संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः Translation - भाषांतर आचार्यः कश्चिद्विप्रो वा यजमानानुज्ञया हस्ते जलं गृहीत्वा । अस्मिन्कुण्डे ( यजमानानुज्ञया । पञ्चभूसंस्कारपूर्वकम् अग्निप्रतिष्ठां करिष्ये । इति संकल्प्य दक्षिणहस्ते दर्भपुञ्जं गृहीत्वोत्थाय दक्षिणत आरभ्योदक्संस्थं पश्चिमतः प्रागन्तं त्रिवारं परिसमूहनं कुर्यात् । तद्यथा । दर्भेः परिसमूह्य परिसमूह्य परिसमूह्य । एवं परिसमूहनं विधाय कुण्डाद्वहिः पूर्वस्यामीशान्यां वा दर्भत्यागः कुर्यात् । ततो दक्षिणहस्तेन गोमयमादाय पूर्ववत् दक्षिणत आरभ्योदक्संस्थं पश्चिमतः प्रागन्तं उपलेपनं कृत्वा हस्तें प्रक्षाल्य गोमयेन उपलिप्य उपलिष्य उपलिप्य । एवं त्रिवारम् उपलेपनं कृत्वा हस्तं प्रक्षाल्य दक्षिणहस्तेन स्रुवमादाय पूर्ववद्दक्षिणत आरभ्योदक्संस्थं पश्चिमतः प्रागन्तं स्रुवमूलेन त्रिरुल्लेखनं कुर्यात् ॥ तद्यथा स्रुवमूलेन उल्लिख्य उल्लिख्य उल्लिख्य । एवं त्रिवारमुल्लेखनं कृत्वाऽनामिकाङ्गुष्ठेन पूर्ववत् कुण्डतः पांसूनामुद्धरणं विदध्यात् । तद्यथा । अनामिकाङ्गुष्ठेन उद्धृत्य उद्धृत्य उद्धृत्य । एवं त्रिवारं पांसूनामुद्धरणं कृत्वा तान् प्राच्यां क्षिप्त्वा पूर्ववत् न्युब्जपाणिना जळेन त्रिवारम् अभ्युक्षणं कुर्यात् ॥ तद्यथा । उदकेन अभ्युक्ष्य अभ्युक्ष्य अभ्युक्ष्य । ततोऽग्निं स्थापयेत् । बहुपशोर्वैश्यस्य गृहात् श्रोत्रियागारात् सूर्यकान्तसम्भूतात् स्वकीयगृहाद्वा सुवासिन्या स्त्रिया आनीतं निर्धूमम् अन्यताम्रादिपात्रेणाच्छादितम् अग्निं कुण्डस्य आग्नेय्यां दिशि निधाय आच्छादितं पात्रम् उद्घाट्य “ हुं फट् ” इति क्रव्यादांशम् अग्निं नैरृत्यां दिशि परित्यज्य अग्निं कुण्डस्य उपरि त्रिवारं भ्रामयित्वा । ॐ अग्ग्निन्दूतम्पुरोदधेहव्व्यब्वाहमुपब्रुवे । देवॉं २ आसादयादिह ॥१७/२२॥ इति मन्त्रं पठन् कुण्डे स्वात्माभिमुखं शतमङ्गलनामानम् अग्निं स्थापयेत् ॥ ततोऽग्न्यानीतपात्रे साक्षतोदकं निषिच्य तत्र शिष्टाचारात्किञ्चिद्यथाशक्ति हिरण्यं रौप्यद्रव्यं वा निक्षिप्य तत् द्रव्यं यजमानपत्न्यै दद्यात् । ततोऽग्नौ आवाहनादिमुद्राः प्रदर्शयेत् ॥ भो अग्ने त्वम् आवाहितो भव । भो अग्ने त्वं संस्थापितो भव । भो अग्ने त्वं सन्निहितो भव । भो अग्ने त्वं सन्निरुद्धो भव । भो अग्ने त्वं सकलीकृतो भव । भो अग्ने त्वम् अवगुण्ठितो भव । भो अग्ने त्वम् अमृतीकृतो भव । भो अग्ने त्वं परमीकृतो भव ॥ इति तत्तन्मुद्राः प्रदर्श्य । अग्निम् इन्धनप्रक्षेपेण प्रज्वलितं कृत्वा करसम्पुटौ विधाय अग्निध्यानं कुर्यात् ॥ ॐ चत्त्वारिशृङ्गात्त्रयोऽअस्यपादाद्द्वेशीर्षेसप्प्तहस्तासोऽअस्य । त्त्रिधाबद्धोव्वृषभोरोरवीतिमहोदेवोमर्त्त्यॉं२ऽआविवेश ॥९१/१७॥ रुद्रतेजःसमद्भूतं द्विमूर्धानं द्विनासिकम् । षण्णेत्रं च चतुःश्रोत्रं त्रिपादं सप्तहस्तकम् ॥१॥याम्यभागे चतुर्हस्तं सव्यभागे त्रिहस्तकम् । स्रुवं स्रुचञ्च शक्तिञ्च ह्यक्षमालाञ्च दक्षिणे ॥२॥तोमरं व्यजनं चैव घृतपात्रञ्च वामके । बिभ्रतं सप्तभिर्हस्तैर्द्विमुखं सप्तजिह्वकम् ॥३॥याम्यायने चतुर्जिह्वं त्रिजिह्वं चोत्तरे मुखम् । द्वादशकोटिमूर्त्याख्यं द्विपञ्चाशत्कलायुतम् ॥४॥आत्माभिमुखमासीनं ध्यायेच्चैवं हुताशनम् ॥ गोत्रमग्नेस्तु शाण्डील्यं शाण्डिल्यासितदेवलाः ॥५॥त्रयोऽमी प्रवरा माता त्वरणी वरुणः पिता । रक्तमाल्याम्बरधरं रक्तपद्मासनस्थितम् ॥६॥स्वाहास्वधावषट्कारैरङ्कितं मेषवाहनम् । शतमङ्गलनामानं वह्निमावाहयाम्यहम् ॥७॥त्वं मुखं सर्वदेवानां सप्तार्चिरमितद्युते । आगच्छ भगवन्नग्ने कुण्डेऽस्मिन्सन्निधो भव ॥८॥भो वैश्वानर शाण्डिल्यगोत्र शाण्डिल्यासितदेवलेतित्रिप्रवरान्वित भूमिमातः वरुणपितः ललाटजिह्व मेषध्वज प्राड्मुख मम सम्मुखो भव ॥ इति ध्यात्वा हस्तेऽक्षतान् गृहीत्वाऽऽवाहयेत् । तद्यथा । ॐ मनोजूतिर्जु० ॥१३/२॥ ॐ शतमङ्गलनामाग्ने सुप्रतिष्ठितो वरदो भव ॥ ततो गन्धाक्षतपुष्पाण्यादाय पूजनं कुर्यात् । ॐ भूर्भुवः स्वः शतमङ्गलनाम्ने वैश्वानराय नमः सर्वोपचारार्थे गन्धाक्षतपुष्पाणि सम० । इति कुण्डस्य नैरृत्यकोणे मध्ये वा अग्निं सम्पूज्य प्रार्थयेत् ॥ अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् । हिरण्यवर्णममलं समिद्धं विश्वतोमुखम् ॥॥ इति पञ्चभूसंस्कारपूर्वकाग्निप्रतिष्ठापनप्रयोगः समाप्तः ॥ N/A References : N/A Last Updated : December 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP