संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ श्रीगायत्र्युपनिषत् श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ श्रीगायत्र्युपनिषत् श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ श्रीगायत्र्युपनिषत् ॥ ( हृदयम् ) ॥ Translation - भाषांतर नमस्कृत्य भगवान् याज्ञवल्क्यः स्वयं परिपृच्छति । त्वं ब्रूहि भगवन् गायत्र्या उत्पत्तिं श्रोतुमिच्छामि ॥ ब्रह्मोवाच ॥ प्रणवेन व्याहृतयः प्रवर्तंते । तमसस्तु परं ज्योतिष्कः पुरुषः स्वयम् ॥ भूर्विष्णुरिति ह ताः स्वांगुल्या मथेत् । मथ्यमानात्फेनो भवति । फेनाद् बुद्वुदो भवति । बुद्बुदादंडं भवति । अंडवानात्मा भवति । आत्मनः आकाशो बह्वति । आकाशाद्वयुर्भवति । वायोरग्निर्भवति । अग्नेरोंकारो बह्वति । ॐकारद्व्याहृतिर्भवति । व्याहृत्या गायत्री भवति । गायत्र्याः सावित्री भवति । सावित्र्याः सरस्वती भवति । सरस्वत्या वेदा भवंति । वेदेभ्यो ब्रह्मा भवति । ब्रह्मणो लोका भवंति । तस्माल्लोकाः प्रवर्त्तंते । चत्वारो भवंति । वेदेभ्यो ब्रह्मा भवति । ब्रह्मणो लोका भवंति । तस्माल्लोकाः प्रवर्त्तंते । चत्वारो वेदाः सांगाः सोपनिषदः सेतिहासास्ते सर्वे गायत्र्याः प्रवर्त्तंते ॥ यथाग्निर्देवानां ब्राह्मणो मनुष्यानां मेरुः शिखरिणां गंगा नदीनां वसंत ऋतूनां ब्रह्मा प्रजापतीनामेवासौ मंत्राणां मुख्यः ॥ गायत्र्या गायत्री छंदो भवति ॥ किं भूः किं भुवः किं स्वः किं महः किं जनः किं तपः किं सत्यं किं तत् किं सवितुः किं बरेण्यं किं भर्गः किं देवस्य किं धीमहि किं धियः किं यः किं नः किं प्रचोदयात् । भूरीति भूर्लोकः । भुव इत्यंतरिक्षलोकः । स्वरिति स्वर्लोकः । मह इति महर्लोकः । जन इति जनो लोकः । तप इति तपि लोकः । सत्यमिति सत्यलोकः ॥ भूर्भुवः स्वरोमिति त्रैलोक्यम् ॥ तदसौ तेजः यत्तेजसोऽग्निर्देवता सवितुरित्यादित्यस्य वरेण्यमित्यन्नम् ॥ अन्नमेव प्रजापतिः ॥ भर्ग इत्यापः । आपो वै भर्गः । एतावत्सर्वा देवताः देवस्येंद्रो वै दैवयीद्देवं तदिंद्रस्तस्मात्सर्वकृत् पुरुषो नाम विष्णुः । धीमहीत्यंतरात्मा यदन्तरात्मा स प्रणवः । धिय हत्यध्यात्मम् । किमध्यात्मं तत्परमं पदमित्यध्यात्मम् । यो न इति पृथिवी वै यो नः प्रचोदयात् काम इमांल्लोकान् प्रच्यवयन् यो नृशंस्योस्तोष्यस्तत्परमो धर्मः इत्येषा गायत्री ॥ याज्ञवल्क्य उवाच ॥ किंगोत्रा कत्यक्षरा कतिपदा कतिकुक्षिः कतिशीर्णा ॥ ब्रह्मोवाच ॥ सांख्ह्यायनसगोत्रा गायत्री । चतुर्विंशत्यक्षरा । त्रिपदा । षट्कुक्षिः । सावित्रीकेशास्त्रयः पादा भवंति ॥ कास्याः कुक्षिः । कानि पंच शीर्षाणि । ऋग्वेदोऽस्याः प्रथमः पादो भवति । यजुर्वेदो द्वितीयः । सामवेदस्तृतीयः । पूर्वा दिक्प्रथमा कुक्षिर्भवति । दक्षिणा द्वितीया । पश्चिमा तृतीया । उदीची चतुर्थी । ऊर्ध्वा पंचमी । अधरा षष्ठी कुक्षिः ॥ व्याकरणमश्याः प्रथमं शीर्ष भवति । शिक्षा द्वितीयम् । कल्पस्तृतीयम् । निरुक्तं चतुर्थम् । ज्योतिषामयनं पंचमम् ॥ किं लक्षणम् । किमु चेष्टितम् । किमुदाहृतम् । किमक्षरं दैवत्यम् ॥ लक्षणं मीमांसा । अथर्ववेदो विचेष्टितम् । छंदोविधिरित्युदाहृतम् ॥ को बर्णः । कः स्वरः । श्वेतो वर्णः । षट् स्वराणि इमान्यक्षराणि दैवतानि भवंति । पूर्वा भवति गायत्री । मध्यमा सावित्री । पश्चिमा संध्या सरस्वती ॥ प्रातःसंध्या रक्ता रत्कापक्षासनस्था रक्तांबरधरा । रक्तवर्णा रक्तगंधानुलेपना चतुर्मुखा अष्टभुजा द्विनेत्रा दंडाक्षमालाकमंडलुस्रुक्स्त्रुवधारिणी सर्वाभरणभूषिता गायत्री कौमारी ब्राह्मी हंसवाहिनी ऋग्वेदसंहिता ब्रह्मदेवत्या त्रिपदा गायत्री षट्कुक्षिः पंचशीर्षा अग्निमुखा रुद्रशिखा ब्रह्महृदया ब्रह्मकवचा सांख्यायनसगोत्रा भूर्लोकव्यापिनी अग्निस्तत्त्वम् उदात्तानुदात्तस्वरितस्वरमकारः रक्तवर्णः आत्मज्ञाने विनियोगः ॥ इत्येषा गायत्री ॥ मध्याह्नसंध्या श्वेता श्वेतपद्मासनस्था श्वेतांबरधरा श्वेतवर्णा श्वेतगंधानुलेपना पंचमुखी दशभुजा त्रिनेत्रा शूलाक्षमालाकमंडलुकपालधारिणी सर्वाभरणभूषिता सावित्री युवती माहेश्वरी वृषभवाहिनी यजुर्वेदसंहिता रुद्रदेवत्या त्रिपदा सावित्री षट्कृक्षिः पंचशीर्षा अग्निमुखा रुद्रशिखा रुद्रहृदया ब्रह्मकवचा भारद्वाजसगोत्रा ब हुवर्लोकव्यापिनी वायुस्तत्त्वम् उदात्तानुदात्तस्वरितस्वरमुकारः श्वेतवर्णः आत्मज्ञाने विनियोगः ॥ इत्येषा सावित्री ॥ सायंसंध्या कृष्णा कृष्णपद्मासनस्था कृष्णांबरधरा कृष्णवर्णा कृष्णगंधानुलेपना एकमुखी चतुर्भुजा द्विनेत्रा शंखचक्रगदापद्मधारिणी सर्वाभरणभूषिता सरस्वती वृद्धा वैष्णवी गरुडवाहिनी सामवेदसंहिता विष्णुदेवत्या त्रिपदा षट्कुक्षिः पंचशीर्षा अग्निमुखा रुद्रशिखा त्तस्वरितमकारः कृष्णवर्णो मोक्षज्ञाने विनियोगः । इत्येषा सरस्वती ॥ रक्ता गायत्री श्वेता सावित्री कृष्णवर्णा सरस्वती ॥ प्रणवो नित्ययुक्तश्च व्याहृतीषु च सप्तसु ॥ सर्वेषा मेव पापानां संकरे समुपस्थिते ॥१॥दश शतं समभ्यर्च्य गायत्री पावनी महत् ॥ प्रह्लादोऽत्रिर्वशिष्ठश्च शुकः कण्वः पराशरः ॥२॥विश्वामित्रो महातेजाः कपिलः शौनको महान् ॥ याज्ञवल्क्यो भरद्वाजो जमदग्निस्तपोनिधिः ॥३॥गौतमो मुद्गलः श्रेष्ठो वेदव्यासश्च लोमशः ॥ अगस्त्यः कौशिको वत्सः पुलस्त्यो मांडुकस्तथा ॥४॥दुर्वासाप्तपसा श्रेष्ठो नारदः कश्यपस्तथा ॥ उत्कात्युक्ता तथा मध्या प्रतिष्ठान्या सुपूर्विका ॥५॥गायत्र्युष्णिगनुष्टुप् च बृहती पंक्तिरेवच ॥ त्रिष्टुप् च जगती चैव तथातिजगती मता ॥६॥शक्करी सातिपूर्वा स्यादष्ट्यत्यष्टी तथैवच ॥ घृतिश्चातिधृतिश्चैव प्रकृतिः कृतिराकृतिः ॥७॥इत्येताश्छंदसां संज्ञाः क्रमशो वच्मि सांप्रतम् ॥८॥भूरिति च्छंदः भुव इतिच्छंदः स्वरिति च्छंदो भूर्भुवः स्वरोमिति देवी गायत्री इत्येतानि च्छंदासि ॥ प्रथममाग्नेयं द्वितीयं प्राजापत्यं तृतीयं सौम्य चतुर्थमैशानं पंचममादित्यं षष्ठं बार्हस्पत्यं सप्तमं पितृदेवत्यमष्टमं भगदेवत्यं नवममार्यमं दशमं सावित्रमेकादशं त्वाष्ट्रं द्वादशं पौष्णं त्रयोदशमैन्द्राग्न्यं चतुर्दशं वायव्यं पंचदशं वामदेवत्यं षोडशं मैत्रावरुणं सप्तदशमांगिरसमष्टादशं वैश्वदेव्यमेकोनविंशं वैष्णवं विंशं वासवमेकविंशं रौद्रं द्वाविंशमाश्विनं त्रयोविंशं ब्राह्मं चतुर्विंशं सावित्रम् ॥ दीर्घान्स्वरेण संयुक्तान्बिन्दुनादसमन्वितान् ॥ व्यापकान्विन्यसेत्पश्चाद्दशपंक्त्यक्षराणि च ॥९॥ढुबुंपुस इति प्रत्यक्षबीजानि ॥ प्रल्हादिनी प्रभा सत्या विश्वा भद्रा विलासिनी ॥ प्रभावती जया कांता शांता पद्मा सरस्वती ॥१०॥विद्रुमस्फटिकाकारं पद्मरागसमप्रभम् ॥ अञ्जनाभं च गांगेयं वैदूर्यं चंद्रसन्निभम् ॥११॥हारिद्रं कृष्णदुग्धाभं रविकांतिसमं भवम् ॥ शुकपिच्छसमाकारं क्रमेण परिकल्पयेत् ॥१२॥पृथिव्यापस्तथा तेजो वायुराकाश एवच ॥ गंधो रसश्च रूपं च शब्दः स्पर्शस्तथैवच ॥१३॥घ्राणं जिह्वा च चक्षुश्च त्वक्छ्रोत्रं च तथापरम् ॥ उपस्थपायुपादादि पाणिर्वागपि च क्रमात् ॥१४॥मनो बुद्धिरहंकारमव्यक्तं च यथाक्रमम् ॥ सुमुखं संपुटं चैव विततं विस्तृतं तथा ॥ ( एकमुखं च ) द्विमुखं त्रिमुखं च चतुर्मुखम् ॥१५॥पंचमुखं षण्मुखं चाधोमुखं चैव व्यापकम् ॥ अंजलीकं ततः ( प्रोक्तं मुद्रितं तु त्रयोदशम् ॥ ) ॥१६॥शकटं यमपाशं च ग्रथितं संमुखोन्मुखम् ॥ प्रलंबं मुष्टिकं चैव मत्स्यः कूर्मोवराहकम् ॥१७॥सिहाक्रांतं महाक्रांतं मुद्गरं पल्लवं तथा ॥ एता मुद्राश्चतुर्विंशद्गायत्र्याः सुप्रतिष्ठिताः ॥१८॥ॐमूर्ध्नि संघाते ब्रह्मा विष्णुर्ललाटे रुद्रो भ्रूमध्ये चक्षुषोश्चंद्रादित्यौ कर्णयोः शुक्रबृहस्पती नासिके वायुदैवत्यं प्रभातं दोषा उभे संध्ये मुखमग्निर्जिह्वा कर्णयोः शुक्रब्रह्मस्पती नासिके वायुदैवत्यः प्रभातं दोषा उभे संध्ये मुखमग्निर्जिह्वा सरस्वती ग्रीवा स्वाध्याया स्तनयोर्वसवः बाह्वोर्मरुतः हृदयं पर्जन्यमाकाशमपरं नाभिरं तरिक्षं कटिरिंद्रियाणि जघनं प्राजापत्यं कैलासमलयौ ऊरू विश्वेदेवा जानुभ्यां जान्वोः कुशिकौ जंघयोरयनद्वयम् खुरः पितरः पादौ पृथिवी वनस्पतिः गुल्फौ रोमाणि मुहूर्तास्ते विग्रहाः केतुमासा ऋतवः संध्याकालत्रयमाच्छादनं संवत्सरो निमिषः अहोरात्रादित्यश्चंद्रमाः । सहस्रपरमां देवीं शतमध्यां दशापराम् ॥ सहस्रनेत्री देवी गायत्री शरणमहं प्रपद्ये ॥ तत्सवितुर्वरदाय नमः तत्प्रातरादित्याय नमः ॥ सायमधीयानो दिवसकृतं पापं नाशयति । प्रारधीयानो रात्रिकृतं पापं नाशयति । तत्सायं प्रातः प्रयुंजानो अपापो भवति । य इदं गायत्रीहृदयं ब्राह्मणः प्रयतः पठेत् चत्वारो वेदा अधीता भवंति । सर्वेषु तीर्थेषु स्नातो भवति । सर्वैर्देवैर्ज्ञातो भवति । सर्वप्रतिप्रत्युह्जात्पूतो भवति । अपेयपात्पूतो भवति । अभक्ष्यभक्षणात्पूतो भवति । अलेह्यलेहात्पूतो अचोष्यचोषणात्पूतो भवति ॥ सुरापानात्पूतो भ० ॥ सुवर्णस्तेयात्पूतो भवति ॥ पंत्किभेदनात्पूतो भ० ॥ पतितसंभाषणात्पूतो भ० ॥ अनृतवचनात्पूतो भ० ॥ गुरुतल्पगमनात्पूतो भ० ॥ अगम्यागमनात्पूतो भ० ॥ वृषलीगमनात्पूतो भ० ॥ ब्रह्महत्यायाः पूतो० ॥ भ्रूणहत्यायाः पूतो० ॥ वेरहत्यायाः पूतो भ० ॥ अब्रह्मचारी सुब्रह्मचारी भवति । अनेन हृदयेनाधीतेन क्रतुशतेनेष्टं भवति । षष्टिसहस्रगायत्रीजप्यानि भव्म्ति ॥ अष्टौ ब्राह्मणान्ग्राहयेत् अर्थसिद्धिर्भवति । य इदं गायत्रीहृदयं बाह्मणः प्रयतः पठेत् ॥ सर्वपापैः प्रमुच्यते ब्रह्मलोके महीयते ब्राह्मलोके महीयत इति ॥ इति श्रीगायत्र्युपनिषत्संपूर्णा ॥ N/A References : N/A Last Updated : December 14, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP