संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ नूतनयज्ञोपवीतधारणविधिः श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ नूतनयज्ञोपवीतधारणविधिः श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ नूतनयज्ञोपवीतधारणविधिः Translation - भाषांतर अत्र केचन शिष्टाः प्रायश्चित्तिनो नूतनयज्ञोपवीतधारणमपि कारयन्ति ॥ तद्यथा । प्रायश्चित्ती आचम्य प्राणायामं कृत्वा देशकालौ स्मृत्वा करिष्यमाणगायत्रीपुरश्चरणकर्मण्यधिकारार्थं नूतनयज्ञोपवीतधारणं करिष्ये, इति संकल्प्य ततो यज्ञोपवीतम् आपोहिष्ठेति त्रिभिर्मंत्रैः संप्रोक्ष्य पात्रे धृत्वा ॐइदं व्विष्णु० ॥१५/५॥ इतिमंत्रेण यज्ञोपवीतसूत्रस्य त्रिगुणीकरणं कुर्यात् ॥ ततो दशगायत्र्याऽभिमंत्र्य तन्तुषु देवतानामावाहनं कुर्यात् ॥ प्रथमतन्तौ - ॐ कारम् आवाहयामि ॥१॥द्वितीयतन्तौ - ॐ अग्न्ग्निन्दूतं० ॥१७/२२॥ अग्निमावाहयामि ॥२॥तृतीयतन्तौ - ॐ नमोस्तुसर्प्पेब्भ्यो० ॥६/१३॥ सर्पानावाहयामि ॥३॥चतुर्थतन्तौ - ॐव्ययx सोम० ॥५६/३॥ सोममावाहयामि ॥४॥पंचमतन्तौ - उदीरतामवर० ॥४९/१९॥ पितॄनावा० ॥५॥षष्ठतन्तौ - ॐ प्रजापतेनत्व० ॥६५/२३॥ प्रजापतिमावाहयामि ॥६॥सप्तमतन्तौ - ॐ आनोनियुद्भिः० ॥२८/२७॥ अनिलमावाहयामि ॥७॥अष्टमतन्तौ - ॐ यमाय त्वा० ॥९/३८॥ यममावाहयामि ॥८॥नवमतन्तौ - ॐ व्विश्वेदेवा स० ॥ ३४/७॥ विश्वान् देवानावाहयामि ॥९॥ततो यज्ञोपवीतग्रन्थिषु ब्रह्मादिदेवतानामावाहनम् ॥ ग्रन्थिमध्ये ॥ ॐ ब्रह्मजज्ज्ञानं० ॥३/१३॥ ॐ ब्रह्मणे नमः ब्रह्माणमावाहयामि ॥१॥ग्रन्थिमध्ये - ॐ इदं व्विष्ण्णुर्व्वि० ॥१५/५॥ ॐ विष्णवे नमः विष्णुमावाहयामि ॥२॥ग्रन्थिमध्ये - ॐ नमस्ते रुद्द्र० ॥१/१६॥ ॐ रुद्राय नमः रुद्रमावाहयामि ॥३॥ॐ मनोजूतिर्ज्जुषता० ॥१३/१॥ इति प्रणवादितन्तुग्रन्थिदेवता यथास्थानं सुप्रतिष्ठिता वरदा भवत ॥ ॐ प्रणवादितन्तुदेवतासहितग्रन्थिदेवता यथास्थानं सुप्रतिष्ठिता वरदा भक्त ॥ ॐ प्रणवादितन्तुदेवतासहितग्रन्थिदेवताभ्यो नमः गन्धाक्षतपुष्पाणि समर्पयामि ॥ इति गन्धाक्षतपुष्पैर्मनसा वा संपूज्य यज्ञोपवीतं ध्यायेत् ॥ ॐ प्रजापतेर्यत्सहजं पवित्रं कार्पाससूत्रोद्भवब्रह्मसूत्रम् ॥ ब्रह्मत्वसिद्ध्यै च यशःप्रकाशं जपस्य सिद्धिं कुरु ब्रह्मसूत्रम् । एवं ध्यात्वोपवीतं हस्तयोर्धृत्वा सूर्याय प्रदर्शयेत्त ॥ ॐतच्चक्षुर्द्देवहितं० ॥२४/३६॥ हस्ते जलं गृहीत्वा ॥ ॐयज्ञोपवीतमितिमंत्रस्य परमेष्ठी प्रजापतिरृषिः त्रिष्टुप्छन्दः लिंगोक्ता देवता नूतनयज्ञोपवीतधारणे विनियोगः ॥ ॐयज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत् सहजं पुरस्तात् ॥ आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि ॥ इत्यनेन मंत्रेण स्वदक्षिणबाहुमूर्द्ध्वमुद्धृत्य यज्ञोपवीतं धृत्वा आचमेत् ॥ अन्यान्यपि एवंरीत्या पृथक् पृथक् धृत्वाऽऽचामेत् ॥ पश्चाज्जीर्णसूत्रत्यागः ॥ एतावहिनपर्यन्तं ब्रह्मत्वं धारितं मया ॥ जीर्णत्वात्त्वत्परित्यागो गच्छ सूत्र यथासुखम् ॥ इति शिरोमार्गेण जीर्णयज्ञोपवीतं निःसार्य शुद्धभूमौ जले वा त्यजेत् ॥ ततो यथाशक्ति गायत्रीमन्त्रजपं कृत्वा हस्ते जलं गृहीत्वा ॥ अनेन नूतनयज्ञोपवीतधारणाङ्गत्वेन कृतेन गायत्रीमन्त्रजपकर्मणा भगवान् सविता सूर्यनारायणः प्रीयताम् ॥ अनेन नूतनयज्ञोपवीतधारणाख्येन कर्मणा मम करिष्यमाणगायत्रीपुरश्चरणकर्मण्यधिकारसिद्धिद्वारा श्रीभगवान् परमेश्वरः प्रीयताम् ॥॥ इति नूतनयज्ञोपवीतधारणाविधिः ॥एवं नूतनयज्ञोपवीतं धृत्वा मायश्चित्तिना तस्मिन्नहनि उपवासः कार्यः ॥ अशक्तौ हविष्याशी स्यात् ॥ स्वयमेव गायत्रीपुरश्चरणकर्ता चेत् प्रथमदिवसे कृतप्रायश्चित्तो द्वितीयदिवसे स्वकीयं संध्यादि प्रातःकृत्यं विधाय हस्ते जलं गृहीत्वा ॥ देशकालौ संकीर्त्य करिष्यमाणामुकसंख्याकगायत्रीपुरश्चरणकर्मणि मम जपानुष्ठानयोग्यताप्राप्त्यर्थं मंत्रसिद्ध्यर्थञ्च सव्याहतिगायत्रीमंत्रस्यायुतसंख्याकं जपमहं करिष्ये । एवं संकल्पं विधाय जपं स्वयं ब्राह्मणद्वारा वा कुर्यात् ॥ तदनन्तरं गायत्रीपुरश्चरणं स्वयं ब्राह्मणद्वारा वाऽऽरभेत ॥॥ इति पूर्वोत्तराङ्गप्रायश्चित्तप्रयोगः समाप्तः ॥ N/A References : N/A Last Updated : December 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP