संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः

अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


अथ वास्तुमण्डलार्थं चतुःषष्टिकोष्टात्मके वास्तुपीठे पश्चिमत आरभ्य प्रागायता दक्षिणत आरभ्य उत्तरायता नव नव रेखाः कृत्वा तत्र समचतुरस्रेऽर्धसार्धद्विपदादिभिः पदैः पञ्चचत्वारिंशत्पदानि निर्माय मध्यचतुःकोष्टकादरभ्य ब्रह्मादिदेवतानाम् आवाहनं कुर्यात् ॥ तत्रादौ सपत्नीको यजमानो वास्तुपीठस्य समीपे पश्चिमाभिमुख अपविश्य आचम्य प्राणायामं कुर्यात् ॥ ततो हस्ते जलं गृहीत्वा अद्यपोर्वोच्चारित एवंगुणविशेषणविशिष्टायां शुभपुण्यतिथौ प्रारब्धस्य श्रीगायत्रेपुरश्चरणयागकर्मणः साङ्गतासिद्ध्यर्थम् अस्मिञ्चतुःषष्टिकोष्टात्मके वास्तुपीठे ब्रह्मादिवास्तुमण्डलदेवतानाम् आवाहनं पूजनञ्च करिष्ये ॥ तत्रादौ वास्तुपीठस्य आग्नेयादिकोणक्रमेण शङ्कुरोपणम् ॥ आग्नेय्याम् । ॐ विशन्तु भूतले नागा लोकपालाश्च सर्वतः । मण्डलेऽत्रावतिष्ठन्तु ह्यायुर्बलकराः सदा ॥१॥
ततो नैरृत्याम् । विशन्तु भूतले नागा लोकपालाश्च सर्वतः । मण्डलेऽत्रावतिष्ठन्तु ह्यायुर्बलकराः सदा ॥२॥
ततो वायव्याम् । विशन्तु भूतले नागा लोकपालाश्च सर्वतः । मण्डलेऽत्रावतिष्ठन्तु ह्यायुर्बलकराः सदा ॥३॥
तत ऐशान्याम् । विशन्तु भूतले नागा लोकपालाश्च सर्वतः । मण्डलेऽत्रावतिष्ठन्तु ह्यायुर्बलकराः सदा ॥४॥
एवमाग्नेयादिषु चतुष्कोणेषु शङ्कूनारोप्याग्नेयादिक्रमेणैव माषभक्तं दध्योदनं वा बलिं दद्यात् ॥ आग्नेय्यां शङ्कुसमीपे बलिं निधाय हस्ते जलं गृहीत्वा । ॐ अग्निभ्योऽप्यथ सर्पेभ्यो ये चान्ये तान्समाश्रिताः ॥ बलिं तेभ्यः प्रयच्छामि पुण्यमोदनमुत्तमम् ॥१॥
इति जलमुत्सृश्चै नैरृत्यां ये च राक्षसाः ॥ बलिं तेभ्यः प्रयच्छामि पुण्यमोदनमुत्तमम् ॥२॥
इति जलमुत्सृजेत् ॥ ततो वायव्यां शङ्कुसमीपे बलिं निधाय हस्ते जलं गृहीत्वा । ॐ नमो वै वायुरक्षेभ्यो ये चान्ये तान्समाश्रिताः ॥ बलिं तेभ्यः प्रयच्छामि पुण्यमोदनमुत्तमम् ॥३॥
इति जलमुत्सृजेत् ॥ तत ऐशान्यां शङ्कुसमीपे बलिं निधाय हस्ते जलमादाय । ॐ रुद्रभ्यश्चैव सर्पेभ्यो ये चान्ये तान्समाश्रिताः ॥ बलिं तेभ्यः प्रयच्छामि पुण्यमोदनमुत्तमम् ॥४॥
इति जलमुत्सृजेत् ॥ तत आग्नेय्यादिक्रमेण शङ्कुदेवताभ्यो नमः गन्धं पुष्पं धूपं दीपं नैवेद्यं समर्पयामि ॥ सर्वोपचारार्थे नमस्करान् स० ॥ अनेन शङ्कुरोपणपूर्वकं बलिदानेन चतस्र आग्नेय्यादिविदिग्देवताः प्रीयन्तां न मम ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP