संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ देवताविसर्जनं पीठादिदानञ्च

अथ देवताविसर्जनं पीठादिदानञ्च

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


सपत्नीको यजमानो हस्ते गन्धाक्षतपुष्पाण्यादाय । ॐ उत्तिष्ट्ठब्ब्रह्मणस्प्पत देवयन्तंस्त्वेमहे । उपप्प्रयन्तुमरुतxसुदानवऽ इन्द्रप्प्राशोर्ब्भवासच ॥५६/३४॥ यान्तु देवगणाः सर्वे स्वशक्त्या पूजिता मया । इष्टकामप्रसिद्ध्यर्थं पुनरागमनाय च ॥ आवाहितगणपत्यादिगायत्र्यान्ताः सर्वे देवाः स्वस्वस्थानं गच्छात । शुभे कार्ये पुनरागमनाय च ॥ इत्युक्त्वा गन्धाक्षतपुष्पाणि स्थापितदेवतानां पीठोपरि निःक्षिपेत् ॥ ततोऽग्निविसर्जनम् । पुनर्गन्धाक्षतपुष्पाणि गृहीत्वा । ॐ यज्ञ यज्ञ गच्छ यज्ञपतिङ्गच्छस्वां योनिङ्गच्छस्वाहा । एषते यज्ञोयज्ञपते सहसूक्तवाकx सर्व्वव्वीरस्तञ्जुषस्वस्वाहा ॥२२/८॥ गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर ॥ यत्र ब्रह्मादयो देवास्तत्र गच्छ हुताशन ॥१॥
इति अग्निविसर्जनं कुर्यात् ॥ ततः स्थापितदेवतापीठादिमण्डपान्तं सर्वं ध्वजापताकादिसमन्वितं यावद्यज्ञसंभारम् आचार्याय दद्यात् ॥ तत्र सङ्कल्पार्थं यजमानो हस्ते जलं गृहीत्वा । इमं स्थापितदेवतानां पीठादिसहितं ध्वजापताकादिमण्डपसमन्वितं सर्वोपस्करसहितं यज्ञसंभारम् आचार्याय तुभ्यमहं सम्प्रददे । इति आचार्यस्य हस्ते जलं दद्यात् ॥ आचार्यः ‘ देवस्यत्वा सवितुः० ’ इति मन्त्रेण ‘ ॐ स्वस्ति ’ इत्युक्त्वा तज्जलं गृह्णीयात् ॥ ततः संपूर्णतां वाचयेत् । यथा - अञ्जलिं बद्ध्वा ब्राह्मणान् प्रार्थयेत् - मया यदेतत्सग्रहमखश्रीगायत्रीपुरश्चरणाख्यं कर्म कृतं तत्कालहीनं कर्महीनं द्रव्यहीनं भक्तिहीनं श्रद्धाहीनं परिपूर्णमस्त्विति भवन्तो ब्रुवन्तु । अस्तु परिपूर्णमिति द्विजा वदेयुः ॥
॥ तत आचार्यः प्रैषात्मकं पुण्याहवाचनं कलशस्थापनं कृत्वा कारयेत् ॥

N/A

References : N/A
Last Updated : December 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP