श्री नारदीयमहापुराणम् - एकोनविंशत्यधिकशततमोऽध्यायः
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
सनातन उवाच॥
अथ तेऽहं प्रवक्ष्यामि दशम्या वै व्रतानि च॥
यानि कृत्वा नरो भक्त्या धर्मराजप्रियो भवेत् ॥१॥
चैत्रशुक्लदशम्यां तु धर्मराजं प्रपूजयेत्॥
तत्कालसंभवैः पुष्पैः फलैर्गंधादिभिस्तथा ॥२॥
सोपवासो वैकभक्तो भोजयित्वा द्विजोत्तमान्॥
चतुर्द्दशततस्तेभ्यः शक्त्या दद्याच्च दक्षिणाम् ॥३॥
एवं यः कुरुते विप्र धर्मराजप्रपूजनम्॥
स धर्मस्याज्ञयागच्छेद्देवैः साधर्म्यमच्युतः ॥४॥
दशम्यां माधवे शुक्ले विष्णुमभ्यर्च्य मानवः॥
गंधाद्यैरुपचारैश्च श्वेतपुष्पैः सुगंधिभिः ॥५॥
शतं प्रदक्षिणाः कृत्वा विप्रन्संभोज्य यत्नतः॥
लभते वैष्णवं लोकं नात्र कार्या विचारणा ॥६॥
ज्येष्ठे शुक्लदशम्यां तु जाह्नवी सरितां वरा॥
समायाता धरां स्वर्गात्तस्मात्सा पुण्यदा स्मृता ॥७॥
ज्येष्ठः शुक्लदलं हस्तो बुधश्च दशमीः तिथिः॥
गरानन्दव्यतीपाताः कन्येंदुवृषभास्कराः ॥८॥
दशयोगः समाख्यातो महापुण्यतमो द्विज॥
हरते दश पापानि तस्माद्दशहरः स्मृतः ॥९॥
अस्यां यो जाह्नवीं प्राप्य स्नाति संप्रीतमानसः॥
विधिना जाह्नवीतोये स याति हरिमन्दिरम् ॥१०॥
आषाढशुक्लदशमी पुण्या मन्वादिकैः स्मृता॥
तस्यां स्नानं जपो दानं होमो वा स्वर्गतिप्रदाः ॥११॥
श्रावणे शुक्लदशमी सर्वाशापरिपूर्तिदा॥
अस्यां शिवार्चनं शस्तं गन्धाद्यै रुपचारकैः ॥१२॥
तत्रोपवासो नक्तं वा द्विजानां भोजनं जपः॥
हेम्नो दान च धेन्वादेः सर्वपापप्रणाशनम् ॥१३॥
अथो नभस्यशुक्लायां दशम्यां द्विजसत्तम॥
व्रतं दशावताराख्यं तत्र स्नानं जलाशये ॥१४॥
कृत्वा संध्यादिनियमं देवर्षिपितृतर्पणम्॥
ततो दशावताराणि समभ्यर्चेत्समाहितः ॥१५॥
मत्स्यं कूर्मं वराहं च नरसिंहं त्रिविक्रमम्॥
रामं रामं च कृष्णं च बौद्धं कल्किनमेव च ॥१६॥
दशमूर्तिस्तु सौवर्णीः पूजयित्वा विधानतः॥
दशभ्यो विप्रवर्येभ्यो दद्यात्सत्कृत्य नारद ॥१७॥
उपवासं चैकभक्तं कृत्वा संभोज्य वाडवान्॥
विसृज्य पश्चाद्भुंजीत स्वयं स्वेष्टैः समाहितः ॥१८॥
भक्त्या कृत्वा व्रतं त्वेतद्भुक्त्वा भोगानिहोत्तमान्॥
विमानेन व्रजेदंते विष्णुलोकं सनातनम् ॥१९॥
आश्विने शुक्लदशमी विजया सा प्रकीर्तिता॥
चतुर्गोमयपिंडानि प्रातर्न्यस्य गृहांगणे ॥२०॥
चक्रवालस्वरूपेण तन्मध्ये रामलक्ष्मणौ॥
तथा भरतशत्रुघ्नौ पूजयेच्चतुरोऽपि हि ॥२१॥
सपिधानासु पात्रीषु गोमयीषु चतसृष्ट॥
किन्नं धान्यं सरौप्यं तु धृत्वा धौतांशुकावृतम् ॥२२॥
पितृमातृभ्रातृपुत्रजाया भृत्यसमन्वितम्॥
संपूज्यं गन्धपुष्पाद्यैर्नैवेद्यैश्च विधानतः ॥२३॥
नमस्कृत्याथ भुंजीत द्विजान्संभोज्य पूजितान्॥
एवं कृत्वा विधानं तु नरो वर्षं सुरवान्वितः ॥२४॥
धनधान्यसमृद्धश्च निश्चितं जायते द्विज॥
अथापाराह्णसमये नवम्यां संनिमंत्रिताम् ॥२५॥
पूर्वदिक्षु शमीं विप्र गत्वा तन्मूलजां मृदम्॥
गृहीत्वा स्वगृहं प्राप्य गीतवादित्रनिःस्वनैः ॥२६॥
संपूज्य तां विधानेन सज्जीकृत्य स्वकं बलम्॥
निर्गत्य पूर्वद्वारेण ग्रामाद्ब्रहिरनाकुलः ॥२७॥
ततः शत्रुप्रतिकृतिं निर्मितां पत्रकादिभिः॥
मनसा कल्पितां वापि स्वर्णं पुंरवंशरेण वै ॥२८॥
विध्येदिति भृशं प्रीतः प्राप्नुयात्स्वगृहं निशि॥
एवं कृतविधिर्वापि गच्छेद्वा शत्रुनिग्रहे ॥२९॥
एषैवं दशमी विप्र विधिनाऽऽचरिता सदा॥
धनं जयं सुतान् गाश्च गजाश्वं वाप्यजाविकम् ॥३०॥
दद्यादिह शरीरांते स्वर्गतिं चापि नारद॥
दशम्यां कार्तिके शुक्ले सार्वभौमव्रतं चरेत् ॥३१॥
कृतोपवासो वैकाशी निशीथेऽपूपकादिभिः॥
दशदिक्षु बलिं दद्याद् गृहद्वापि पुराद्ब्रहिः ॥३२॥
मंडलेऽष्टदले क्लृप्ते गोविड्लिप्तधरातले॥
मन्त्रैरेभिर्द्विजश्रेष्ठ गणेशादिकृतार्चनः ॥३३॥
यो मे पूर्वगतः पाप्मा पापकेनेह कर्मणा॥
तमिंद्रो देवरा जोऽद्य नाशयत्वखिलेष्टदः ॥३४॥
यो मे वह्निगतः पाप्मा पापकेनेह कर्मणा॥
तेजोराजोऽथ वह्निस्तं नाशयत्वखिलेष्टदः ॥३५॥
यो मे दक्षगतः पाप्मा पापकेनेह कर्मणा॥
तं यमः प्रेतराजो वै नाशयत्वखिलेष्टदः ॥३६॥
यो मे नैर्ऋतिगः पाप्मा पापकेनेह कर्मणा॥
रक्षोराजो नैर्ऋतिस्तं नाशयत्वखिलेष्टदः ॥३७॥
यो मे पश्चिमगः पाप्मा पापकेनेहकर्मणा॥
यादः पतिस्तं वरुणो नाशयत्वखिलेष्टदः ॥३८॥
यो मे वायुगतः पाप्मा पापकेनेह कर्मणा॥
वायुस्तं मरुतां राजो नाशयत्वखिलेष्टदः ॥३९॥
यो मे सौम्यगतः पाप्मा पापकेनेह कर्मणा॥
सोमस्तमृक्षयक्षेशो नाशयत्वखिलेष्टदः ॥४०॥
यो म ईशगतः पाप्मा पापकेनेह कर्मणा॥
ईशानो भूतनाथस्तं नाशयत्वखिलेष्टदः ॥४१॥
यो मं ऊर्द्ध्वगतः पाप्मा पापकेनेह कर्मणा॥
ब्रह्मा प्रजापतीशस्तं नाशयत्वखिलेष्टदः ॥४२॥
यो मेऽधःसंस्थितः पाप्मा पापकेनेह कर्मणा॥
अनंतो नागराजस्तं नाशयत्वखिलेष्टदः ॥४३॥
इत्येवं दिक्षु दशसु बलिं दत्वा समाहितः॥
क्षेत्रपालाय तद्बाह्ये क्षिपेद्बलिमतंद्रितः ॥४४॥
एवं कृतविधिः शेषं निशायां निनयेत्सुधीः॥
गीतैः सुमंगलप्रायैः स्तवपाठैर्जपादिभिः ॥४५॥
प्रातः स्नात्वा समभ्यर्च्य लोकपालान् द्विजोत्तमान्॥
द्वादशाभ्यर्च्य संभोज्य शक्तितो दक्षिणां ददेत् ॥४६॥
इत्थं कृत्वा व्रतं विप्र भोगान्भुक्तैहिकाञ्छुभान्॥
युगं स्वर्गसुखं भुक्त्वा सार्वभौमो नृपो भवेत् ॥४७॥
मार्गशुक्लदशम्यां तु चरेदारोग्यकं व्रतम्॥
गंधाद्यैरर्चयेद्विप्रान् दश तच्चरणोदकम् ॥४८॥
पीत्वाऽथ दक्षिणां दत्वा विसूजेदेकभोजनं॥
एतत्कृत्वा व्रतं विप्र ह्यारोग्यं प्राप्य भूतले ॥४९॥
धर्मराजप्रसादेन मोदते दिवि देववत्॥
पौषे दशम्यां शुक्लायां विश्वेदेवान् समर्चयेत् ॥५०॥
ऋतुं दक्षं वसून्सत्यं कालं कामं मुनिं गुरुम्॥
विप्रं रामं च दशधा केशवस्तान्समास्थितः ॥५१॥
स्वापयित्वा दर्भमयानासनेषु च संस्थितान्॥
गंधैर्धूपैस्तथा दीपैर्नैवेद्यैश्चापि नारद ॥५२॥
प्रत्येकं दक्षिणां दत्वा प्रणियत्य विसर्जयेत्॥
दक्षिणां तां द्विजाग्र्येभ्यो गुरवे वा समर्पयेत् ॥५३॥
एवं कृतविधि श्चैकभक्तो भोगी व्रती भवेत्॥
लोकद्वयस्य विप्रर्षे नात्र कार्या विचारणा ॥५४॥
माघशुक्लदशम्यां तु सोपवासो जितेंद्रियः॥
देवांनगिरसो नाम दश सम्यक्समर्चयेत् ॥५५॥
कृत्वा स्वर्णमयान्विप्र गंधाद्यैरुपचारकैः॥
आत्मा ह्यायुर्मनो दक्षो मदः प्राणस्तथैव च ॥५६॥
बर्हिष्मांश्च गविष्ठश्च दत्तः सत्यश्च ते दश॥
दश विप्रान्भोजयित्वा मधुरान्नेन नारद ॥५७॥
मूर्तीस्तेभ्यः प्रदद्यात्ताः स्वर्गलोकाप्तये क्रमात्॥
अंत्यशुक्लदशम्यां तु चतुर्दशं यमान्यजेत् । ११९-५८॥
यमश्च धर्मराजश्च मृत्युश्चैवांतकस्तथा॥
वैवस्वतश्च कालश्च सर्वभूतक्षयस्तथा ॥५९॥
औदुम्बरश्च दघ्नश्च द्वौ नीलपरमेष्ठिनौ॥
वृकोदरश्चचित्रश्च चित्रगुप्तश्चतुर्दश ॥६०॥
गन्धाद्यैरुपचारैश्च समभ्यर्च्याथतर्पयेत्॥
तिलांबुमिश्रांजलिभिर्दर्भैः प्रत्येकशस्त्रिभिः ॥६१॥
ततश्च दद्यात्सूर्यार्घं ताम्रपात्रेण नारद॥
रक्तचंदनसंदनसंमिश्रतिलाक्षतयवांबुभिः ॥६२॥
एहि सूर्यसहस्रांशो तेजोराशे जगत्पते॥
गृहाणार्घ्यं मया दत्तं भक्त्या मामनुकंपय ॥६३॥
इति मंत्रेण दत्वाऽर्घ्यं विप्रान्भोज्य चतुर्द्दश॥
रौप्यां सुदक्षिणां दत्वा विसृज्याश्नीत च स्वयम्॥११९-६४॥
एवं कृतविधिर्विप्र धर्मराजप्रसादतः॥
भुक्त्वा भोगांश्च पुत्रार्थानैहिकान्देवदुर्लभान् ॥६५॥
विमानवरमास्थाय देहांते विष्णुलोकभाक् ॥६६॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितदशमीव्रतनिरूपणं नामैकोनविंशत्यधिकशततमोऽध्यायः ॥११९॥
N/A
References : N/A
Last Updated : May 08, 2012
TOP