अथ विश्वामित्रकृत श्रीगायत्रीकल्पः
श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥
अनुक्रमणिका प्रमाणे वाचन करावे.
श्रीगणेशाय नमः ॥ अथ विश्वामित्रकृतगायत्रीकल्पप्रारंभः ॥ स्वगुरुं पूजयेन्नित्य मुपचारैस्त पंचकैः ॥ भक्तिश्रद्धानुसारेण विश्वामित्रं प्रकल्पयेत् ॥१॥
अस्य कृत्स्नस्य मंत्रस्य प्राणायामं निरुंधयेत् ॥ प्राणायामं नियम्याशु गुरुपूजापुरःसरम् ॥२॥
प्रातरुत्थाय यो विप्रं शयने पर्यवस्थितः ॥ एकाग्रमानसो भूत्वा ध्यायेन्मूलेऽथ कुंडलीम् ॥३॥
नाभिसंनिहिता ज्ञेया द्वात्रिंशद्वर्णसंख्यया । एवं ज्ञात्वा प्रभातायां षडाधारं तथा न्यसेत् ॥४॥
षडाधारं तथा वक्ष्ये विन्यसेच्चतुरक्षरम् ॥ आद्यंतप्रण वैर्युक्तं षट्कुक्षिस्तु ततो न्यसेत् ॥५॥
सहस्रदलमध्यस्थां सबालां सतुरीयके ॥ हंसहंसेति विज्ञानात् सर्वपापैः प्रमुच्यते ॥६॥
अथोत्थाय बहिर्गम्य मलमूत्रविसर्जनम् ॥७॥
दुर्गंधत्यागपर्यन्तं कृत्वा शौचं समाहितः ॥ ततो नदीं समागत्य गंगाध्यानपुरःसरम् ॥८॥
आचमनत्रयं कृत्वा त्रिवारं स्नानमाचरेत् ॥ अग्निमंडलमालिख्य जलमध्ये सबिंदुकम् ॥ मायाबीजेन मध्यस्थमुभयोर्व्याहृतित्रयम् ॥९॥
ततः शुद्धांबुनाऽऽचम्य प्राणायामत्रयं कुरु ॥ देशकालार्थमुच्चार्य्य गायत्रीध्यानपूर्वकम् ॥१०॥
सूक्ताग्निमार्जनं कुर्याद्यथाशाखोक्तमार्गतः ॥ अघमर्षणमंत्रं च स्नानं पंचांगपूर्वकम् ॥११॥
श्रोत्रे नासाक्षि रुद्ध्वा च सहस्रांतं जले वपुः ॥ मग्नं कुर्य्याज्जपेन्मंत्रं कुर्याद्वायुनिरोधनम् ॥१२॥
ततः स्नानत्रयं कुर्याच्छिरोव्याहृतिपूर्वकम् ॥ त्रिवारं त्रिविधं स्नानं पायुमेढ्रं शिरः स्तनम् ॥१३॥
प्रोक्षयेच्छंखमुद्राभिर्व्याहृत्यादिशिरोन्तकम् ॥ ततस्तीरं समागत्य गायत्रीकवचं पठेत् ॥१४॥
शुचिवस्त्रांगमाश्रित्य ललाटं तिलकं तथा ॥ ओमापो ज्योतिमंत्रेण शिखाबंधनमाचरेत् ॥१५॥
त्रिकोणमध्ये ह्रींकारं कोणान्ते प्रपदं तथा ॥ दंडेषु व्याहृतिं चैवमुल्लिखेदुदकं तथा ॥१६॥
प्रणवेन बहिर्जप्त्वा जलं पीत्वा च मार्जनम् ॥ न तत्र विन्यसेत्संध्यामन्यथा शूद्रवद्भवेत् ॥१७॥
इति श्रीविश्वामित्रकल्पे आह्निकलक्षणयोगो नाम प्रथमः परिच्छेदः ॥१॥
चतुर्विंशतिनामानि तत्तत्स्थानेषु विन्यसेत् ॥ केशवादीनि विन्यस्य पौराणाचमनं जपेत् ॥१॥
चतुर्विंशतिवर्णानां केशवादिरनुक्रमात् ॥ देव्याः पादैस्त्रिभिः पीत्वा चांगुलैर्नवभिः स्पृशेत् ॥२॥
सप्तव्याहृतिगायत्री शिरस्तुर्यद्वयं न्यसेत् ॥ श्रुतिस्मृतिविधानेन द्विविधं परिकल्पयेत् ॥३॥
तृतीयं मूलमंत्रेण क्रमाद्वर्णानि विन्यसेत् ॥ आचमनविधीः प्रोक्तः प्रौराणः स्मार्त आगमः ॥४॥
श्रौतं मानसमाचम्य पञ्चभिः श्रुतिचोदितैः ॥ संध्याप्रारंभकाले त्वाचमनं त्रियतं न्यसेत् ॥५॥
कुरुते सर्वसिद्धिः स्यान्नास्ति चेन्निष्फलं भवेत् ॥ संहतांगुलिना तोयं ब्रह्मतीर्थे पिबेज्जलम् ॥ मुक्तांगुष्ठं कनिष्ठायां शेषेणाचमनं भवेत् ॥६॥
गोकर्णाकृतिहस्तेन माषमात्रं जलं पिबेत् ॥ न्यूनातिरिक्तमात्रेण तज्जलं सुरया समम् ॥७॥
आदौ चांते तथा मध्ये न्यसेच्चाचमनं क्रमात् ॥ श्रुतिस्मृतिपुराणानि पर्यायेण विलोमतः ॥८॥
केशवादित्रिभिर्नाम अपः पीत्वा यथाविधि ॥ गोविंदमग्रतो न्यस्य विष्णुं सुषुम्नि विन्यसेत् ॥९॥
मधुसूदनमादित्यं शुद्धांशुञ्च त्रिविक्रमम् ॥ अग्रतो वामनञ्चैव हस्तयोः श्रीधरं तथा ॥१०॥
हृषीकेश पद्मनाभमुभयोः पादयोर्न्यसेत् ॥ दामोदरं ब्रह्मरंध्रे नासा संकर्षणस्य च ॥११॥
नासामध्ये तु विन्यस्य नासांते वा विनिर्द्दिशेत् ॥ दक्षनास्तु विन्यस्य वासुदेवं तथैव च ॥१२॥
प्रद्युम्नं च तथा वामे अनिरुद्धं च दक्षिणे ॥ पुरुषोत्तमं वामनेत्रे दक्षिणे च अधोक्षजम् ॥१३॥
नारसिंहं वामनेत्रे नाभौ चाप्ययुतं न्यसेत् ॥ जनार्दनं हृदि न्यस्य भुजे दक्षिणबाहुके ॥१४॥
इति विश्वामित्रकल्पे आचमनयोगो नाम द्वितीयः परिच्छेदः ॥२॥
प्राणायामत्रयेणैव प्रातःसंध्यां समाचरेत् ॥ प्राणायामसमायुक्तं प्राणायाममिति स्मृतम् ॥१॥
उत्तमं नवधा चैव मध्यमं ऋतुसंख्यया ॥ अधमं त्रयमित्याहुः प्राणायामो विधीयते ॥२॥
सप्तव्याहृतिभिश्चैव प्राणायामं पुटीकृतम् ॥ व्याहृत्यादिशिरोंतं च प्राणायामत्रयत्रिकम् ॥३॥
सव्याहृतिंसप्रणवां गायत्रीं शिरसा सह ॥ त्रिः पठेदायतः प्राणान्प्राणायामः स उच्यते ॥४॥
बिंदुतः प्राणमार्गं च गायत्रीं बिंदुसंयुताम् ॥ व्याहृत्यादिशिरोंतं च प्राणायामत्रयत्रिकम् ॥५॥
आदौ कुंभकमाश्रित्य रेचपूरकवर्जितम् ॥ व्याहृत्यादिशिरोंतं च प्राणायामं तु कुंभकम् ॥६॥
प्राणायामसमानबिंदुसहितं बिदुत्रयं संयुतं सप्तव्याहृतिबिंदुसंपुटपरं वेदादिपादत्रयम् ॥ गायत्रीं शिरसा त्रिनाडिसहितामीड्यद्वये द्वे परे शुद्धं केवलकुंभकं प्रतिदिनं ध्यायामि तत्त्वंपदम् ॥७॥
अधमे द्वादशी मात्रा मध्यमे द्विगुणा मता ॥ उत्तमा त्रिगुणा प्रोक्ता प्राणायामं निरुंधयेत् ॥८॥
रेचकं कुंभकं चैव पूरकं वायुरोधनम् ॥ एवं क्रमेण युंजीत प्राणायामस्य लक्षणम् ॥९॥
निषिद्धं रेचकं ज्ञेयं पूरकं च तथैव च ॥ अमोघं कुंभकं प्रोक्तं प्राणायामं प्रकीर्तितम् ॥१०॥
अघोषनिर्घोषगमागमस्थं नाडीद्वयं रेचकपूरकं च ॥ कुंभोपमं पूर्णघटप्रकारं ह्येवंविधं स्याच्छ्वसनस्य साध्यम् ॥११॥
शब्दपूर्वकमभ्यासं शब्दव्यंजनसंयुतम् ॥ भिन्नभांडोदकं यद्वच्छ्वसनस्य व्यतिक्रमात् ॥१२॥
इडापिंगलासुषुम्नाच्छद्बपूर्वव्यतिक्रमात् ॥ तत्सर्वं निष्फलं प्रोक्तमिति शंकरभाषितम् ॥१३॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ॥ ततो धर्मं समाश्रित्य प्राणायामविदो विदुः ॥१४॥
नासापुटं त्वंगुलीभिः पंचभिर्वायुरोधनम् ॥ शनैः शनैस्तु निःशब्दं प्राणायामं निरोधयेत् ॥१५॥
नासिकापुटमंगुल्या निधायैकेन मारुतम् ॥ आकृष्य धारयेदन्गिं प्राणायामं विचिंतयेत् ॥१६॥
प्राणायामेन ज्ञात्वा च स्नापयेच्चिन्मयं शिवाम् ॥ तदादौ मानसं कुर्यात्तदा केवलकुंभकम् ॥१७॥
पंच प्रजालकं चैव प्राणायामं समाचरेत् ॥ पूजामानससंयुक्तं प्राणायामफलं भवेत् ॥१८॥
पंचपूजां विना येन प्राणायामं करोति यः ॥ तस्य निष्फलितं कर्म विश्वामित्रेण भाषितम् ॥१९॥
लकारं च हकारं च यंकारं च रकारयोः ॥ चकारमितिविख्यातं पंचपूजात्मकं जपेत् ॥२०॥
सिद्धासनसमो नास्ति न कुंभेनैव लोपमम् ॥ मंददृष्टिसमो नास्ति प्राणायामं समभ्यसेत् ॥२१॥
अंतश्चेतो बहिश्चक्षुरधः स्थपय सुखासनम् ॥ समत्वं च शरीरस्य प्राणायामं समभ्यसेत् ॥२२॥
अस्त्रप्रयोगकाले तु प्राणायामं च लंबकः ॥ प्राणायामबलोपेत उपसंहारकारकः ॥२३॥
तस्मात्सर्वप्रयत्नेन प्राणायामं समाचरेत् ॥ सर्वधर्मपरित्यागी स महापातकी भवेत् ॥२४॥
इति श्रीविश्वामित्रकल्पे प्राणायामयोगो नाम तृतीयः परच्छेदः ॥३॥
पादंपादं क्षिपेन्मूर्ध्नि प्रतिप्रणवसंपुटम् ॥ निक्षिपेदष्टपादं तु अधो यस्य क्षयाय च ॥१॥
अष्टाक्षरं नवपदं पदादौ ब्रह्महा भवेत् ॥ ऋचादौ मार्जनं कुर्य्यात्सोऽश्वमेधफलं लभेत् ॥२॥
यस्य क्षयाय पादं तु आपः सिंधुत्वमेव च ॥ भूमौ पादौ विनिःक्षिप्य इतरन्मूर्ध्नि विन्यसेत् ॥३॥
प्रातः सूर्यश्चमंत्रेण सायमग्निः पिबेज्जलम् ॥३॥
आफ पुनंतु मध्याह्ने क्रमेणाचमनं न्यसेत् ॥४॥
आपोहिष्ठेति मंत्रेण नवपादं द्विवारकम् ॥ हिरण्यवर्णाश्चत्वारो दधिमंत्रं द्विवारकम् ॥५॥
पदादौ क्लीं पदं मध्ये पदांते मार्जनं भवेत् ॥ ऋचादौ प्रणवं चोक्त्वा ऋचोंऽते मार्जनं भवेत् ॥६॥
सत्त्वं रजस्तमो जातं मनोवाक्कायिकादिषु ॥ जाग्रत्स्वप्नसुषुप्त्यादिनवैतान्नवभिर्दहेत् ॥७॥
दधिद्विमार्ज्जनं चैव हिरण्यादिचतुष्टयम् ॥ कामक्रोधदिषड्वर्गं मार्ज्जयेत्सर्वमार्ज्जनम् ॥८॥
इति श्रीविश्वामित्रकल्पे मार्ज्जनयोगो नाम चतुर्थः परिच्छदः ॥४॥
संध्यावंदनवेलायामर्घ्यं दद्यात्त्रयं बुधः ॥ सायं प्रातः समानं स्यान्मध्याह्ने च पृथग्विधिः ॥१॥
एकं मध्याह्नकाले तु सायं प्रातस्त्रयस्त्रयः ॥ एवं ज्ञात्वा सृजेदर्घ्यं सूर्यं नक्षत्रपूर्वकम् ॥२॥
एकं शस्त्रास्त्रनाशाय एकं हनननाशने ॥ असुराणां वधायार्घ्यं प्रायश्चित्तार्थसंयुतम् ॥३॥
दद्यात्केवलगायत्र्या मूढो ह्यर्घ्यं तु यो द्विजः ॥ स बिन्दुब्राह्मणो नाम सर्वधर्मबहिष्कृतः ॥४॥
ब्रह्मास्त्रं नाभिजानाति स विप्रः शूद्र एव हि ॥ तस्य कर्मादिकं जातं धर्माद्यं निष्फलं भवेत् ॥५॥
बीजमंत्रेण गायत्र्याः प्रणवेत्यभिधीयते ॥६॥
देहस्तु दंड इत्युक्तः संज्ञाकवचमेव हि ॥ सर्वांगानि पदो मंत्रं सर्वमंत्रे त्वयं विधिः ॥७॥
अस्त्राष्टवारतः प्रोक्ता गायत्री व्याप्य उच्यते ॥ एतत्षण्मन्त्रकं ज्ञात्वा अर्घ्यं दद्याद्धि नामतः ॥८॥
एकं मध्याह्नकाले च प्रायश्चित्तं द्वितीयकम् ॥ अर्घ्यद्वयं तु मध्याह्ने तथा चोक्तं महामुने ॥९॥
अर्घ्यत्रयं प्रयोगार्थ प्रायश्चित्तं चतुर्थकम् ॥ सायं प्रातर्द्विजादीनामेवमेव विधिः क्रमात् ॥१०॥
ब्रह्मास्त्रं ब्रह्मदंडं च ब्रह्मशीर्षं च संयुतम् ॥ अर्घ्यत्रयं प्रयोगार्थमेवमेवमुदाहृतम् ॥११॥
शस्त्रमादौ ततो दंडं शिखात्रीणि समुच्चरेत् ॥ पर्यायेण त्रिरुच्चार्य्यमंजलिं च त्रिधाहरेत् ॥१२॥
अर्घ्यत्रयं प्रयोक्तव्यमभिमंत्रितमंजलिम् ॥ त्रियुक्तं विसृजेतर्घ्यमसुराणां वधाय च ॥१३॥
अस्त्रदंडशिरोयुक्तमर्घ्यमेकं समुच्चरेत् ॥ अस्त्रं वाहनरक्षोघ्नमेकांजलिजलं क्षिपेत् ॥१४॥
प्रायश्चित्तं द्वितीयार्घ्यमसुराणां वधाय च ॥ प्रदक्षिणं पृथिव्यां च सर्वपापैः प्रमुच्यते ॥१५॥
असावादित्यमंत्रेण ब्रह्मेत्यादि प्रदक्षिणम् ॥ आपोभिरयुतं कार्यं सर्वाघौघनिकृंतनम् ॥१६॥
हंसहंसेतिमंत्रस्य बृहत्यंतं समुच्चरन् ॥ शिरसा दंडमस्त्रं च सम्मुख इव निक्षिपेत् ॥१७॥
उपमंत्रं समुच्चार्य्य शिरस्तत्र समुद्धरेत् ॥ अर्घ्यमेकं तु मध्याह्ने तथा मुक्तं महामुने ॥१८॥
तर्ज्जन्यंगुष्ठयोगेन राजसी मुद्रिका भवेत् ॥ राक्षसीमुद्रिकादत्तं तत्तोयं रुधिरं भवेत् ॥१९॥
निक्षिपेद्यदिमूढात्मा रौरवं नरकं व्रजेत् ॥ अंगुष्ठच्छायापतितं देवतामुद्रिका भवेत् ॥२०॥
देवतामुद्रिकादत्ते सर्वैः पापैः प्रमुच्यते ॥ एवं विज्ञानमात्रेण सद्यः सिद्धिर्भविष्यति ॥२१॥
इति श्रीविश्वामित्रकल्पेऽर्घ्यदानयोगो नाम पंचमः परिच्छेदः ॥५॥
ओमित्येकाक्शह्रं चोक्तं न्यासघ्यानपुरः सरम् ॥ यथाशक्ति जपं कुर्य्यान्नित्यकर्म समाचरेत् ॥१॥
शुचिर्भूमौ लिखेद्यंत्रं बीजं बिंदुसमन्वितम् ॥ बीजराजं लिखेन्मध्ये वह्निमंडलमध्यगे ॥२॥
चतुरस्त्रं ततो हस्तं सुदृढं मृदु निर्मलम् ॥ तत्रोपरिसमासीनो गायत्रीजपमाचरेत् ॥३॥
खशुद्धिं भूतशुद्धिं च कृत्वा शोषणदाहनम् ॥ प्लवने च ततः कुर्यात्प्रणवादित्रयं क्षरैः ॥४॥
प्राणायामसमायुक्तश्चांतर्बाह्यं समातृकात् ॥ देहे न्यासं ततः कुर्यात्करागन्यासमाचरेत् ॥५॥
ऋषिं न्यसेत्पूर्वमुखे तथा छन्द उदीरितम् ॥ देवता हृदि विन्यस्य गुह्ये बीजमिति स्मृतम् ॥६॥
शक्तिं विन्यस्य चाधारे पादयोः कीलकं न्यसेत् ॥ एवं न्यासविधिं कृत्वा ऋष्यादिन्यासपूर्वकम् ॥७॥
आवाहनादिभेदं च दश मुद्राः प्रदर्शयेत् ॥ आयातु वरदा देवी अंगप्रत्यंगसंगमे ॥८॥
प्रातर्गायत्री सावित्री मध्याह्ने च सरस्वती ॥ एवमावाहनं ज्ञात्वा संध्यायां जपमाचरेत् ॥९॥
हस्ताभ्यामनुलोमेन आवाहनमनाहुते ॥ नामत्रयमृषिश्छंदः क्रमेणावाहनं भवेत् ॥१०॥
मूलाधारेण गायत्री सावित्री मणिपूरके ॥ द्वादशारे सरस्वती छंदो नाडीत्रयं तथा ॥११॥
ऋषिर्मूर्घ्नि सुविज्ञेय आवाहनमनुक्रमात् ॥ आवाहनं यथोक्तं च यथोक्तं तु विसर्ज्जनम् ॥१२॥
एवं जानीहि विप्रेन्द्र जपध्यानं समाचरेत् ॥ आवाहनं ततो न्यासं विना जाप्यं तु निष्फलम् ॥१३॥
चतुर्विंशतिगायत्रीं प्रातः स्नात्वा जपेन्मनुम् ॥ प्राणायामं ततः कुर्यान्न्यासध्यानं समाचरेत् ॥१४॥
करन्यासं ततः कुर्यादंगन्यासं तथैव च ॥ चतुश्चतुश्चतुष्कं च चतुश्चतुश्चतुश्चतुः ॥१५॥
षडंगं विन्यसेद्देवीं गायत्रीं वेदमातरम् ॥ व्याहृतित्रयमुच्चार्य अनुलोमं च बिभ्रतः ॥१६॥
करांगन्यासमारभ्य गायत्री पूर्ववद्भवेत् ॥ अकारं च उकारं च मकारं बिंदुसंयुतम् ॥१७॥
अनुलोमं न्यसेत्तत्र त्रिरक्षरसमन्वितम् ॥ चतुर्विंशतिवर्णानां पल्लवोऽयमुदाहृतः ॥१८॥
चतुरक्षरसंयुक्तं करांगन्यासमाचरेत् ॥ तूर्यपादं विना न्यासमाद्यंतं प्रणवैः सह ॥१९॥
व्याहइत्त्रयमुच्चार्य चतुरक्षरसंयुतम् ॥ पुनर्व्याहृत्मुच्चार्य करांगन्यासमाचरेत् ॥२०॥
पादंपादं द्विपादं च प्रतिप्रणवसंपुटम् ॥ करांगन्याससंयोगात्षड्भागैस्त्रिपदा भवेत् ॥२१॥
अंगुष्ठादिचतुर्वर्णा अनुलोमक्रमेण तु ॥ हृदयादिचतुर्वर्णाः क्रमेणैव विलोमतः ॥२२॥
चतुर्वर्णान् विना यस्तान्विपर्णं संन्यसेद्द्विजः ॥ तस्य वैफल्यमाप्नोति सत्यं सत्यं न संशयः ॥२३॥
अंगन्यासं करन्यासं देहन्यासं विना जपेत् ॥ अंधत्वं बैरत्वं च मूकत्वं प्राप्नुयान्मनुः ॥२४॥
इति श्रीविश्वामित्रकल्पे आवाहनादियोगो नाम षष्ठः परिच्छेदः ॥६॥
ध्यानं मुद्रां नमस्कारं गुरुमंत्रं तथैव च ॥ संयोगमात्मसिद्धिञ्च पञ्चधैवं विभावयेत् ॥१॥
प्रातः केवलगायत्री मध्याह्ने व्याहृतीयुता ॥ सायाह्ने तूर्यया युक्ता नित्यजाप्यं समाचरेत् ॥२॥
पादादौ रेफसंयुक्ता गायत्रीजपलक्षणम् ॥३॥
पादत्रयं समुच्चार्य प्रतिलोमं ततश्चरेत् ॥ रेफबिंदू तदाद्यन्तौ गायत्रीजपमाचरेत् ॥४॥
गायत्रीं पूर्वमुच्चार्य्य तुर्य्यांत्यादिविलोमतः ॥ सायंसंध्यां जपेदेवं साधकः सर्वसिद्धये ॥५॥
तकारादियकारांतमनुलोमं विलोमतः ॥ तुर्यपादं विना मंत्रं प्रातःसंश्यामथाचरेत् ॥६॥
भकारादिहिकारांतं मध्यपादमिति स्मृतम् ॥ तार्तीयं तु प्रयोक्तव्यं तदर्घ्ये प्रथमं भवेत् ॥७॥
धकारादियकारांतं तृतीयं पादमुच्चरेत् ॥ प्रथमं च द्वितीयं च त्रिविधं जपलक्षणम् ॥८॥
कालत्रयं त्रिधा जाप्यं त्रिकालं त्रिविधं स्मृतम् ॥ अनुलोमविलोमाभ्यां चिरं सिद्धिमवाप्नुयात् ॥९॥
चतुर्विंशतिवर्णानामनुलोमं जपेदपि ॥ पूर्णजपयफलं नास्ति अर्द्धजाप्यफलं लभेत् ॥१०॥
चतुष्पादं तु गायत्री अनुलोमविलोमतः ॥ नित्यं जाप्यं प्रकुर्वीत भुक्तिं मुक्तिं लभेन्नरः ॥११॥
नित्यनैमित्तकाम्यादिव्यस्ताव्यस्तं जपेन्मनुम् ॥ प्रातर्मध्याह्नसायाह्नं जपेदेवं क्रमेण तु ॥१२॥
जपपारायणं कुर्य्यात्त्रिपदासंपुटं नव ॥ एवं ज्ञात्वा जपेन्नित्यमेकः कोटिगुणं भवेत् ॥१३॥
कालत्रयं यथोक्तं च जाप्यपारायणं परम् ॥ अनंतफलमाप्नोति सत्यं सत्यं न संशयः ॥१४॥
अष्टोत्तरसहस्रं वा अष्टोत्तरशतं तु वा ॥ अष्टाविंशतिमेवाथ गायत्रीदशकं जपेत् ॥१५॥
ॐकारः पुरुषश्चैव गायत्री सुंदरी तथा ॥ तयोः संयोगकाले तु वस्त्रमाच्छाद्य गण्यते ॥१६॥
वरेण्यं विरलं चोक्त्वा जपकाले विशेषतः ॥ पारायणेषु युक्तं स्यादन्यथा विफला भवेत् ॥१७॥
इति श्रीविश्वामित्रकल्पे त्रिकालजपयोगो नाम सप्तमः परिच्छेदः ॥७॥
॥ इति विश्वामित्रकृतश्रीगायत्रीकल्पः सम्पूर्णः ॥
N/A
References : N/A
Last Updated : December 14, 2016
TOP