सनक उवाच ॥
भूयः श़ृणुष्व विप्रेंद्र माहात्म्यं कमलापतेः ॥ कस्य नो जायते प्रीतिः श्रोतुं हरिकथामृतम् ॥१॥
नराणां विषयान्धानां ममताकुलचेतसाम् ॥ एकमेव हरेर्नाम सर्वपापप्रणाशनम् ॥२॥
सकृद्वा न नमेद्यस्तु विष्णुं पापहरं नृणाम् ॥ श्र्वपचं तं विजानीयत्कदाचिन्नालपेच्च तम् ॥३॥
हरिपूजाविहीनं तु यस्य वेश्म द्विजोत्तम ॥ श्मशानसदृशं तद्धि कदाचिदपि नो विशेत् ॥४॥
हरिपूजाविहीनाश्र्च वेदविद्वेषिणस्तथा ॥ गोद्विजद्वेषनिरता राक्षसाः परिकीर्त्तिताः ॥५॥
यो वा को वापि विप्रेंन्द्र विप्रद्वेषपरायणः॥ समर्चयति गोविंद तत्पूजा विफला भवेत् ॥६॥
अन्यश्रेयोविनाशार्थं येऽर्चयंति जनार्दनम् ॥ सा पूजैव महाभाग पूजकानाशु हंति वै ॥७॥ ह
रिपूजाकरो यस्तु यदि पापं समाचरेत् ॥ तमेव विष्णुद्वेष्टारं प्राहुस्तत्त्वार्त्थकोविदाः ॥८॥
ये विष्णुनिरताः संति लोकानुग्रहतत्पराः ॥ धर्मकार्यरताः शश्र्वद्विष्णुरूपास्तु ते मताः ॥९॥
कोटिजन्मर्जितैः पुण्यैर्विष्णुभक्तिः प्रजायते ॥ दृढभक्तिमतां विष्णौ पापबुद्धिः कथं भवेत् ॥१०॥
जन्मकोट्यर्जितं पापं विष्णुपूजारतात्मनाम् ॥ क्षयं याति क्षणादेव तेषां स्यात्पापधीः कथम् ॥११॥
विष्णुभक्तिविहीना ये चंडालाः परिकीर्तिताः ॥ चंडाला अपि वै श्रेष्ठा हरिभक्तिपरायणाः ॥१२॥
नराणां विषयांधानां सर्वदुःखविनाशिनी ॥ हरिसेवेति विख्याता भुक्तिमुक्तिप्रदायिनी ॥१३॥
संगात्स्नेहाद्भयाल्लोभादज्ञानाद्वापि यो नरः ॥ विष्णोरुपासनं कुर्यात्सोऽक्षयं सुखमश्नुते ॥१४॥
हरिपादोदकं यस्तु कणमात्रं पिबेदपि ॥ स स्नातः सर्वतीर्थेषु विष्णोः प्रियतरो भवेत् ॥१५॥
अकालमृत्युशमनं सर्वव्याधिविनाशनम् ॥ सर्वदुःखोपशमनं हरिपादोदक स्मृतम् ॥१६॥
नारायणं परं धाम ज्योतिषां ज्योतिरूत्तमम् ॥ ये प्रपन्ना महात्मानस्तेषां मुक्तिर्हि शाश्र्वती ॥१७॥
अत्राप्युदाहरंतीममितिहासं पुरातनम् ॥ पठतां श़ृष्वतां चैव सर्वपापप्रणाशनम् ॥१८॥
आसीत्पुरा कृतयुगे गुलिको नाम लुब्धकः ॥ परदारपरद्रव्यहरणे सततोद्यतः॥१९॥
परनिंदापरो नित्यं जन्तूपद्रवकृत्तथा ॥ हतवाप्ब्राह्मणान् गाश्र्च शतशोऽथ सहस्रशः ॥२०॥
देवस्वहरणे नित्यं परस्वहरणे तथा ॥ उद्युक्तः सर्वदा विप्र कीनाशानामधीश्र्वरः ॥२१॥
तेन पापान्यनेकानि कृतानि सुमहांति च ॥ न तेषां शक्यते वक्तुं संख्या वत्सरकोटिभिः ॥२२॥
स कदा चिन्महापापो जतृनामन्तकोपमः ॥ सौवीरराज्ञो नगरं सर्वैश्र्वर्यसमन्वितम् ॥२३॥
योषिद्भिषितार्भिश्र्च सरोभिनिर्मलोदकैः ॥ अलंकृतं विपणिभिर्ययौ देवपुरोपमम् ॥२४॥
तस्योपवनमध्यस्थं रम्यं केशवमंदिरम् ॥ छादितं हेमकलशैर्दृष्ट्वा व्याधो मुदं ययौ ॥२५॥
हराम्यत्र सुवर्णानि बहुनीति विनिश्र्चितम् ॥ जगामाभ्यंतरं तस्य कीनाशश्र्चौर्यलोलुपः॥२६॥
तत्रापश्यद्विजवरं शांतं तत्त्वार्थकोविदम् ॥ परिचर्यापरं विष्णोरुत्तकं तपसां निधिम् ॥२७॥
एकाकिनं दयालुं च निस्पृहं ध्यानलोलुपम् ॥ चौर्यान्तरायकर्तारं तं दृष्ट्वा लुब्धको मुने ॥२८॥
द्रव्यजातं तु देवस्य हर्तुकामोऽतिसाहसी ॥ उत्तकं हंतुमारेभे विधुतासिर्मदोद्धतः॥२९॥
पादेनाक्रम्य तद्वक्षो जटाः संगृह्य पाणिना ॥ हंतुं कृतमतिं व्याधमुत्तकः प्रेक्ष्य चाब्रवीत् ॥३०॥
उत्तंक उवाच ॥
भो भो साधे वृथा मां त्वं हनिष्यसि निरागसम् ॥ मया किमपरा ते तद्वदस्व महामते ॥३१॥
कृतापराधिनां लोके शक्ताः शिक्षां प्रकुर्वते ॥ नहि सौम्य वृथा घ्नंति सज्जना अपि पापिनः ॥३२॥
विरोधिष्वपि मूर्खेषु निरीक्ष्यवास्थितान् गुणान् ॥ विरोधं नहि कुर्वंति सज्जनाः शांतचेतसः॥३३॥
बहुधा बोध्यमानोऽपि यो नरः क्षमयान्वितः ॥ तमुत्तमं नरं प्राहुर्विष्णोः प्रियतरं सदा ॥३४॥
सुजनो न याति वैरं परहितबुद्धिर्विनाशकालेऽपि ॥ छेदेऽपि चंदनतरुः सुरभयति मुखं कुठारस्य ॥३५॥
अहो विधिः सुबलवान्बाधते बहुधा जनान् ॥ सर्वसंगविहीनोऽपि बाध्यते हि दुरात्मना ॥३६॥
अहो निष्कारणं लोके बांधते बहुधा जनान् ॥ सर्वसंगविहीनोऽपि बाध्यते पिशुनैर्जनैः ॥ तत्रापि साधून्बाधंते न समानान्कदाचन ॥३७॥
मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तीनाम् ॥ लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥३८॥
अहो बलवती माया मोहयत्यखिलं जगत् ॥ पुत्रमित्रकलत्रार्थं सर्वं दुःखेन योजयेत् ॥३९॥
परद्रव्यापहारेण कलत्रं पोषितं त्वया ॥ अंते तत्सर्वमुत्सृज्य एक एव प्रयाति वै ॥४०॥
मम माता मम पिता मम भार्या ममात्मजाः ॥ ममेदमिति जंतूनां ममता बाधते वृथा ॥४१॥
यावदर्जयति द्रव्यं बांधवास्तावदेव हि ॥ धर्माधर्मौ सहैवास्तमिहामुत्र न चापरः॥४२॥
धर्माधर्मार्जितैद्रव्यैः पौषिता येन ये नराः ॥ मृतमग्निमुखे हुत्वा घृतान्नं भुंजते हि ते ॥४३॥
गच्छंतं परलोकं च नर तु ह्यनुतिष्ठतः ॥ धर्माधर्मौ न च धनं न पुत्रा न च बांधवाः ॥४४॥
कामः समृद्धिमायाति नराणां पापकर्मिणाम् ॥ कामः संक्षयमायाति नराणां पुण्यकर्मणाम् ॥४५॥
वृथैव व्याकुला लोका धनादीनां सदार्जने ॥४६॥
यद्भावि तद्भवत्येव यदभाव्यं न तद्भवेत् ॥ इति निश्र्चितबद्धीनां न चिंता बाधते क्वचित् ॥४७॥
देवाधीनमिदं सर्वं जगत्स्थावरजंगमम् ॥ तस्माज्जन्म च मृत्युं च दैवं जानाति नापरः ॥४८॥
यत्र कुत्र स्थितस्यापि यद्भाव्यं तद्भवेद् ध्रुवम् ॥ लोकस्तु तत्र विज्ञाय वृथायांस करोति हि ॥४९॥
अहो दुःखं मनुष्याणां ममताकुलचेतसाम् ॥ महापापानि कृत्वापि परान्पुष्यंति यत्नतः ॥५०॥
अर्जितं च धनं सर्वं भुंजते बांधवाः सदा ॥ स्वयमेकतमो मूढस्तत्पापफलमश्र्नुते ॥५१॥
इति ब्रुवाणं तमुषिं विमुच्य भयविह्वलः ॥ गुलिकः प्रांजलिः प्राह क्षमस्वेति पुनः पुनः ॥५२॥
सत्संगस्य प्रभावेण हरिसन्निधिमात्रतः ॥ गतपापो लुब्धकश्र्च ह्यनुतापीदमब्रवीत् ॥५३॥
मया कृतानि पापानि महांति सुबहूनि च ॥ तानि सर्वाणि नष्टानि विप्रेंद्र तव दर्शनात् ॥५४॥
अहोऽहं पापधीर्नित्यं महापापमुपाचरम् ॥ कथं मे निष्कृति र्भूयो यामि कं शरणं विभोः ॥५५॥
पूर्वजन्मार्जितैः पापैर्लुब्धकत्वमवाप्तवान् ॥ अत्रापि पापजालानि कृत्वा कां गतिमाप्नुयाम् ॥५६॥
अहो ममायुः क्षयमेति शीघ्रं पापान्यनेकानि समर्ज्जितानि ॥ प्रतिक्रिया नैव कृता मयैषां गतिश्र्च का स्यान्ममजन्म किं वा ॥५७॥
अहो विधिः पापशता कुलं मां किं सृष्टवान्पापतरं च शश्र्वत् ॥ कथं च यत्पापफलं हि भोक्ष्ये कियत्सु जन्मस्वहमुग्रकर्मा ॥५८॥
एवं विनिंदन्नात्मानमात्मना लुब्धकस्तदा ॥ अंतस्तापाग्निसंतप्तः सद्यः पंचत्वमागतः ॥५९॥
उत्तंकः पतितं प्रेक्ष्य लुब्धकं तं दयापरः ॥ विष्णुपादोदकैनैवमभ्यषिंचन्महामतिः॥६०॥
हरिपादोदकस्पर्शाल्लुब्धको गतकल्मषः॥ दिव्यं विमानमारुह्य मुनिमेतदथाब्रवीत् ॥६१॥
गुलिक उवाच ॥
उत्तंक मुनिशार्दूल गुरुस्त्वं मम सुव्रत ॥ विमुक्तस्त्वत्प्रसादेन महापातककंचुकात् ॥६२॥
गतस्त्वदुपदेशान्मे संतापो मुनिपुंगव ॥ तथैव सर्वपापानि विनष्टान्यतिवेगतः ॥६३॥
हरिपादोदकं यस्मान्मयि त्वं सिक्तवान्मुने ॥ प्रापितोऽस्मि त्वया तस्मात्तद्विष्णोः परमं पदम् ॥६४॥
त्वयाहं तारितो विप्र पापादस्माच्छरीरतः ॥ तस्मान्नतोऽस्मि ते विद्वन्मत्कृतं तत्क्षमस्व च ॥६५॥
इत्युक्त्वा देवकुसुमैर्मुनिश्रेष्ठं समाकिरन् ॥ प्रदक्षिणात्रयं कृत्वा नमस्कारं चकार सः ॥६६॥
ततो विमानमारुह्य सर्वकामसमन्वितम् ॥ अप्सरोगणसंकीर्णः प्रपेदे हरिमंदिरम् ॥६७॥
एतदृष्ट्वा विस्मितोऽसौ ह्युंत्तंकस्तपसांनिधिः॥ शिरस्यंजलिमाधाय तुष्टाव कमलापतिम् ॥६८॥
तेन स्तुतो महाविष्णुर्दत्तवान्वरमुत्तमम् ॥ वरेण तेनोत्तंकोऽपि प्रपेदे परमं पदम् ॥६९॥
इति श्री बृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुमाहात्म्ये सप्तत्रिंशोऽध्यायः॥३७॥