संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत भूशुद्धिः Translation - भाषांतर ॥ तत्रादौ भूतशुद्ध्यादि श्रीगायत्रीमहान्यासान्तं कर्म प्रोच्यते ॥निवर्तितसर्वतोभद्रदेवतावाहनार्चनः कृतस्वस्तिकासनः सपत्नीको यजमानः श्रीभगवत्या गायत्रीदेव्याः समीपे उपविश्य स्वदक्षिणभागे पूजाद्रव्याणि स्ववामभागे स्वच्छाम्बुपूरितपूजाकलशं स्वस्य करयोः क्षालनार्थं पृष्ठभागेऽन्यत्पात्रं स्वस्य पुरतः शुभान् घृतपूरितान्दीपान् तथैव देव्यै निवेदनार्थं दर्पणं चामरं छत्रं पादुके तालवृन्तं नैवेद्यार्थञ्च यथाशक्ति नैवेद्यसामग्रीञ्च भूतशुद्ध्यादिमहान्यासान्तं कर्म कुर्यात् ॥ तद्यथा ॥ प्रथमं गायत्र्या मूलमन्त्रेण त्रिवारम् आचमनं विदद्ध्यात् ॥ ॐ भूर्भुवः स्वः तत्स० ॥ ॐ आत्मतत्त्वं शोधयामि नमः स्वाहा ॥१॥ॐ भूर्भुवः स्वः तत्स० ॥ ॐ विद्यातत्त्वं शोधयामि नमः स्वाहा ॥२॥ॐ भूर्भुवः स्वः तत्स० ॥ ॐ शिवतत्त्वं शोधयामि नमः स्वाहा ॥३॥एवम् आचमनं विधाय करौ प्रक्षाल्य हस्ते जलं गृहीत्वा ॥ ॐ प्रणवस्य परब्रह्म ऋषिः । परमात्मा देवता । दैवीगायत्रीच्छन्दः । भूरादिसप्तव्याहृतीनां विश्वामित्रजमद्ग्निभरद्वाजगौतमात्रिवसिष्ठकश्यपा ऋषयः । अग्निवायुसूर्यबृहस्पतिवरुणेन्द्रविश्वेदेवा देवताः । गायत्र्युष्णिगनुष्टुब्बृहतीपंक्तित्रिष्टुब्जगत्यश्छन्दांसि । तत्सवितुरित्यस्य विश्वामित्र ऋषिः । सविता देवता । गायत्रीच्छन्दः । आपोज्योतिरित्यस्य प्रजापतिरृषिः । ब्रह्माग्निवायुसूर्या देवताः । यजुश्छन्दः । सर्वेषां प्राणायामे विनियोगः ॥ ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् । ॐ तत्त्सवितुर्व्वरेण्ण्यं भर्ग्गो देवस्य धीमहि । धियो यो नxप्रचोदयात् ॥३५/३॥ ॐ आपोज्योतीरसोऽमृतं ब्रह्मभूर्भुवः स्वरोम् ॥ एवं त्रिवारं पुरककुम्भकरेचकक्रमेण प्राणायामं कुर्यात् ॥ ततो हस्ते जलं गृहीत्वा ॥ अद्येत्यादि० शुभपुण्यतिथौ मम आत्मनः श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं मया प्रारब्धस्य सग्रहमखगायत्रीपुरश्चरणकर्मणः साङ्गतासिद्ध्यर्थं तथाच करिष्यमाणे श्रीभगवत्या जगदम्बिकाया वेदमातुः श्रीगायत्रीदेव्याः पूजनकर्मणि आत्मनोऽधिकारपूर्वकयोग्यतासंपादनार्थं तथैवामीषां ब्राह्मआण्नामपि हवनादिकर्मणि योग्यताप्राप्त्यर्थं यथाशक्ति एभिर्ब्राह्मणैः सह भूशुद्दिभूतशुद्धिप्राणप्रतिष्ठान्तर्मातृकाबहिर्मातृकान्याससहिताजपाजपसङ्कल्पपूर्वकश्रीगायत्रीमहान्यआसान्करिष्ये ॥ अथ भूशुद्धिः ॥ तत्रादौ नमस्काराः ॥ स्वदक्षिणे - ॐ सरस्वत्यै नमः ॥ ॐ शङ्खनिधये नमः ॥ स्ववामभागे - ॐ लक्ष्म्यै नमः ॥ ॐ पद्मनिधये नमः ॥ आसनपवित्रीकरणम् ॥ पृथ्वित्वयेतिमंत्रस्य मेरुपृष्ठ ऋषिः । कूर्मो देवता । सुतलं छदः । आसने विनियोगः ॥ ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ॥ त्वञ्च धारय मां देवि पवित्रं कुरु चासनम् ॥ ततः प्रार्थयेत् ॥ ॐ विश्वशक्त्यै नमः । ॐ महाशक्त्यै नमः । ॐ कूर्मासनाय नमः । ॐ योगासनाय नमः । ॐ अनन्तासनाय नमः ॥ ॐ विमलासनाय नमः । मध्ये ॐ परमसुखासनाय नमः ॥ ॐ भूर्भुवः स्वः आत्मासनाय नमः ॥ इति मन्त्रेण पुष्पादिना आत्मनः आसनदानम् ॥ ततःघ शिखाबन्धनं कुर्यात् ॥ ऊर्ध्वकेशि विरूपाक्षि मांसशोणितभोजने । तिष्ठ देवि शिखाबन्धे चामुण्डे चापराजिते ॥ विष्णोर्नामसहस्रेण शिखाबन्धं करोम्यहम् ॥ ( चिद्रूपिणि महामाये दिव्यतेजःसमन्विते ॥ तिष्ठ देवि शिखाबन्धे तेजोवृद्धिं कुरुष्व मे ॥ ) इति शिखां बद्ध्वा दिग्बन्धनं कुर्यात् ॥ दक्षहस्तस्य तर्जन्यङ्गुष्ठयोगेन तत्तद्दिशि दिग्बन्धनं कार्यम् ॥ ॐ प्राचीं दिशं सुदर्शनेन चक्रेण बन्धामि मनश्चक्राय स्वाहा ॥ आग्नेयीं दिशं सुदर्शनेन चक्रेण बध्नामि नमश्चक्राय स्वाहा । दक्षिणां दिशं सुदर्शनेन चक्रेण बध्नामि नमश्चक्राय स्वाहा ॥ नैरृतिं दिशं सुदर्शनेन चक्रेण बध्नामि नमश्चकाय स्वाहा ॥ पश्चिमां दिशं सुदर्शनेन चक्रेण बन्धामि नमश्चक्राय स्वाहा । वायवीं दिशं सुदर्शनेन चक्रेण बन्धामि नमश्चक्राय स्वाहा ॥ उत्तरां दिशं सुदर्शनेन चक्रेण बन्धामि नमश्चक्राय स्वाहा ॥ ईशानीं दिशं सुदर्शनेन चक्रेण बन्धामि नमश्चक्राय स्वाहा ॥ ऊर्ध्वां दिशं सुदर्शनेन चक्रेण बन्धामि नमश्चक्राय स्वाहा ॥ अधोदिशं सुदर्शनेन चक्रेण वन्धामि नश्चक्राय स्वाहा ॥ एवं दश दिशो बद्ध्वा दक्षहस्ते जलं गृहीत्वा ॐ सुदर्शनाय अस्त्राय फट्, त्रैलोक्यं रक्ष रक्ष हुं फट् स्वाहा । इति मंत्राभ्यां स्वशरीरस्य परितो जलादिना प्रादक्षिण्येन रं रं रं इति अग्निप्राकारत्रयं विभाव्य स्वशरीरे रक्षां कुर्यात् ॥ पूर्वे रक्षतु गोविन्द आग्नेय्यां गरुडध्वजः ॥ दक्षिणे चैव वाराहो नृसिंहश्चैव निरृतौ ॥१॥पश्चिमे ह्यच्युतो रक्षेद्वायव्यां मधुसूदनः ॥ उत्तरे श्रीधरो रक्षेदीशाने च गदाधरः ॥२॥ऊर्द्ध्वं गोवर्धनो रक्षेदधस्ताच्च त्रिविक्रमः ॥ एवं दश दिशो रक्षेद्वासुदेवो जनार्दनः ॥३॥शङ्खो रक्षतु यज्ञाग्रे रक्षतु यज्ञाग्रे पृष्ठे पद्ममनुत्तमम् ॥ कौमोदकी तथा वामे दक्षिणे च सुदर्शनम् ॥४॥यजमानं सपत्नीकं रक्षतु श्रीपतिः स्वयम् ॥ उपविष्टाश्च ये विप्राः सर्वे रक्षन्तु सर्वतः ॥ रक्षाहीनं तु यत्स्थानं तत्सर्वं रक्षतु स्वभूः ॥५॥इति रक्षां विधाय प्रणवादिमातृकान्तैर्वणैः प्राणायामं कुर्यात् ॥ षोडशस्वरैः पूरकः । कादिभिर्मान्तैः पञ्चविशतिवर्णैः कुम्भकः । यादिभिर्दशवर्णैश्च रेचकः ॥ एवं दश दिक्षु दिग्बन्धनं प्राणायामञ्च कृत्वा भूतोत्सादनं कुर्यात् । तद्यथा ॥ अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ॥ ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥ अपक्रामन्तु भूतानि पिशाचाः सर्वतो दिशम् ॥ सर्वेषामवरोधेन भूशुद्ध्यादि समारभे ॥ ततो भैरवनमस्कारः ॥ तीक्षणदंष्ट्र महाकाय कल्पान्तदहनोपम ॥ भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥ ततः स्वपरितः तालत्रयकरणम् ॥ ॐ सर्वभूतनिवारकाय शार्ङ्गाय सशराय सुदर्शनाय अस्त्रराजाय हुं फट् स्वाहा ॥ इति तालत्रयं कृत्वा स्वपरितोऽस्त्रमुद्रां प्रदर्शयेत् ॥ ततः स्वदक्षिणभागे गुरुभ्यो नमः । ॐ परमगुरुभ्यो नमः । ॐ परमेष्ठिगुरुभ्यो नमः ॥ ॐ परात्परगुरुभ्यो नमः ॥ ॐ पूर्वसिद्धेभ्यो नमः ॥ ॐ आचार्येभ्यो नमः ॥ ततः स्ववामभागे ॥ ॐ गंगणपतये नमः । ॐ दुं दुर्गायै नमः । ॐ क्षं क्षेत्रपालाय नमः । ॐ यां योगिनीभ्यो नमः । स्ववामपादेन भूमिताडनम् ॥ अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ॥ ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥ अपक्रामन्तु भूतानि पिशाचाः सर्वतो दिशम् ॥ सर्वेषामवरोधेन भूशुद्ध्यादि समारभे ॥ एवं स्ववामपादेन त्रिवारं भूमिं ताडयेत् ॥ ततो भूमौ हस्तं दत्वा पठेत् ॥ ॐ भूरसि भूमिरस्यदितिरसि व्विश्श्वधायाव्विश्श्वस्य भुवनस्यधर्त्त्री ॥ पृथिवीxxच्छ पृथिवीन्दृxह पृथिवीम्माहिxसीx ॥१८/१३॥ ततो भैरवनमस्कारः ॥ ॐ योभूतानामधिपतिxxxxxxxxल्लोकाऽअधिश्श्रिताx ॥ यऽईशे महुतोमहॉंस्तेन गृह्णामित्त्वामहम्मायि गृह्णामित्त्वामहम् ॥३२/२०॥ इति भैरवनमस्कारः ॥॥ इति भूशुद्धिः ॥ N/A References : N/A Last Updated : December 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP