ध्यायै नमः ॥ एवं भगवत्याः श्रीगायत्रीदेव्या यन्त्रं सम्पूज्य । तस्मिन्विशेषार्घजले मूलेनावाहनादिमुद्रया भगवतीं श्रीगायत्रीदेवीमावाहयेत् । भो भग० गायत्रीदेवि त्वम् अस्मिन्विशेषार्घपात्रामृते आवाहिता भव । पुनर्मूलेन । भो भगवति श्रीगायत्रीदेवि त्वम् अस्मिन्विशेषार्घपात्रामृते संस्थापिता भव । मूलर्मूलेन । भो भगवति श्रीगायत्रीदेवि त्वम् अस्मिन्विशेषार्घपात्रामृते सन्निहिता भव । पुनर्मूलेन । भो भगवति श्रीगायत्रीदेवि त्वम् अस्मिन्विशेषार्घपात्रामृते सन्निरुद्धा भव । पुनर्मूलेन । भो भगवति श्रीगायत्रीदेवि अस्मिन्विशेषार्घपात्रामृते सम्मुखीकृता भव । पुनर्मूलेन । भो भगवति श्रीगायत्रीदेवि त्वम् अस्मिन्विशेषार्घपात्रामृते षडङ्गेन सकलीकृता भव । पुनर्मूलेन । भो भगवति श्रीगायत्रीदेवि त्वम् अस्मिन्विशेषार्घपात्रामृते अवगुण्ठिता भव । पुनर्मूलेन । भो भगवति श्रीगायत्रीदेवि त्वम् अस्मिन्विशेषार्घपात्रामृते अमृतीकृता भव । पुनर्मूलेन । भो भगवति श्रीगायत्रीदेवि त्वम् अस्मिन्विशेषार्घपात्रामृते परमीकृता भव । इति आवाहनादिमुद्राः प्रदर्श्य । तज्जले ॐ “ गंगे च यमुने चैव० । ” इति अङ्कुशमुद्रया सूर्यमण्डलात्तीर्थान्यावाह्य । ततस्तज्जलं गालिनीमुद्रया निरीक्ष्य “ हुं फट् ” इति अवगुण्ठ्य । धेनुमुद्रयाऽमृतीकृत्य़ । शङ्खमुद्रयाऽवष्टभ्य । योनिमुद्रयोहीप्य । ततस्तज्जलस्थितां भगवतीं श्रीगायत्रीदेवीं गन्धपुष्पैः सम्पूज्य । अस्त्र मंत्रेण चक्रमुद्रया जलं संरक्ष्य । मत्स्यमुद्रयाऽऽच्छाद्य । गायत्रीमूलमंत्रेणाष्टवारमभिमंत्रयेत् ॥ इति विशेषार्घस्थापनविधिः ॥३॥
ततस्तद्दक्षिणे ( ४ ) पाद्यपात्रस्थापनार्थं बिन्दुत्रिकोणवृत्तचतुरस्त्रात्मकं यन्त्रं विलिख्य । मध्ये बिन्दौ भगवतीं श्रीगायत्रीदेवीं मूलमंत्रेण सम्पूज्य । ॐ भू० ॐ तत्सवितु० ॥ तत स्त्रिकोणे स्वाग्रतः कल्पितपूर्वादिक्रमेण त्रिकोणस्य पूर्वकोणे ( पश्चिमे ) ॐ भगवत्यै श्रीगायत्रीदेव्यै नमः । नैरृत्यकोणे ( ईशाने ) ॐ भगवत्यै श्रीसावित्रीदेव्यै नमः । वायव्यकोणे ( आग्नेये ) ॐ भगवत्यै श्रीसरस्वतीदेव्यै नमः ॥ इति सम्पूज्य मूलमंत्रेण वृत्त पूजयेत् ॥ ततश्चतुरस्रे षडङ्गानि पूजयेत् । तद्यथा । स्वपुरतः पूर्वकल्पिताग्नेय्यादिक्रमेण पूजयेत् । आग्नेय्यां ( वायव्यां ) ॐ भूर्भुवः स्वः तत्सवितुर्ब्रह्मात्मने हृदयाय नमः । ईशान्यां ( नैरृत्यां ) ॐ वरेणियं विष्ण्वात्मने शिरसे स्वाहा । नैरृत्यां ( ईशान्यां ) ॐ भर्गो देवस्य रुद्रात्मने शिखायै वषट् । वायव्यां ( आग्नेय्यां ) ॐ धीमहि ईश्वरात्मने कवचाय हुम् । पुरः ( पश्चिमे ) ॐ धियो यो नः सदाशिवात्मने नेत्रत्रयाय वौषट् । ततः स्वाग्रतः कल्पितपूर्वादिचतुर्दिक्षु । पूर्वे ( पश्चिमे ) ॐ प्रचोदयात् अस्त्राय फट् । दक्षिणे ( उत्तरे ) ॐ प्रचोदयात् अस्त्राय फट् । पश्चिमे ( पूर्वे ) ॐ प्रचोदयात् अस्त्राय फट् । उत्तरे ( दक्षिणे ) ॐ प्रचोदयात् अस्त्राय फट् ॥ एवं यन्त्रे षडङ्गानि सम्पूज्य । “ ॐ अस्त्राय फट् ” इति पाद्यपात्राधारं प्रक्षाल्य यन्त्रोपरि “ ॐ मं अग्निमण्डलाय दशकलात्मने भगवत्याः श्रीगायत्रीदेव्याः पाद्यपात्राधाराय नमः ” इति पाद्यपात्राधारं संस्थाप्य गायत्र्या मूलमन्त्रेणाधारं संपूज्य “ अस्त्राय फट् ” इति अस्त्रमंत्रेण क्षाळितं पाद्यपात्रं “ ॐ अं सूर्यमण्डलाय द्वादशकलात्मने भगवत्याः श्रीगायत्रीदेव्याः पादपात्राय नमः ” इति आधारे संस्थाप्य । गायत्र्या मूलमंत्रेण पाद्यपात्रं संपूज्य । तस्मिन्विलोममातृकया भगवत्याः श्रीगायत्रीदेव्याश्च मूलमंत्रेण शुद्धजलं पूरयेत् ॥ ॐ क्षं ळं हं सं षं शं वं लं रं यं मं भं बं फं पं नं धं दं थं तं णं ढं डं ठं टं ञं झं जं छं चं ङं घं गं खं कं अः अं औं ओं ऐं एं लॄं लृं ॠं ऋं ऊं उं ईं इं आं अं । त् या द चो प्र नः यो यो धि हि म धी स्य व दे र्गो भ यं णि रे व तुः वि स त् त स्वः वः भु भूः ॐ ॥ ततः “ ॐ उं सोममण्डलाय षोडशकलात्मने भगवत्याः श्रीगायत्रीदेव्याः पाद्यपात्रामृताय नमः ” इति जलं संम्पूज्य तत्र “ ॐ गंगे च यमुने चैव गोदावरि सरस्वति० ” इति अङ्कुशमुद्रया सूर्यमण्डलात्तीर्थान्यावाह्य । गालिनीमुद्रया जलं निरीक्ष्य । “ हुं फट् ” इत्यवगुण्ठ्य मत्स्यमुद्रया आच्छाद्य । भगवत्याः श्रीगायत्रीदेव्या मूलमंत्रेण पाद्यपात्रजलम् अष्टवारमभिमंत्र्य धेनुमुद्रां योनिमुद्राञ्च प्रदर्शयेत् । इति पाद्यपात्रविधिः ॥४॥
ततस्तद्दक्षिणे ( ५ ) अर्घपात्रस्थापनार्थं पूर्ववत् बिन्दुत्रिकोणवृत्तचतुरस्रात्मकं यन्त्रं गन्धौर्विलिख्य । शङ्खमुद्रया अवष्टभ्य । मध्ये बिन्दौ भगवतीं श्रीगायत्रीदेवीं मूलमंत्रेण । ॐ भू० ॐ तत्सवितु० । सम्पूज्य । त्रिकोणे स्वाग्रतः कल्पितपूर्वादिक्रमेणाक्षतैः पूजयेत् ॥ पूर्वकोणे ( पश्चिमे ) ॐ भग० श्रीगायत्रीदेव्यै नमः । नैरृत्यकोणे ( ईशान्यां ) ॐ भग० श्रीसावित्रीदेव्यै नमः । वायव्यकोणे ( आग्नेय्यां ) ॐ भग० श्रीसरस्वतीदेव्यै नमः ॥ ततः श्रीगायत्रीदेव्या मूलमन्त्रेण वृत्तं पूजयेत् । ततश्चरस्रे षडङ्गानि स्वपुरतः कल्पिताग्नेय्यादिक्रमेण पूजयेत् । तद्यथा । आग्नेय्यां ( वायव्यां ) ॐ भूर्भुवः स्वः तत्सवितुर्ब्रह्मात्मने हृदयाय नमः । ईशान्यां ( नैरृत्यां ) ॐ वरेणियं श्रीविष्ण्वात्मने शिरसे स्वाहा । नैरृत्यां ( ईशान्यां ) ॐ भर्गो देवस्य श्रीरुद्रात्मने शिखायै वषट् । वायव्यां ( आग्नेय्यां ) ॐ धीमहि ईश्वरात्मने कवचाय हुम् । पुरः ( पश्चिमे ) ॐ धियो यो नः श्रीसदाशिवात्मने नेत्रत्रयाय वौषट् । ततः कल्पितचतुर्दिक्षु स्वाग्रतः पूर्वादिक्रमेण । पूर्वे ( पश्चिमे ) ॐ प्रचोदयात् अस्त्राय फट् । दक्षिणे ( उत्तरे ) ॐ प्रचोदयात् अस्त्राय फट् । पश्चिमे ( पूर्वे ) ॐ प्रचोदयात् अस्त्राय फट् । उत्तरे ( दक्षिणे ) ॐ प्रचोदयात् अस्त्राय फट् ॥ एवं षडङ्गानि सम्पूज्य ॥ “ ॐ अस्त्राय फट् ” इति आधारं प्रक्षाल्य यन्त्रोपरि “ ॐ मं अग्निमण्डलाय दशकलात्मने भगवत्याः श्रीगायत्रीदेव्या अर्घपात्राधाराय नमः ” इति अर्घपात्राधारं संस्थाप्य । ततो गायत्र्या मूलमंत्रेणाधारं संपूज्य ततः “ अस्त्राय फट् ” इति अर्घपात्रं प्रक्षाल्य । “ ॐ अं सूर्यमण्डलाय द्वादशकलात्मने भगवत्याः श्रीगायत्रीदेव्याः अर्घपात्राय नमः ” इति आधारे अर्घपात्रं संस्थाप्य । श्रीगायत्रीमूलमन्त्रेणार्घपात्रं सम्पूज्य । तत्र विलोममातृकया भगवत्याः श्रीगायत्रीदेव्याश्च मूलमंत्रेण शुद्धजलं पूरयेत् । तद्यथा । ॐ क्षं ळं हं सं षं शं वं लं रं यं मं भं बं फं पं नं धं दं थं तं णं ढं डं ठं टं ञं झं जं छं चं ङं घं गं खं कं अः अं औं ओं ऐं एं लॄं लृं ॠं ऋं ऊं उं ईं इं आं अं । त् या द चो प्र नः यो यो धि हि म धी स्य व दे र्गो भ यं णि रे व तुः वि स त् त स्वः वः भु भूः ॐ ॥ ततः “ ॐ उं सोममण्डलाय षोडशकलात्मने भगवत्याः श्रीगायत्रीदेव्या अर्घपात्रामृताय नमः ” इति जलं संम्पूज्य । तत्र जले “ ॐ गङ्गे च यमुने चैव० ” इति अङ्कुशमुद्रया सूर्यमण्डलात्तीर्थान्यावाह्य गालिनीमुद्रया निरीक्ष्य । “ हुं फट् ” इत्यवगुण्ठ्य । मत्स्यमुद्रया आच्छाद्य । भगवत्याः श्रीगायत्रीदेव्या मूलमन्त्रेण अष्टवारमभिमंत्रयेत् ॥ ततो धेनुमुद्रां योनिमुद्राञ्च प्रदर्शयेत् ॥ इति अर्घपात्रस्थापनविधिः ॥५॥
ततस्तद्दक्षिणे ( ६ ) आचमनीयपात्रार्थं बिन्दुत्रिकोणवृत्तचतुरस्रात्मकं यन्त्रं गन्धैर्विलिख्य । शङ्खमुद्रया यन्त्रमवष्टभ्य । भगवतीं श्रीगायत्रीदेवीं मूलमन्त्रेण “ ॐ भू ॐ तत्स० ” यन्त्रस्य मध्ये बिन्दौ सम्पूज्य । ततस्त्रिकोणे स्वाग्रतः कल्पितपूर्वादिक्रमेणाक्षतैः पूजयेत् । पूर्वकोणे ( पश्चिमे ) ॐ श्रीगायत्रीदेव्यै नमः । नैरृत्यकोणे ( ईशान्यां ) ॐ श्रीसावित्रीदेव्यै नमः । वायव्यकोणे ( आग्नेय्यां ) ॐ श्रीसरस्वतीदेव्यै नमः । ततो गायत्र्या मूलमन्त्रेण वृत्तं पूजयेत् ॥ ततश्चतुरस्रे स्वपुरतः कल्पिताग्नेय्यादिक्रमेण षडङ्गानि पूजयेत् । तद्यथा । आग्नेय्यां ( वायव्यां ) ॐ भूर्भुवः स्वः तत्सवितुर्बह्मात्मने हृदयाय नमः । ईशान्यां ( नैरृत्यां ) ॐ वरेणियं श्रीविष्ण्वात्मने शिरसे स्वाहा । नैरृत्यां ( ईशान्यां ) ॐ भर्गो देवस्य श्रीरुद्रात्मने शिखायै वषट् । वायव्यां ( आग्नेय्यां ) ॐ धीमहि श्रीईश्वरात्मने कवचाय हुम् । पुरः ( पश्चिमे ) ॐ धियो यो नः श्रीसदाशिवात्मने नेत्रत्रयाय वौषट् । ततः स्वाग्रतः कल्पितचतुर्दिक्षु पूर्वादिक्रमेण । पूर्वे ( पश्चिमे ) ॐ प्रचोदयात् अस्त्राय फट् । दक्षिणे ( उत्तरे ) ॐ प्रचोदयात् अस्त्राय फट् । एवं षडङ्गानि सम्पूज्य “ अस्त्राय फट् ” इति आचमनीयपात्राधारं ( त्रिपदीं ) प्रक्षाल्य । यन्त्रोपरि “ ॐ मं अग्निमण्डलाय दशकलात्मने भगवत्याः श्रीगायत्रीदेव्या आचमनीयपात्राधाराय नमः ” इति आचमनीयपात्राधारं ” संस्थाप्य । भगवत्याः श्रीगायत्रीदेव्या मूलमंत्रेणाधारं सम्पोज्य । ॐ “ अस्त्राय फट् ” इति आचमनीयपात्रं प्रक्षाल्य । “ ॐ अं सूर्यमण्डलाय द्वादशकलात्मने भगवत्याः श्रीगायत्रीदेव्या आचमनीयपात्राय नमः ” इति आचमनीयपात्रम् आधारे प्रतिष्ठाप्य । भगवत्याः श्रीगायत्रीदेव्या मूलमंत्रेण आचमनीयपात्रं सम्पूज्य । तत्र विलोममातृकया भगवत्याः श्रीगायत्रीदेव्याश्च मूलमंत्रेण जलं पूरयेत् । तद्यथा । ॐ क्षं ळं हं सं षं शं वं लं रं यं मं भं बं फं पं नं धं दं थं तं णं ढं डं ठं टं ञं झं जं छं चं ङं घं गं खं कं अः अं औं ओं ऐं एं लॄं लृं ॠं ऋं ऊं उं ईं इं आं अं । त् या द चो प्र नः यो यो धि हि म धी स्य व दे र्गो भ यं णि रे व तुः वि स त् त स्वः वः भु भूः ॐ ॥ ततः “ ॐ उं सोममण्डलाय षोडशकलात्मने भगवत्याः श्रीगायत्रीदेव्या आचमनीयपात्रामृताय नमः ” इति जलं सम्पूज्य । तत्र जले “ ॐ गंगे च यमुने चैव० ” इति अङ्कुशमुद्रया सूर्यमण्डलात्तीर्थान्यावाह्य । गालिनीमुद्रया जलं निरीक्ष्य । “ हुं फट् ” इत्यवगुण्ठ्य । मत्स्यमुद्रयाऽऽच्छाद्य । भगवत्याः श्रीगायत्रीदेव्या मूलमंत्रेणाष्टवारमभिमंत्रयेत् ॥ ततो धेनुमुद्रां योनिमुद्राञ्च प्रदर्शयेत् ॥ इति आचमनीयपात्रविधिः ॥६॥
ततस्तद्दक्षिणे ( ७ ) मधुपर्कपात्रस्थापनार्थं पूर्ववत् बिन्दुत्रिकोणवृत्तचतुरस्रात्मकं यन्त्रं गन्धैर्विलिख्य । शङ्खमुद्रयाऽवष्टभ्य । भगवतीं श्रीगायत्रीदेवीं मूलमंत्रेण “ ॐ भू० ॐ तत्सवितु० ” मध्ये बिन्दौ सम्पूज्य । त्रिकोणे स्वाग्रतः कल्पितपूर्वादिक्रमेणाक्षतैः पूजयेत् । पूर्वकोणे ( पश्चिमे ) ॐ भगवत्यै श्रीगायत्रीदेव्यै नमः । नैरृत्यकोणे ( ईशान्यां ) ॐ भगवत्यै श्रीसावित्रीदेव्यै नमः । वायव्यकोणे ( आग्नेय्यां ) ॐ भगवत्यै श्रीसरस्वतीदेव्यै नमः ॥ ततो भगवत्याः श्रीगायत्रीदेव्या मूलमंत्रेण वृत्तं पूजयेत् ॥ ततश्चतुरस्रे षडङ्गानि स्वपुरतः कल्पिताग्नेय्यादिक्रमेण पूजयेत् । तद्यथा । आग्नेय्यां ( वायव्यां ) ॐ भूर्भुवः स्वः तत्सवितुर्ब्रह्मात्मने हृदयाय नमः । ईशान्यां ( नैरृत्यां ) ॐ वरेणियं श्रीविष्ण्वात्मने शिरसे स्वाहा । नैरृत्यां ( ईशान्यां ) ॐ भर्गो देवस्य श्रीरुद्रात्मने शिखायै वषट् । वायव्यां ( आग्नेय्यां ) ॐ धीमहि श्रीईश्वरात्मने कवचाय हुम् । पुरः ( पश्चिमे ) ॐ धियो यो नः श्रीसदाशिवात्मने नेत्रत्रयाय वौषट् । ततः कल्पितपूर्वादिचतुर्दिक्षु स्वाग्रतः पूर्वादिक्रमेण । पूर्वे ( पश्चिमे ) ॐ प्रचोदयात् अस्त्राय फट् । दक्षिणे ( उत्तरे ) ॐ प्रचोदयात् अस्त्राय फट् । पश्चिमे ( पूर्वे ) ॐ प्रचोदयात् अस्त्राय फट् । उत्तरे ( दक्षिणे ) ॐ प्रचोदयात् अस्त्राय फट् । एवं षडङ्गानि सम्पूज्य । “ अस्त्राय फट् ” इति भगवत्याः श्रीगायत्रीदेव्या मधुपर्कपात्राधारं-( त्रिपदीं )प्रक्षाल्य । यन्त्रोपरि “ ॐ मं अग्निमण्डलाय दशकलात्मने भगवत्याः श्रीगायत्रीदेव्या मधुपर्कपात्राधाराय नमः ” इति मधुपर्कपात्राधारं संस्थाप्य । गायत्रीमूलमन्त्रेणाधारं सम्पूज्य । “ ॐ अस्त्राय फट् ” इति मधुपर्कपात्रं प्रक्षाल्य । “ ॐ अं सूर्यमण्डलाय द्वादशकलात्मने भगवत्याः श्रीगायत्रीदेव्या मधुपर्कपात्राय नमः ” इति मधुपर्कपात्रम् आधारे प्रतिष्ठाप्य । भगवत्याः श्रीगायत्रीदेव्या मूलमन्त्रेण मधुपर्कपात्रं सम्पूज्य । ततस्तत्र दधिघृतमधुनि एकीकृत्य प्रक्षिपेत् ॥ इति मधुपर्कपात्रस्थापनविधिः ॥७॥
एवं सप्त* पात्राणि संस्थाप्य । तत्र चतुर्थे पाद्यपात्रे श्यामाकदूर्वाब्जविष्णुक्रान्तादीनि निःक्षिपेत् । पञ्चमे अर्घपात्रे दूर्वासर्षपतिलदर्भाग्रयवचन्दनादीनि निःक्षिपेत् । षष्ठे आचमनीयपात्रे जातिफललवङ्गकङ्कोलादीनि निःक्षिपेत् । सप्तमे मधुपर्कपात्रे दधिमधुघृतानि निःक्षिपेत् । ततो विशेषार्घपात्रात्किञ्चिज्जलं पात्रान्तरेणादाय सर्वेषु पात्रेषु किञ्चित्किञ्चिन्निक्षिप्य गन्धाक्षतपुष्पाण्यपि प्रक्षिप्य भगवत्याः श्रीगायत्रीदेव्या मूलमन्त्रेण अष्टवारं प्रतिपात्रं पात्रजलम् अभिमन्त्रयेत् । तथैवान्यान्यपि पूजोपयोगीनि गन्धोद्वर्तनहरिद्र्दाप्रभृतीनि पूजोपकरणानि स्वसमीपे‍ऽवस्थाप्य भगवत्याः श्रीगायत्रीदेव्याः पूजामारभेत ॥
पूर्वं पात्रान्तरेण विशेषार्घपात्रामृतात् किञ्चिज्जलं गृहीत्वा स्वात्मानं पूजोपकरणादीनि च प्रोक्षयेत् ॥ ततः स्वशरीरं तेजोमयं भगवतीश्रीगायत्रीदेव्यात्मकं ( तत्स्वरूपसदृशं ) विभाव्य गायत्री मूलमन्त्रेण गन्धाक्षतपुष्पैः स्वहृदि आत्मानं ( तां ) सम्पूज्य निवर्तितदेवतावाहनपूजनस्य सर्वतोभद्रमण्डलस्य मध्यभागे गायत्र्याः स्थापनार्थं बृहत्कलशं कलशविधिना स्थापयित्वा । तदुपरि तण्डूलपूरितं ताम्रादिपूर्णपात्रं निधाय । तस्योपरि पीठपूजां कुर्यात् ॥ पीठस्य मध्ये । ॐ मं मण्डूकाय नमः । ॐ कां कालाग्निरुद्राय नमः । ॐ मूं मूलप्रकृत्यै नमः । ॐ आं आधारशक्तये नमः । ॐ कां कालाग्निरुद्राय नमः । ॐ मूं मूलप्रकृत्यै नमः । ॐ आं अधारशक्तये नमः । ॐ कूं कूर्माय नमः । ॐ अं अनन्ताय नमः । ॐ वं वराहाय नमः । ॐ धं धरिण्यै नमः । ॐ सुं सुधासिन्धवे नमः । ॐ रं रत्नद्वीपाय नमः । ॐ कं कल्पवृक्षाय नमः । ॐ स्वं स्वर्णवेदिकायै नमः । ॐ रं रत्नसिंहासनाय नमः ॥ अग्नेय्याम् । ॐ धं धर्माय नमः । नैरृत्याम् । ॐ ज्ञां ज्ञानाय नमः । वायव्याम् । ॐ वैं वैराग्याय नमः । ईशान्याम् । ॐ ऐं ऐश्वर्यायं नमः । पूर्वे । अं अधर्माय नमः । दक्षिणे । अं अज्ञानाय नमः । पश्चिमे । अं अवैराग्याय नमः । उत्तरे । अं अनैश्वर्याय नमः । अतः परं पुनर्मध्ये । ॐ अं अनन्ताय नमः । स्वाग्रतः कल्पिताग्नेय्यादिक्रमेण । आग्नेय्यां ( वायव्यां ) ॐ अं अम्बुजाय नमः । ईशान्यां ( नैरृत्यां ) ॐ आनन्दकन्दाय नमः । नैरृत्यां ( ईशान्यां ) ॐ सं संविन्नालाय नमः । वायव्यां ( आग्नेय्यां ) ॐ सं सर्वतत्त्वात्मकपद्माय नमः । ॐ प्रं प्रकृतियपत्रेभ्यो नमः । ॐ विं विकारमयकेसरेभ्यो नमः । ॐ पं पञ्चाशद्वर्णबीजाढ्यकर्णिकायै नमः । ॐ अं द्वादशकलात्मने सूर्यमण्डलाय नमः । ॐ उं षोडशकलात्मने सोममण्डलाय नमः । ॐ मं दशकलात्मने वह्निमण्डलाय नमः । ॐ सं सत्त्वाय नमः । ॐ रं रजसे नमः । ॐ तं तमसे नमः । ॐ आं आत्मने नमः । ॐ अं अन्तरात्मने नमः । ॐ पं परमात्मने नमः । ॐ ह्रीं ज्ञानात्मने नमः । ॐ मां मायातत्त्वाय नमः । ॐ कं कलातत्त्वाय नमः । ॐ विं विद्यातत्त्वाय नमः । ॐ पं परतत्त्वाय नमः । पीठस्य पूर्वाद्यष्टदलेषु । पूर्वे ( पश्चिमे ) ॐ रां दीप्तायै नमः । आग्नेय्यां ( वायव्यां ) ॐ रीं सूक्ष्मायै नमः । दक्षिणे ( उत्तरे ) ॐ रुं जयायै नमः । नैरृत्यां ( ईशान्यां ) ॐ रें भद्रायै नमः । पश्चिमे ( पूर्वे ) ॐ रैं विभूत्यै नमः । वायव्यां ( आग्नेय्यां ) ॐ रों विमलायै नमः । उत्तरे ( दक्षिणे ) ॐ रौं अमोघायै नमः । ईशान्यां ( नैरृत्यां ) ॐ रं विद्युतायै नमः । ( मध्ये ) ॐ रः सर्वतोमुख्यै नमः । ( पुनर्मध्ये ) भगवत्याः श्रीगायत्रीदेव्याः ॐ ब्रह्मविष्णुरुद्रात्मकबिम्बाय सौरपीठाय नमः । इति पीठं सम्पूज्य । ततः कलशस्य मध्यभागे बिन्दुत्रिकोणषट्कोणवृत्ताष्टपत्रचतुर्द्वारोपेतं भगवत्याः श्रीगायत्रीदेव्याः सौवर्णं राजतं ताम्रमयं वा यन्त्रं स्वसन्मुखत्रिकोणाग्रं पात्रे निधाय यन्तप्रतिष्ठां कुर्यात् ॥

हस्ते जलमादाय ॥ देशकालौ सङ्कीर्त्य मया प्रारब्धस्य सग्रहमखगायत्रीपुरश्चरणकर्मणः साङ्गतासिद्ध्यर्थम् अस्या भगवत्याः श्रीगायत्रीदेव्या यन्त्रस्य प्रतिष्ठां करिष्ये । इति सङ्कल्पं विधाय । एकस्मिन्पात्रे पञ्चगव्यं कुर्यात् । ॐ तत्सवितु० । इति गायत्रीमन्त्रेण गोमूत्रम् । ॐ गन्ध्द्वाराम्० । इति मन्त्रेण गोमयम् । ॐ आप्यायस्व० । इति मन्त्रेण क्षीरम् । ॐ दधिकाव्णो० । इति मन्त्रेण दधि । ॐ तेजोसि शुक्रमस्य० । इति मन्त्रेण आज्यम् ॥ ॐ देवस्य त्त्वा० । इति मन्त्रेण कुशोदकम् । “ हौं ” इति बीजं पठन् यज्ञकाष्ठेनालोड्य । तस्मिन् पञ्चगव्ये प्रणवेन यन्त्रं निधाय । पुनर्वहिर्निष्कास्य मिश्रितेन पञ्चगव्येन पृथक् वा दुग्धदधिघृतमधुशर्कराभिश्च तं संस्नाप्य धूपयेत् । ततः शुद्धोदकेन स्नापयित्वा धौतेन वाससा परिमृज्य पीठोपरि मध्ये स्थापयित्वा कुशाग्रैः स्पृशन् यन्त्रग यत्रीं पठेत् । “ ॐ यन्त्रराजाय विद्महे महायन्त्राय धीमहि । तन्नो यन्त्रः प्रचोदयात् । ” इति यन्त्रगायत्रीम् अष्टोत्तरशतवारमावृत्त्य तत्र यन्त्रदेवता आवाहयेत् ॥ हस्तेऽक्षतान् गृहीत्वा । प्रथमं मध्यबिन्दौ - ॐ आदित्यस्वरूपायै श्रीगायत्रीदेव्यै नमः आदित्यस्वरूपां श्रीगायत्रीदेवीम् आवा० स्थाप० ॥१॥
इत्यावाह्य । स्वाग्रतः कल्पितपूर्वादिक्रमेण । पूर्वे ( पश्चिमे ) त्रिकोणाग्रभागे । ॐ भूर्भुवः स्वः भगवत्यै श्रीगायत्रीदेव्यै नमः श्रीगायत्रीदेवीम् आवाहयामि स्थापयामि ॥२॥
त्रिकोणस्य नैरृत्यकोणे ( ईशान्यां ) । ॐ भूर्भुवः स्वः भगवत्यै श्रीसावित्रीदेव्यै नमः श्रीसावित्रीदेवीम् आवा० स्थाप० ॥३॥
त्रिकोणस्य वायव्यकोणे ( आग्नेय्यां ) । ॐ भूर्भुवः स्वः भगवत्यै श्रीसरस्वतीदेव्यै नमः श्रीसरस्वतीदेवीम् आवा० स्थापयामि ॥४॥
ततस्त्रिकोणस्यान्तरालेषु ( बहिः ) । आग्नेय्यां ( वायव्यां ) । ॐ भूर्भुवः स्वः ब्रह्मणे नमः ब्रह्माणम् आवा० स्थाप० ॥५॥
पश्चिमे ( पूर्वे ) ॐ भूर्भुवः स्वः विष्णवे नमः विष्णुम् आवा० स्थाप० ॥६॥
ईशान्यां ( नैरृत्यां ) ॐ भूर्भुवः स्वः रुद्राय नमः रुद्रम् आवा० स्थाप० ॥७॥
ततः षट्कोणेऽपि स्वाग्रतः पूर्वनैरृत्यावायव्यकोणेषु । यथा षट्कोणस्य पूर्वे ( पश्चिमे ) ॐ भूर्भुवः स्वः भग० श्रीगायत्रीदेव्यैः नमः श्रीगायत्रीदेवीम् आवा० स्थाप० ॥८॥
षटकोणस्य नैरृत्यकोणे ( ईशान्यां ) ॐ भूर्भुवः स्वः भग० श्रीसावित्रीदेव्यै नमः श्रीसावित्रीदेवीम् आवा० स्थाप० ॥९॥
षटकोणस्य वायव्यकोणे ( आग्नेय्यां ) । ॐ भूर्भुवः स्वः भग० श्रीसरस्वतीदेव्यै नमः श्रीसरस्वतीदेवीम् आवा० स्थाप० ॥१०॥
षट्कोणस्याग्नेयकोणे ( वायव्यां ) ॐ भूर्भुवः स्वः ब्रह्मणे नमः ब्रह्माणम् आवा० स्था० ॥११॥
षट्कोणस्य पश्चिमकोणे ( पूर्वे ) ॐ भूर्भुवः स्वः विष्णवे नमः विष्णुम् आवा० स्था० ॥१२॥
षट्कोणस्येशानकोणे ( नैरृत्याम् ) ॐ भूर्भुवः स्वः रुराय नमः रुद्रम् आवा० स्थाप० ॥१३॥
ततः षटकोणस्य परितः स्वाग्रतः कल्पितपूर्वादिक्रमेण चतुर्दिक्षु आदित्यादींश्चतुरो देवान् स्थापयेत् ॥ पूर्वे ( पश्चिमे ) ॐ भूर्भुवः स्वः आदित्याय नमः आदित्यम् आवा० स्थाप० ॥१४॥
दक्षिणे ( उत्तरे ) ॐ भूर्भुवः स्वः भास्कराय नमः भास्करम् आवा० स्थाप० ॥१५॥
पश्चिमे ( पूर्वे ) ॐ भूर्भुवः स्वः भानवे नमः भानुम् आवा० स्थाप० ॥१६॥
उत्तरे ( दक्षिणे ) ॐ भूर्भुवः स्वः रवये नमः रविम् आवा० स्थाप० ॥१७॥
ततः षट्कोणस्य परितः कल्पिताग्नेय्यादिक्रमेण विदिक्षु चतस्रः उषादिदेवीः स्थापयेत् ॥ आग्नेय्यां ( वायव्यां ) ॐ भूर्भुवः स्वः उषायै नमः उषाम् आवा० स्थाप० ॥१८॥
ईशान्यां ( नैरृत्यां ) ॐ भूर्भुवः स्वः प्रज्ञायै नमः प्रज्ञाम् आवा० स्थाप० ॥१९॥
नैरृत्यां ( ईशान्यां ) ॐ भूर्भुवः स्वः प्रभायै नमः प्रभाम् आवा० स्थाप० ॥२०॥
वायव्यां ( आग्नेय्यां ) ॐ भूर्भुवः स्वः सन्ध्यायै नमः सन्ध्याम् आवा० स्थाप० ॥२१॥
ततः षटकोणस्य कोणेषु परितः कल्पिताग्नेय्यादिक्रमेण षडङ्गानि स्थापयेत् ॥ आग्नेय्यां ( वायव्यां ) ॐ भूर्भुवः स्वः तत्सवितुर्ब्रह्मात्मने हृदयाय नमः हृदयम् आवा० स्थाप० ॥२२॥
ईशान्यां ( नैरृत्यां ) ॐ भूर्भुवः स्वः वरेणियं विष्ण्वात्मने शिरसे नमः शिरः आवा० स्थाप० ॥२३॥
नैरृत्यां ( ईशान्यां ) ॐ भूर्भुवः स्वः भर्गो देवस्य धीमहि रुद्रात्मने शिखायै नमः शिखाम् आवा० स्थाप० ॥२४॥
वायव्यां ( आग्नेय्यां ) ॐ भूर्भुवः स्वः धीमहि ईश्वरात्मने कवचाय नमः कवचम् आवा० स्थाप० ॥२५॥
पुरः । ॐ भूर्भुवः स्वः धियो यो नः सदाशिवात्मने नेत्रत्रयाय नमः नेत्रत्रयम् आवा० स्थाप० ॥२६॥
ततः कल्पितपर्वादिक्रमेण चतुर्दिक्षु प्रादक्षिण्येन । पूर्वे ( पश्चिमे ) ॐ भूर्भुवः स्वः प्रचोदयात् अस्त्राय नमः अस्त्रम् आवा० स्थाप० ॥२७॥
दक्षिणे ( उत्तरे ) ॐ भूर्भुवः स्वः प्रचोदयात् अस्त्राय नमः अस्त्रम् आवा० स्थाप० ॥२८॥
पश्चिमे ( पूर्वे ) ॐ भूर्भुवः स्वः प्रचोदयात् अस्त्राय नमः अस्त्रम् आवा० स्थाप० ॥२९॥
उत्तरे ( दक्षिणे ) ॐ भूर्भुवः स्वः प्रचोदयात् अस्त्राय नमः अस्त्रम् आवा० स्थाप० ॥३०॥
एवं षडङ्गानि स्थापयित्वा अष्टपत्रेषु कल्पितपूर्वादिक्रमेण प्रह्लादिन्यादीरष्टौ देवीः स्थापयित्वा पुनर्द्विवारं तत्रै वाष्टौ अष्टौ पूर्वतः प्रादक्षिण्येनैवं चतुर्विंशतिदेवीः स्थापयेत् । यथा - पूर्वपत्रे ( पश्चिमे ) ॐ भूर्भुवः स्वः प्रह्लादिन्यै नमः प्रह्लादिनीम् आवा० स्थाप० ॥३१॥
आग्नेयपत्रे ( वायव्यां ) ॐ भूर्भुवः स्वः प्रभायै नमः प्रभाम् आवा० स्थाप० ॥३२॥
दक्षिणपत्रे ( उत्तरे ) ॐ भूर्भुवः स्वः नित्यायै नमः नित्याम् आवा० स्थाप० ॥३३॥
नैरृत्यपत्रे ( ईशान्यां ) ॐ भूर्भुवः स्वः विश्वम्भरायै नमः विश्वम्भराम् आवा० स्थाप० ॥३४॥
पश्चिमपत्रे ( पूर्वे ) ॐ भूर्भुवः स्वः विलासिन्यै नमः विलासिनीम् आवा० स्थाप० ॥३५॥
वायव्यपत्रे ( आग्नेय्यां ) ॐ भूर्भुवः स्वः प्रभावत्यै नमः प्रभावतीम् आवा० स्थाप० ॥३६॥
उत्तरपत्रे ( दक्षिणे ) ॐ भूर्भुवः स्वः जयायै नमः जयाम् आवा० स्थाप० ॥३७॥
ईशानपत्रे ( नैरृत्यां ) ॐ भूर्भुवः स्वः शान्त्यै नमः शान्तिम् आवा० स्थाप० ॥३८॥
एवम् अष्टौ देवीः स्थापयित्वा पुनः कल्पितपूर्वादिक्रमेणाष्टदेवीः स्थापयेत् । पूर्वपत्रे ( पश्चिमे ) ॐ भूर्भुवः स्वः कान्त्यै नमः कान्तिम् आवा० स्थाप० ॥३९॥
आग्नेयपत्रे ( वायव्यां ) ॐ भूर्भुवः स्वः दुर्गायै नमः दुर्गाम् आवा० स्थाप० ॥४०॥
दक्षिणपत्रे ( उत्तरे ) ॐ भूर्भुवः स्वः सरस्वत्यै नमः सरस्वतीम् आवा० स्थाप० ॥४१॥
नैरृत्यपत्रे ( ईशान्यां ) ॐ भूर्भुवः स्वः विश्वरूपायै नमः विश्वरूपाम् आवा० स्थाप० ॥४२॥
पश्चिमपत्रे ( पूर्वे ) ॐ भूर्भुवः स्वः विशालायै नमः विशालाम् आवा० स्थाप० ॥४३॥
वायव्यपत्रे ( आग्नेय्यां ) ॐ भूर्भुवः स्वः ईशायै नमः ईशाम् आवा० स्थाप० ॥४४॥
उत्तरपत्रे ( दक्षिणे ) ॐ भूर्भुवः स्वः व्यापिन्यै नमः व्यापिनेम् आवा० स्थाप० ॥४५॥
ईशानपत्रे ( नैरृत्यां ) ॐ भूर्भुवः स्वः विमलायै नमः विमलाम् आवा० स्थाप० ॥४६॥
पुनरपि अष्टदले कल्पितपूर्वादिक्रमेण प्रादक्षिण्येनाष्टौ देवीः स्थापयेत् ॥ पूर्वपत्रे ( पश्चिमे ) ॐ भूर्भुवः स्वः तमोपहारिण्यै नमः तमोपहारिणीम् आवा० स्थाप० ॥४७॥
आग्नेयपत्रे ( वायव्यां ) ॐ भूर्भुवः स्वः सूक्ष्मायै नमः सूक्ष्माम् आवा० स्थाप० ॥४८॥
दक्षिणपत्रे ( उत्तरे ) ॐ भूर्भुवः स्वः विश्वयोन्यै नमः विश्वयोनिम् आवा० स्थाप० ॥४९॥
नैरृत्यपत्रे ( ईशान्यां ) ॐ भूर्भुवः स्वः जयावहायै नमः जयावहाम् आवा० स्थाप० ॥५०॥
पश्चिमपत्रे ( पूर्वे ) ॐ भूर्भुवः स्वः पस्मालयायै नमः पद्मालयामावा० स्थाप० ॥५१॥
वायव्यपत्रे ( आग्नेय्यां ) ॐ भूर्भुवः स्वः परायै नमः पराम् आवा० स्था० ॥५२॥
उत्तरपत्रे ( दक्षिणे ) ॐ भूर्भुवः स्वः शोभायै नमः शोभाम् आवा० स्थाप० ॥५३॥
ईशानपत्रे ( नैरृत्यां ) ॐ भूर्भुवः स्वः पद्मरूपायै नमः पद्मरूपाम् आवा० स्थाप० ॥५४॥
पुनस्तत्रैवाष्टदले पूर्ववत् ब्राह्म्यादीः स्थापयेत् ॥ पूर्वपत्रे ( पश्चिमे ) ॐ भूर्भुवः स्वः बाह्म्यै नमः ब्राह्मीम् आवा० स्थाप० ॥५५॥
आग्नेयपत्रे ( वायव्यां ) ॐ भूर्भुवः स्वः माहेश्वर्यै नमः माहेश्वरीम् आवा० स्थाप० ॥५६॥
दक्षिणपत्रे ( उत्तरे ) ॐ भूर्भुवः स्वः कौमार्यै नमः कौमारीम् आवा० स्थाप० ॥५७॥
नैरृत्यपत्रे ( ईशान्यां ) ॐ भूर्भुवः स्वः वैष्णव्यै नमः वैष्णवीम् आवा० स्थाप० ॥५८॥
पश्चिमपत्रे ( पूर्वे ) ॐ भूर्भुवः स्वः वाराह्यै नमः वाराहीम् आवा० स्थाप० ॥५९॥
वायव्यपत्रे ( आग्नेय्यां ) ॐ भूर्भुवः स्वः इन्द्रायै नमः इन्द्राणीम् आवा० स्थाप० ॥६०॥
उत्तरपत्रे ( दक्षिणे ) ॐ भूर्भुवः स्वः चामुण्डायै नमः चामुण्डाम् आवा० स्थाप० ॥६१॥
ईशानपत्रे ( नैरृत्यां ) ॐ भूर्भुवः स्वः अरुणायै नमः अरुणाम् आवा० स्थाप० ॥६२॥
ततोऽष्तपत्रस्य मध्ये बाह्ये च कल्पितपूर्वादिदिक्षु प्रादक्षिण्येन ग्रहान् स्थापयेत् । मध्ये । ॐ भूर्भुवः स्वः सूर्याय नमः सूर्यम् आवा० स्थाप० ॥६३॥
पूर्वे ( पश्चिमे ) ॐ भूर्भुवः स्वः सोमाय नमः सोमाम् आवा० स्थाप० ॥६४॥
आग्नेय्यां ( वायव्यां ) ॐ भूर्भुवः स्वः भौमाय नमः भौमम् आवा० स्थाप० ॥६५॥
दक्षिणे ( उत्तरे ) ॐ भूर्भुवः स्वः गुरवे नमः गुरुम् आवा० स्थाप० ॥६६॥
नैरृत्यां ( ईशान्यां ) ॐ भूर्भुवः स्वः गुरवे नमः गुरुम् आवा० स्थाप० ॥६७॥
पश्चिमे ( पूर्वे ) ॐ भूर्भुवः स्वः शुक्राय नमः शुक्रम् आवा० स्थाप० ॥६८॥
वायव्याम् ( आग्नेय्यां ) ॐ भूर्भुवः स्वः शनैश्चराय नमः शनैश्चरम् आवा० स्थाप० ॥६९॥
उत्तरे ( दक्षिणे ) ॐ भूर्भुवः स्वः राहवे नमः राहुम् आवा० स्थाप० ॥७०॥
ईशान्यां ( नैरृत्यां ) ॐ भूर्भुवः स्वः केतवे नमः केतुम् आवा० स्थाप० ॥७१॥
ततः इन्द्रादीन्दशदिक्पालान् प्रसिद्धपूर्वादिक्रमेण प्रादक्षिण्येन स्वस्वदिक्षु स्थापयेत् ॥ प्रसिद्धपूर्वस्याम् । ॐ भूर्भुवः स्वः इन्द्राय नमः इन्द्रम् आवा० स्थाप० ॥७२॥
आग्नेय्याम् । ॐ भूर्भुवः स्वः अग्नये नमः अग्निम् आ० स्था० ॥७३॥
दक्षिणस्याम् । ॐ भूर्भुवः स्वः यमाय नमः यमम् आ० स्था० ॥७४॥
नैरृत्याम् । ॐ भूर्भुवः स्वः निरृतये नमः निरृतिम् आवा० स्थाप० ॥७५॥
पश्चिमायाम् । ॐ भूर्भुवः स्वः वरुणाय नमः वरुणम् आवा० स्थाप० ॥७६॥
वायव्याम् । ॐ भूर्भुवः स्वः वायवे नमः वायुम् आवा० स्थाप० ॥७७॥
उत्तरस्याम् । ॐ भूर्भुवः स्वः कुबेराय नमः कुबेरम् आवा० स्थाप० ॥७८॥
ईशान्याम् । ॐ भूर्भुवः स्वः ईशानाय नमः ईशानम् आवा० स्थाप० ॥७९॥
पूर्वेशानयोर्मध्ये ऊर्ध्वायाम् । ॐ भूर्भुवः स्वः ब्रह्मणे नमः ब्रह्माणम् आवा० स्थाप० ॥८०॥
निरृतिवरुणयोर्मध्ये अधः । ॐ भूर्भुवः स्वः अनन्ताय नमः अनन्तम् आवा० स्थाप० ॥८१॥
ततः प्रसिद्धपूर्वाद्यष्टदिक्षु । पूर्वस्याम् । ॐ भूर्भुवः स्वः वज्राय नमः वज्रम् आवा० स्थाप० ॥८२॥
आग्नेय्याम् । ॐ भूर्भुवः स्वः शक्तये नमः शक्तिम् आवा० स्थाप० ॥८३॥
दक्षिणस्याम् । ॐ भूर्भुवः स्वः दण्डाय नमः दण्डम् आवा० स्थाप० ॥८४॥
नैरृत्याम् । ॐ भूर्भुवः स्वः खङ्गाय नमः खङ्गम् आवा० स्थाप० ॥८५॥
पश्चिमायाम् । ॐ भूर्भुवः स्वः पाशाय नमः पाशम् आवा० स्थाप० ॥८६॥
वायव्याम् । ॐ भूर्भुवः स्वः अङ्कुशाय नमः अङ्कुशम् आवा० स्थाप० ॥८७॥
उत्तरस्याम् । ॐ भूर्भुवः स्वः गदायै नमः गदाम् आवा० स्थाप० ॥८८॥
ईशान्याम् । ॐ भूर्भुवः स्वः त्रिशूलाय नमः त्रिशूलम् आवा० स्थाप० ॥८९॥
पूर्वेशानयोर्मध्ये ऊर्ध्वायाम् ॐ भूर्भुवः स्वः अब्जाय नमः अब्जम् आवा० स्थाप० ॥९०॥
निरृतिवरुणयोर्मध्ये अधः । ॐ भूर्भुवः स्वः चक्राय नमः चक्रम् आवा० स्थाप० ॥९१॥
एवं भगवत्याः श्रीगायत्रीदेव्या यन्त्रे यन्त्रदेवता आवाह्य हस्ते अक्षतान् गृहीत्वा ॐ मनो जूतिर्ज्जुषता० ॥१३/२॥ ॐ भूर्भुवः स्वः  भगवत्याः श्रीगायत्रीदेव्या यन्त्रे श्रीगायत्रीप्रभृतिचक्रायुधान्ताः सर्वा देवताः सुप्रतिष्ठिता वरदा भवत ॥ एवं यन्त्रे देवताः प्रतिष्ठाप्य यन्त्रस्य प्राणप्रतिष्ठां कुर्यात् । यथा हस्ते जलं गृहीत्वा । अस्य श्रीप्राणप्रतिष्ठामहामंत्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः । ऋग्यजुः सामाथर्वाणि छन्दांसि । चैतन्यं देवता । आं बीजम् । ह्रीं शक्तिः । क्रों कीलकम् । अस्मिन् श्रीगायत्रीयन्त्रे प्राणप्रतिष्ठापनार्थे जपे विनियोगः ॥ ॐ अं कं खं गं घं ङं पृथिव्यप्तेजोवाय्वाकाशात्मने आं अङ्गुष्ठाभ्यां नमः । ॐ इं चं छं जं झं ञं शब्दस्पर्शरूपरसगन्धात्मने ईं तर्जनीभ्यां नमः । ॐ उं टं ठं डं ढं णं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणप्राणात्मने ऊं मध्यमाभ्यां नमः । ॐ एं तं थं दं धं नं वाक्पाणिपादपायूपस्थात्मने ऐं अनामिकाभ्यां नमः । ॐ ओं पं फं बं भं मं वचनादानविहरणविसर्गानन्दात्मने औं कनिष्ठिकाभ्यां नमः । ॐ अं यं रं लं वं शं षं सं हं ळं क्षं मनोबुद्ध्यहङ्कारचित्तान्तःकरणात्मने अः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि ॐ अं कं खं गं घं ङं पृथिव्यप्तेजोवाय्वाकाशात्मने आं हृदयाय नमः । ॐ इं चं छं जं झं ञं शब्दस्पर्शरूपरसगन्धात्मने ईं शिरसे स्वाहा । ॐ उं टं ठं डं ढं णं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणप्राणात्मने ऊं शिखायै वषट् । ॐ एं तं थं दं धं नं वाक्पाणिपादपायूपस्थात्मने ऐं कवचाय हुम् । ॐ ओं पं फं बं भं मं वचनादानविहरणविसर्गानन्दात्मने औं नेत्रत्रयाय वौषट् । ॐ अं यं रं लं वं शं षं सं हं ळं क्षं मनोबुद्ध्यहङ्कारचित्तान्तःकरणात्मने अः अस्त्राय फट् ॥ ततो ध्यानम् । रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरूढाकराब्जैः पाशं कोदण्डमिक्षूद्भवमथ गुणमप्यङ्कुशं पञ्च बाणान् ॥ बिभ्राणा स्रक्कपालं त्रिनयनलसिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ॥१॥
यन्त्रं स्पृष्ट्वा पठेत् । ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हौं हं सः अस्मिन्यन्त्रे श्रीगायत्र्यादिचक्रायुधान्तदेवतानां सर्वेन्द्रियाणि वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणपाणिपादपायूपस्थानानि इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा ॥ एवं यन्त्रे यन्त्राधिष्ठितदेवतानां प्राणप्रतिष्ठा कृत्वा भगवत्याः श्रीगायत्रीदेव्याः स्वर्णादिमूर्तिश्चेत् तस्या मूर्तेः अग्न्युत्तारणपूर्वकं प्राणप्रतिष्ठापनं कुर्यात् ॥ तद्यथा । एकस्मिन्पात्रे श्रीगायत्रीदेव्या मूर्तिं निधाय हस्ते जलं गृहीत्वा संकल्पं कुर्यात् । देशकालौ संकीर्त्य अस्या भगवत्याः श्रीगायत्रीदेवीमूर्तेः निर्माणेऽवघाताग्निप्रतपनादिजनितदोषपरिहारार्थं देवतासान्निध्यार्थमग्न्युत्तारणपूर्वकं प्राणप्रतिष्ठां करिष्ये । मूर्तिं घृतेनाभ्यज्य त्दुपरि जलधारां कुर्यात् ॥ समुद्द्रस्यत्त्वावकयाग्ग्ने परिव्व्ययामासि ॥ पावकोऽअस्म्मब्भ्यx शिवोभव ॥४/१७॥ हिमस्यत्त्वा जरायुणाग्ने परिव्व्ययामसि । पावकोऽअस्म्मब्भ्यx शिवोभाव ॥५/१७॥ उपज्ज्मन्नुपवेतसेऽवतर नदीष्ष्वा ॥ अग्ग्ने पित्तमपामसिमण्डूकिताभिरागहि सेमन्नो यज्ञम्पावकवर्ण्णxशिवङ्कृधि ॥६/१७॥ अपामिदन्न्ययनxसमुद्द्रस्य निवेशनम् ॥ अन्न्यॉंस्तेऽअस्म्मत्तपन्तु हतय x पावकोऽअस्म्मब्भ्यx शिवोभव ॥७/१७॥ अग्ग्ने पावक रोचिषा मन्द्रया देव जिह्वया ॥ आढेवान्न्वक्षि यक्षिच ॥८/१७॥ स न x पावक दीदिवोग्ग्ने देवॉं २ ऽइहावह ॥ उपयज्ञxहविश्च्च नx ॥९/१७॥ पावकया यश्च्चितयन्त्या कृपा क्षामन्न्नुरुचऽउषसो न भानुना ॥ तूर्व्वन्नयामन्नेतशस्य नूरणऽआ यो घृणे न ततृषाणोऽअजरx ॥१०/१७॥ नमस्ते हरसे शोचिषे नमस्तेऽअस्त्वर्च्चिषे ॥ अन्न्यॉंस्तेऽअस्म्मत्तपन्तु हेतयx पावकोऽअस्म्मब्भ्यx शिवोभव ॥११/१७॥ नृषदेव्वेडप्प्सुषदेव्वेड् बर्हिषदेव्वेड्वनसदेव्वेट् स्वर्व्विदेव्वेट् ॥१२/१७॥ ये देवा देवानॉं य्यज्ञिया यज्ञियानाx संवत्सरीणमुपभागमासते ॥ अहुतादो हविषो यज्ञेऽअस्म्मिन्स्वयं पिबन्तु मधुनो घृतस्य ॥१३/१७॥ ये देवा देवेष्ष्वधिदेवत्त्वमायन्येब्ब्रह्मणx पुरऽएतारोऽअस्य ॥ येब्भ्यो नऽऋते पवते धामकिञ्चन न ते दिवो न पृथिव्व्याऽअधिस्न्नुषु ॥१४/१७॥ प्राणदाऽअपानदाव्व्यानदाव्वर्च्चोदाव्वरिवोदाx ॥ अन्न्यॉंस्तेऽअस्म्मत्तपन्तु हेतयxपावकोऽअस्म्मब्भ्यx शिवोभय ॥१५/१७॥ एवं जलधारां कृत्वा प्राणप्रतिष्ठापनं कुर्यात् । हस्ते जलं ग्रुहीत्वा । अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषयः ॥ ऋग्यजुःसामानि छन्दांसि ॥ पराशक्तिर्देवता । आं बीजम् ॥ र्ह्रीं शक्ति । क्रों कीलकम् । अस्या भगवत्याः श्रीगायत्रीदेव्या मूर्तौ प्राणप्रतिष्ठापने विनियोगः ॥ ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हौं ॐ क्षं सं हं सः ह्रीं ॐ आं ह्रीं क्रों अस्या गायत्रीदेव्या मूर्तेः प्राणा इह प्राणाः ॥ ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हौं ॐ क्षं सं हं सः ह्रीं ॐ आं ह्रीं क्रों अस्या गायत्रीदेव्या मूर्तेः जीव इह स्थितः ॥ ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हौं ॐ क्षं सं हं सः ह्रीं ॐ आं ह्रीं क्रों अस्या गायत्रीदेव्या मूर्तेः सर्वेन्द्रियाणि वाङ्मनस्त्वक्चक्षुःश्रोत्रजिह्वाघ्राणपाणिपादपायूपस्थानि इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा । ततो हस्ते गन्धाक्ष तपुष्पाणि गृहीत्वा स्वहृदि स्थितां साङ्गां सावरणां सायुधां श्रीगायत्रीदेवीं नेत्रे निमील्य हृदि क्षणं ध्यात्वा तत्तेजःस्वकीयाञ्जलौ स्थितेषु पुष्पेष्वागतं विभाव्य तत् सौवर्णादिमृर्तौ गायत्रीदेवीस्वरूपेण प्रतिष्ठापयेत् ॥ तद्यथा ॥ ॐ मनोजूतिर्ज्जुषतामाज्ज्यस्य बृहस्प्पतिय्यज्ञमिमन्तनोत्त्वरिष्ट्टॅंय्यज्ञx समिमन्दधातु ॥ व्विश्श्वेदेवास्‍इहगादयन्तामो ३ म्प्रतिष्ट्ठ ॥१३/२॥ ॐ एष वै प्रतिष्ठानामयज्ञो यत्रैतेन यज्ञेन यजन्ते सर्व्वमेव प्रतिष्ठितम्भवति । अस्यां सुवर्णमूर्तौ भगवती श्रीगायत्रीदेवी सुप्रतिष्ठा वरदा भव ॥ एवं प्राणप्रतिष्ठां विधाय भगवत्याः श्रीगायत्रीदेव्या मूर्तिं पुनः पात्रे निधाय हस्तेऽक्षतान्गृहीत्वा आवाहनं कुर्यात् ॥ आवाहनम् - ॐ सहस्रशीर्षा पुरुषxसहस्राक्षxसहस्रपात् ॥ सभूमिxसर्व्वतस्प्पृत्त्वात्त्यतिष्ट्ठद्दशाङ्गुलम् ॥१/३१॥ आयाहि वरदे देवि त्र्यक्षरे ब्रह्मवादिनि । गायत्रि छन्दसां मातर्ब्रह्मयोने नमोऽ‍स्तु ते ॥१॥
जगन्मयत्वञ्च तथा ह्यजत्वं लोके प्रसिद्धं तव देवि जाने । तथापि मूर्तौ हृदयारविन्दादावाहनं ते जननि प्रकुर्वे ॥२॥
आत्मसंस्थामजां शुद्धां त्वामहं परमेश्वरीम् । आरण्यामिव हव्याशं मूर्तावावाहयाम्यहम् ॥३॥
आवाहये महादेवीं हृदयाम्बुजगह्वरात् । सूर्यमण्डलतो वाऽपि स्वीयाद्वा हृदयान्ततः ॥४॥
इति अक्षतान् भगवत्याः श्रीगायत्रीदेव्या मूर्तौ निधाय “ भो गायत्रीदेवि त्वम् निधाय “ भो गायत्रीदेवि त्वम् अस्यां मूर्तावावाहिता भव ” इति आवाहनमुद्रां प्रदर्शयेत् ॥ ततो भगवत्याः श्रीगायत्रीदेव्या मूलमन्त्रमुच्चार्य । यावत्प्रकुर्यां तव देवि पूजां समन्वितायाः परिवारदेवैः ॥ संस्थापिता त्वं भव देवि तावद्धेम्नश्च मूर्तौ हि समस्तदेवैः ॥५॥
देवेशि भक्तिसुलभे परिवारसमन्विते । यावत्त्वां पूजयिष्यामि तावत्त्वं सुस्थिरा भव ॥६॥
तवेयं महिमा मूर्तिस्तस्यां त्वां सर्वगां तथा ॥ भक्तिस्नेहसमाकृष्टां दीपवत्स्थापयाम्यहम् ॥७॥
“ भो गायत्रीदेवि त्वम् अस्यां मूर्तौ संस्थापिता भव ” इति संस्थापनमुद्रां प्रदर्शयेत् ॥ ततः स्वागतं कुर्यात् । आलोकनं ऋतुभुजो हृदयेन यस्या वाञ्छन्ति मातरनिशं मरसम्पुटाभ्याम् ॥ त्रैलोक्यमातुरथ ते कनकस्य मूर्तौ सुस्वागतं भगवतीह ह्रदा प्रकुर्वे ॥८॥
यस्या दर्शनमिच्छन्ति देवाः स्वाभीष्टसिद्ध्ये । तस्यास्ते परमेशायाः कुर्वे‍ऽहं स्वागतं बहु ॥९॥
कृतार्थोऽनुगृहीतोऽस्मि सफलं जीवितं मम । आगतायास्तु देवेशि सुस्वागतमिदं पुनः ॥१०॥
भो भगवति श्रीगायत्रीदेवि त्वम् अस्यां मूर्तौ सुस्वागता भव ॥ तत आसनम् हस्तेऽक्षतानादाय पुनर्मूलमन्त्रमुच्चार्य । ॐ पुरुषxएवेदxसर्व्वंयद्द्भूतंयच्चभाव्व्यम् । उतामृतत्त्वस्येशानोयदन्नेनातिरोहति ॥२/३१॥ अस्मिन्वरे स्वासनपीठयुक्ते सौवर्णवर्णे कुशकम्बलाढ्ये । त्वं तिष्ठ चास्मत्सुमुखी दयार्द्रे यावत्समर्चां तव देवि कुर्वे ॥११॥
एतद्वरासनं देवि सर्वबीजमयं शुभम् । स्वात्मस्थायै मया दत्तं गृहाण चोत्तमोत्तमम् ॥१२॥
ॐ भूर्भुवः स्वः भगवत्यै श्रीगायत्रीदेव्यै नमः आसनार्थे अक्षतान्सम० ॥ ततः प्रार्थयेत् । मातस्त्वां प्रार्थये नत्वा मूर्तावस्यां वरासने ॥ यावत्पूजां करिष्यामि तावत्स्यास्त्वं प्रतिष्ठिता ॥१३॥
भो भगवति श्रीगायत्रीदेवि त्वम् अस्यां मूर्तौ सुप्रतिष्ठिता भव ॥ इति पुष्पाञ्जलिं अक्षतान् वा देव्यै दत्वा भगवत्याः श्रीगायत्रीदेव्याः सुप्रतिष्ठितत्वं भावयेत् । ततः पुनर्मूलमन्त्रमुच्चार्य । जगति जननि नास्ति त्वदृते दृश्यमानं विदितमपि हि सर्वैर्व्याप्य विष्वक् स्थिता त्वम् ॥ कनकविरचितायां सन्निधिं देवि मूर्तौ कुरु भगवति यावत्पूजनं ते प्रकुर्वे ॥१४॥
अनन्या तव देवेशि मूर्तिः शक्तिरियं भुवि ॥ सान्निध्यं कुरु तस्यां त्वं भक्तानुग्रहतत्परा ॥१५॥
“ भो भगवति श्रीगायत्रीदेवि त्वम् अस्यां मूर्तो सन्निहिता भव । ” इति सन्निहितमुद्रां प्रदर्शयेत् ॥ हस्तेऽक्षतानादाय । पुनर्मूलमंत्रमुच्चार्य । संव्याप्य काष्ठे परितः प्रविष्टः संरुद्ध आस्ते हुतभुग् यथा वै ॥ अस्यां तथा स्याः परिसन्निरुद्धा यावत्त्वदर्चां प्रकरोमि मातः ॥१६॥
आज्ञया तव देवेशि देवानां तृप्तिहेतवे । त्वामत्र मूर्तौ पूजार्थं संरुणध्मि सुरेश्वरि ॥१७॥
“ भो भगवति श्रीगायत्रीदेवि त्वम् अस्यां मूर्तौ सन्निरुद्धा भव ” । इति अक्षतान् देव्याः शिरसि दत्वा सन्निरुद्धमुद्रां प्रदर्शयेत् ॥ पुनर्मूलमन्त्रमुच्चार्य । न ज्ञायते तेऽर्चनकल्पशास्त्रं पूजोपहारा अपि नैव पूर्णाः ॥ भवेच्च पूर्णोऽभिमुखी भवेस्त्वं ह्यपूर्णकल्पश्च मया कृतश्चेत् ॥१८॥
अज्ञानाद्दुर्मनस्त्वाद्वा वैकल्यात्साधनस्य च । अपूर्णं पूर्णतां याति त्वं यदाऽभिमुखी तदा ॥१९॥
“ भो भगवति श्रीगायत्रीदेवि त्वम् अस्यां मूर्तो अभिमुखी भव ” इति सन्मुखीमुद्रां प्रदर्शयेत् ॥ पुनर्मूलमन्त्रमुच्चार्य । हस्तेऽक्षतान्गृहीत्वा । ये ये न मातर्मनसाऽ‍पि पूजां कुर्वन्ति ते ते मनसोऽपि दूराः ॥ यस्याश्च कान्तिर्ह्यमितप्रभाभिर्व्याप्ता त्वमस्यामवगुण्ठिता भव ॥२०॥
अमृतद्रववर्षिण्या दृष्ट्या मूर्तौ महेश्वरि । अस्यां लोकावलोकाय भव त्वमवगुण्ठिता ॥२१॥
“ भो भगवति श्रीगायत्रीदेवि त्वम् अस्यां मूर्तौ अवगुण्ठिता भव ” । इति वदन् अक्षतान् देव्याः शिरसि दत्वा अवगुण्ठनमुद्रां प्रदर्शयेत् ॥ ततः पूर्ववत् भगवत्याः श्रीगायत्रीदेव्याः षडङ्गन्यासेन सकलीकरणं कुर्यात् । तद्यथा । भगवत्याः श्रीगायत्रीदेव्या मूलमन्त्रमुच्चार्य । जगति किमपि नास्ति त्वदृते देवि मूर्तौ तव जननि षडङ्गन्यासरूपेण कुर्वे ॥२२॥
‘ ॐ भूर्भुवः स्वः भगवत्याः श्रीगायत्रीदेव्या हृदयाय नमः ’ इति भगवत्याः श्रीगायत्रीदेव्या हृदयं स्पृशेत् ॥ पुनर्मूलमंत्रमुच्चार्य । ‘ ॐ भूर्भुवः स्वः भगवत्याः श्रीगायत्रीदेव्याः शिरसे स्वाहा ’ इति भगवत्याः श्रीगायत्रीदेव्याः शिरः स्पृशेत् ॥ पुनर्मूलमंत्रमुच्चार्य । ‘ ॐ भूर्भुवः स्वः भगवत्या श्रीगायत्रीदेव्याः शिखायै वषट् ’ इति भगवत्याः श्रीगायत्रीदेव्याः शिखां स्पृशेत् ॥ पुनर्मूलमन्त्रमुच्चार्य । ‘ ॐ भूर्भुवः स्वः भगवत्याः श्रीगायत्रीदेव्याः कवचाय हुम् ’ इति भगवत्याः श्रीगायत्रीदेव्या दक्षिनवामकरौ स्पृशेत् ॥ पुनर्मूलमंत्रमुच्चार्य । ‘ ॐ भूर्भुवः स्व भगवत्याः श्रीगायत्रीदेव्या नेत्रत्रयाय वौषट् ’ इति भगवत्याः श्रीगायत्रीदेव्या नेत्रत्रयं स्पर्शेत् ॥ पुनर्मूलमन्त्रमुच्चार्य । ‘ ॐ भूर्भुवः स्वः भगवत्याः श्रीगायत्रीदेव्या अस्त्राय फट् ’ इति भगवत्याः श्रीगायत्रीदेव्याः समंताच्चतुर्दिक्षु अस्त्रमुद्रां प्रदर्शयेत् ॥ एवं षडङ्गन्यासन सकलीकरण कृत्वा । पुनर्मूलमन्त्रमुच्चार्य । ‘ ॐ भूर्भुवः स्वः भगवत्यै श्रीगायत्रीदेव्यै नमः ’ इति “ भो भगवति श्रीगायत्रीदेवि त्वम् अस्यां मूर्तौ अमृतीकृता भव ” इति अमृतीकरणमुद्रां प्रदर्शयेत् ॥ पुनर्मूल्लमन्त्रमुच्चार्य । ‘ ॐ भूर्भुवः स्वः भगवत्यै श्रीगायत्रीदैव्यै नमः ’ इति “ भो भगवति श्रीगायत्रीदेवि त्वम् अस्यां मूर्तौं परमीकृता भव ” इति परमीकरणमुद्रां प्रदर्शयेत् ॥ एवं मुद्राः प्रदर्श्य । किञ्चिदर्घोदकं गृहीत्वा । तेन जलेन भगवत्रीं श्रीगायत्रीदेवीं शिरसि सम्प्रोक्ष्य । पुनर्मूलमंत्रमुच्चार्य । वरदम् । अभयम् । अङ्कुशम् । कशाम् । कपालम् । गुणम् । शङ्खम् । चक्रम् । अब्जम् । कमलम् । इति मुद्रः प्रदर्श्य पाद्यादि दद्यात् । तxxदौ मूलमंत्रमुच्चार्य भगवतीं श्रीगायत्रीदेवीं पूजयेत् ॥ ततः पाद्यम् । मूलमंत्रेण पाद्यपात्राज्जलं गृहीत्वा । ॐ एतावानस्य महिमातोज्ज्यायॉंश्च्चपूरुषx ॥ पासोस्यव्विश्श्वाभूतानित्त्रिपादस्यामृतन्दिवि ॥३/११॥ श्यामाकदूर्वाब्जपदार्थमिश्रं पाद्यं मया ते पदयोः प्रयुक्तम् । मातस्तथैवाशु ममापि नित्यं ते पादयोरस्त्वनिशं निवासः ॥२३॥
यद्भक्तिलेशसंपर्कात्परमानन्दसंभवे । भवत्यानन्दसंप्राप्तिस्तस्यै पाद्यं प्रकल्पये ॥२४॥
ॐ भूर्भुवः स्वः भगवत्यै श्रीगायत्री देव्यै नमः पादयोः पाद्यं समर्पयामि ॥ कलशपात्रxज्जलं गृहीत्वा । पाद्यान्ते शुद्धोदकं समर्पयामि ॥ शुद्धोदककान्ते आचमनीयपात्राज्जलं गृहीत्वा । आचमनीयं समर्पयामि ॥ ततोऽर्घः । मूलमन्त्रमुच्चार्य । अर्घपात्रात्किञ्चिज्जलं पात्रान्तरेणादाय । ॐ त्रिपादूर्द्ध्वऽउदैत्त्पुरुषxपादोस्येहाभवत्त्पुनx ॥ ततोव्विष्प्वङ्व्यक्त्रमत्त्साशनानशनेऽअभि ॥४/३१॥ दर्भाग्रदूर्वातिलसर्षपाणि प्रक्षिप्य मातः कृतमर्घपात्रम् ॥ तस्माच्च ते मूर्ध्नि मया कराभ्यां सन्दीयते चार्घजलं गृहाण ॥२५॥
तापत्रयहर दिव्यं परमानन्दलक्षणम् ॥ तापत्रयायुते शीर्ष्णि तवार्घ्यं कल्पयाम्यहम् ॥२६॥
ॐ भूर्भुवः स्वः भगवत्यै श्रीगायत्रीदेव्यै नमः हस्तयोः ( शिरसि ) अर्घ्यं समर्पयामि ॥ इति अर्घ्यं हस्तयोः शिरसि वा दत्वा । अर्घ्यान्ते आचमनीयपात्रादाचमनीयं समर्प० ॥ तत आचमनीयम् । ॐ ततोव्विराडजायतव्विराजोऽअधिपूरुषx ॥ सजातोऽअत्त्यरिच्च्यतपश्च्चाद्द्भूमिमथोपुरx ॥५/३१॥ श्रीसंज्ञकंकाललवङ्गमिश्रं सुस्वादु तत्तद्द्रवयुक्तशुद्धम् ॥ सम्मन्त्रितं वैदिकमन्त्रकैस्तद्गायत्रि देव्याचमनं गृहाण ॥२७॥
वेदानामापि वेदायै देवानां देवतात्मने । मया ह्याचमनं दत्तं गृहाण जगदीश्वरि ॥२८॥
ॐ भूर्भुवः स्वः श्रीगायत्रीदेव्यै नमः आचमनीयं समर्प० ॥ ततो मधुपर्कः । मधुपर्कपात्रात्किञ्चिन्मधुपर्कमादाय । ॐ यन्मधुनो मधव्यं परमx रूपोअमन्नाद्यम् । तेनाहं मधुनो मधव्येन परनेण रूपेणान्नाद्येन परमो मधव्योन्नादोसानि ॥ कनकघटितपात्रे वेदमन्त्रैस्त्वदर्थं दधिमधुघृतभागान्देबि कृत्वा सुमिश्रान् । अमृतमयमिदं त्वद्दृष्टिपातेन कृत्वा भगवति मधुपर्कं दीयमानं गृहाण ॥२९॥
सर्वकालुष्यहीनायै परिपूर्णसुखात्मने । मधुपर्कमिदं तुभ्यं देवि दत्तं प्रसीद च ॥३०॥
ॐ भूर्भुवः स्वः भगवत्यै श्रीगायत्रीदेव्यै नमः मधुपर्कं सम० । मधुपर्कान्ते आचमनीयपात्रादाचमनीयं सम० ॥ ततः पञ्चामृतस्नानम् । तत्रादौ पयःस्नानम् । ॐ पयxपृथिव्व्याम्पयऽओषधीषुपयोदिव्व्यन्तरिक्षे पयोधाx ॥ पयस्वतीxप्प्रदिशxसन्तु मह्यम् ॥३६/१८॥ येन क्रियन्ते सकलाः क्रिया वै यज्ञस्य होमादिविधौ प्रयुक्ताः । तृप्तानि भूतानि तथा भवन्ति स्नानाय तद्दुग्धमहं ददामि ॥३१॥
ॐ भूर्भुवः स्वः भगवत्यै श्रीगायत्रीदेव्यै नमः पयःस्नानं समर्पयामि । पयःस्नानान्ते शुद्धोदकस्नानं सम० । शुद्धोदकस्नानान्ते आचमनीयपात्रादाचमनीयं सम० ॥ ततो दधिस्नानम् । ॐ दधिक्त्राव्णॊऽअकारिषञिष्ण्णोरश्श्वस्यव्वाजिनx ॥ सुरभिनोमुखाकरत्त्प्रणऽआयूऽषितारिषत् ॥३२/२३॥ स्वच्छञ्च शुद्धं शशिना समप्रभं ह्याम्लञ्च किञ्चिन्मधुरं मनोहरम् । स्नानाय तुभ्यं दधि देवि दत्तं ह्यङ्गीकुरु त्वं परिवारयुक्ता ॥३२॥
ॐ भूर्भुवः स्वः भगवत्यै श्रीगायत्रीदेव्यै नमः दधिस्नानं समर्प० ॥ दधिस्नानान्ते शुद्धोदकस्नानं सम० । शुद्धोदकस्नानान्ते आचमनीयपात्रादाचमनीयं सम० ॥ ततो घृतस्नानम् ॥ घृतेनाञ्जन्त्सम्पयोदेवयानान्न्प्रजानन्न्वाज्ज्यप्प्येतुदेवान् ॥ अनुत्त्वासप्प्ते प्प्रदिशxसचन्ताxस्वधामस्म्मैयजमानाय धेहि ॥२/२९॥ हव्यानि यस्मात्प्रभवन्ति लोके निवर्त्यतेऽग्नौ हवनञ्च येन । तृप्ताश्च येन द्विजदेवताद्या दास्ये घृतं तत्स्नपनाय देवि ॥३३॥
ॐ भूर्भुवः स्वः भगवत्यै श्रीगायत्रीदेव्यै नमः घृतस्नानं समर्प० । घृतस्नानान्ते शुद्धोदकस्नानं सम० । शुद्धोदकस्नानान्ते आचमनीयपात्रादाचमनीयं समर्प० । घृतस्नानान्ते शुद्धोदकस्नानं सम० । शुद्धोदकस्नानान्ते आचमनीयपात्रादाचमनीयं समर्प० । ततो मधुस्नानम् ॥ स्वाहामरुद्भिxपरिश्श्रीयस्वदिवxसxस्पृशंस्पाहि ॥ मधुमधुमधु ॥१३/३७॥ पुष्पेभ्य आदाय रसान् समग्रानेकोकृतं यन्मधुमक्षिकाभिः । तत्स्वादु तुभ्यं मधुरं वरेण्यं स्नानाय दास्ये मधु देवि मातः ॥३४॥
ॐ भूर्भुवः स्वः भगवत्यै श्रीगायत्रीदेव्यै नमः मधुस्नानं सम० । मधुस्नानान्ते शुद्धोदकस्नानं सम० । शुद्धोदकस्नानान्ते आचमनीयपात्रादाचमनीयं सम० ॥ ततः शर्करास्नानम् । ॐ अपाxरसमुद्द्वयसxमूर्य्येसन्तxसमाहितम् ॥ अपाx रसस्ययोरसस्तम्वोगृह्णाम्म्युत्तममुपयामगृहीतोसीन्द्रायत्त्वाजुष्ट्टगृह्णाम्म्येषतेयोनिरिन्द्रायत्त्वाजुष्ट्टतमम् ॥३/९॥ अन्नानि मिष्टानि यया भवन्ति तृप्तिं तथा भूतगणा लभन्ते । तां शर्करां देवि शशिप्रभाभां स्नानाय दत्तां मधुरां गृहाण ॥३५॥
ॐ भूर्भुवः स्वः भगवत्यै श्रीगायत्रीदेव्यै नमः शर्करास्नानं सम० । शर्करास्नानान्ते शुद्धोदकस्नानं सम० । शुद्धोदकस्नानान्ते आचमनीयपात्रादाचमनीयं स० ॥ ततो गन्धोदकस्नानम् ॥ ॐ गन्धर्व्वस्त्वाव्विश्श्वावसुxपरिदधातुव्विश्श्वस्यारिष्ट्ट्यै यजमानस्यपरिधिरस्यग्ग्निरिडऽ ईडितx ॥३/२॥ सौगन्ध्ययुक्तं द्रवद्रव्यजातं घृष्टञ्च काश्मीरककस्तुरीभिः । गन्धोदकं तुभ्यमिदं प्रदत्तं स्नानार्थमङ्गीकुरु देवि मातः ॥३६॥
ॐ भूर्भुवः स्वः भगवत्यै श्रीगायत्रीदेव्यै नमः गन्धोदकस्ननं सम० । गन्धोदकस्नानान्ते शुद्धोदकस्नानं सम० । शुद्धोदकस्नानान्ते आचमनीयपात्रादाचमनीयं सम० ॥ ततस्तैलेनोद्वर्तनस्तानम् ॥ ॐ अxशुनातेऽअxशुxपृच्च्यताम्परुषापरुx ॥ गन्धस्तेसोममवतुमदायरसोxअच्च्युतx ॥२७/२०॥ तैलं समाकृष्य कृतं तिलेभ्यः पुष्पाणि निक्षिप्य सुवासितानि । स्नेहं गृहाण स्नपनाय देवि स्नेहेन चास्मानवलोकयाशु ।३७॥
ॐ भूर्भुवः स्वः भगवत्यै श्रीगायत्रीदेव्यै नमः तैलेनोद्वर्तनस्नानं सम० ॥ उद्वर्तनस्नानान्ते शुद्धोदकस्नानं सम० । शुद्दोदकस्नानान्ते आचमनीयपात्रादाचमनीयं सम० । ततो भगवतीं श्रीगायत्रीदेवीं मूलमन्त्रेण गन्धाक्षतपुष्पैः सम्पूज्य । निर्माल्यं विसृज्य । पुनः गन्धपुष्पैः सम्पूज्य । गन्धमिश्रितैस्तोयैरभिषेकं कुर्यात् ॥ तत्रादावभिषेकपात्रे एव भगवत्याःश्रीगायत्रीदेव्याः स्नानशालां भावयेत् ॥ हस्ते जलं गृहीत्वा । अस्य श्रीगायत्रीकवचस्तोत्रमन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः । ऋग्यजुःसामाथर्वाणि छन्दांसि । परब्रह्मस्वरूपिणी गायत्री देवता । तद्बीजम् । भर्गः शक्तिः । धियः कीलकम् । मोक्षार्थे अभिषेके विनियोगः । न्यासः । ॐ तत्सवितुर्ब्रह्मात्मने हृदयाय नमः । ॐ वरेण्य़ं विष्ण्वात्मने शिरसे स्वाहा । ॐ भर्गो देवस्य रुद्रात्मने शिखायै वषट् । ॐ धीमहि ईश्वरात्मने कवचाय हुम् । ॐ धियो यो नः सदाशिवात्मने नेत्रत्रयाय वौषट् । ॐ प्रचोदयात्परब्रह्मतत्त्वात्मने अस्त्राय फट् । अथ ध्यानम् । मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणैर्युक्तामिन्दुकलानिबद्धमुकुटां तत्त्वार्थवर्णात्मिकाम् । गायत्रीं वरदाभयाङ्कुशकशाः शुभ्रं कपालं गुणं शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥१॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP