संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः| षट्पञ्चाशत्तमोऽध्यायः श्री नारदीयमहापुराणम् : पूर्वभागः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पंचविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पंचत्रिशोंऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पश्वचत्वारिशत्तमोऽध्यायः षट्रचत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोध्यायः पञ्चाशत्तमोऽध्यायः एकपंचाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषाष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुष्षष्टितमोऽध्यायः पञ्चषष्टिमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षटसप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्याय एकोनाशीतितमोऽध्यायः नामाशीतितमोऽध्यायः नामैकाशीतितमोऽध्यायः व्द्यशीतितमोऽध्यायः त्र्यशीतितमोऽधायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः नामाष्टाशीतितमोऽध्यायः नामैकोननवतितमोऽध्यायः नवतितमोऽध्यायः नामैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः नामाष्टनतितमोऽध्यायः नामैकोनशततमोऽध्यायः शततमोऽध्यायः नामैकोत्तरशततमोऽध्यायः द्वयुत्तरशततमोऽध्यायः त्र्युत्तरशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडुत्तशततमोऽध्यायः सप्तोत्तशततमोऽध्यायः नामाष्टोत्तरशततमोऽध्यायः नवोतरशततमोऽध्यायः दशोत्तरशततमोऽध्यायः नामैकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाघिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशदधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशतमोऽध्यायः पंचविंशोत्तरशततमोऽध्यायः श्री नारदीयमहापुराणम् - षट्पञ्चाशत्तमोऽध्यायः `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण षट्पञ्चाशत्तमोऽध्यायः Translation - भाषांतर सनंदन उवाच ॥क्रमाच्चैत्रादिमासेषु मेषाद्याः संक्रमा मताः ॥ चैत्रशुल्कप्रतिपदि यो वारः नृपः स्मृतः ॥१॥मेषप्रवेशे सेनानीः कर्कटे सस्यपो भवेत् ॥ समोद्यधीश्वरः सूर्यो मध्यंम श्वोत्तमोविधुः ॥२॥नेष्टः कुजो बुधो जीवो भृगुस्त्वतिशुभंकरः ॥ अश्वमो रविमो वाच्यो ज्ञात्वा चैषां बलाबलम् ॥३॥दंडाकारे कंबधे वा ध्वांक्षाकारेऽथ कीलके ॥ दृष्टेऽर्कमण्डल व्याधिर्भांतिश्वोरार्थनाशनम् ॥४॥छत्रध्वजपताकाद्यसन्निभस्तिमितैर्ध्वनेः ॥ रविमंडलगैर्धूम्रैः सस्फुलिंगैर्जगत्क्षयः ॥५॥सितरैक्तः पीतकृष्णैर्वणौर्विप्रादिपीडनम् ॥ घ्नंति द्वित्रिचतुर्वणैंर्भुवि राजजनान्मुने ॥६॥उर्द्धैर्भानुकरैस्ताम्रैर्नाश याति चमूपतिः ॥ पीतैर्नृपसुतः श्वतैः पुरोधाधाश्वित्रितैर्जनाः ॥७॥धूर्मैर्नृपपिशंगैस्तु जलदाधोमुखैर्जगत् ॥ शुभोऽर्कः शिशिरःताम्रः कुंकुमाभा वसंतिके ॥८॥ग्रीष्मश्वापांडुरश्वैव विचित्रो जलदागमे ॥ पद्मोदराभः शरदि हेमंते लोहितच्छविः ॥९॥पीतः शीते सिते वृष्टौ ग्रीष्मे लोहितभा रविः ॥ रोगाना वृष्टिभयकृत् क्रमादुक्तो मुनीश्वर ॥१०॥इन्द्रचापार्द्धमूर्तिस्तु भानुर्भूपविरोधकृत् ॥ शशरक्तनिभे भानौ संग्रामो न चिराद्धुवि ॥११॥मयूरपत्र संकाशो द्वादशाब्दं न वर्षति ॥ चन्द्रमासदृशो भानुः कुर्याद्धूपांतंर क्षितौ ॥१२॥अर्के श्यामे कीटभयं भस्माभे राष्ट्रजं तथा ॥ छिद्रऽर्कमंडले दृष्टं महाराजविनाशनम् ॥१३॥घटाकृतिः क्षुद्धयकृत्पुरहा तोरणाकृतिः ॥ छ्त्राकृते देशहतिः खंडभानुनृपांतकृत् ॥१४॥उदयास्तमये काले विद्युदुल्का शनिर्यदि ॥ तदा नृपवधो ज्ञेयस्त्वथवा राज विग्रहः ॥१५॥पक्षं पक्षार्द्धमर्केन्दुपरिविष्टावहर्निंशम् ॥ राजानमन्यं कुरुतो लोहिताम्बुदयास्तगौ ॥१६॥उदयास्तमये भानुराच्छित्रः ॥ घनैर्युद्धं खरोष्ट्राद्यैः पापरुपैर्भयप्रदम् ॥१७॥याम्यश्रृंगोन्रतश्वंद्रः शुभदो मीनमेषयोः ॥ सौम्यश्रृंगोत्रतः श्रेष्ठो नृयुङ्मकरयोस्तथा ॥१८॥घटोक्ष्णस्तु समः कर्कचापर्योः शरसन्निभः ॥ चापवत्कौर्महयौश्व शूलबत्तुलकर्कयोः ॥१९॥विपरीतोदितश्वंद्रो दुर्भिक्षकलहप्रदः ॥ आषाढद्वयमूलेंद्रधिष्ण्यांना याम्यगः शशी ॥२०॥अग्निप्रदस्तेयचरवनसर्पविनाशकृत् ॥ विशाखा मित्रयोर्याम्यपार्श्वगः पापगः शशी ॥२१॥मध्यमः पितृदैवत्ये द्विदैवे सौम्यगः शशी ॥ अप्राप्यपौष्णभाद्रौद्रामदुक्षाविशशी शुभः ॥२२॥मध्यगो द्वारदक्षाणि अतीत्य नववासवात् ॥ यमेंद्राहीशनोयेशमरुतश्वार्द्धतारकाः ॥२३॥ध्रुवादितिद्वि दैवाः स्युरध्यर्द्धांश्वापराः समाः ॥ याम्यश्रृंगोन्नतो नेष्टः शुभः शुल्के पिपीलिका ॥२४॥कार्यहानिः कार्यवृद्धिर्हानिर्वृद्धिर्यथाक्रमम् ॥ सुभिक्षकद्विशालेंदुरविशालोघनाशनः ॥२५॥अधोमुखे शस्त्रभयंकलहो दंडासन्निभे ॥ कुजार्द्यैर्निहते श्रृंगे मंडले वा यथाक्रमम् ॥२६॥क्षेमाद्यं वृष्टिभूपाजननाशः प्रजायते ॥ सत्याष्टनवमर्क्षेषु सोदयाद्वक्रिमे कुजे ॥२७॥तद्वक्रमुष्णंसंज्ञं स्यात्प्रजापीडाग्रिसंभवः ॥ दशमैकादशे ऋक्षे द्वादशर्वाग्रतीपयः ॥२८॥कूक्रं वक्रमुखं ज्ञेयं सस्यवृष्टिविनाशकृत् ॥ कुजेत्रयोदशे ऋक्षे वक्रीते वा चतुर्दशे ॥२९॥बालास्यचक्रं तत्तस्मिन्सस्यवृष्टिविनाशनम् ॥ पंचदशे षोडशर्क्षे वक्रे स्याद्रुधिराननम् ॥३०॥दुर्भिक्षं क्षुद्धयं रोगांन्करोति क्षितिनंदनः ॥ अष्टादशे सप्तदशे सप्तदशे तद्वक्रं मुशलाह्रयम् ॥३१॥दुर्भिक्षं धनधान्यादिनाशने भयकृत्सदा ॥ फाल्गुन्योरुदितो भौमो वैश्वदेवे प्रतीपगः ॥३२॥अस्तगश्वतुरास्यार्क्षे लोकत्रयविनाशकृत् ॥ उदितः श्रवणे पुष्ये वक्तृगोश्वनहानिदः ॥३३॥यद्दिग्गोऽभ्यदितो भौमस्ताद्दिग्भूपभयप्रदः ॥ मघामध्यगतो भौमस्तत्र चैव प्रतीपग ॥३४॥अवृष्टिशस्त्रभयदः पीड्यं देवा नृपांतकृत ॥ पितृद्विदैवधातृणां भिद्यंते गंडतारकाः ॥३५॥दुर्भिक्षं भरणं रोगं करोति क्षितिजस्तदा ॥ त्रिषूत्तरासु रोहिण्यां नैऋते श्रवणे मृगे ॥३६॥अवृष्टिश्वरन्भौमो दक्षिणेरोहिणीस्थितः ॥ भूमिजः सर्वधिष्ण्यानामुदगामी शुभप्रदः ॥३७॥याम्यगोऽनिष्टफलदो भवेद्धदकरो नृणाम् ॥ विनोत्पातेन शशिनः कदाचिन्नोदयंव्रजेत् ॥३८॥अनावृष्टाग्निभयकृदनर्थनृपविग्रहः ॥ वसुवैष्णवविश्वेंदुधातृभेषु चरन्बुधः ॥३९॥भिनत्ति यदि तत्तारां बाधावृष्टिभयंकरः ॥ आर्द्रा दिपितृभांतेषु दृश्यते यदि चंद्रजः ॥४०॥तदा दुर्भिक्षकलहरोगानावृष्टिमोभीतिकृत ॥ हस्तादिषट्रसु तारासु विचरन्निंदुनंदनः ॥४१॥क्षेमं सुभिक्षं मारोग्यं कुरुते रोगनाशनम् ॥ अहिर्बुघ्न्यार्यमाग्नेययाम्यभेषु चरन्बुधः ॥४२॥भिषक्तरंगवाणिज्यवृत्तीनां नाशकृत्तदा ॥ पूर्वात्रयेचरन्सौम्यो योग तारां भिनत्ति चेत् ॥४३॥क्षुच्छस्त्रानलचौरेभ्यो भयदः प्राणिनां तदा ॥ याम्याग्निधातृवायव्यधिष्ण्येषु प्राकृता गतिः ॥४४॥रौद्रेन्दुसार्पपित्र्येषुज्ञेया मिश्राह्रया गतिः ॥ भाग्यर्यज्यादितिषु संक्षिप्ता गतिरुच्यते ॥४५॥गतिस्तीक्ष्णाजचरणाहिर्बुन्यभाश्रिभेषुया ॥ यो मातिकातिविश्वाबुमूलमत्स्यैन्यजस्य च ॥४६॥घोरा गतिर्हरित्वाष्ट्रवसुवारुणभेषु च ॥ इंद्राग्निमित्रमार्तंडभेषु पापाह्रया गतिः ॥४७॥प्राकृताद्यासु गति ह्रुदितोऽस्तमितोपिवा ॥ यावंत्येव दिनान्यष दृश्यस्तावत्यदृश्यगः ॥४८॥चत्वारिंशत्क्रमात्रिंशद्रवींदू भूसुतो नव ॥ पंचदशैकादशभिर्दिवसैः शशिनंदनः ॥४९॥प्राकृतायां गतः सौम्यः क्षेमारोग्यसुभिक्षकृत् ॥ मिश्रसक्षिप्तयोर्मध्ये फलदोऽन्यासु वृष्टिदः ॥५०॥वैशाख श्रावणे पौषे आषादेऽभ्युदितो बुधः ॥ जगतां पापफलदस्त्वितरेषु शुभप्रदः ॥५१॥इषोर्जमासयोः शस्त्रदुर्भिक्षाग्निभयप्रदः ॥ उदितश्वंद्रजः श्रेष्ठो रजतस्फटिकोपमः ॥५२॥द्विभोटजोदिमास्तस्य पंचमैकादशास्त्रिभात् ॥ यन्नक्षत्रोदितो जीवस्तन्नक्षत्राख्यवत्सरः ॥५३॥कार्तिको मार्गशीर्षश्व नृणां दुष्टफलप्रदः ॥ शुभप्रदौ पौषमाघौ मध्यमौ मधुः ॥५४॥माधवः शुभदो ज्येष्ठो नृणां मध्यफलाप्रदः ॥ शुचिर्मध्यो नभः श्रेष्ठो भाद्रः क्कचिन्नरः ॥५५॥अतिश्रेष्ठ इषः प्रोक्तो मासानां फलमीदृशम् ॥ सौम्ये भागे चरन्भानां क्षेमारोग्यसुभिक्षकृत् ॥५६॥विपरीतो रुगुर्याम्ये मध्ये चरति मध्यमम् ॥ पीताग्निश्यामहरितरक्तवर्णोगिराः क्रमात् ॥५७॥व्याध्यग्निचौरशस्त्रास्त्रभयदः ॥ प्राणिनां भवेत् ॥ अनावृष्टिं भूम्रनिभः करोति सुरपूजितः ॥५८॥दिवादृष्टो नृपवध्यामयंवाराष्ट्रनाशनम् ॥ संवत्सर शरीरं स्यात्कृत्तिकां रोहिणीं तथा ॥५९॥नाभिस्त्वापाठय्गलमाद्री ह्रत्कुसुमं मघा ॥ दुभिंक्षाग्निमरुद्धीतिः शरीरं क्रूरपीडिते ॥६०॥नाभ्यां क्षुत्तृडयं पुष्ये सम्यङ्य्मूलफलाक्षयः ॥ त्द्ददयेशस्य निधनं शुभं स्यात्संयुतैः शुभैः ॥६१॥शस्यवृद्धिः प्रजारोग्यं युद्धं जीवात्यवर्षणम् ॥ इति द्विजा तिमध्यां तु गोनृपस्त्रीसुखं महत् ॥६२॥निःस्वनावृष्टिफणिभिर्वृष्टिः स्वास्थ्यं महोत्सवः ॥ महार्घमपि संपत्तिर्देशनाशोऽतिवर्षणम् ॥६३॥अवैरं रोगमभयं रोगभीः सस्तर्वषणे ॥ रोगो धान्यं नभोऽदृष्टिमघाद्यृ क्षगते गुरौ ॥६४॥सौम्यमध्यमयाम्येषु मार्गेषु विथिकात्रयम् ॥ शुक्रस्य दस्त्रभाज्ज्ञेयं पर्यायैश्व त्रिभिस्त्रिभिः ॥६५॥नागेभैरावताश्वैव वृषभोष्ट्रखराह्रयाः ॥ मृगांजदहानाख्याः स्युर्याम्यांतो वीथयो नव ॥६६॥सौम्य मार्गे च विसृषु चरवीथिषु भार्गवः ॥ धान्यार्थवृष्टिसस्यानां परिपूर्ति करोति हि ॥६७॥मध्यमार्गे च विसृषु सर्वमप्यधमं फलम् ॥ पूर्वस्यां दिशि मेघस्तु शुभदः पितृपंचके ॥६८॥स्वातित्रये पश्चिमायां तस्यां शुक्रस्तथाविधः ॥ विपरीते त्वनावृष्टिवृद्धधंसंयुतः ॥६९॥कृष्णाष्टम्यां चतुर्दश्यामायां च यदा सितः ॥ उंदयास्तमनं याति तदा जलमयी मही ॥७०॥मिथः सप्तमराशिस्थौ पश्वात्प्राग्वीथिसंस्थितौ ॥ गुरुशुक्रावनावृष्टिदुर्भिक्षसमरप्रदौ ॥७१॥कुजज्ञजीवरविजाः शुक्रय्साग्रेसरा यदि ॥ युद्धांतिवायुर्दुभिक्षजलनाशकरा मताः ॥७२॥जलमित्रार्यमाहीद्रंनक्षत्रेषु सुभिक्षकृत् ॥ सच्छस्त्रावृष्टिदो मूलेऽहिर्बुध्न्यात्यभयोर्भयम् ॥७३॥श्रवणानिलहस्तार्द्राभरणीभाग्यभेषु च ॥ चरच्छनैशरो नृर्णा सुभिक्षारोग्यसस्यकृत् ॥७४॥मुखे चैकं गुदे द्वे च त्रीणि के नयने द्वयम् ॥ ह्रदये पञ्च ऋक्षाणि वामहस्ते चतुष्टयम् ॥७५॥वामपादे तथा त्रीणि दक्षिणे त्रीणि भानि च ॥ चत्वारि दक्षिणे हस्ते जन्मभाद्रविजस्थितिः ॥७६॥रोगो लाभस्तथा हनिर्लाभः सौख्यं च बंधनम् ॥ आयासः श्रेष्ठयात्रा च धनलाभः क्रमात्फलम् ॥७७॥बहुधारविजस्त्वेतद्वक्रगः फलमीदृशम् ॥ करोत्येव समः साम्यं शीघ्रगेषूत्क्रमात्फलम् ॥७८॥विष्णुचक्रोत्कृत्तशिराः पङ्डः पीयूषपानतः ॥ अमृत्युतां गतस्तत्र खेटत्वे परिकल्पितः ॥७९॥वरणधातुरर्केन्दू तुदतेः सर्वपर्वणि ॥ विक्षेपावनतेर्वगाद्रा हुर्दूरगस्तयोः ॥८०॥षण्मासवृद्धया ग्रहणं शोधयेंद्रविचंद्रयोः ॥ पर्वेशास्तु तथा सत्यादेवा रव्यादितः क्रमात् ॥८१॥ब्रह्मेन्द्विंदधनाधीशवरुणां ग्नियमाह्रयाः ॥ पशुसस्यद्विजातीना वृद्धिर्ब्राह्ये तु पर्वणि ॥८२॥तद्वदेव फलं सौम्ये श्लेष्मपीडा च पर्वणि ॥ विरोधी भूभुजां दुःखमैंद्रे सस्यविनाश नम् ॥८३॥धनिनां धनहानिः स्यात्कौबेरं धान्यवर्धनम् ॥ नृपाणामशिवं क्षेममितरेषां च वारुणे ॥८४॥प्रवर्षणं सस्यवृद्धिः क्षेमं हौताशपर्वणि ॥ अनावृष्टिः सस्यहानिर्दुर्भिक्षं याम्यपर्वणि ॥८५॥वेलाहीने सस्यहानिर्नृपाणां दारुणं रणम् ॥ अतिवेले पुष्पहानिर्भयं सस्यविनाशनम् ॥८६॥एकस्मिन्नेव मासे तु चंद्रार्कग्रहणं यदा ॥ विरोधो धरणीशानार्थवृष्टिविनाशनम् ॥८७॥ग्रस्तोदितावस्तमितौ नृपधान्यविनाशदौ ॥ सर्वग्रस्ताविनेंदू तु क्षुद्वयाघ्यग्नियप्रदौ ॥८८॥सौम्यायने क्षत्रविप्रानितरांहन्ति दक्षिणे ॥ द्विजातीं श्वक्रमाद्धंति राहुदृष्टोरगा दितः ॥८९॥तथैव ग्रामभेदाः स्युर्मोक्षभे दास्तथा दश ॥ नो शक्ता लक्षिंतु देवाः किं पुनः प्राकृता जनाः ॥९०॥आनीय खेटाग्नणितांस्तेषा वारं विचिंतयेत् ॥ शुभाशुभान्यैः कालस्य ग्राहयामो हि लक्षणम् ॥९१॥तस्मादन्वेषणीयं तत्कालज्ञानाय धीमता ॥ उत्पातरुपाः केतूनामुदयास्तमया नृणाम् ॥९२॥दिव्यांतरिक्षा भौमास्ते शुभाशुभफलप्रदाः ॥ यज्ञध्वजास्त्रभवनरक्षवृद्धिंगजोपमाः ॥९३॥स्तम्भशूलांकुशाकारा आंतरिक्षाः प्रकीर्तिताः ॥ नक्षत्रसंस्थिता दिव्या भौमा ये भूमिसंस्थिताः ॥९४॥एकोऽपि भिन्नरुपः स्याज्जंतुर्नाम् शुभाय वै ॥ यावन्तो दिवसान्केतुर्दृश्यते विविधात्मकः ॥९५॥तावन्मासैः फलं यच्छ्त्यष्टौ साख्यव्यवत्सरैः॥ ये दिव्याः केतवस्तेऽपि शश्वज्जीवफलप्रदाः ॥९६॥स्त्रिग्धः सुप्रसन्नः श्वेतकेतुः सुवृष्टिकृत् ॥ क्षिप्रादस्तमयं याति दीर्घकेतु खृष्टिकृत् ॥९७॥अनिष्टदो धूमकेतुः शक्रचापसमप्रभः ॥ द्वित्रिचतुःशूलरुपः स च राज्यांतकृन्मतः ॥९८॥मणिहारस्तुवर्णाभा दीप्तिमंतोऽर्कसूनवः केतवश्वोदिताः पूर्वोपरयोर्नृपहानिदाः ॥९९॥वंसुकबिंबक्षितिजच्छुकतुंडादिसन्निभाः ॥ हुताशनोदितास्तेऽपि केतवः फलदाः स्मृताः ॥१००॥भूसता जलतैलाभा वर्तुला क्षुद्रयप्रदाः ॥ सुभिक्षक्षेमदाः श्वेतकेतवः सोमसूनवः ॥१०१॥पितामहात्मजः केतुस्त्रिवर्णस्त्रिदशान्वितः ॥ ब्रह्मदंडाद्धूमकेतुः प्रजानामंतमृतन्मतः ॥१०२॥ऐशान्यां भार्गवसुताः श्वेतरुपास्त्वनिष्टदाः ॥ अनिष्टदः पंगुसुता विशिखाः कमकाह्रयाः ॥१०३॥विकचाख्या गुरुसुता वेष्टा याम्ये स्थिता अपि ॥ सूक्ष्माः शुल्का बुधसुताश्वौररोगभयप्रदाः ॥१०४॥कुजात्मजाः कुंकुमाख्या रक्ताः शूलास्त्वनिष्टदाः ॥ अग्निजा विश्वरुपाख्या अग्निवर्णाः सुखप्रदाः ॥१०५॥अरुणाः श्यामलाकारा अर्कपुत्राश्व पापदाः ॥ शुक्रजा ऋक्षसदृशाः के तवः शुभदायिकाः ॥१०६॥कृत्तिकासु भवो धूमकेतुर्नूनं प्रजाक्षयः ॥ प्रासादवृक्षशैलेषु जातो राज्ञां विनाशकृत ॥१०७॥सुभिक्षकृत्कौमुदाख्यः केतुः कुसुदसन्निभः ॥ आवर्तकेतुसंध्यायां शशिरो नेष्टदायकः ॥१०८॥ब्रह्मदेवमनोर्मान पित्र्यं सौरं च सावनम् ॥ चांद्रमार्क्षं गुरोर्मानमिति माना नि वै नव ॥१०९॥एतेषां नवमानानां व्यवहारोऽत्र पञ्चभिः ॥ तेषां पृथक्पृथक्कार्यं वक्ष्यत व्यवहारतः ॥११०॥ग्रहाणां निखिलश्वारो गृह्यते सौर मानतः ॥ वृष्टेर्विधानं स्त्रीगर्भः सावनेनैव गृह्यते ॥१११॥प्रवर्षणां समे गर्भौ नाक्षत्रेण प्रगृह्यते ॥ यात्रोद्वाहव्रतक्षौरे तिथिवर्षिशनिर्णयः ॥११२॥पर्ववास्तूपवासादि कृत्स्त्रंं चांद्रेण गृह्यते ॥ गृह्यते गुरुमानेन प्रभवाद्यब्दलक्षणम् ॥११३॥तत्तन्मासैर्द्वाभिस्तत्तदष्टौ भवेत्ततः ॥ गुरुमध्यमचारेण षष्टयब्दाः प्रभवादयः ॥११४॥प्रभवो विभवः शुक्लः प्रमोदोऽथ प्रजापतिः ॥ अंगिराः श्रीमुखो भावो युवा धाता तथैव च ॥११५॥ईश्वरो बहुधान्यश्व प्रमाथी विक्रमो वृषः ॥ चित्रभानुस्सुभानुश्व तारणः पार्थिवोऽव्ययः ॥११६॥सर्वजित्सर्वधारी च विरोधे विकृतः खरः ॥ नंदनो विजयश्वैव जयो मन्मथदुर्मुखौ ॥ ११७॥हिमलंबो विलंबश्व विकारी शार्वरी लवः ॥ शुभकृच्छोभनः क्रोधी विश्वावसुपराभवौ ॥११८॥प्लवंगः कीलकः सौम्यः सामाप्तश्व विरोधकृत ॥ परिभावी प्रमादी च आनन्दो राक्षसोऽनलः ॥११९॥पिंगलः कालयुक्तश्च सिद्धार्थो रौद्रदुर्मतीः ॥ दुंदुभी रुधिरोद्धारी रक्ताक्षः क्रोधनः क्षयः ॥१२०॥नामतुल्यफलाः सर्वे विज्ञेयाः षष्टिवत्सराः ॥ युगं स्यात्पंचर्भिर्षैर्युगान्येवं तु द्वादश ॥१२१॥तेषामी शाः क्रमाज्ज्ञेया विष्णुर्देवपुरोहितः ॥पुरंदरो लोहितश्व त्वष्टाहिर्बुघ्न्यसंज्ञकः ॥१२२॥पितरश्व ततो विश्वे शशींद्राग्न्याश्विनो भगः ॥ तथा युगस्य वर्षे शास्त्वग्निनेंदुविधीश्वराः ॥१२३॥अथाद्वेशचमूनाथसस्यपानां बलाबलम् ॥ तत्कालं ग्रहचारं च सम्यग् ज्ञात्वा फलं पदेत् ॥१२४॥सौम्यायंन मासषट्रकं मृगाद्यं भानुभुक्तितः ॥ अहः सुराणां तद्रात्रिः कर्काद्यं दक्षिणायनम् ॥१२५॥गृहप्रवेशवैवाहप्रतिष्ठामौंजिबंधनम् ॥ मघादौ मंगलं कर्म विधेयं चौत्तरायणे ॥१२६॥याम्यायने गर्हितं च कर्म यत्नात्प्रशस्यते ॥ साद्यादि मासौ द्वौ द्वौ च ऋतवः शिशिरादयः ॥१२७॥मृगाच्छिशिं खतंसतश्वं ग्रीष्माः स्युश्वोत्तरायणे ॥ वर्षा शरच्च हेमंतः कर्काद्वै दक्षिणायने ॥१२८॥चांद्रो दर्शावधिः सौरः संक्रांत्या सावनो दिनैः ॥ त्रिंशद्धिश्वंद्रभगणो मासो नाक्षत्रसंज्ञकः ॥१२९॥मधुश्व माधवः शुचिश्वाथ नभस्ततः ॥ नभस्य इष ऊर्जश्व सहाश्वैव सहस्यकः ॥१३०॥तपास्तपस्य क्रमशश्वैत्रादीनां समाह्रयाः ॥ यस्मिन्मासे पौर्णिमासी येन धिष्ण्येन संयुता ॥१३१॥तन्नक्षत्राह्रयो मासः पौर्णमासी तदाह्रया ॥ तत्पक्षौ दैवपित्राख्यौ शुल्ककृष्णौ तथापरे ॥१३२॥शुभाशुभे कर्मणि च प्रशस्तौ भवतः सदा ॥ क्रमात्तिथीनां ब्रह्मग्नी विरिंचिविष्णुशैलजाः ॥१३३॥विनायकयमौ नागचंद्रौ स्कंदोऽर्कवासवौ ॥ महेन्द्रवासवी नागदुर्गादंडधराह्रयः ॥१३४॥शिवविष्णूहरिखीकामः सर्वः कलीततः ॥ चन्द्रविश्वेदर्शसंज्ञातिथीशाः पितरः स्मृताः ॥१३५॥नंदाभद्राजयारिक्ता पूर्णाः स्युस्तिथयः पुनः ॥ त्रिरावृत्त्या क्रमाज्ज्ञेया नेष्टमध्येष्टदाः सिते ॥१३६॥कृष्णपक्षे त्विष्टमध्यानिष्टदाः क्रमशस्तदा ॥ अष्टमी द्वादशी षष्ठी चतुर्थी क्रमत्पंच च सर्वदा ॥१३७॥तिथयः पक्षरध्राख्या ह्रतिरुक्षा प्रकीर्तिताः ॥ समुद्रमनुरंध्रांकतत्त्वसंख्यास्तु नाडिकाः ॥१३८॥त्याज्याः स्युस्तासु तिथिषु क्रमात्पचं च सर्वदा ॥ अमावास्या च नवमी हित्वा विषमसंज्ञिका ॥१३९॥तिथयस्तुप्रशस्तास्युर्मध्यमा प्रतिपत्सिता ॥ षष्ठ्यां तैलं तथाष्टम्यां मासं क्षौरं कलेस्तिथौ ॥१४०॥पूर्णिमादर्शयोर्नारीसेवनं परिवर्जयेत् ॥ दर्शे षष्ठ्यां प्रतिपदि द्वादश्यां प्रतिपर्वसु ॥१४१॥नवम्यां च न कुर्वीत कदाचिद्दंतधावनम् ॥ व्यतीपाते च संक्रांतावेकादश्यां च पर्वसु ॥१४२॥अर्कभौदिने षष्ठ्या नाभ्यंगो वैधृतौ तथा ॥ यः करोति दशम्यां च स्नानमामलकैर्नरः ॥१४३॥पुत्रहानिर्भवेत्तस्य त्रयोदश्यां धनक्षयः ॥ अर्थपुत्रक्षयस्तस्य द्वितीयायां न संशयः ॥१४४॥अमायां च नवम्यां च सप्तम्यां च कुलक्षयः ॥ या पौर्णिमा दिवा चंद्रमती सोनुमती स्मृता ॥१४५॥रात्रौ चन्द्रवती राकाप्यमावास्या तथा द्विधा ॥ सिनीवाली चेंदुमती कुहूर्नैदुमती मता ॥१४६॥कार्तिके शुल्कनवमी त्वादिः कृतयुगस्य च ॥ त्रेतादिर्माधवे शुल्के तृतीया पुण्यसंज्ञिता ॥१४७॥कृष्णां पंचदेशी माघे द्वापरादिमुदीरिता ॥ कल्पादिः स्यात्कृष्णपक्षे नभस्यस्य त्रयोदशी ॥१४८॥द्वादश्यूर्जे शुल्कपक्षे नवम्यच्छेश्वयुज्यपि ॥ चैत्रे भाद्रपदे चैव तृतीया शुल्कसंज्ञिता ॥१४९॥एकादशी सिता पौषे ह्याषाढ्रेर्देशमीसिता ॥ माघे च सप्तमी शुल्का नभस्ये त्वसिताष्टमी ॥१५०॥श्रावणे मास्यमावास्या फाल्गुने मासि पौर्णिमा ॥ आषाढे कार्तिके मासि ज्येष्ठ चैत्रे च पौर्णिमा ॥१५१॥मन्वादया मानवानां श्राद्धेष्वत्यंतपुण्यदा ॥ भाद्रे कृष्णत्रयोदश्यां मघामिंदुः करे रविः ॥१५२॥गजच्छाया तदा ज्ञेया श्राद्धे ह्यात्यंतपुण्यदा ॥ एकस्मिन्वासरे तिस्त्रस्तिथयः स्यात्तिथिक्षयः ॥१५३॥तिथिर्वारत्रये त्वेका ह्याधिंका द्वे च विंदिते ॥ सूर्यास्तमनपर्यंत यस्मिन्वारे तु या तिथिह ॥१५४॥विद्यते सा त्वखंडा स्यान्न्यूना चेत्खंडसंज्ञिता ॥ तिथेः पंचदशो भागः क्रमाप्रतिदादयः ॥१५५॥क्षणसंज्ञास्तदर्द्धानि तासामद्धी प्रमाणतः ॥ रविः स्थिरश्वरश्वंद्रः क्रूरो वक्रोखिलो बुध ॥१५६॥लघुरिज्यो मृदुः शुक्रस्त्रीक्ष्णो दिनकरात्मजः ॥ अभ्यक्तो भानुवारे यः स नरः क्लेशवान्भवेत् ॥१५७॥ऋक्षेशे कांतिभागभौमे व्याधि सौभाग्यमिंदुजे ॥ जीव नैवं सिते हानिर्मन्दे सर्वसमृद्धयः ॥१५८॥लंकोदयात्स्याद्वारादिस्त स्मादूर्ध्वमधोऽपिवा ॥ देशांतरस्वचरार्द्धनाडीभिरपरे भवेत् ॥१५९॥बलप्रदस्य खेटस्य कर्म सिद्ध्यति यत्कृतम् ॥ तत्कर्म बलहीनस्य दुःखेनापि न सिद्धयति ॥१६०॥इंदुज्ञजीवशुक्राणां वासराः सर्वकर्मसु ॥ फलदास्त्वितरे क्रूरे कर्मस्वभिमतप्रदाः ॥१६१॥रक्तवर्णौ रविश्वंद्रो गौरो भौमोस्तु लोहितः ॥ दूर्वावर्णों बुधो जीवः पीतश्वेतस्तु भार्गवः ॥१६२॥कृष्णः सौरिः स्ववारेषु स्वस्ववर्नक्रिया हिताः ॥ आद्रिवाणाश्व यस्यर्कपातालवसुधा धराः ॥१६३॥बाणाग्रिलोचनानिह्यवेदबाहुशिलिमुखाः ॥ त्र्येकाययो नेत्रगोत्ररामाश्वंद्ररसर्तवः ॥१६४॥कुलिकाश्वोपकुलिका वारवेला स्तथा क्रमात् ॥ प्रहरार्द्धप्रमाणास्ते विज्ञेयाः सूर्यवासरात ॥१६५॥यस्मिमन्वारे क्षणो वारदृष्टस्तद्वासराधिपः ॥ आद्यः षष्ठो द्वितीयोऽस्मात्तत्षष्ठस्तुतृ तीयकः ॥१६६॥षष्ठः षष्ठश्वेतरेषां कालहोराधिपाः स्मृताः ॥ सार्द्धनाडीद्वयेनैव दिवा रात्रौ यथाक्रमात् ॥१६७॥वारप्रोक्तं कर्मकार्ये तदूग्रहस्य क्षणेऽपि सन् ॥ नक्षत्रेशाः क्रमाद्दस्त्रयमवह्रिपितामहाः ॥१६८॥चंद्रेशादितिजीवाहिपितरो भगसंज्ञकः ॥ अर्यमार्कत्वष्टुमरुच्छक्राग्निमित्रवासवः ॥१६९॥नैऋत्युककविश्वेजगोविंदसुतोयपाः ॥ अजैकपादहिर्बुघ्न्या पूषा चेति प्रकीर्तिताः ॥१७०॥पूर्वात्रयं मघाह्याग्निविशाखाय ममूलभम् ॥ अधोमुखं तु नवकं भानौ तत्र विधीयते ॥१७१॥बिलप्रवेशगणितभूतसाधनलेखनम् ॥ शिल्पकर्मकलाकूपनिक्षेपोद्धरणादि यत् ॥१७२॥मित्रेन्दुत्वाष्ट्रहस्तेन्द्रादितिभांत्याश्विवायुभम् ॥ तिर्यङ्मुखाख्यं नवकं भानौ तत्र विधीयते ॥१७३॥हलप्रवाहगमनं गंत्रीपत्रगजोष्ट्रकम् ॥ खरगोरथनौयानलुलायहक्यकर्म च ॥१७४॥ब्रह्मविष्णुमहेशार्यशततारावसूत्तराः ॥ ऊर्द्धास्यं नवकं भानां प्रोक्तमत्र विधीयते ॥१७५॥नृपा भिषेकमांगल्यवारणध्वजकर्मच ॥ प्रासादतोरणारामप्राकाराद्यं च सिद्धयति ॥१७६॥स्थिरं रोहिण्युत्तराख्यं क्षिप्रं सूर्याश्विपुष्यभम् ॥ साधारणं द्विदैवत्यं वह्रिभं च प्रकीर्तितम् ॥१७७॥वस्वदित्यंबुपुष्याणि विष्णुभं चरसंज्ञितम् ॥ मृद्विंदुमित्रचित्रांत्यमुग्रं पूर्वामघात्रिकम् ॥१७८॥मूलार्द्राहींद्रभं तीक्ष्णं स्वनमसदृशं फलम् ॥ चित्रादित्यंबुविष्ण्वंबांत्याधिमित्रवसूडुषु ॥१७९॥समृगेज्येषु बालानां कर्णवेधक्रिया हिता ॥ दस्त्रेन्द्व दितितिष्येषु करादत्रितये तथा ॥१८०॥गजमर्कखिलं यत्तद्विधेयं स्थिरभेषु च ॥ वाजिकर्माखिलं कार्यं सूर्यवारे विशेषतः ॥१८१॥चित्रा वरुणवैरिंचत्र्युत्तरासु गमागमम् ॥ दर्शाष्टम्यां चतुर्दश्यां पशूनां न कदाचन ॥१८२॥मृदुध्रुवक्षिप्रचरविशाखापितृभेषु च ॥ हलप्रवाहं प्रथमं विदध्यान्मूलभे घृषैः ॥१८३॥हलादौ वृषनाशाय भत्रयं सूर्यमुक्तभात् ॥ अग्रे वृद्धयै त्रयं लक्ष्मये सौम्यपार्श्वे च पंचकम् ॥१८४॥शूलत्रयेपि नवकं मरणाय च पंचकम् ॥ श्रियै पुष्टयै त्रयं श्रेष्ठं स्याच्चके लांगलाह्रये ॥१८५॥मृदुध्रुवक्षिप्रभेषुं पितृवायुवसूडुषु ॥ समूलभेषु बीजोप्तिरत्युत्कृष्टं फलप्रदा ॥१८६॥भवेद्धत्रितयं मूर्न्धि धान्यनाशाय राहुभात् ॥ गले त्रयं कज्जलाय वृद्धयै च द्वादशोदरे ॥१८७॥निस्तंडुलत्वं लांगूले भचतुष्टभीतिदम् ॥ नाभौ वह्रिः पंचकं यद्वीजोप्ताविति चिंतयेत् ॥१८८॥स्थिरेष्वादितिसार्पांत्यापितृमारुतभेषु च ॥ कुर्याद्रोगमुक्तस्य स्त्रानमाहीं दुशुक्रयोः ॥१८९॥उत्तरायमैत्रेन्द्रवसुवारुणभेषु च ॥ पुष्यार्कपौष्णधिष्ण्येषु नृत्यारंभः प्रशस्यते ॥१९०॥पूर्वार्द्धयुंजि षडानि पौष्णभादुदभात्ततः ॥ मध्ययुंजि द्वादशर्क्षाणीन्द्रभान्नभानि च ॥१९१॥परार्द्धयुंजि क्रमशः संप्रीतिर्दम्पतोर्मिथः ॥ जघन्यास्तोयपार्द्राहिपवनांतनाकपाः ॥१९२॥क्रमादितिद्वि दैवत्या बहुत्ताराः पराः समाः ॥ तासां प्रमाणघटिकास्त्रिंशन्नवतिद्यष्टयः ॥१९३॥क्रमादभ्युदिते चंद्रे नयत्यर्घससमानि च ॥ अश्वग्रींद्वीज्यनैऋत्यत्वाष्ट्राजत्त्युत्तराभवाः ॥१९४॥पितृद्विदैववखाख्यास्ताराः स्युः कुलसंज्ञिकाः ॥ धातृज्येष्ठादितिस्वातीपौष्णार्कहरिदेवताः ॥१९५॥अजाह्यंत्वकभौजंगताराश्वैवाकुलाह्रयाः ॥ शेषाः कुलाकुलास्तारास्तासाम मध्ये कुलोडुषु ॥१९६॥प्रयति यदि भूपालस्तदाप्नोति पराजयम् ॥ भेषूपकुलंसज्ञेषु जयमाप्नोति निश्वितम् ॥१९७॥संधिर्वापि तयोः साम्यं कुलाकुलगणोडुषु॥ अर्कार्किभौमवारे चेद्धद्राया विषमांघ्रिभम् ॥१९८॥त्रिपुष्करं त्रिगुणदं द्विगुणं यमलाहिर्भम् ॥ दद्यात्तद्दोषनाशाय गोत्रयं मूल्यमेव वा ॥१९९॥द्विपुष्करे द्वयं दद्यान्न दोषस्त्वृक्षभोऽपि वा ॥ क्रूरविद्धो युतो वापि पुष्यो यदि बलान्वितः ॥२००॥विना पाणिग्रहं सर्वमंगलेष्विष्टदः सदा ॥ रामग्निऋतुबाणाग्निभूवेदाग्निशरेषु च ॥२०१॥नेत्रबाहुशरेंद्विंदुबाहुवेदाग्निसंकराः ॥ वेदनेत्राब्ध्याग्निशतबाहुनेत्ररदाः क्रमात् ॥२०२॥तारासंख्याश्व विज्ञेया दस्त्रादीनां पृथकू पृथकू ॥ या दृश्यंते दीप्ततारः स्वगने योगतारकाः ॥२०३॥वृषो वृक्षोश्वभायाम्यधिष्ण्येयमकरस्तरुः ॥ उडुंबरश्वाग्निधिष्ण्ये रोहिण्यां जंबुकस्तरुः ॥२०४॥इन्दुभात्खदिरो जातः कृष्णप्लक्षश्व रौद्रभात् ॥ संभूतोऽदितिभाद्वंशः पिप्पलः पुष्यसंभवः ॥२०५॥सर्पधिष्ण्यान्नागवृक्षो वटः पितृभसंभवः ॥ पालाशो भाग्यभाज्जातः अक्षश्वर्यम संभवः ॥२०६॥अरिष्टवृक्षो रविभाच्छ्रीवृक्षस्त्वाष्ट्रसंभवः ॥ स्वात्यूक्षजोऽर्जुनो वृक्षो द्विदैवत्याद्विकंकतः ॥२०७॥मित्रभाद्वकुलो जातो विष्टिःपौरंदरर्क्षजः ॥ सर्ज्जवृक्षो मूलवाच्च वंजूलो वारिधिष्ण्यजः ॥२०८॥पनसो वैश्वभाज्जातश्वार्कवृक्षश्व विष्णुभात् ॥ वसुधिष्ण्याच्छमीवृक्षः कदंबो वारुणर्क्षजः ॥२०९॥अजाहेश्वूवृक्षोभूद्धूध्न्यजः पिचुमन्दकः ॥ मधुवृक्षः पौंष्णधिष्ण्याद्धिष्ण्यवृक्षाः प्रकीर्तिताः ॥२१०॥यस्मि~च्छश्वरो धिष्ण्ये तद्धृक्षोऽर्च्यः प्रयत्नतः॥ योगेशा यमविश्वेंदुधातृजीवनिशाकराः ॥२११॥इंद्रतोयाहिवह्रयर्कभूमिरुद्रकतोयपाः ॥ गणेशरुद्रधनदत्वष्ट्टमित्रषडाननाः ॥२१२॥सावित्री कमला गौरी नासत्यौ पितरोऽदितिः ॥ वैधृतिश्व व्यतीपातो महापातावुभौ सदा ॥२१३॥परिघस्य च पूर्वार्द्धं सर्वकार्येषु गर्हितम् ॥ विष्कंभवज्रयोस्तिस्त्रः षडा गंडातिगंडयोः ॥२१४॥व्यागघाते नव शूले तु पंच नाड्यो हि गर्हिताः ॥ अदितींदुमघाह्यमूलमैत्रैज्यभानि च ॥ २१५॥ज्ञेयानि सहचित्राणि मूर्द्धभानि यथाक्रमम ॥ लिखेदूर्द्धगतामेकां तिर्यग्रेखास्त्रयोदश ॥२१६॥तत्र खार्जूरिके चक्रे कथितं मूर्घ्निं भं न्यसेत् ॥ भाज्यैकरेखागतयोः ॥ सूर्याचंद्रमसोर्मिथः ॥२१७॥एकार्गलो दृष्टिपातश्वभिजिद्वर्जितानि वै ॥ विनाडीभिर्द्वादशभी रहितं घटिकाद्वयम् ॥२१८॥योगं प्रकरणं योगाः क्रमात्तु सप्तविंशतिः ॥ इन्द्रः प्रजापतिर्मित्रस्त्वष्टाभूहारीतिप्रिया ॥२१९॥कीनाशः कलिरुद्रा ख्यो तिथ्यर्द्धेशास्त्वहिर्मरुत् ॥ बवादिवणिजांतानि शुभानि करणानि षट् ॥२२०॥परीता विपरीता वा विष्टिर्नेष्टा तु मंगले ॥ मुखे पंच गले चैका वक्षस्येकादश स्मृतः ॥२२१॥नाभौ चतस्यः षट् कट्यां तिस्त्रः पुच्छाख्यनाडिकाः ॥ कार्यह ॥ निर्मुखे मृत्युत्गले वक्षसि निःस्वता ॥२२२॥कट्यामुन्मत्तता नाभौ च्युतिः पुच्छे ध्रुवं जयः ॥ स्थिराणि मध्यमान्येषां मध्यनागचतुष्पदौ ॥२२३॥दिवामुहूर्ता रुद्राहिमित्रपितृवसूदकम् ॥ विश्वेविधातृब्रह्मेंद्ररुद्राग्निवसुतोयपाः ॥२२४॥अर्यमा भगसंज्ञश्व विज्ञेया दश पंच च ॥ ईशाजपादाहिर्बुघ्न्यपूषाश्वियमवह्रयः ॥२२५॥धातृ इन्द्रादितीज्याख्या विष्ण्वर्कत्वष्टुवायवः ॥ अह्रः पंचदशो भागस्तथा रात्रिप्रमाणतः ॥२२६॥मुहूर्तमानं द्वरावक्षणर्क्षाणि समेश्वरम् ॥ अर्यमा राक्षस ब्राह्यौ पित्र्यान्गेयौ तथाभिजित् ॥२२७॥राक्षसाख्यौ ब्राह्मपित्र्यौ भर्गाजांशाविनादिषु ॥ वारेषु वर्जनीयास्ते मुहूर्ताः शुभकर्मसु ॥२२८॥येषुऋक्षेषु यत्कर्म कथितं निखिलं च तत् ॥ तद्दैवत्ये मुहूर्तेऽपि कार्यं यात्रादिकं सदा ॥२२९॥भूकंपः सूर्यभात्सप्तमर्क्षे विद्युच्च पंचमे ॥ शूलोऽष्टमे च दशमे शनिरष्टादशे ततः ॥२३०॥केतुः पंचदशे दंड उल्का एको नविंशतौ ॥ निर्घातपातसंज्ञश्व ज्ञेयः स नवपंचमे ॥२३१॥मोहनिर्घातकं पाश्व कुलिशं परिवेषणम् ॥ विज्ञेया एकविंशार्क्षादारभ्य च यथाक्रमम् ॥२३२॥चन्द्रयुक्तेषु भेष्वेषु शुभकर्म न कारयेत् ॥ सूर्यभात्सर्वपित्र्यर्क्षं त्वाष्ट्रमित्रप्तभेषु च ॥२३३॥सविष्णुभेषु क्रमशो हस्तभाच्चंद्रसंयुतः ॥ धिष्ण्ये तावति सत्यत्र दुष्टयोगः पतत्यसौ ॥२३४॥चंडीशचंडायुधाख्यस्त स्मिन्नैवाचरेच्छुभम् ॥ त्रयोदश स्युर्मिलनसंख्यता तिथिवारयोः ॥२३५॥क्रकचो नाम योगिऽयं मंगलेष्वतिगर्हितः ॥ सप्तम्यामर्कवरश्वेत्प्रतिपत्सौंम्यसरे ॥२३६॥संवतयोगो विज्ञेयः शुभकर्मविनाशकृत् ॥ आनन्दः कालदंडाख्यो धूम्रधातृसुधाकराः ॥२३७॥ध्वांक्षध्वजाख्यश्रीवत्स वज्रमुद्ररछत्रकाः ॥ मित्रमानसपद्माख्यलिम्बकोत्पातमृत्यवः ॥२३८॥कानासिद्धिशुभा मृत्युमुशलांतककुंजराः ॥ राक्षसाख्यवरस्थैर्यवर्द्धमानाः क्रमादमी ॥२३९॥योगाः स्वरसंज्ञाफलदा अष्टाविंशतिरीरिताः ॥ रविवारे क्रमादेव दस्त्रभादिंदुभाद्विधौ ॥२४०॥सापाद्ध्ॐए बुधे हस्तान्मैत्रभात्सुर मंत्रिणि ॥ वैश्वदेवाद्धृगुसुते वारुणाद्धास्करात्मजे ॥२४१॥हस्तर्क्षं च खाविंदौ चंद्रभं कुजे ॥ सौम्ये मित्रभमाचार्यं तिष्यः पौष्णं भृगोःसुते ॥२४२॥रोहिणी मंदवारे च सिद्धियोगाह्रया अमी ॥ अदित्यभौमयोर्नंदा भद्रा शुक्रशशांकयोः ॥२४३॥जया सौम्ये गुरौ रिक्ता शनौ पूर्णोति नो शुभाः ॥ नन्दा तिथिः शुक्रवारे सौम्ये भद्रा कुजे जया ॥२४४॥रिक्ता मंदे गुरोर्वारे पूर्णा सिद्धाह्रया अमी ॥ एकादश्यामिंदुवारो द्वादश्यामर्कवासरः ॥२४५॥षष्ठो गुरौ तृतीयो ज्ञेऽष्टमी शुक्रे शनैश्वरे ॥ नवमी पञ्चमी भौमे दग्धयोगाः प्रकीर्तिताः ॥२४६॥भरण्यर्कदिने चंद्रे चित्राभौमेतु विश्वभम् ॥ बुधे श्रविष्ठार्यभभे गुरौ ज्येष्ठा भृगोर्दिने ॥२४७॥रेवती मंदवारे तु ग्रहजन्मर्क्षनाशनम् ॥ विशाखादिचतुर्वर्गमर्कवारादिषुक्रमात् ॥२४८॥उत्पातमृत्युकाणाख्यासिद्धियोगाः प्रकीर्तिताः ॥ तिथिवारोद्धवा नेष्टा योगा वारर्क्षसंभवा ॥२४९॥हूणवंगखसेष्वन्यदेशेष्वतिशुभप्रदाः ॥ घोराष्टाक्षीमहोदर्यो मन्दा मंदाकिनी तथा ॥२५०॥मिश्रा राक्षसिका सूर्यवारादिषु यथाक्रमम् ॥ शूद्रतस्करवैश्यक्ष्मादेवभूपगवां क्रमात् ॥२५१॥अनुक्तानां च सर्वेषां घोराद्याः सुखदाः स्मृताः ॥ पूर्वाह्रे नृपतीन्हन्ति विप्रान्मध्यंदिने विशः ॥२५२॥अप्राह्रेऽस्तगे शूद्रान्प्रदोषे च पिशाचकान् ॥ निशि रात्रिचरान्नाटयकरानपररात्रिके ॥२५३॥गोपानुषसि संध्यायां लिंगिनो रविसंक्रमः ॥ दिवा चेन्मेषसंक्रांतिरनर्थकलहप्रदा ॥२५४॥रात्रौ सुभिक्षमतुलं संध्ययोर्वृष्टिनाशनम् ॥ हरिशार्दूलवाराहरवरकुंजजरमाहिषाः ॥ अश्वश्वाजवृषाः पादायुग्धाः करणवाहनाः ॥२५५॥भुशुंडी च गदा खडौ दंड इष्वासतोमरौ ॥२५६॥कुन्तपाशांकुशास्त्रेषून्बिभर्तिं करयोस्त्विनः ॥ अन्नं च पायसं भक्ष्यैं सयूषं च पयो दधि ॥२५७॥मिष्टान्नं गुडम ध्याज्यशर्करा ववतो हविः ॥ ववोवीवणिजेविश्वां बालवे गोचरस्थितौ ॥२५८॥कौलवे शकुनौ भानुः किंस्तुघ्ने चोर्द्धसंस्थितः ॥ चतुःपादे तिले नागे सुप्तः क्रांतिं करोति हि ॥२५९॥धर्मायुर्वृष्टिषु समं श्रेष्ठ नष्टं फलं क्रमात् ॥ आयुधं वाहनाहारौ यज्जातीयं जनस्य च ॥२६०॥स्वापेपविष्टास्तिष्ठंस्ते लोकाः क्षेममाप्नुयुः ॥ अंधकं मंदसंज्ञं च मध्यसंज्ञं च सुलोचनम् ॥२६१॥पपीयाद्धणयेद्धानि रोहिण्यादिचतुर्विधम् ॥ स्थिरभेष्वर्कसंक्रांतिज्ञेंया विष्णुपदाह्रया ॥२६२॥षडशीतिमुखा ज्ञेया द्विस्वभावेषु राशिषु ॥ तुलाघटाजयोर्ज्ञेयो विषुवत्सूर्यसंक्रमः ॥२६३॥याम्यांसयने त्वाद्याः सौम्येन्दुमूर्तिभैः ॥ मेध्या विषुवति प्रोक्ताः पुण्यनाड्यस्तु षोडश ॥२६४॥संध्या त्रिनाडी प्रमितार्कबिंबोर्द्धोदयास्ततः ॥ प्राक्पश्वाद्याम्यसौम्ये चेत्पुण्यं पूर्वापरेहनि ॥२६५॥यादृशेनेंदुना भानोः संक्रातिस्तादृशं फलम् ॥ नरः प्राप्नोति तद्राशो शीतांशोः साध्वसाधु च ॥२६६॥संक्रांतेः परतो भानुर्भुक्त्वा भावद्धिरंशकैः ॥ खेरयनसंक्रातिस्तदा तद्राशिसंक्रमात् ॥२६७॥संक्रांतिग्रहगर्क्षंवा जन्मन्युभयपार्श्वयोः ॥ व्रतोद्वाहादिकेष्वेव द्वयं नेष्टं तु तत्क्रमात् ॥२६८॥तिलोपरिलिखेच्चक्रं त्रित्रिशूलं त्रिकोणकम् ॥ तत्र हेम विनिक्षिप्य दद्याद्दोषापवृत्तये ॥२६९॥ताराबलेन शीतांशुर्भलवांस्तद्वशाद्रविः ॥ बली संक्रममाणस्तु तद्वत्खेटा बलाधिकाः ॥२७०॥शुभोऽर्को जन्मतस्त्र्यायदशषट्सु मुनीश्वर ॥ नवपञ्चांबुरिष्फस्थैर्व्यर्किभिर्विध्यते च चेत् ॥२७१॥शुभो जन्मर्क्षतश्वंदो द्यूनांगायारिस्वत्रिषु ॥ यथेष्टांत्यांबुधर्मस्थैविबुद्धैर्विध्यते न चेत् ॥२७२॥त्र्यायारिषु कुजः श्रेष्ठो जन्मना चेन्न विध्यते ॥ व्ययेष्वंकस्थितैः सौरिसौम्यसूर्यैः शुभौषधात् ॥२७३॥ज्ञः स्वायार्यष्टखायेषु जन्मतश्वेन्न विध्यते ॥ धीत्र्यकादिगजांतस्थैः शशांकरहितैः शुभैः ॥२७४॥जन्मराशेर्गुरुः श्रेष्ठः स्वायर्योऽध्यस्तगो न चत् ॥ विध्यतेंत्याष्टखांबुत्रिगतैः खैटर्मुनीश्वर ॥२७५॥जन्मभादासुताष्टांकांत्यायेष्विष्टो भृगोः सुतः ॥ चेन्न विद्धोऽष्टसप्तांगम् खांकाद्यायारिरामगैः ॥२७६॥न ददाति शुभं किंचिद्द्धोचरे वेधसंयुते ॥ तस्माद्वेधं विचार्थाथ कथनीयं शुभाशुभम् ॥२७७॥वामभेदविधानेन दुष्टोऽपि स्याच्छुभङकरः ॥ सौम्येक्षितोऽनिष्टफलः शुभदः पापवीक्षितः ॥२७८॥निष्फलौ तौ ग्रहौ खेन शत्रुणा च विलोकितौ ॥ नीचराशिगतः स्वस्य शत्रोः क्षेत्रगतोऽपि वा ॥२७९॥शुभाशुभफलं नैव दद्यादस्तमितोपि वा ॥ ग्रहेषु विषमस्थेषु शांतिं कुर्यात्प्रयत्नतः ॥२८०॥हानिर्वृद्धिर्ग्रहाधीना तस्मात्पूज्यतमा ग्रहाः ॥ मणिर्मुक्ताफलं विद्रुमाख्यं मरक तं तथा ॥२८१॥पुष्परांग तथा वज्रं नीलं गोमेदसंज्ञितम् दूर्य्यं भास्करादीनां तुष्ट्य धार्यं यथाक्रमम ॥२८२॥शुक्लपक्षादि दिवसे चंद्रोयस्य शुभप्रदः ॥ स पक्षस्तस्य शुभदः कृष्णपक्षोन्यथाऽशुभः ॥२८३॥शुल्कपक्षे शुभश्वंद्रो द्वितीयनवपंचमे ॥ रिःफरंध्रांबुसंस्थैश्वैन्न विद्धो गगने चरैः ॥२८४॥जन्म संपद्विपत् क्षेम प्रत्यरिः साधको वधः ॥ मित्रं परममित्रं च जन्मभात्तु पुनः पुन ॥२८५॥जन्मत्रिपंचसप्ताख्यास्तारा नेष्ट फलप्रदाः ॥ शाकं गुडं च लवणं सतिलं कांचनं क्रमात् ॥२८६॥अनिष्टफलनाशाय दद्यादेतद्दिजातये ॥ कृष्णे बलवती तारा शुक्लपक्षे बली शशी ॥ चंद्रस्य द्वादशावस्था राशौराशौ यथाक्रमम्॥२८७॥यात्रोद्वाहादिकार्येषु नामतुल्यफलप्रदाः ॥ षष्टिघ्नं गतचन्द्रर्क्षं तत्कालघटिकान्वितम् ॥ वेदघ्नमिषुवेदांत्यमवस्था भानुभागतः ॥२८८॥प्रवासनष्टाख्यमृता जयो हास्यं रतिमुदा ॥ शनिभुक्तिर्ज्वरः कंपः सुस्थितिर्नामसन्निभाः ॥२८९॥पट्टबंधनयानोग्रसंधिविग्रहभूषणम् ॥ धात्वाकरं युद्धकर्म मेषलग्ने प्रसिद्धयति ॥२९०॥मगलानि स्थिराण्यंविवेश्मकर्मप्रवर्तनम् ॥ कृषिवाणिज्यपश्वादिदुष्टलग्ने प्रसिद्धयति ॥२९१॥कलाविज्ञानशिल्पानि भूषणाहवसंश्रवनम् ॥ गजोद्वाहाभिषेकाद्यं कर्त्तव्यं मिथुनोदये ॥२९२॥वापीकूपतडागादि वारिबंधनमोक्षणम् ॥ पौष्टिकं लिपिलेखादि कर्तव्यं कर्कटोदये ॥२९३॥इक्षुधान्यवणिक्पण्यकृषिसेवादयास्स्थिरे ॥ साहसाहवभूपाद्यं सिंहलग्ने प्रसिद्धयति ॥२९४॥विद्याशिल्पौषधं कृत्यं भूषणं च चरस्थिरम् ॥ कन्या लग्ने विधेयं च पौष्टिकाखिलमंगलम् ॥२९५॥कृषिवाजिज्ययानं च पशूद्वाहव्रतादिकम् ॥ तुलायामखिलं कर्म तुलाभारश्रिते च यत् ॥२९६॥स्थिरविमिश्रं च कार्यं राजसेवाभिषेचनम् ॥ चोर्यकर्मस्थिरारंभाः कर्तव्या वृश्चिकोदये ॥२९७॥व्रतोद्वाहप्रयाणाश्वगजशिल्पकलादिकम् ॥ चर स्थिरविमिश्रं च कर्तव्यं कार्मुकोदये ॥२९८॥चापबंधनमोक्षास्त्रकृषिगोश्वादिकम् यत् ॥ प्रस्थानं पशुदासादि कर्तव्यं मकरोदये ॥२९९॥कृषिवाणिज्यपश्वबुशिल्पकर्मकलादिकम् ॥ जलपात्रास्त्रशस्त्राद कर्तव्य कलशोदये ॥३००॥व्रतोद्वाहाभिषेकांबुस्थापनं सन्निवेशनम् ॥ भूषणं जलपात्राश्वकर्म मीनोदये शुभम् ॥३०१॥मेषादिषु विलग्रेषु शुद्धेष्वेवं प्रसिद्धयति ॥ क्रूरग्रहेक्षितेषूग्रसंयुतेषूग्रमेव हि ॥३०२॥गोयुग्मकर्कक न्यांत्यतुलाचापधराः शुभाः ॥ शुभर्क्षत्वाशुभासत्य इतरा पापराशयः ॥३०३॥ग्रहयोगावलोकाभ्यां राशिर्धत्ते ग्रहोद्धवम् ॥ फलं ताभ्यां विहोनीऽसौ स्वभावमुपसर्पति ॥३०४॥आदौ संपूर्णफलदं मध्ये मध्यफलप्रदम् ॥ अंते तुच्छफले लग्ने सर्वस्मिन्नेवमने हि ॥३०५॥सर्वत्र प्रथमं लग्नं कर्तुश्वंद्रबलं ततः ॥ कल्प्यामदिंदौ बलिनि सप्तमे बलिनो ग्रहाः ॥३०६॥चंद्रस्य वलिमाधारमाधेय चान्यखेटकम् ॥ आधारभूतेनाधेयं धीयते परिधिष्टिनम् ॥३०७॥चेंदिंदुः शुभदः सर्वे ग्रहाः शुभफलप्रदाः ॥ अशुभश्वेदशुभदा वर्जयित्वा धनाधिपम् ॥३०८॥लग्नस्याभ्युदिता येंशास्तेष्वंशेषु स्थितो ग्रहः ॥ लग्नेद्धवं फलं धनातीतो द्वितीयकम् ॥३०९॥एवं स्थानेषु शेषेषु चैवमेवं प्रकल्प येत् ॥ लग्नं सर्वगुणापेतं लभ्यतेऽल्पैर्दिनैर्नि ॥३१०॥दोषाल्पत्वं गुणाधिक्यं बहु संततमिष्यते ॥ दोषाद्दुष्टो हि कालस्तमपि मार्ष्टुं पितामहः ॥३११॥अप्यशौचगुणाधिक्यं दोषान्यत्ते ततो हि ते ॥ अमारिक्ताष्टमीष्ठीद्वादशीप्रतिपत्स्वपि ॥३१२॥परिघस्य च पूर्वाद्ध व्यतीपाते सविधृतौं ॥ संध्यासूपल्पवे विष्टयामशुभं प्रथमार्त्तवम् ॥३१३॥रुग्णा पतिप्रिया दुःखी पुत्रिणी भोगनी तथा ॥ पतिव्रता केशयुक्ता सूर्यवारादिषु क्रमात् ॥३१४॥यामाग्निरौद्रभाग्याहिद्वीशेंद्राह्युपद्विषाः ॥ तारका न हिता मासा मधूर्जशुचिपौषकाः ॥३१५॥भद्रा च संक्रमो निद्रा रात्रिश्वंद्रार्कयोर्ग्रहः ॥ कुलटा पापभोगेषु निंद्यत रे ॥३१६॥तिलाज्यदूर्वा जुगुयाद्वायत्र्याष्टशतं बुधः ॥ सुवर्णगोतिलान्दद्यात्सर्वदोषानुत्तये ॥३१७॥ आद्या निशश्वतस्त्रस्तु त्याज्या ह्यापि परैः ॥ ओजराश्यंशगे चंद्रे लग्ने पुंग्रहवीक्षिते ॥३१८॥उपवीती युग्मतिथावनग्नः कामयेत्स्त्रियम् ॥ पुत्रार्थी पुरुषस्त्यक्ता पौष्णमूलहिपित्र्यभम् ॥३१९॥प्रसिद्धे प्रथमे गर्भे तृतीये वा द्वितीयके ॥ मासे पुंसवनं कार्यं सीमंतं च यथा तथा ॥३२०॥चतुर्थे मासिषष्ठे वाप्यष्टमे वा तदीश्वरे ॥ बलोपपन्ने दंपत्योश्वंद्रताराबलान्विते ॥३२१॥अरिक्तापर्वदिवसे कुजजीवार्कवासरे ॥ तीक्ष्णमिश्रार्कवर्ज्येषु पुंभांशे रात्रिनायके ॥३२२॥शुद्धेऽष्टमे जन्मलग्नात्तयोर्लग्ने न नैधने ॥ शुभग्रहयुते दृष्टे पापदृष्टिविवर्जिते ॥३२३॥शुभग्रहेषु धीधर्मकेंद्रेष्वरिभवे त्रिषु ॥ पापेषु सत्सु चंद्रेत्यनिधनाद्यरिवर्जिते ॥३२४॥क्रूरग्रहाणामेकोपि लग्नादंत्यात्मजाष्टगः ॥ सीमंतिनीं वा तद्धर्भं बली हंति न संशयः ॥३२५॥तस्मिञ्जन्ममुहूर्तेऽपि सूतकांतेपि वा शिशोः ॥ जातकर्म प्रकर्तव्यं पितृपूजनपूर्वकम् ॥३२६॥सूतकांते नामकर्मं विधेयं तत्कुलोचितम् ॥ नामपूर्वं प्रशस्तं स्यान्मंगलैः ॥३२७॥देशकालोपघाताद्यैः कालातिक्रमणं यदा ॥ अनस्तगे भृगावीज्ये तत्कार्ये चोत्तरायणे ॥३२८॥चर स्थिरमृदुक्षिप्रनक्षत्रे शुभावासरे ॥ चन्द्रताराबलोपेते दिवसे च शिशोः पितुः ॥३२९॥शुभलग्ने शुभांशे च निधने शुद्धिसंयुते ॥ षष्ठे मास्यष्टमे वापि पुंसां स्त्रीणां तु पञ्चमे ॥३३०॥सप्तमे मासि वा कार्यं नवान्नप्राशनं शुभम् ॥ रिक्तां दिनक्षयं नन्दां द्वादशीमष्टमीमथ ॥३३१॥त्यक्तान्यतिथिषु प्रोक्तं प्राशनं शुभवासरे ॥ चरस्थिरमृदुक्षिप्रनक्षत्रे शुभनैधने ॥३३२॥दशमे शुद्धिसंयुक्ते शुभलग्ने शुभांशके ॥ पूर्वार्द्धे सौम्यखेटेन संयुक्तेवीक्षितेपि वा ॥३३३॥त्रिषष्ठलाभगैः क्रूरैः केंद्रधीधर्मगैः शुभैः ॥ व्ययारिधिनधनस्थे च चन्द्रेऽन्नप्राशनं शुभम् ॥३३४॥तृतीये पञ्चमे चाब्दे स्वकुलाचारतोऽपिवा ॥ बालानां जन्मतश्वौलं स्वगृह्योक्तविधानतः ॥३३५॥सौम्यायने नास्तगयोः सुरारिसुरमन्त्रिणाः ॥ अपर्वरिक्तातिथिषु शुक्रेज्यज्ञेंदुवासरे ॥३३६॥दस्त्रादितीज्यचंद्रेन्द्रपूषभानि शुभानि च ॥ चौलकर्मणि हस्तर्क्षात्रीणित्रीणि च विष्णुबहत् ॥३३७॥पट्टबंधनचौलान्नप्राशने चोपनायने ॥ शुभदं जन्मक्षत्रमशुभं त्वन्यकर्मणि ॥३३८॥अष्टमे शुद्धिसंयुक्तें शुभलग्ने शुभांशके ॥ जन्माष्टमे न शीतांशौ षष्ठाष्टांत्यविवर्जिते ॥३३९॥धनत्रिकोणकेंद्रस्थैः शुभैस्त्र्यायारिगैः परैः ॥ अभ्यक्ते सन्ध्ययोर्नारे निशि भुक्ता न वाहवे ॥३४०॥नोत्कटे भूषिते नैव याने न नवमेऽह्रिच ॥ क्षौरकर्म महीपानां पञ्चमेपंचमेऽहनि ॥३४१॥कर्तव्यं क्षोरनक्षत्रेऽप्यथ वास्योदये शुभम् ॥ नृपविप्राज्ञया यज्ञे मरणे बन्धमोक्षणें ॥३४२॥उद्वाहेऽखिलवारर्क्षतिथिषु क्षौरमिष्टदम् ॥ कर्तव्यं मङुलेष्वादौ मङुलाय क्षुरार्पणम् ॥३४३॥नवमे सप्तमे वापि पञ्चमे दिवसेऽपि वा ॥ तृतीय बीजनक्षत्रे शुभवारे शुभोदये ॥३४४॥सम्यग्गृहाण्यलंकृत्य वितानध्वजतोरणैः ॥ आशिषो वाचनं कार्यं पुण्यं पुण्यांगनादिभिः ॥३४५॥सहवादित्रनृ त्याद्येर्गत्वा प्रागुत्तरां दिशम् ॥ तत्र मृदततस्तीक्ष्णा गृहीत्वा पुनरागतः ॥३४६॥मृण्मयेऽप्यथंवा वैणवेऽपि पात्रे प्रपूरयेत् ॥ अनेकबीजसंयुक्त तोयं पुष्पभिशोतिमत् ॥३४७॥आधानादष्टमे वर्षे जन्मतो वाग्रजन्मनाम् ॥ राज्ञा मेकादशे मौंजीबंधनं द्वादशे विशाम् ॥३४८॥जन्मतः वर्षे वेद्शास्त्रविशारदः ॥ उपवीती यतः श्रीमान्कार्यं तत्रोपनायनम् ॥३४९॥बालस्य बलहीनोऽपि सितो जीवः शुभप्रदः ॥ यथोक्तवत्सरे कार्यमनुक्ते नोपनायनम् ॥३५०॥दृश्यमानगुरौ शुक्रे शाखेशे चोत्तरायणे ॥ वेदा नामधिपा जीवशुक्रभौमबुधाः क्रमात् ॥३५१॥शरद्ग्रीष्मवसंतेषु व्यत्क्रमात्तु द्विजन्मनाम् ॥ मुख्यं साधारणं तेषां तपोमासादिपंचसु ॥३५२॥स्वकुलाचारधर्मज्ञो माघमासे तु फाल्गुने ॥ विधिज्ञश्वार्थवांश्वैत्रे वेदवेदांपारगः ॥३५३॥वैशाषे धनवान्वेदशास्त्रविद्याविशारदः ॥ उपनीतो बलाढ्यश्व ज्येष्ठे विधिविदां वरः ॥३५४॥शुल्कपक्षे द्वितीया च तृतीया पंचमी तथा ॥ त्रयोदशी च दशमी सप्तमी व्रतबंधने ॥३५५॥श्रेष्ठा त्वेकादशी षष्ठी द्वादश्यन्यास्तु मध्यमाः ॥ कृष्णे द्वित्रेषुसंख्याश्व तिथ्योऽन्या ह्यतिनिंदिताः ॥३५६॥धिष्णान्यर्कत्रयांतेज्यरुद्रादित्युत्त राणि च ॥ विष्णुत्रयाश्विमित्राब्जयोनिभान्युपनायने ॥३५७॥जन्मभाद्दशमं कर्म संघातर्क्षं तु षोडशम् ॥ अष्टादशं समुदयं त्रयोविशं वि नाशनम् ॥३५८॥मानसं पंचविंशर्क्षं नाचरेच्छुभमेषु तु ॥ आचार्यसौम्यकाव्यानां वाराः शस्ताः शशीनयोः ॥३५९॥वारौ तु मध्यमौ चैव व्रतेऽन्यौ निंदितौ मतौ ॥ त्रिधा विभज्य दिवसं तत्रादौ कर्म दैविकम् ॥३६०॥द्वितीये मानुषं कार्यं तृतीयेषें च पैतृकम् ॥ स्वनीचिगे तदंशे वा स्वारिभे वा तदंशके ॥३६१॥गुरुशिखिनोश्व शाखेशे कलाशीलविवर्जितः ॥ स्वाधिशस्त्रगृहस्थे वा तदंशस्थेऽथ वा व्रती ॥३६२॥शाखेशे वा गुरौ शुक्रे महापातककृद्धवेत् ॥ स्वोच्चसंस्थे तदंशे वा स्वराशो गणे ॥३६३॥शाखेशे वा गुरौ शुक्रे केंद्रगे वा त्रिकोणगे ॥ अतीव धनवांश्वैव वेदवेदांगपारतः ॥३६४॥परमोच्चगते जीवे शाखेशे वाथ वा सिते ॥ व्रती विशुद्धे निधने वेदशास्त्रविशारदः ॥३६५॥स्वाधिमित्रगृहस्थे वा तस्योच्चस्थे तदंशगे ॥ गुरौ भृगौ वा शाखेशे विद्याधनसमन्वितः ॥३६६॥शाखाधिपतिवारश्व शाखाधिपबलं शिशोः ॥ शाखाधिपतिलग्नं च दुर्लभं त्रितयंव्रते ॥३६७॥तस्माद्वेद्वांशगे चंद्रे व्रती विद्याविशारदः ॥ पापांशगे स्वांशगे वा दरिद्रो नित्यदुःखितः ॥३६८॥श्रवणादिनि नक्षत्रे कर्कांशस्थे निशाकरे ॥ तदा व्रती वेदशास्त्रधनधान्यसमृद्धिमान् ॥३६९॥शुभलग्ने शुभांशे च नैधने शुद्धिसंयुते ॥ लग्ने तु निधने सौम्यैः संयुते वा निरीक्षिते ॥३७०॥इष्टैर्जीवार्कचंद्राद्यैः पंचभिर्बलिभिर्ग्रहै ॥ स्थानादिबलसंपूर्णैश्वतुर्भिर्वा शुभान्वितैः ॥३७१॥ईक्षन्नैत्रकविंशमहादोषविवर्जिते ॥ राशयः सकलाः श्रेष्ठाः शुभग्रहयुतेक्षिताः ॥३७२॥शुभनवांशकगता ग्राह्यास्ते शुभराशयः ॥ न कदाचित्कर्कटांशशुभेक्षितयुतोऽपि वा ॥३७३॥तस्माद्वोमिथुनांशाश्व तुलाकन्यांशकाः शुभाः ॥ एवंविधे लग्नगते नवांशे व्रतमीरितम् ॥३७४॥त्रिषडायगतैः पापैः षडष्टांत्यविवर्जितैः ॥ शुभैः षष्ठाष्टलग्नांत्यवर्जितेन हिमांशुना ॥३७५॥खोच्चसंस्थोऽपि शीतांशुर्व्रतिनो यदि लग्नगः ॥ न करोति शिशुं निःस्वं सर्वतः क्षयरोगिणम् ॥३७६॥स्फूर्जिते केद्रंगे भानौ व्रतिना पितृनाशनम् ॥ पंचदोषोनितं लग्नं शुभदं चोपनायने ॥३७७॥विना वसंतऋतुना कृष्णपक्षे गलग्रहे ॥ अनध्याये विष्टिषष्ठयोर्न तु सस्कारमर्हति ॥३७८॥त्रयोदश्यादिचत्वारि सप्तम्यदिदिनत्रयम् ॥ चतुर्थी वा शुभाः प्रोक्ता अष्टावेते गलग्रहाः ॥३७९॥क्षुरि काबंधनं वक्ष्ये नृपाणां प्राक्करग्रहात् ॥ विवाहोक्तेषु मासेषु शुल्कपक्षेऽनस्तगे ॥३८०॥जीवे शुक्रे च भूपुत्रे चंद्रताराबलान्विते ॥ मौंजीबंधोक्ततिथिषु कुजवर्जितवासरे ॥३८१॥नचेन्नवांशके कर्तुरष्टमोदयवर्जिते ॥ शुद्धेऽष्टमे विधौं षष्ठाष्टांत्यविवर्जिते ॥३८२॥धनत्रिकोणकेंद्रस्थैः शुभैस्त्र्यायारिगैः परैः ॥ क्षुरिकाबंधनं कार्यर्चयित्वामरान्पितृन् ॥३८३॥अर्चयेत्क्षिरिकां सम्यग्देवतानां च सन्निधौ ॥ ततः सुलग्ने बन्धीयात्कट्यां लक्षणसंयुताम् ॥३८४॥आयामार्द्धग्रविस्तारप्रमाणनैवच्छेदयत् ॥ तच्छेदखंडान्यायाः स्युर्ध्वजाये रिपुनाशनम् ॥३८५॥धूम्राये मरणं सिंहे जयः शुनि च रोगिता ॥ धनलाभो वृषेऽत्यंतं दुःखी भवति गर्दभे ॥३८६॥गजायेऽत्यंतसंप्रीतिर्ध्वांक्षे वित्तविनाशनम् ॥खङुपुत्रिकयोर्मानं गणयेत्खांगुलेन तु ॥३८७॥मानांगुलेषु पर्यायामेकादशमितां त्यजेत् ॥ शेषाणामगुलीनां च फलानि स्युर्यथाक्रमम् ॥३८८॥पुत्रलाभः शत्रुवधः स्त्रीलाभो गमन शुभम् ॥ अर्थहानिश्वार्थवृद्धिः प्रीति सिद्धिजयः स्तुतिः ॥३८९॥स्थितो ध्वजे वृषाये वा नष्टाचेत्पूर्वतो व्रणम् ॥ सिंहे गजे मध्यभागे त्वंतभागे श्वकाकयोः ॥३९०॥धृम्रगर्द्दभयोर्नैव व्रणं श्रयोंत्यभागगम् ॥ अथोत्तरायणे शुक्रजीवयोर्दृश्यमानयोः ॥३९१॥द्विजातीनां गुरोर्गेहान्निवृत्तानां यतात्मनाम् ॥ चित्रोत्तरादितीज्यांत्यहरिमित्रविधातृषु ॥३९२॥भेष्वर्केंदुज्ञेज्यशुक्रवारलग्नांशकेषु च ॥ प्रतिपत्पर्वरिक्ता मा चाष्टमी च दिनत्रयम् ॥३९३॥हित्वान्यदिवसे कार्यं समावर्तंनमुंडनम् ॥ सर्वाश्रमाणां विप्रेंद्र ह्युत्तमोऽयं गृहाश्रमः ॥३९४॥सुखं तत्रापि भा मिन्यां शीलवत्यां स्थितं ततः ॥ तस्याः सच्छीलर्ला धस्तु सुलग्नवशतः खलु ॥३९५॥पितामहोक्तं संवीक्ष्य लग्नशुद्धिं प्रवच्यहम् ॥ पुण्येऽह्रि लक्षणोपेतं सुखासीनं सुचेतसम् ॥३९६॥प्रणम्य देववत्पृछेद्दैवज्ञं भक्तिपूर्वकम् ॥ तांबूलफलपुष्पाद्यैः पूर्णांजलिरुपागतः ॥३९७॥ग्रगः क्रूरस्तस्मात्सप्तमगः कुजः ॥ दंपत्योर्मरणं वाच्य वर्षाणामष्टकात्पुरा ॥३९८॥यदि लग्नगतश्वंद्रस्तस्मात्सत्पमगः कुजः ॥ विज्ञेयं भर्तृभरणमष्टवर्षांतरे बुधैः ॥३९९॥लग्नात्पंचमगः पापः शत्रुद्दष्टश्व नीचगः ॥ मृतपुत्रार्थं वा कन्या कुलटा वा न संशयः ॥४००॥तृतीयपंचसप्तायकर्मगो वा निशाकरः ॥ लग्नत्करोति संबंधं दंपत्योर्गुरुवीक्षितः ॥४०१॥तुलागोकर्कटा लग्नसंस्थाः शुक्रेंदुसंयुताः ॥ वीक्षिताःपृच्छतां नृणां कन्यलाभो भवेत्तदा ॥४०२॥स्त्रीद्रेष्काणः स्त्रीनवांशे युग्मलग्नं समागतम् ॥ वीक्षितं चंद्रशुक्राभ्यां कन्यालाभो भवेत्तदा ॥४०३॥एवं स्त्रीणां भर्तृलब्धिः पुंलग्ने पुंनवांशके ॥ पृच्छकस्य भवेल्लग्नं पुंग्रहैरवलोकितम् ॥४०४॥कृष्णपक्षे प्रश्वलग्राद्यस्य राशौ शशी यदा ॥ पापदृष्टोऽथ वा रंध्रे न संबंधो भवेत्तदा ॥४०५॥पुण्यैर्निमित्तशकुनैः प्रश्नकाले तु मंगलम् ॥ दंपत्योरशुभैरतैरशुभं सर्वतो भवेत् ॥४०६॥पंचांगशुद्धिदिवसे चंद्रताराबलान्विते ॥ विवाहभस्योदये वा कन्यावरणमन्वयैः ॥४०७॥भूषणैः पुष्पतांबूलफलैर्गंधाक्षतादिभिः ॥ शुल्कांबरैर्गीतवाद्यैविघ्नाशीर्वचनैःसह ॥४०८॥कारयेत्कन्यकागेहे वरः प्रणवपूर्वकम् ॥ तदा कुर्यात्पिता तस्याः प्रदानं प्रीतिपूर्वकम् ॥४०९॥कुलशीलवयोरुपवित्त विद्यायुताय च ॥ वराय च रुपवतीं कन्यां दद्याद्यवीससीम् ॥४१०॥संपूज्य प्रार्थयित्वा च शचीं देवीं गुणाश्रयाम् ॥ त्रैलोक्यसुन्दरीं दिव्यगंधमाल्यांबरावृताम् ॥४११॥सर्वलक्षणसंयुक्तां सर्वाभरणभूषिताम् ॥ अनर्घमणिमालाभिर्भासयंतीं दिगंतरान् ॥४१२॥ विलासिनीसहस्त्राद्यैः सेवमानामहार्निशम् ॥ एवंविधौ कुमारीं तां पूजांते प्रार्थयेदिति ॥४१३॥देवींद्राणि नमस्तुभ्यं देवेंद्रप्रियभा मिनि ॥ विवाहे भाग्यमारोग्यं पुत्रलाभं च देहि मे ॥४१४॥युग्मेऽब्दे जन्मतः स्त्रीणां पीतिदं पाणिपीडनम् ॥ एतत्पुंसामयुग्मेऽब्दे व्यत्यये नाशनं तयोः ॥४१५॥माघफाल्गुनवैशाखज्येष्ठमासाः शुभप्रदाः ॥ मध्यमा कार्तिको मार्गशीर्षो वै निंदिताः परे ॥४१६॥न कदाचिद्धूशर्क्षेषु भानोरार्द्राप्रवेशनात् ॥ विवाहो देवतानां च प्रतिष्ठां चोपनायनम् ॥४१७॥नास्तंगते सिते जीवे न तयोर्बावृद्धयोः ॥ न गुरौ सिंहराशिस्थै सिंहाशकगतेपि वा ॥४१८॥पश्वात्प्रागुदितः शुक्रो दशत्रिदिवसं शिशुः ॥ वृद्धः पंचदिनं पक्षं गुरुः पक्षं च सर्वतेः ॥४१९॥अप्रवृद्धो त्दृषीकेशो यावत्तावन्न मंगलम् ॥ उत्सवे वासुदेवस्य दिवसे नान्यमंगलम् ॥४२०॥न जन्ममासे जन्मर्क्षे न जन्मदिवसेऽपि च ॥ आद्य गर्भसुतस्याथ दुहितुर्वा करग्रहः ॥४२१॥नैवोद्वाहो ज्येष्ठपुत्रीपुत्रयोश्व परस्परम् ॥ ज्येष्ठमासे तयोरेकज्येष्ठे श्रेष्ठश्व नान्यथा ॥४२२॥उत्पातग्रहणादूर्द्धं सप्ताहमखिलग्रहे ॥ नाखिले त्रिदिन्म नेष्टं त्रिद्युस्पृक् च क्षयं तथा ॥४२३॥ग्रस्तास्ते त्रिदिनं पूर्वं पूर्वं पश्चाद्ग्रस्तोदयेऽथवा ॥ संध्यायां त्रिदिनं तद्वन्निशीथे सप्त एव च ॥४२४॥मासान्ते पंच दिवसांस्त्यजेद्रिक्तां तथाष्टमीम् ॥ व्यतीपातं वैधृतिं च संपूर्णं परिघार्द्धकम् ॥४२५॥पौष्णभत्र्युत्त रामैत्रमरुच्चंद्रार्कपित्र्यभैः ॥ समूलभैरविद्धैस्तैः स्त्रीकरग्रह इष्यते ॥४२६॥विवाहे बलमावश्यं दंपत्योर्गुरुसूर्ययोः ॥ चेत्पूजा यत्नतः कार्या दुर्बल ग्रहयोस्तयोः ॥४२७॥गोचरं वेधजं चाष्टवर्गजं रुपजं बलम् ॥ यथोत्तरं बलाधिक्यं स्थूलं गोचरमार्गजम् ॥४२८॥चंद्रताराबलं वीक्ष्य त पंचांगजं बलम् ॥ तिथिरेकगुणा वारो द्विगुनस्त्रिगुणं च भम् ॥४२९॥योगश्वतुर्गुणः पञ्चगुणं तिथ्यर्द्धसंज्ञितम् ॥ ततो मुहूर्तो बलवांस्ततो लग्नं बलाधिकम् ॥४३०॥ततो बलवती होरा द्रेष्काणो बलवांस्ततः ॥ ततो नवांशो बलवाद्वादशांशो बली ततः ॥४३१॥त्रिंशांशो बलवांस्तुस्माद्वी क्ष्यमेतद्वलाबलम् ॥ शुभेक्षितयुताः शस्ता उद्वाहेऽखिलराशयः ॥४३२॥चंद्रार्केज्यादयः पच यस्य राशेस्तु खेचराः ॥ इष्टास्तच्छुभदं लग्नं चत्वारोऽपि बलान्विताः ॥४३३॥रामित्रशुद्धयैकविंशन्महादोषविवर्जितम् ॥ एकविंशतिदोषाणां नामरुपफलानि च ॥४३४॥वक्ष्यंतेऽत्र समासेन श्रृणु नारद सांप्रतम् ॥ पञ्चांगशुद्धिराहित्यं दोषस्त्वाद्यः प्रकीर्तितः ॥४३५॥उदयास्तशुद्धिर्हानिर्द्वितीयः सूर्यसंक्रमः ॥ तृतीयः पापषडूवर्गो भृगुः षष्ठः कुजोऽष्टमः ॥४३६॥गंडांतं कर्तरी रिष्फाषडष्टेन्दुगतो ग्रहः ॥ दंपत्योरष्टमं लग्नं राशिर्विषघटी तथा ॥४३७॥दुर्मुहूर्तो वारदोषः खार्जूरिकसमाङ्घ्रिभम् ॥ ग्रहणोत्पातभं क्रूरविद्धर्क्षं क्रूरसंयुतम् ॥४३८॥कुनवांशो महापातो वैधृतिश्वकविम्शतिः ॥ तिथिवारर्क्षयोगानां करणस्य च मेलनम् ॥४३९॥पंचांगमस्य शुद्धि स्तु पंचांगशुद्धिरिरिता ॥ यस्मिन्पंचांगंदोषोऽस्ति तस्मिँल्लग्ने निरर्थकम् ॥४४०॥त्यजेत्पंचैष्टिकं चापि विषसंयुक्तदुग्धवत् ॥ लग्नलग्नांशकौ स्वास्वपतिना वीक्षितौ युतौ ॥४४१॥न चेद्वान्योन्यपतिना शुभमित्रेण वा तथा ॥ वरस्य मृत्युः स्यात्ताभ्यां सप्तसप्तोदयंशकौ ॥४४२॥एवं तौ न युतौ दृष्टौ मुत्युर्वध्वाः करग्रहे ॥ त्याज्याः सूर्यस्य संक्रांतेः पूर्वतः परतस्तथा ॥४४३॥विवाहादिषु कार्येषु नाड्यः षोडशषोडश ॥ षडर्गः शुभदः श्रेष्ठो विवाहस्थापनादिषु ॥४४४॥भृगुषष्ठाह्रयो दोषो लग्नात्षष्ठगते सिते ॥ उच्चगे शुभसंयुक्ते तल्लग्नं सर्वदा त्यजेत् ॥४४५॥कुजोऽष्टमो महदोषी लग्नादष्टमगे कुजे ॥ शुभत्रययुतं लग्नं न त्यजेत्तुंगतो यदि ॥४४६॥पूर्णानंदाख्ययोस्तिथ्योः संधिर्नाडीद्वयं यदा ॥ गंडांतं मृत्युदं जन्मयात्रोद्वाहव्रतादिषु ॥४४७॥कुलीरसिंहयोः कीटचापयोर्मिनमेषयोः ॥ गंडातमंतरालं स्याद्धटिकार्द्ध मृतिप्रदम् ॥४४८॥ सार्पेन्द्रपौष्णभेष्ण्वंत्यषोडशेशा भसंधयः ॥ तदमेष्वाद्यपादा भानां गंडातसंज्ञकाः ॥४४९॥उग्रं च संधित्रितयं गंडातं त्रिविधं महत् ॥ लग्नभिमुखयोः पापग्रहयोऋजुवक्रयोः ॥४५०॥सा कर्तरिति विज्ञेया दंपत्योर्गलकर्तरी ॥ कर्तरीयोगदुष्टं यल्लग्नं तत्परिवर्जयेत् ॥४५१॥ अपि सौम्यग्रहैर्युक्तं गुणैः समन्वितम् ॥ षडष्टारिष्फगे चंद्रे लग्नदोषः स्वसंज्ञकः ॥४५२॥तल्लग्रं वर्जयेद्यत्नाज्जीवशुक्रसमन्वितम् ॥ उच्चगे नीचगे वापि मित्रभे शत्रुराशिगे ॥४५३॥अषि सर्वगुणोपेतं दंपत्योर्निधनप्रदम् ॥ शशांके ग्रहसंयुक्ते दोषः संग्रहसंज्ञकः ॥४५४॥तस्मिन्संग्रहदोषे तु विवाहं नैव कारयेत् ॥ सूर्येण संयुते चंद्रे दारिद्य्रं भवति स्फुटम् ॥४५५॥कुजेन मरणं व्याधिः सौम्येन त्वनपत्यता ॥ दौर्भाग्यं गुरुणा युक्ते सापत्यं भार्गवेण तु ॥४५६॥प्रव्रज्या सूर्यपुत्रेण राहुणा मूलसंक्षयः ॥ केतुना संयुते चन्द्रे नित्यं कष्टं दरिद्रता ॥४५७॥पापग्रहयुते चन्द्रे दंपत्योर्मरणं भवेत् ॥ शुभग्रहयुते चंद्रे स्वोच्चस्थे मित्रराशिगे ॥४५८॥दोषायनं भवेल्लग्नं दंपत्योः श्रेयसे सदा ॥ खोच्चगो वा स्वर्क्षगो वा मित्र क्षेत्रगतोपि वा ॥४५९॥पापग्रहयुतश्वंद्रः करोति मरणं तयोः ॥ दंपत्योरष्टमं लग्नमष्टमो राशिरेव च ॥४६०॥यदि लग्नगतः सोपि दंपत्योर्मरण प्रदः ॥ स राशिः शुभसंयुक्तो लग्नं वा शुभसंयुतम् ॥४६१॥लग्नं विवर्जयेद्यत्नात्तदंशांशतदीश्वराम् ॥ दंपत्योर्द्वादशं लग्नं राशिर्वा यदि लग्नगः ॥४६२॥अर्थहानिस्तयोरस्मात्तदंशस्वामिनं त्यजेत् ॥ जन्मराश्युश्वैव जन्मलग्नोदयः शुभः ॥४६३॥तयोरुपचयस्थानं लग्नेत्यंतशुभप्रदम् ॥ खमार्गणा वेदपक्षाः खरामा वेदमार्गणाः ॥४६४॥वह्रिचंद्रा रुपदस्त्राः खरामा व्योमबाहवः ॥ द्विरामाः स्वाग्नयः शून्यदस्त्राः कुंजरभूमयः ॥४६५॥रुपपक्षा व्योमदस्त्रा वेदचन्द्रा श्वतुर्द्दश ॥ शून्यचन्द्रा वेदचन्द्रा षड्ऋक्षा वेदबाहवः ॥४६६॥शून्यदस्त्राः शून्यचंद्राः पूर्णचंद्रा गतेंद्रवः ॥ तर्कचंद्रा वेदपक्षाः खरामाश्वाशिश्वभात्क्रमात् ॥४६७॥आभ्यः परास्तु घटिकाश्वतस्त्रो विषसंज्ञिताः ॥ विवाहादिषु कार्येषु विषनाडीं विवर्जयेत् ॥४६८॥भास्करादिषु वारेषु ये मुहूर्ताश्व निंदिताः ॥ विवाहादिषु ते वर्ज्या अपिलक्षगुणैर्युताः ॥४६९॥निहिता वारदोषा ये सूर्यवारादिषु क्रमात् ॥ अपि सर्वगुणोपेतास्ते वर्ज्याः सर्वमंगले ॥४७०॥एकार्गलांघ्रितुल्यं यत्तल्लग्रं च विवर्जयेत् ॥ अपिशुक्रेज्यसंयुक्तं विषसंयुक्तदुग्धवत् ॥४७१॥ग्रहणोत्पातभं त्याज्यं मंगलेषु ऋतुत्रयम् ॥ यावच्च शशिना भुक्ता मुक्तभं दग्धकाष्ठवत ॥४७२॥मंगलेषु त्यजेत्खेटौर्विद्धं च क्रूरसंयुतम् ॥ अखिलर्क्षं पंचगव्यं सुराबिंदुयुतं यथा ॥४७३॥पाद एव शुभैर्विद्धमशुभं नैव कृत्स्त्रभम् क्रूरविद्धं युतं धिष्ण्यं निखिलं नैव मंगलम् ॥४७४॥तुलामिथुनकन्यांशा धनुरंत्यार्द्धसंयुताः ॥ एते नवांशाः शुभदा वृषभस्तांशकाः खलु ॥४७५॥अंत्यांशात्येपि शुभदा यदि वर्गोत्तमाह्रयाः ॥ अन्ये नवांशा ग्राह्या यतस्ते कुनवांशकाः ॥४७६॥कुनवांशकलग्नं यत्त्याज्यं सर्वगुणान्वितम् ॥ यस्मिन्दिने महापातस्तद्दिनं वर्जयेच्छुभे ॥४७७॥अपि सर्वगुणो पेतं दम्पत्योर्मृत्युदं यतः ॥ अनुक्ताः स्वल्पदोषाः स्युर्विद्युन्नी हारवृष्टयः ॥४७८॥प्रत्यर्कपरिवेषेंद्रचापांबुधरगर्जनाः ॥ लत्तोपग्रहपाताख्या मासदग्धाह्रया तिथिः ॥४७९॥दग्धल्ग्नंधबधिरपंगुसंज्ञाश्वराशयः ॥ एवमाद्यास्ततस्तेषां व्यवस्था क्रियतेऽधुना ॥४८०॥अकालजा भवंत्येते विद्युन्नेहारवृष्टयः ॥ दोषाय मंगले नूनमदोषायैव कालतः ॥४८१॥बृहस्पतिः केंद्रगतः शुक्रो वा यदि वा बुधः ॥ एकोऽपि दोषनिचंय हरत्येव न संशयः ॥४८२॥तिर्यक्पंचोर्द्धगाः पञ्च रेखा द्वे द्वे च कोणयोः ॥ द्वीतीये शंभुकोणेऽग्निधिष्ण्यं चक्रे प्रविन्यसेत् ॥४८३॥भान्यत्र साभिजित्येकरेखाखेटेन विद्धभम् ॥ पुरतः पृष्ठतोऽर्काद्या दिनर्क्षं लत्तयंति यत् ॥४८४॥अर्काकृतिगुणाद्य्रंगबाणाष्टनवसंख्यभम् ॥ सूर्यभात्सार्प्पपित्र्यांत्यत्वाष्ट्रमित्रोडुविष्णुभम् ॥४८५॥संख्यया दिनभे तावदश्विभात्पातदुष्टभम् ॥ सौराष्ट्रे साल्वदेशे तु लत्त्तितं भं विवर्जयेत् ॥४८६॥कलिंगवंगदेशेषु पातितं न शुभप्रदम् ॥ बाह्रिके कुरुदेशे चान्यस्मिन्देशे न दूषणम् ॥४८७॥तिथयो मासदग्धाश्व दग्धलग्नानि यान्यपि ॥ मध्यदेशे विवर्ज्यानि न दुष्टानीतरेषु च ॥४८८॥पङ्ग्वं धकाणलग्नानि मासशून्याश्व राशयः ॥ गौडमालवयोस्त्याज्या अन्यदेशे न गर्हिताः ॥४८९॥दोषदुष्टं सदा कालं सन्निमार्ष्टुं न शक्यते ॥ अपि धातुरतो ग्राह्यं दोषाल्पत्वं गुणाधिकम् ॥४९०॥एवं सुलग्ने दंपत्योः कारयेत्सम्यगीक्षीणम् ॥ हस्तोच्छ्रितां चतुर्हस्तैश्वतुरस्त्रां समंततः ॥४९१॥स्तंभश्वतुर्भिः सुश्लक्ष्णैर्वामभागे तु सन्नताम् ॥ समंडपां चतुर्दिक्षु सोपानैरतिशोभिताम् ॥४९२॥प्रागुदक्प्रवणां रंभास्तंभैर्हंसशुका दिभिः ॥ विचित्रितां चित्रकुंभैर्विविधैस्तोरणांकुरैः ॥४९३॥श्रृडारपुष्पनिचयैर्वर्णकैः समलंकृताम् ॥ विप्राशीर्वचनैः ॥ पुण्यस्त्रीभिर्दिव्यैर्मनो रमाम् ॥४९४॥वादित्रनृत्यगीताद्यैर्त्द्ददयांनदिनीं शुभाम् ॥ एवंविधां समारोहेन्मिथुनं स्वाग्निवेदिकाम् ॥४९५॥अष्टधा राशिकूटं च स्वादू डुगणराशयः ॥ राशीशयोनिवंर्णाख्यऋतवः पुत्रपौत्रदाः ॥४९६॥एकराशौ पृथग्धिष्ण्ये दंपत्योः पाणिपीडनम् ॥ उत्तमं मध्यमं भिन्नं राश्यैकत्वं ययोस्तयोः ॥४९७॥एकर्क्षे त्वेकराशौ हि विवाहः प्राणहानिदः ॥ स्त्रीधिष्ण्यादाद्यनवके स्त्रीदूरमतिनिंदितम् ॥४९८॥द्वितीये मध्यमं श्रेष्ठं तृतीये नवके नृभम् ॥ तिस्त्रः पूर्वोत्तरा धातृयाम्यमाहेशतारकाः ॥४९९॥इति मर्त्यगणे ज्ञेयः स्यादमर्त्यगणः परः ॥ हर्यादित्यार्कवाय्वंत्यमित्राश्वीज्येंदुतारकाः ॥५००॥रक्षोगणः पितृत्वाष्ट्रद्विदैवाग्नींद्रतारकाः ॥ वसुवारीशमूलाहिताकाभिर्युतास्ततः ॥५०१॥दंपत्योर्जन्मभे चैकगणे प्रीतिरनेकधा ॥ मध्यमा देवमर्त्यानां राक्षसानां तयोर्मुतिः ॥५०२॥मृत्युः षष्ठाष्टके पंचनवमे त्वनपत्यता ॥ नैःस्व्य द्विर्द्वादशेऽन्येषु दंपत्योः प्रीतिरुत्तमा ॥५०३॥एकाधिपे मित्रभावे शुभदं पाणिपीडनम् ॥ द्विर्द्वादशे त्रिकोणे च न कदात्षडष्टके ॥५०४॥अश्वेभमेषसर्पाहिह्यो तुमेषोतुसूषकाः ॥ आखुगोमहिषव्याघ्रकालीव्याघ्रमृगद्वयम् ॥५०५॥श्वानः कपिर्बभ्रुयुगं कपिसिंहतुरंगमाः ॥ सिंहगोदंतिनो भानां योनयः स्युर्यथाश्विभात् ॥५०६॥श्वैणं बभ्ररंग मेषवानरौ सिंहवारणम् ॥ गोव्याघ्रमाखुमार्जारं महिषाश्वं च शात्रवम् ॥५०७॥झषालिकर्कटा विप्रास्तदूर्ध्वाः क्षत्रियादयः ॥ पुंवर्णराशेः स्त्रीराशौ सति हीने यथाशुभम् ॥५०८॥चतुस्त्रिव्द्यंघ्रिभोत्थायाः कन्यायाश्वाश्विभात्क्रमात् ॥ वह्रिभादिंदुभान्नाडीत्रिचतुः पंचपर्वसु ॥५०९॥गणयेत्संख्यया चैकनाड्यां मृत्युर्न पार्श्वयोः ॥ प्राजापत्यब्राह्मदैवा विवाहाश्वार्षसंयुताः ॥५१०॥उक्तकाले तु कर्तव्याश्वत्वारः फलदायकाः ॥ गंधर्वासुरपैशाचराक्षसाख्यास्तु सर्वदा ॥५११॥चतुर्थभिजिल्लग्रमुदयर्क्षाच्च सप्तमम् ॥ गोधूलिकं तदुभयं विवाहे पुत्रपौत्रदम् ॥५१२॥प्राच्या न च कलिंगानां मुख्यं गोधूलिकं स्मृतम् ॥ अभिजित्सर्वदेशेषु मुख्यो दोषविनाशकृत ॥५१३॥मध्यंदिनगते भानौ मुहूर्तोऽभिजिदाह्रयः ॥ नाशयत्यखिलान्दोषान्पिनाकी त्रिपुरं यथा ॥५१४॥पुत्रोद्वाहात्परं पुत्री विवाहो न ऋतुत्रये ॥ न तयोर्व्रतमुद्वाहान्मंगले नान्यमंगलम् ॥५१५॥विवाहश्वैकजन्यानां षष्मासभ्यंतरे यदि ॥ असंशयं त्रिभिर्वर्षैस्तत्रैका विधवा भवेत् ॥५१६॥प्रत्युद्वाहो नैव कार्यो नैकस्मै दुहितृद्वयम् ॥ न चैकजन्ययोः पुंसोरेकजन्ये तु कन्यके ॥५१७॥नैवं कदाचिदुद्वाहो नैकदा मुंडनद्वयम् ॥ दिवाजातस्तु पितरं रात्रौ तु जननी तथा ॥५१८॥आत्मानं संध्ययोर्हंति नास्ति गंडे विपर्ययः ॥ सुतःसुता वा नियतं श्वसुरं हंति मूलजः ॥५१९॥तदंत्यापादजो नैव तथाश्वेषाद्यपादजः ॥ ज्येष्ठांत्यपादजौ ज्येष्ठं बालो हंति न बालिका ॥५२०॥न बालिकांबुमूलर्क्षे मातरं पितरं तथा ॥ सैंद्री धवाग्रजं हंति देवरं तु द्विदैवजा ॥५२१॥आरभ्योद्वाहदिवसात् षष्ठे वाप्यष्टमे दिने ॥ वधूप्रवेश संपत्त्यैदशमे सप्तमे दिने ॥५२२॥हायनद्वितयं जन्मभलग्रदिवसानपि ॥ संत्यज्य ह्यातिशुक्रेऽपि यात्रा वैवाहिकी शुभा ॥५२३॥श्रीप्रदं सर्वगीर्वाणस्थापनं चोत्तरायणे ॥ गीर्वाणपू र्वगीर्वाणमत्रिणीर्दृश्यमानयोः ॥५२४॥विचैत्रष्वेव मासेषु माघादिषु च पंचसु ॥ शुल्कक्षेषु कृष्णेषु तदादिष्वष्टसु शुभम् ॥५२५॥दिनेषु यस्य देवस्य या तिथिस्तत्र तस्य च ॥ द्वितीयादिद्वये पंचम्यादितस्तिसृषु क्रमात् ॥५२६॥दशम्यादेश्वतसृषु पौर्णमास्यां विशेषतः ॥ त्र्युत्तरादितिचंद्रां त्यहस्तत्रयगुरुडुषु ॥५२७॥सास्विधातृजलाधीशहरिमित्रवसुष्वपि ॥ कुजवर्जितवारेषु कर्तुः सूर्ये बलप्रदे ॥५२८॥चंद्रताराबलोपेते पूर्वाह्रे शोभ ने दिने ॥ शुभलग्ने शुभांशे च कर्त्तुर्न निधनोदये ॥५२९॥राशयः सकलाः श्रेष्ठाः शुभग्रहयुतेक्षिताः ॥ पंचाष्टके शुभे लग्ने नैधने शुद्धिसंयुते ॥५३०॥लग्नस्थाश्वंद्रसूर्यारराहुकेत्वर्कसूनवः ॥ कर्त्तुर्मृत्युप्रदाश्वान्ये धनधान्यसुखप्रदाः ॥५३१॥द्वितीये नेष्टदाः पापाः सौम्याश्वंद्रश्वः वित्तदाः ॥ तृतीये निखिलाः खेटाः पुत्रपौत्रसुखप्रदाः ॥५३२॥चतुर्थे सुखदाः सौम्या क्रूराः खेटाश्व दुःखदाः ॥ ग्लनिदाः पंचमे क्रूराः सौम्याः पुत्रसुखप्रदा ॥५३३॥षष्ठे शुभाः स्युः पापाः शत्रुक्षयंकराः ॥ व्याधिदाः सप्तमे पापाः सौम्याः शुभफलप्रदाः ॥५३४॥अष्टमस्थाः खगाः सर्वे कर्तृर्मृत्युप्रदायकाः ॥ धर्मे पापा घ्रंति सौम्याः शुभदा मंगलप्रदाः ॥५३५॥कर्मगा दुःखदाः पापा सौम्याश्वंद्रश्व कीर्तिदाः ॥ लाभस्थानगताः सर्वे भूरिलाभप्रदा ग्रहाः ॥५३६॥व्ययस्थानगताः शश्वद्वहुव्ययकरा ग्रहाः ॥ हंत्यर्थहीनाः कर्तारं मंत्रहीनास्तु ऋत्विजम् ॥५३७॥स्त्रियं लक्षणही नास्तु न प्रतिष्ठासमो रिपुः ॥ गुणाधिकपरे लग्ने दोषः स्वल्पतरो यदि ॥५३८॥सुराणां स्थापनं तत्र कर्तुरिष्टार्थसिद्धिदम् ॥ निर्माणायतनग्रामगृहा दीनां समासतः ॥५३९॥क्षेत्रमादौ परीक्षेत गंधवर्णरसांशकैः ॥ मधुपुष्पाम्लपिशितगंधं विप्रानुपूर्वकम् ॥५४०॥सितं रक्तं च हरितं कृष्णवर्णं यथाक्रमम् ॥ मधुरं कटुकं तिक्तं कषायकरसं क्रमात ॥५४१॥अत्यंतवृद्धिदं नृणामीशानप्रागुदप्लवम् ॥ अन्यदिक्षु ल्पवे तेषां शश्वदत्यंतहानिदम् ॥५४२॥समगर्तारत्निमात्रं खनित्वा तत्र पूरयेत् ॥ अत्यंतवृद्धिरधिके हीने हानिः समे समम् ॥५४३॥तथा निशादौ तत्कृत्वा पानीयेन प्रपूरयेत ॥ प्रातर्दृष्टे जले वृद्धिः समं पंके क्षयः क्षयः क्षये ॥५४४॥एवं लक्षणसंयुक्त सम्यक् क्षेत्रं समीक्ष्यते ॥ दिक्साधनाय तन्मध्ये समं मंडलमालिखेत् ॥५४५॥द्वदशांगुलकं शंकुं स्थाप्येक्षेत्तत्र दिक्र्क्मम् ॥ चतुरस्त्रीकृते क्षेत्रे षडर्गपरिशोधिते ॥५४६॥रेखामार्गे च कर्त्तव्यं प्राकारं सुमनोहरम् ॥ आयामेषु चतुर्दिक्षु प्रागादिषु च सत्स्वपि ॥५४७॥अष्टावष्टौ प्रतिदिशं द्वाराणि स्युर्यथाक्रमम् ॥ प्रदक्षिनक्रमात्तेषाममूनि च फलानि वै ॥५४८॥हानिर्नैः स्व्यं धनप्राप्तिर्नृपपूजा महद्धनम् ॥ अतिचौर्यमतिक्रोधी भीतिदिशि शचीपतेः ॥५४९॥निधनं बंधनं भीतिरर्थाप्तिर्द्धनवर्द्धनम् ॥ अनातंकं व्याधिभयं निःसत्त्वं दक्षिणादिशिः ॥५५०॥पुत्रहानिः शत्रुवृद्धिर्लक्ष्मीप्राप्तिर्द्धनागमः ॥ सौभाग्यमतिदौर्भाग्यं दुःखं शोकश्व पश्चिमे ॥५५१॥कलत्रहानिर्निःसत्त्वं हनिर्द्धान्यधनागमः ॥ संपद्धद्धिर्मासभीतिरामयं दिशि शीतगोः ॥५५२॥एवं गृहादिषु द्वारविस्ताराद्दिगुणोच्छ्रीतम् ॥ पश्चिमे दक्षिणे वापि कपाटं स्थापयेद्गृहे ॥५५३॥प्राकारांतः क्षितिं कुर्यादेकाशीतिपदं यथा ॥ मध्ये नवपदे ब्रह्मस्थानं तदतिनिंदितम् ॥५५४॥द्वात्रिंशदंशाःप्राकारसमीयांशाः समंततः ॥ पिशाचांशे गृहारंभो दुःखशोकृभयप्रदः ॥५५५॥शेषांशाः स्युश्व निर्माणे पुत्रपौत्रधनप्रदाः ॥ शिराः स्युर्वास्तुनो रेखा दिग्विदिग्मध्यसंभवाः॥५५६॥ब्रह्मभागाः पिशाचांशाः शिराणां यत्र संहतिः ॥ तत्र तत्र विजानीयाद्वास्तुनो मर्मसंधयः ॥५५७॥मर्माणि संधयो नेष्टाः स्वस्थेऽन्येवं निवेशने ॥ सौम्यफाल्गुनविअशाखमग्यश्रावणकार्तिकाः ॥५५८॥मासाः स्युर्गृहनिर्माण पुत्रारोग्यधनप्रदाः ॥ अकरादिषुभागेषु दिक्षु प्रागादिषु क्रमात् ॥५५९॥खरोश्वोथ हरिः श्वाख्यः सर्पाखुगजशाशकाः ॥ दिग्वर्गाणामियं योनिः स्ववर्गात्पंचमो रिथुः ॥५६०॥साध्यवर्गः पुरः स्थाप्य पृष्ठतः साधकं न्यसेत् ॥ व्यत्ययें नाशनं ऋणमध्यं धनाच्छुभम् ॥५६१॥आरभ्य साघकं घिष्ण्यं साध्यं यावच्चतुर्गुणम् ॥ विभजेत्सप्तभिः शेषं साधकस्य धनं तदा ॥५६२॥विस्तार आयामगुणो गृहस्य पदसुच्यते ॥ तस्माद्धनाघनायर्क्षवारांशाः संख्यया क्रमात् ॥५६३॥धनाधिकं गृहं वृद्धयै ऋणाधिकमशोभनम् ॥ विषमायः शुभायैव समायो निर्धनाय च ॥५६४॥घनक्षयस्तृतीयर्क्षे पंचमर्क्षे परः क्षयः ॥ आत्मक्षयः सप्तक्षर्ये भवत्येव हि भर्तृभात् ॥५६५॥द्विर्द्वादशो निर्धनाय त्रिकोणमसुताय च ॥ षट्काष्टकं मृत्युवे स्याच्छुभदा राशयः परे ॥५६६॥सूर्यांगारकवारांशा वैश्वानरभयप्रदाः ॥ इतरे ग्रहवारांशाः सर्वकामार्थसिद्धिदाः ॥५६७॥नभस्यादिषु मासेषु त्रिषु त्रिषु यथाक्रमम् ॥ पूर्वादिकशिरोवामपार्श्वेशायाप्रदक्षिणम् ॥५६८॥चराह्रयो वास्तुमान् चरत्येवं महोदरः ॥ याद्दिङ्मुखो वास्तुपुमान् कुर्यात्त द्दिङ्मुखं गृहम् ॥५६९॥प्रतिकूलमुखं गेहं रोगशोमभयप्रदम् ॥सबलो मुखगेहानामेष दोषो न विद्यते ॥५७०॥वृत्येटिका स्वर्णरेणुधान्यशैवलसंयुतम् ॥ गृहमध्ये हस्तमात्रे गर्ते न्यासाय विन्यसेत् ॥५७१॥वस्त्वायामदलं नाभिस्तस्मादध्यंगुलत्रयम् ॥ कुक्षिस्तस्मिन्न्यसेच्छंकुं पुत्रपौत्रविवर्धम् ॥५७२॥चतुर्विंशस्त्रयोविंशत्षोडशद्वादशांगुलैः ॥ विप्रादीनाम कुक्षिमानं स्वर्णवस्त्राद्यलंकृतम् ॥५७३॥खदिरार्जुनशालोत्थं युगयंत्रं तरुद्धवम् ॥ रक्तचंदनपालाशरक्तशालविशालजम् ॥५७४॥शकुं त्रिधा विभज्याद्यं चतुरस्त्रं ततः परम् ॥ अष्टास्त्रं च तृतीयासौ मन्वस्त्रं मृदुमंत्रणम् ॥५७५॥एवं लक्षणसंयुक्तं परिकल्प्य शुभे दिने ॥ षड्वर्गशुद्धिसूत्रेण सूत्रिते धरणीतले ॥५७६॥मृदुध्रुवक्षिप्रभेषु रिक्तामावर्जिते दिने ॥ च्यर्करचरलग्नेषु पापे चाष्टमवर्जिते ॥५७७॥नैधने शुद्धिसंयुक्ते शुभलग्ने शुभांशके ॥ शुभेक्षितेऽथ वा युक्ते लग्ने शंकुं विनिक्षिपेत् ॥५७८॥पुण्याहघोषैर्वादित्रेः पुण्यपुण्यांगनादिभिः ॥ स्वत्रिकेंद्रात्रिकोणस्थेः शुभैख्यायारिगैः परैः ॥५७९॥लग्नांशाष्टारिचंद्रेण दैवज्ञार्चनपूर्वकम् ॥ एकद्वित्रित्वतुःशालाः सप्त शाला दशाह्रयाः ॥५८०॥ताः पुनः षडिधाः शालाः प्रत्येकं दशषडिधाः ॥ ध्रुवं धान्यं जयं नंदं खरः कांतं मनोरमम् ॥५८१॥सुमुखं दुर्मुखं क्रूरं शत्रुं स्वर्णप्रदं क्षयम् ॥ आक्रंदं विपुलाख्य च विजय षोडशं गृहम् ॥५८२॥गृहाणि गणयेदेवं तेषां प्रस्तारभेदतः ॥ गुरोरघो लघुः स्थाप्यः पुरस्तादूर्ध्ववन्न्यसेत् ॥५८३॥गुरुभिः पूरयेत्पश्वात्सर्वलध्ववधीर्विधिः ॥ कुर्याल्लधुपदेऽलिंदं गृहद्वारात्प्रदक्षिणम् ॥५८४॥पूर्वादिगेष्वलिंदेषु गृहभेदास्तु षोडश ॥ स्त्रानागार दिशि प्राच्यामाग्नेय्यां पाकमदिरम् ॥५८५॥याम्यां च शयनागारं नैऋत्यां शास्त्रमंदिरम् ॥ प्रतीच्यां भोजनगृहं वायव्यां धान्यमदिरम् ॥५८६॥कौबेर्यां देवतागारमीशान्यां क्षीरमंदिरम् ॥ शय्यामूत्रास्त्रतद्विच्च भोजनं मंगलाश्रयम् ॥५८७॥धान्यस्त्रीभोगवित्तं च श्रृंगारायतनानि च ॥ ईशान्यादिक्रमस्तेषां गृहनिर्माणकं शुभम् ॥५८८॥एतेष्वतानि शस्त्राणि स्वं स्थाप्यनि स्वदिक्ष्वपि ॥ ध्वजो धूम्रोथ सिंहः श्वा सौरमेयः खरो गजः ॥५८९॥ध्वांक्षश्वैव भवंत्यष्टौः पूर्वादिपाः क्रमादमी ॥ प्लक्षोदुंबरचूताख्या निंबस्तु हि विभीतकाः ॥५९०॥य कटका दुग्धवृक्षा वृक्षाश्वत्थकपित्थकाः ॥ अगस्तिसिंधुवालाख्यतिंतिडीकाश्व निंदिताः ॥५९१॥पित्तवाग्रजदेहस्यात्पश्चिमे दक्षिणे तया ॥ गृहपादागृहस्तभाः समाः शस्ताश्व नासमाः ॥५९२॥नात्युच्छ्रितं नातिनीचं कुण्योत्सेंध यथारुचि ॥ गृहोपरि गृहादीनामेवं सर्वत्र चिंतयेत् ॥५९३॥गृहादीनां गृहश्रावं क्रमशोऽष्टविधं स्मृतम् ॥ पांचालमानं वैदेहं कौरवं च कुजन्यकम् ॥५९४॥मागधं शूरसेनं च गांधारावतिक स्मृतम् ॥ सचतुर्भागविस्तारमुत्सेंध यत्तदुच्यते ॥५९५॥पांचालमातुलानां च ह्युत्तरोत्तरवृद्धितः ॥ वैदेहादीन्यशेषाणि मानानि स्युर्यथाक्रमम् ॥५९६॥पांचालमानं सर्वेषां साधारणमतः परम् ॥ अवंअतिमानं विप्राणां गांधारं क्षत्रियस्य च ॥५९७॥कौजन्यमानंवैश्यानां विप्रादीनां यथोत्तरम् ॥ यथोदितं जलस्त्राव्यं द्वित्रिभूमिकवेश्मनाम् ॥५९८॥उष्ट्रकुंजरशालानां ध्वजायेप्यथ वा गजे ॥ पशुशालाश्व शालानां ध्वजायेप्यथ वा गजे ॥५९९॥द्वारशय्याशनामत्रध्वजाः सिंहवृषध्वजाः ॥ वास्तुपूजाविधिं वक्ष्ये नववेश्मप्रवेशने ॥६००॥हस्तमात्रा लिखेद्रेखा दश पूर्वा दशोत्तराः ॥ गृहमध्ये तंडुलोपर्येकाशीतिपदं भवेत् ॥६०१॥पंचोत्तरान्वक्ष्यमाणांश्वत्वरिंशत्सुरान् लिखेत् ॥ द्वत्रिंद्वाह्यतः पूज्यास्तत्रांतः स्थास्त्रयोदश ॥६०२॥तेषां स्थानानि नामानि वक्ष्यामि क्रमशोधुना ॥ ईशानकोणतो बाह्ये द्वात्रिंशत्रिदशा अमी ॥६०३॥कृपीट्योनिः पर्जन्यो जयंतः पाकशासनः ॥ सूर्यः शशी मृगाकाशौ वायुः पूषा च नैऋतिः ॥६०४॥गृहाक्षतो दंडधरो गांधर्वो भृगुराजकः ॥ मृगः पितृगणाधीशस्ततो दौवारि काह्रयः ॥६०५॥सामः सूर्योऽदितिदिती द्वात्रिंशत्रिदशा अमी ॥ अथेशानादिकोणस्थाश्वत्वारस्तत्समीपगाः ॥६०६॥आपः सावित्रसंज्ञश्व जयो रुद्रः क्रमादमी ॥ एकांतरा स्युः प्रागाद्याः परितो ब्रह्मणः स्मृताः ॥६०७॥अर्यमा सविता बिंबविवरकन्वसुधाधिपः ॥ मित्रोथ राजयक्ष्मा च तथा पृथ्वीधराह्रयः ॥६०८॥आपवत्सोऽष्टमः पंचचत्वारिम्शत्सुरा अमी ॥ आपश्वैवापवत्सश्व पर्जन्योऽग्निर्दितिः क्रमात् ॥६०९॥यद्दिक्कानां च वर्गोऽयमेवं कोणेष्वशेषतः ॥ तन्मध्ये विंशतिर्बाह्या द्विपदास्ते तु सर्वदा ॥६१०॥अर्यमा चं विवस्वांश्व मित्रः पृथ्वी धराह्ययः ॥ ब्रह्मणः परितो दिक्षु चत्वारस्त्रिप्रदाः स्मृताः ॥६११॥ब्रह्माणं च तथैकद्वित्रिपदानर्चयत्सुरान् ॥ वास्तुमंत्रेण वास्तुज्ञो दूर्वादध्य क्षतादिभिः ॥६१२॥ब्रह्ममंत्रेण वा श्वेतवस्त्रयुग्मं प्रदापयेत् ॥ आवाहनादिसर्वोपचारांश्व क्रमशस्तथा ॥६१३॥नवैद्यं त्रिविधान्नेन वाद्यैः सहसमर्पयेत् ॥ ताम्बूलं च ततःकर्ता प्रार्थयेद्वारस्तुपुरुषम् ॥६१४॥वास्तुपुरुष नमस्तंऽस्तु भूशय्यानिरत प्रभे ॥ मदूगृहे धनधान्यादिसमृद्धं कुरु सर्वदा ॥६१५॥इति प्रार्थ्य यथाशक्त्या दक्षिणामर्चकाय च ॥ दद्यात्तदग्रे विप्रेभ्यो भोजनं च स्वशक्तितः ॥६१६॥अनेन विधिना सम्याग्वास्तुपूजीं करोति यः ॥ आरोग्यं पुत्रलाभं च धनं धान्यं लभेन्नरः ॥६१७॥अकृत्वा वास्तुपुजां यः प्रविशेनवमंदिरम् ॥ रोगान्नानाविधान्क्लेशान्श्नुते सर्व संकटम् ॥६१८॥अकपाटमनाच्छन्नम्दत्तबलिभोजनम् ॥ गृहं न प्रविशेदेवं विपदामाकरं हि तत् ॥६१९॥ऊथो यात्रा नृपादीनामभीष्टफल सिद्धये ॥ स्यात्तथा तां प्रवक्ष्यामि सम्यग्विज्ञातजन्मनाम् ॥६२०॥अज्ञातजन्मनां नृणां फलाप्तिर्घुणवर्णवत् ॥ प्रश्रोदयनिमित्तद्येंस्तेषामपि फलोदयः ॥६२१॥षष्ठयष्टमीद्वादशीषु रिक्तामापूर्णिमासु च ॥ यात्रा शुल्क प्रतिपदि निर्द्धनाय क्षयाय च ॥६२२॥मैत्रादितीद्वर्कांत्याश्विहरितिष्यव सूडुषु ॥ असप्तपञ्चत्र्याद्येषु यात्राभीष्टफलप्रदाः ॥६२३॥मंदेंदुदिने प्राचीं च व्रजेद्दक्षिणं गुरौ ॥ सिकार्कयोर्न प्रतीचीं नोदीचीं ज्ञारयोर्द्दिने ॥६२४॥इंद्राजपादचतुरास्यर्यमर्क्षाणि पूर्वतः ॥ शूलानि सर्वद्वाराणि मित्रार्केज्याश्वभानि च ॥६२५॥क्रमाद्दिग्द्वारभानि स्युः सप्तसप्तग्निधिष्ण्यतः ॥ पग्घिं लंघयेद्दंडं नाग्निश्वसर्दिग्गमम् ॥६२६॥आग्नेयं पूर्वदिग्धष्ण्येर्विदिशश्वैवमेव हि ॥ दिग्राशयस्तु क्रमशो मेषाद्याश्व पुनः पुनः ॥६२७॥दिगीश्वरे ललाटस्थे यातुर्न पुनरागमः ॥ लग्नस्थो भास्करः प्राच्यां दिशि यातुर्ललाटगः ॥६२८॥द्वादशैकादशः शुक्रोऽप्याग्नेय्यां तु ललाटगः ॥ दशमस्थः कुजो लग्नद्याभ्यां यातुर्ललाटगः ॥६२९॥नवमाष्टमगो राहुर्नैषत्यां त्य ललाटगः ॥ लग्नात्सप्तमगः सौरिः प्रतीच्यां तु ललाटगः ॥६३०॥षष्ठः पञ्चमगश्वन्द्रो वायव्यां च ललाटगः ॥ चतुर्थस्थानगः सौम्यश्वोत्तरस्यां ललाटगः ॥६३१॥द्वित्रिस्थानगतो जीव ईशान्यां वै ललाटगः ॥ ललाटं तु परित्यज्य जीवितेच्छुर्व्रजेन्नरः ॥६३२॥विलोमगो ग्रहो यस्य यात्रालग्नोपगो यदि ॥ तस्य भङुप्रदो राज्ञस्त द्वर्गोऽपि विलग्नगः ॥६३३॥खींदयनयोर्यातमनुकूलं शुभप्रदम् ॥ तदभाव दिवारात्रौ यायाद्यातुर्वधोऽन्यथा ॥६३४॥मूढे शुक्रे कार्यहानिः प्रतिशुक्रे पराजयः ॥ प्रतिशुक्रकृतं दोषं हंतुं शक्ता ग्रहा न हि ॥६३५॥वासिष्ठकाश्यपेयात्रिभारद्वाजाः सगौतमाः ॥ एतेषां पञ्चगोत्राणां प्रतिशुक्रो न विद्यते ॥६३६॥एकग्रामे विवाहे च दुर्भिक्षे राजविग्रहे ॥ द्विजक्षोभे नृपक्षोभे प्रतिशुल्को च विद्यते ॥६३७॥नीचगोरिगृहस्थो वा वक्रगो वा पराजितः ॥ यातुर्भंगप्रदः शुक्रः खोच्चस्थश्वेज्जयप्रदः ॥६३८॥स्वाष्टलग्नेष्टराशौ वा शत्रुभात्त्वमेपि वा ॥ तेषाशिस्थराशौ वा यातुर्मृत्युर्न संशयः ॥६३९॥जन्मेशाष्टमलग्नेशौ मिथो मित्रे व्यवस्थितौं ॥ जन्मराश्यष्टमर्क्षोत्थदोषा नश्यंति भावतः ॥६४०॥क्रूरग्रहेक्षितो युक्तो द्विःस्वभावोऽपि भंगदः ॥ याने स्थिरोदये नेष्टो भव्ययुक्तेक्षितः स्वयम् ॥६४१॥वस्वंत्यार्द्धादिपंचर्क्षे संग्रहं तृणकाष्ठयोः ॥ याम्यदिग्गमनं शय्या न कुर्याद्वेहगोपनम् ॥६४२॥जन्मोदये जन्मभे वा तयोरीशस्यभेपि वा ॥ ताभ्यां तयोरिकेंद्रेषु यातुः शत्रुक्षयो भवेत् ॥६४३॥शीर्षोदये लग्नगते दिग्लाग्रें लग्नलग्रे लग्नगोपि वा ॥ शुभवर्गोथ वा लग्ने यातुः शत्रुक्षयस्तदा ॥६४४॥शत्रुजन्मोदये जन्मराशेर्वा निधयोदये ॥ तयोरीशस्थिते राशौ यातुः शत्रुक्षयो भवेत् ॥६४५॥वक्रः पन्था मीनलग्ने यातुर्मीनांशकेपि वा ॥ निंद्यो निखिलयात्रासु घटलग्नो घटांशकः ॥६४६॥जललग्नो जलांशो वा जलयोनेः ॥ शुभावह ॥ मूर्तिः कोशो धन्विनश्व वाहनं मंत्रसंज्ञकम् ॥६४७॥शत्रुमार्गस्तथायुश्व मनोव्यापारसंज्ञिकम् ॥ प्राप्तिप्राप्तिरु दयाद्वावाः स्युर्द्वादशैव ते ॥६४८॥घ्रंति क्रूराख्याप्तिवर्गं भावान्सूर्यमहीसुतौ ॥ न निघ्रतो हि व्यापारं सौम्याः पुष्णंत्यरिं विना ॥६४९॥शुक्रोऽस्तं च पुष्णाति मूर्ति मृत्युं च चंद्रमाः ॥ याम्यदिग्गमनं त्यक्ता सर्वकाष्ठासु यायिनाम् ॥६५०॥अभिजित्क्षणयोगोऽयमभीष्टफलसिद्धिदः ॥ पञ्चागंशुद्धिरहिते दिवसेऽपि फलप्रदः ॥६५१॥यात्रायोगा विचित्रास्तान्योगान्वक्ष्ये यतस्ततः ॥ कलसिंद्धिर्यागलग्नाद्राज्ञां विप्रश्यंधिष्ण्यतः ॥६५२॥मुहूर्तशक्तितोऽन्येषां शकुनैस्तस्करस्य च ॥ केंद्रत्रिकोणे ह्येकेन योगः शुक्रज्ञसूरिणाम् ॥६५३॥अधियोगो भवेद्दभ्यां त्रिभिर्योगाधि योगकः ॥ योगेऽपि यायिनां क्षेममधियोगे जयो भवेत् ॥६५४॥योगाधियोगे क्षेमं च विजयार्थविभूतयः ॥ व्यापारशत्रुमूर्तिस्थैश्वन्द्रमंददिवाकरैः ॥६५५॥रणे गतस्य भूपस्य जयलक्ष्मीः प्रमाणिका ॥ शुक्रार्कज्ञार्किभौमेषु लग्नाध्वस्तत्रिशत्रुषु ॥६५६॥गतस्याग्रे वैरिचमूर्वह्रौ लाक्षेव लीयते ॥ लग्नस्थे त्रिदशाचार्ये धनायस्थैः परग्रहैः ॥६५७॥गतस्य राज्ञोऽरिसेना नीयते यममंदिरम् ॥ लग्ने शुक्रे खौ लाभे चन्द्रे बन्धुस्थिते यदा ॥६५८॥गतो नृपो रिपून्हंति केसरीवेभशतिम् ॥ खोच्चसंस्थे सिते लग्ने खोच्चे चन्द्रे च लाभगे ॥६५९॥हंति यातोऽरिष्टतनां केशव पूतनामिव ॥ त्रिकोणे केंद्रगाः सौम्याः क्रूराख्यायारिगा यदि ॥६६०॥यस्य यातेरलक्ष्मीस्तमुपैतीवाभिसारिका ॥ जीवार्कचन्द्रा लग्नारिरंध्रगा यदि गच्छतः ॥६६१॥तस्याग्रे खलमैत्रीव न स्थिरा रिपुवाहिनी ॥ त्रिखडायेषु मन्दारौ बलवंतः शुभा यदि ॥६६२॥यात्रायां नृपतस्तस्य हस्तस्था शत्रुमेदिनी ॥ खोच्चस्थे लग्नगे जीवे चंद्रे लाभगते यदि ॥६६३॥गतो राजा रिपून्हति पिनाकी त्रिपुरं यथा ॥ मस्तकोदयगे शुक्र लग्नस्थे लाभगे गुरौ ॥६६४॥गतो राजा रिपून्हंति कुमारस्तारकं यथा ॥ जीवे लग्नगते केंन्द्रे वापि त्रिकोणगे ॥६६५॥गतो दहत्यरीन्राजा कृष्णवर्त्मा यथा वनम् ॥ लग्नगे ज्ञे शुभे केंद्रे धिष्ण्ये चोपकुले गत ॥६६६॥नृपाः शुष्यंत्यरीन् ग्रीष्मे ह्रदिनीं वार्करश्मयः ॥ शुभे त्रिकोणे केंद्रस्थे लाभे चंद्रेऽथवा रवौ ॥६६७॥शत्रून्हन्ति गतो राजा ह्यंधकारं यथा रविः ॥ स्वक्षेत्रगे शुभे कद्रे त्रिकोणायगते गतः ॥६६८॥विनाशयत्यरीन्नाजा तूलराशिमिवा नलः ॥ इंदौ स्वस्थे गुरौ केंद्रे मंत्रः सप्रणवो गतः ॥६६९॥नृपो हंति रिपून्सर्वान्पान्पंचाक्षरो यथा ॥ वर्गोत्तमगते शुक्रेऽप्येकस्मिन्नेव लग्नगे ॥६७०॥हरिस्मृतिर्यथाघौघान्हंति शत्रून गतो नृपः ॥ शुभे केंद्रे त्रिकोणस्थे चंद्रे वर्गोत्तमे गतः ॥६७१॥सगोत्रारीन्नपान् हंति यथा गोत्रांश्व गोत्रभित् ॥ मित्रभऽथ गुरौ केंद्रे त्रिकोणस्थेऽथ वा सिते ॥६७२॥शत्रून्हंति गतो राजा भुजंगान् गरुडो यथा ॥ शुभकद्रत्रिकोणस्थे वर्गोत्तम गते गतः ॥६७३॥विनाशयत्यरीन्राजा पापान्भागीरथी यथा ॥ ये नृपा यान्त्यरीञ्जेतुं तेषां योगैर्नृपाह्रयेः ॥६७४॥उपैति शातिं कोपाग्निः शत्रुयोषाश्रुबिंदुभिः ॥ बलक्षयपक्षदशमीमासीषे विजयाभिधा ॥६७५॥विजयस्तत्र यातृणां सधिर्वा न पराजयः ॥ निमित्त शकुनादिभ्यं प्रधानं हि मनोदयः ॥६७६॥तस्मान्मनस्विनां यत्नात्फलहेतुर्मनोदयः ॥ उत्सवोपनयोद्वाहप्रतिष्ठाशो च सूतके ॥६७७॥असमाप्ते न कुर्वींत यात्रां मर्त्यो जिजीविषुः ॥ महिषोंदुरयोर्युद्धे कलत्रकलहार्त्तवे ॥६७८॥वस्त्रादेः स्खलिते क्रोधे दुरुक्ते न व्रजेन्नृपः ॥ घृतान्नं तिलपिष्टान्नं मत्स्यान्नं घृतपायसम् ॥६७९॥प्रागादिक्रमशो भुक्ता याति राजा जयत्यरीन् ॥ सज्जिका परमान्नं च कांजिक च पयो दधि ॥६८०॥क्षीरं तिलोदनं भुक्ता भानुवारादिषु क्रमात् ॥ कुल्माषांश्व तिलान्नं च दधि क्षौद्रं घृतं पयः ॥६८१॥मृगमांसं च तत्सारं पायसं च खगं मृगम् ॥ शशमांसं च षाष्टिक्यं प्रियंगुकमपूपकम् ॥६८२॥चित्रांडजफलं कूर्मश्वाविद्धोधांश्व शास्वकम् ॥ हविष्यं कृशरान्नं च मुद्रान्नं यवपिष्टिकम् ॥६८३॥मत्स्यान्नं च विचित्रान्नं दध्यन्नं दस्त्रभात्क्रमात् ॥ भुक्ता राजेभाश्वरथनरैर्याति जयत्यरीन् ॥६८४॥हुताशनं तिलै र्हुत्वा पूजयेत् दिगीश्वरम् ॥ प्रणम्य देवभूदेवानाशीर्वादेर्नृपो वज्रेत् ॥६८५॥यद्वर्णवस्त्रगंधाद्यैस्तन्मंत्रेण विधानतः ॥ इंद्रमैरावतारुढं शच्या सह विराजितम् ॥६८६॥वज्रपाणिं स्वर्णवर्णं दिव्याभरणभूषितम् ॥ सप्तहस्तं सप्तजिह्रं ष्ण्मुखं मेषवाहनम् ॥६८७॥स्वाहाप्रियं रक्तवर्णं सुकुस्त्रुवायुधधारिणम् ॥ दंडायुग्धं लोहितार्क्षं यमं महिषवाहनम् ॥६८८॥श्यामलं सहितं रक्तवर्णैरुर्द्धमुखं शुभम् ॥ खङुचर्मधरं नीलं निऋतिं नरवाहनम् ॥ ६८९॥उर्द्धकेशं विरुपाक्षं दीर्घग्रीवायुतं विभुम् ॥ नागपाशधरं पीतवर्ण मकरवाहनम् ॥६९०॥वरुणं कालिकानाथ रत्नाभरणभूषितम् ॥ प्राणिनां प्राणरुपं तं द्विबाहुं दंडपाणिकम् ॥६९१॥वायुं कृष्णमृगारुढं पूजयेदंजनीपतिम् ॥ अश्वारुढं कुंभपार्णि द्विबाहुं स्वर्नसन्निभम् ॥६९२॥कुबेरं चित्रलेखेशं यक्षगंधर्वनायकम् ॥ पिनाकिनं वृषारुढं गौरीपतिमनुत्तमम् ॥६९३॥श्वेतवर्णं चंद्रनौलिं नागयज्ञोपवीति नम् ॥ अप्रयाणे स्वयं कार्या प्रेक्षया भूभुजस्तथा ॥६९४॥कार्यं निगमनं छत्रं ध्वजशस्त्रास्त्रवाहनैः ॥ स्वस्थानन्निर्गमस्थानं दडानां च शतद्वयम् ॥६९५॥चत्वारिशद्दादशैव प्रस्थितः स स्वयं गतः ॥ दिनान्येकत्र न वसेत्सप्तषट् वा परो जनः ॥६९६॥पंचरात्रं च पुरतः पुनर्लग्रांतरे व्रजेत् ॥ अकालजेषु नृपतिर्विद्युद्धर्जितवृषिषु ॥६९७॥उत्पातेषु त्रिविधेषु सप्तरात्रं तु न व्रजेत् ॥ रत्नाकुड्याशिवाकाकपोतानां गिरस्तथा ॥६९८॥झझेभुक्हेमवक्षीरस्वराणां वामतो गतिः ॥ पीतकारभरद्वाजपक्षिणां दक्षिना गतिः ॥६९९॥चापं त्यक्ता चतुष्पात्तु शुभदा वामतो मताः ॥ कृष्णं त्यक्ता प्रयाणे तु कृकलासेन वीक्षितः ॥७००॥वाराहशशगोधास्तु सर्पाणां कीर्तनं शुभम् ॥ ह्रतेक्षणं नेष्टमेवाव्यपत्ययं कपिऋक्षयोः ॥७०१॥मयूरच्छागनकुलचाषपारावताः शुभाः ॥ दृष्टमात्रेण यात्रायां व्यस्तं सर्वं प्रवेशने ॥७०२॥यात्रासिद्धिर्भवेद्दष्टे शवरादनवजते ॥ प्रवेशे रोदनयुतः शवः शवप्रदस्तथा ॥७०३॥पतितक्लीबजटिलमत्तवांतौषधादिभिः ॥ अभ्यक्तवसास्थिचर्मांगारदारुणरोगिभि ॥७०४॥गुडकार्पासलवगरिपुष्रश्रतृगोरगैः ॥ वंध्याकुंजककाषायमुक्तकेशवुभुक्षितैः ॥७०५॥प्रयाणसमये नग्नैर्दृष्टेः सिद्धिर्न जायते ॥ प्रज्वलाग्नीन्सुतुरग नृपासनपुरांगनाः ॥७०६॥गंधपुष्पाक्षतच्छत्रचामरांदोलिकं नृपः ॥ भक्ष्येक्षुफलमृत्स्नान्नमध्वज्यदधिगोदयाः ॥७०७॥मद्यमांससुधाधौत वस्त्रशंखवृषध्वजाः ॥ पुण्यस्त्रीपुण्यफलशरस्त्रंभृगागोद्विजाः ॥७०८॥भेरीमृदंगपटहघंटावीणादिनिःखनः ॥ वेदमंगलघोषाः स्युः यायिनां कायसिद्धिदाः ॥७०९॥आदौ विरुद्धशकुनं दृष्ट्रा यायीष्टदेवताम् ॥ स्मृत्वा द्वितीये विप्राणां कृत्वा पूजां निवर्तयेत् ॥७१०॥सर्वदिक्षुक्षुंतं नेष्टं गोदुतं निधनप्रदन् ॥ अफलं यद्वालवृद्धारोगिपैनसिकैः कृतम् ॥७११॥परस्त्री द्विजदेवस्व तत्स्पृशद्दिग्गजाश्वकन् ॥ हन्यात्परपुरप्राप्तो न स्त्रीर्नित्यं निरायुधान् ॥७१२॥आदौ सौम्यायने कार्यंनववास्तुप्रवेशनम् ॥ विधाय पूर्वदिवसे वा स्तुपूजाबलिक्रियाम् ॥७१३॥माघफाल्गुनविअशाखज्येष्ठगारेषु शोभमम् ॥ प्रवेशो मध्यमो ज्ञेयः सौम्यकार्तिकमासयोः ॥७१४॥शशीज्यांतेषु वरुणात्वाष्ट्रमित्रस्थिरोडुषु ॥ शुभः प्रवेशो देवेज्यशुक्रयोर्द्दश्यमानयोः ॥७१५॥व्यर्कारवारे तिथिषु रिक्तामावर्जितेषु च ॥ ढिवा वा यदि वा रात्रौ प्रवेशो मंगलप्रदः ॥७१६॥चंद्रताराबलोपेते पूर्वाह्रे शोभने दिने ॥ स्थिरलग्ने स्थिरांशे च नैधने शुद्धिसंयुते ॥७१७॥त्रिकोणकेंद्रसंस्थेश्च सौम्ये स्त्रायायारिगैः परैः ॥ लग्नांत्याष्टमषष्ठस्थबर्जित्तेन हिमांशुना ॥७१८॥कर्तुवा जन्मभे लग्ने ताभ्यामुपचयेऽपि वा ॥ प्रवेशलग्ने स्यादृद्धिरन्यभे शोकानिःस्वता ॥७१९॥दर्शनीयं गृहं रम्यं विविधैर्मंगलस्वनैः ॥ कृत्वार्कं वामतो विद्वान्भृगारं चाग्रतो विशेत् ॥७२०॥वर्षाप्रवेशे शशिनि जल रशिगतेपि वा ॥ केंद्रगे वा शुल्कपक्षे चातिवृष्टिः शुभेक्षिते ॥७२१॥अल्पवृष्टिः पामद्दष्टे प्रावृट्रकालेऽचिराद्ध्द्धवेत् ॥ चंद्रश्वेद्धार्गवे सर्वमेवैधगुणान्विते ॥७२२॥प्रावृषीदूः सितात्सप्तराशिगः शुभवीक्षितः ॥ मंदत्रिकोणसप्तस्थो यदि वा वृद्धिकृद्धवेत् ॥७२३॥सद्यो वृष्टिकरः शुक्रो यदा बुधसमीपगः ॥ तयोर्मध्यगते भानौ भवेदूष्टिविनाशनम् ॥७२४॥मघादिपंचधिष्ण्यस्थः पूर्वे स्वातित्रये परे ॥ प्रवर्षणः भृगुः कुर्याद्विपरीते न वर्षणम् ॥७२५॥पुरतः पृष्ठतो भानोर्ग्रहा यदि समीपगाः ॥ तदा वृष्टिं प्रकुर्वन्ति न ते चेत्प्रतिलोमगाः ॥७२६॥वामभागीस्थतः शुक्रो वृष्टिकृच्चेतुं याम्यगः ॥ उदया स्तेषु वृष्टिः स्याद्धानोराद्राप्रवेशने ॥७२७॥संध्ययोः सस्यवृद्धिः स्यात्सर्वसंपन्नृणान्निशि ॥ स्तोकवृष्टिरनर्घः स्यादवृष्टिः सस्यसंपदः ॥७२८॥आर्द्रोदयेग्रभिन्नाअ चन्द्रवेदिति न संशयः ॥ चन्द्रेज्ये ज्ञेथ वा शुके केंद्रेन्बीतिर्विनश्यति ॥७२९॥पूर्वाषाढां गतो भानुर्जीमूतैः परिवेष्टितः ॥ वर्षत्यार्द्रादि मूलांतं प्रत्यक्षं तथा ॥७३०॥वृष्टिश्वेत्पौष्णभें तस्माद्दशर्क्षेषु न वर्षति ॥ सिंहे भिन्ने कुजे वृष्टिरभिन्ने कर्कटे तथा ॥७३१॥कन्योदये प्रभिन्ने चेत्सर्वदा वृष्टिरुत्तमा ॥ अहिर्बुध्न्यं पूर्वशस्यं परशस्या च रेवती ॥७३२॥भरणी सर्वसस्या च सर्वनाशाय चाश्विनी ॥ गुरोः सप्तमराशिस्थः प्रत्यग्गो भृगुजो यदा ॥७३३॥तदातिवर्षणं भूरि प्रावृट्काले बलोज्झिते ॥ आसप्तमर्क्षशशिनः ॥ परिवेशगतोत्तरा ॥७३४॥विद्युत्प्रपूर्णमंडूकात्त्वनावृष्टिर्भवेत्तदा ॥ यदाप्रत्यङ्नता मेघाः खसप्तोपरि संस्थिताः ॥७३५॥पतंति दक्षिणस्था येभवेद्वृष्टिस्तदाचिरात् ॥ नखैर्लिखन्तो भार्जाराश्वावनिं लोहसंयुते ॥७३६॥रथ्यायां सेतुबंधाः स्युर्बालानां वृष्टिहेतवः ॥ पिपीलिकाश्रेणयश्छिन्नाः खद्योता बहवस्तदा ॥७३७॥द्रुमादिरोहः सर्पाणां प्रीतिर्दुवृष्टिसूचकाः ॥ उदयास्तमये काले विवर्णोऽर्कोथ वा शशी ॥७३८॥मधुवर्णोऽतिवायुश्वेदतिवृष्टिर्भवेत्तदा ॥ प्राङ्मुखस्य तु कूर्मस्य नवांगेषु धराभिमाम् ॥७३९॥विभज्य नवधा खण्डे मंडलानि प्रदक्षिणम् ॥ अन्तर्वेदाश्व पांचालस्तस्येदं नाभिमण्डलम् ॥७४०॥प्राच्या मागधलाटोत्था देशास्तन्मुखंडलम् ॥ स्त्रीकलिंगकिराताख्या देशास्तद्धाहुमंडलम् ॥७४१॥अवंती द्रविडा भिल्ला देशास्तत्पार्श्वमण्डलम् ॥ गौडकौंकणशाल्वांध्रपौंड्रस्तत्पादमण्डलम् ॥७४२॥सिंधुकाशिमहाराष्ट्रसौराष्ट्राः पुच्छमण्डलम् ॥ पुलिंदचीनयवनगुर्जराः पादमंडलम् ॥७४३॥कुरुकाश्मीरमाद्रेमत्स्यास्तत्पार्श्वमण्डलम् ॥ खसांगवंगबाह्रीकं कांबोजाः पाणिमंडलम् ॥७४४॥कृत्तिकादीनि धिष्ण्यानि त्रीणि त्रिणि क्रमान्न्यसे तू ॥ नाभ्यादिषु नवांगेषु पापैर्दुष्टं शुभैः शुभम् ॥७४५॥देवता यत्र नृत्यंति पतंति प्रज्वलंति च ॥ मुहू रुदंति गायंति प्रस्विद्यंति हसंति च ॥७४६॥वमंत्यग्निं तथा धूमं स्त्रेहं रक्तं पयो जलम् ॥ अधोमुखाधितिष्ठंति स्थानात्स्थानं व्रंजति च ॥७४७॥एवमाद्या हि दृश्यंते विकाराः प्रतिमासु च ॥ गंधर्व नगरं चैव दिवा नक्षत्रदर्शनम् ॥७४८॥महोल्कापतनं काष्ठतृणरक्तप्रवर्षणम् ॥ गांधर्वं देहदिग्धूमं भूमिकंपं दिवा निशि ॥७४९॥अनग्नौ च स्फुलिंगाश्व ज्वलंन च विनेंधनम् ॥ निशींद्रचापंडूकं शिखरे श्वेतवायसः ॥७५०॥दृश्यंते विस्फुलिंगाश्व गोगजाश्वोष्ट्रागात्रतः ॥ जंतवो द्वित्रिशिरसो जायंते वापि योनिषु ॥७५१॥प्रातः सूर्याश्वतसृषु ह्रर्दितायुगपद्रवेः ॥ जम्बूकग्रासंवासः केतूनां च प्रदर्शनम् ॥७५२॥काकानाकुलं रात्रौ कपोतानां दिवा यदि ॥ अकाले पुष्पित्ता वृक्षा दृश्यंते फलिता यदि ॥७५३॥कार्यं तच्छेदनं तत्र ततः शांतिर्मनीषिभिः ॥ एवमाद्या महोत्पाता बहवः स्थाननाशदा ॥७५४॥केचिन्मृत्युप्रदाः केचिच्छत्रुभ्यश्व भयप्रदा ॥ मध्याद्धयं यशो मृत्युः क्षयः कीर्तिः सुखासुखम् ॥७५५॥ऐस्वर्यं धनहानिं च मधुच्छन्नं च वाल्मिकम् ॥ इत्यादिषु च सर्वेषूत्पातेषु द्विजसत्तम् ॥७५६॥शांतिं कुर्यात्प्रयत्नेन कल्पोक्तविधिना शुभम् ॥ इत्येतत्कथितं विप्र ज्यौतिषं ते समासतः ॥७५७॥अतः परं प्रवक्ष्यामि च्छदः शास्त्रमनुत्तमम् ॥७५८॥इति श्रीबृहन्न०पूर्व०बृहदुपाख्याने द्वितीयपादे षट्पञ्चाशत्तमोऽध्यायः ॥५६॥ N/A References : N/A Last Updated : June 05, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP