संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ प्रधानहोमः श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ प्रधानहोमः श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ प्रधानहोमः Translation - भाषांतर एवमाचार्यो ग्रहहोमं ब्राह्मणद्वारा समाप्य प्रधानदेवताया भगवत्याः श्रीगायत्रीदेव्याः सप्रणवव्याहृतिसहितस्य चतुर्विंशतिवर्णात्मकश्रीगायत्रीमन्त्रस्य दशांशपक्षेण होमार्थं ब्राह्मणानुपवेश्याग्नौ श्रीगायत्रीदेव्या आवाहनार्थं यजमानस्याञ्जलौ गन्धाक्षतपुष्पाणि दत्वा भगवत्याः श्रीगायत्रीदेव्याः पीठसमीपं तं नीत्वा पीठस्थितां भगवतीम् आवाहनार्थं प्रार्थयेत् । तद्यथा । पूजास्थानात्समागच्छ होमस्थानं महेश्वरि ॥ यावद्धोमं करिष्यामि तावदग्नौ स्थिरा भव । देवेशि भक्तिसुलभे परिवारसमन्विते । यावद्धोमं करिष्यामि तावदत्र स्थिरा भव ॥ इति सम्प्रार्थ्य तस्मिन्नञ्जलौ भगवतीं श्रीगायत्रीदेवीं समागतां मनसा विचिन्त्य यजमानः कुण्डसमीपमागत्य कुण्डे पुष्पाञ्जलिप्रक्षेपेण तत्र भगवत्याः श्रीगायत्रीदेव्यां आगमनं विभाव्य तत्तन्मुद्राप्रयोजनपूर्वकम् आवाहनादिमुद्राः प्रदर्शयेत् ॥ भो भगवति गायत्रीदेवि त्वमस्मिन्नग्नौ आवाहिता भव । भो भगवति गायत्रीदेवि त्वमस्मिन्नग्नौ संस्थापिता त्वमस्मिन्नग्नौ सन्निरुद्धा भव । भो भगवति गायत्रीदेवि त्वमस्मिन्नग्नौ सकलीकृता भव । भो भगवति गायत्रीदेवि त्वमस्मिन्नग्नौ अवगुण्ठिता भव । भो भगवति गायत्रीदेवि त्वमस्मिन्नग्नौ अमृतीकृता भव । भो भगवति गायत्रीदेवि त्वमस्मिन्नग्नौ परमीकृता भव । इति मुद्राः प्रदर्श्य । अग्ने त्वमैश्वरं तेजः परमं प्रकृतेर्वपुः ॥ तस्मात्त्वदीयहृत्पद्मे गायत्रीं तर्पयाम्यहम् ॥ इत्यग्निं सम्प्रार्थयेत् । ततो ब्राह्मणा सप्रणवव्याहृतिसहितां चतुर्विंशतिवर्णात्मिकां गायत्र्यृचं पठन्तः प्रतिमन्त्रं घृताक्ततिलद्रव्येण होमं कुर्युः । होमानन्तरं यजमानः स्वकीयाञ्जलौ पुनः पुष्पाण्यादाय कुण्डसमीपमागत्य कुण्डस्थितां भगवतीं श्रीगायत्रीदेवीं प्रार्थयेत् । तद्यथा । होमस्थानात्समागच्छ पूजास्थानं महेश्वरि । यावत्पूजां करिष्यामि तावत्पीठे स्थिरा भव ॥ इति सम्प्रार्थ्य तस्मिन्नञ्जलौ भगवतीं श्रीगायत्रीदेवीमागतां विभाव्य पीठसमीपमागत्य मूर्तौ पुष्पाञ्जलिं दत्वा पुनः पूर्ववत्तत्रावाहनादिमुद्राः प्रदर्शयेत् ॥ एवं प्रत्यहं प्रधानहोमस्यारंभे भगवत्याः श्रीगायत्रीदेव्या अग्नौ आवाहनं होमसमाप्तौ पुनः विसर्जनञ्च कृत्वा पीठे आवाहनादिमुद्राप्रदर्शनपूर्वकं स्थापनं कार्यम् ॥ प्रधानहोमसमाप्त्यनन्तरमन्तिमदिने तर्पणं मार्जनं च कर्तव्यम् ॥॥ इति प्रधानहोमः ॥ N/A References : N/A Last Updated : December 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP