संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ घृतपात्रदानादिकम्

अथ घृतपात्रदानादिकम्

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


एवं सपत्नीको यजमानो मंडपमागत्य कुण्डस्य पश्चिमदिशि भगवत्याः श्रीगायत्रीदेव्याः पीटःअसमीप उपविश्य घृतपूरिते कांस्यपात्रे स्वस्य मुखावलोकनं कुर्यात् ॥ ॐ रूपेणवोरूपमब्भ्यागान्तुथोवोव्विश्श्ववेदाव्विभजतु । ऋतस्यपथाप्प्रेतं चन्द्रदक्षिणाव्विस्वxपश्श्यव्वयन्तरिक्षॅंय्यतस्वसदस्यै x ॥४५/७॥ ततः तस्मिन्किञ्चिद्धिरण्यं निधाय हस्ते तत्पात्रमादाय सङ्कल्पं कुर्यात् । इदम् आज्यपात्रं सदक्षिणाकम् अमुकगोत्रोत्पन्नाय अमुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे ॥ इति घृतपात्रं दद्यात् । पुनर्हस्ते जलमादाय भोजनसङ्कल्पं कुर्यात् ॥ मया कृतस्य सग्रहमखश्रीगायत्रीपुरश्चरणकर्मणः साङ्गतासिद्ध्यर्थं यथाशक्ति ब्राह्मणान् सुवासिनीः कुमारीः बटुकॉंश्च भोजयिष्ये तेन भगवती आराध्यदेवता सपरिवारा श्रीगायत्रीदेवी प्रीयतां न मम । पुनर्जलमादाय । न्यूनातिरिक्तदोषपरिहारार्थं नानागोत्रेभ्यो ब्राह्मणेभ्यो दीनानाथेभ्यश्च यथाशक्ति भूयसीदक्षिणादानं करिष्ये ॥ इति संकल्प्य तेभ्यः सर्वेभ्यो यथाशक्ति भूयसीं दक्षिणां दत्वा तेभ्य आशिषो गृह्णीयात् । ते च सपत्नीकं यजमानमाशिषो दद्युः । ततो यजमानः देवताविसर्जनादिकमावशिष्टं कर्म कुर्यात् ॥

N/A

References : N/A
Last Updated : December 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP