संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः| नामाशीतितमोऽध्यायः श्री नारदीयमहापुराणम् : पूर्वभागः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पंचविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पंचत्रिशोंऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पश्वचत्वारिशत्तमोऽध्यायः षट्रचत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोध्यायः पञ्चाशत्तमोऽध्यायः एकपंचाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषाष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुष्षष्टितमोऽध्यायः पञ्चषष्टिमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षटसप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्याय एकोनाशीतितमोऽध्यायः नामाशीतितमोऽध्यायः नामैकाशीतितमोऽध्यायः व्द्यशीतितमोऽध्यायः त्र्यशीतितमोऽधायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः नामाष्टाशीतितमोऽध्यायः नामैकोननवतितमोऽध्यायः नवतितमोऽध्यायः नामैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः नामाष्टनतितमोऽध्यायः नामैकोनशततमोऽध्यायः शततमोऽध्यायः नामैकोत्तरशततमोऽध्यायः द्वयुत्तरशततमोऽध्यायः त्र्युत्तरशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडुत्तशततमोऽध्यायः सप्तोत्तशततमोऽध्यायः नामाष्टोत्तरशततमोऽध्यायः नवोतरशततमोऽध्यायः दशोत्तरशततमोऽध्यायः नामैकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाघिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशदधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशतमोऽध्यायः पंचविंशोत्तरशततमोऽध्यायः श्री नारदीयमहापुराणम् - नामाशीतितमोऽध्यायः `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण नामाशीतितमोऽध्यायः Translation - भाषांतर सूत उवाच ॥श्रुत्वा तु नारदो विप्राः कुमारवचनं मुनिः ॥ यत्पप्रच्छ पुनस्तच्च युष्मभ्यं प्रवदाम्यहम् ॥१॥कार्तवीर्यस्य कवंच तथा हनुमतोऽपि च ॥ चरितं च महत्पुण्यं श्रुत्वा भूयोऽब्रवीद्वचः ॥२॥नारद उवाच ॥साधु साधु मुनिश्रेष्ठ त्वयातिकरुणात्मना ॥ श्रावितं चरितं पुण्यं शिवस्य च हनूमतः ॥३॥तन्त्रस्यांस्य क्रमप्राप्तं कथनीयं च यत्त्वया ॥ तत्प्रबूहि महाभाग किं पृष्टान्यद्विदांवर ॥४॥सनत्कुमार उवाच ॥अथ वक्ष्ये कृष्णमंत्रान्भुक्तिफलप्रदान् ॥ ब्रह्माद्या यान्समाराध्य सृष्टयादिकरणे क्षमाः ॥५॥कामः कृष्णपदं डन्तं गोविंद च तथाविधम् ॥ गोपीजनपदं पश्वाद्वल्लभायग्रिसुंदरी ॥६॥अष्टादशार्णो मंत्रोऽयं दुर्गाधष्ठातृदैवतः ॥ नारदोऽस्य मुनिश्छंदो गायत्री देवता पुनः ॥७॥श्रीकृष्णः परमात्मा च कामो बीजं प्रकीर्तितम् ॥ स्वाहा शक्तिर्नि योगस्तु चतुर्वर्गप्रसिद्धये ॥८॥ऋषिं शिरसि वक्रे तु छंदश्व देवताम् ॥ गुह्ये बीजं पदोः शक्तिं न्यसेत्साधकसत्तमः ॥९॥युगवेदाब्धि निगमैर्द्वाभ्यां वणैर्मनूद्धवैः ॥ पंचगानि प्रविन्यस्य तत्त्वन्यासं समाचरेत् ॥१०॥ह्रदंतिमादिकांतार्णपराद्यानि चात्मने ॥ मत्यंतानि च तत्वानि जीवाद्यानि न्यसेत्क्रमात् ॥११॥जीवं प्राणं मतिमहंकारं मनस्तथैव च ॥ शब्दं स्पर्श रुपरसौ गंधं श्रोत्रं त्वचं तथा ॥१२॥नेत्रं च रसनां घ्राणं वाचं पाणिं पदेंद्रियम् ॥ पायुं शिश्रमथाकाशं वायुं वह्रिं जलं महीम् ॥१३॥जीवं प्राण च सर्वांगे मत्यादित्रितयं ह्रदि ॥ मूर्द्धास्यह्रद्वह्य पादेष्वथ शब्दादिकान्न्यसेत् ॥१४॥कर्णादिस्वस्वस्थानेषु श्रोत्रादिनींद्रियाणि च ॥ तथा वागादींद्रयाणि स्वस्वस्थानेषु विन्यसेत् ॥१५॥मूद्ध स्यह्रदुह्यपादेष्वाकाशादीन्न्यसेत्ततः ॥ ह्रत्पुंडरीकमर्कैन्दुवह्रिबिंबान्यनुक्रमात् ॥१६॥द्विषटह्यष्टदशकलाव्याप्तानि च तथा मतः ॥ भूताष्टां गाक्षिपदगैर्वणैः प्रग्विन्न्यद्धृदि ॥१७॥अथाकाशदिस्थलेषु वासुदेवादिकांस्ततः ॥ वासुदेवः संकर्षणः प्रद्युम्न्श्वानिरुद्धकः ॥१८॥नारायण क्रमशः परमेष्टयादिभिर्युताः ॥ परमेष्ठिमांच्छौचविश्वनिष्ठत्तिसर्वकाः ॥१९॥श्वेतानिलाग्न्यबुभूमिवर्णैः प्राग्वत्प्रविन्यसेत् ॥ स्वबीजाद्यं कोपतत्वं नृसिंह व्यापकेन च ॥२०॥प्राग्वद्विन्यस्य सर्वांगे तत्त्वन्यासोऽयमीरेतः ॥ मकारद्या आद्यवर्णाः सर्वे स्युश्वंद्रभूषिताः ॥२१॥वासुदेवादिका ज्ञेया ङेता साधकसत्तमैः ॥ प्राणायामं ततः कृत्वा पूरकुम्भकरेचकैः ॥२२॥चतुर्भिः षडिर्द्वाभ्यां च मूलमंत्रेण मंत्रवित् ॥ केचिदाहुरिहाचार्याः प्राणायामोत्तरं पुनः ॥२३॥पीठन्यासं विधायाथ न्यासानन्यान्समाचरेत् ॥ दशतत्त्वादि विन्यस्य वक्ष्यमाणविधानतः ॥२४॥मूर्तिपंजरनामानं पूर्वोक्तं विन्यसेदूबुधः ॥ सर्वांगे व्यापकं कृत्वा किरीटमनुना सुधीः ॥२५॥ततस्तापुटं मंत्रं व्यापय्य करयोस्त्रिशः ॥ पंचांगुलीषु करयोः पंचांगं विन्यसेत्ततः ॥२६॥त्रिशी मूलेन मूर्द्धादिपादांतं व्यापकं न्यसेत् ॥ सकृद्वयापय्य तारेण मंत्रन्यासं ततश्वरेत् ॥२७॥शिरोललाटे भ्रूमध्ये कर्णयोश्वक्षुषोस्तथा ॥ घ्राणयोर्वदने कंठे ह्रदि नाभौ तथा पुनः ॥२८॥कट्यां लिंगे जानुनोश्व पादयोर्विन्यसेत्क्रमात् ॥ ह्रदंतान्मंत्रवर्णाश्व ततो मूर्ध्नि ध्रुवं न्यसेत् ॥२९॥पुनर्नयनयोरास्ये ह्रदि गुह्ये च पादयोः ॥ विन्यसेद्धृदयांतानि मनोः पंचपदानि च ॥३०॥भूयो मुन्यादिकं न्यस्त पंचांगं पूर्ववन्न्यसेत् ॥ अथ वक्ष्ये महागुह्यं सर्वन्यासोत्तमोत्तमम् ॥३१॥यस्य विज्ञानमात्रेण जीवन्मुक्तो भवेन्नरः ॥ आणि माद्यष्टसिद्धीनामीश्वरः स्यान्न संशयः ॥३२॥यस्याराधनतो मंत्री कृष्णसांनिध्यतां व्रजेत् ॥ ताराद्याभिर्व्यात्दृतिभिः संपुटं विन्यसेन्मनुम् ॥३३॥मंत्रेण पुटिताश्वापि प्रणद्यांस्ततो न्यसेत् ॥ गायत्र्या पुटितं मंत्रं विनसेन्मातृकास्थले ॥३४॥मंत्रेण पुटितां तां च गायत्रीं विन्यसेत्क्रमात् ॥ मातृकापुटितं मूलं विन्यसेत्साधकोत्तमः ॥३५॥मूलेन पुटितां चैव मातृकां विन्यसेत्क्रमात् ॥ तृचं न मातृकावर्णान्पूर्व तत्तत्स्थले सुधीः ॥३६॥विन्यसेन्न्यासषटं च षोढा न्यासोऽयमीरितः ॥ अनेन न्यासवर्येण साक्षात्कृष्णसमो भवेत् ॥३७॥न्यासेन पुटितं दृष्ट्रा सिद्धगंधर्वकिन्नराः । देवा अपि नमंत्येनं किंपुनमार्नवा भुवि ॥३८॥सुदर्शनस्य मंत्रेण कुर्याद्दिग्बंधंत ततः ॥ देवं ध्यायन्स्वह्रदये सर्वाभीष्टप्रदायकम् ॥३९॥उत्फुल्लकुसुम व्रातनम्रशाखैर्वरद्रुमैः ॥ सस्मेयमंजरीवृंदवल्लरीवेष्टितैः शुभैः ॥४०॥गलत्पगधूलीभिः सुरभीकृतादिङ्मुखः ॥ स्मरेच्छिशिरितं वृंदावन् मंत्री समाहितः ॥४१॥उन्मीलन्नवकंजालिविगन्मधुसंचयैः ॥ लुब्धांतः करणैर्गुजद्दिरेफपटलैः शुभम् ॥४२॥मरालपरभृत्कीरकपोतनिकरैर्मुहुः ॥ मुखरीकृतमानृत्यन्मायूरकुलमंजुलम् ॥४३॥कालिंद्या लोककल्लोलविप्रुषैर्मंदवाहिभिः ॥ उन्निद्रांबुरुहव्रातरजोभिर्धूसरैः शिवैः ॥४४॥प्रदीपित स्मरैगौष्ठसुंदरीमृदुवाससाम् ॥ विलोलनपरैः संसेवितं वा तैर्निरंतरम् ॥४५॥स्मरेत्तदंते गीवार्नभूरुहं सुमनोहरम् ॥ तदधः स्वर्णवेद्यां च रत्नपी ठमनुत्तमम् ॥४६॥रत्नकुट्टिपीठेऽस्मिन्नरुणं कमलं स्मरेत् ॥ अष्टपत्रं च तन्मध्ये मुंकुद्दं संस्मरेत्स्थितम् ॥४७॥फुल्लेंदीवरकांतं च केकिबर्हावतं सकम् ॥ पीतांशुकं चंद्रमुखं सरसीरुहनेत्रकम् ॥४८॥कौस्तुभोद्धासितांगं च श्रीवत्सांकं सुभूषितम् ॥ व्रजस्त्रीनेत्रकमलाभ्यर्चित गोगणावृतम् ॥४९॥गोपवृंदयुतं वंशीं वादयंतं स्मरेत्सुधीः ॥ एवं ध्यात्वा जपेदादावयुतद्वितयं बुधः ॥५०॥जुहुयादरुणांभोजैस्तद्दशांशं समाहितः ॥ जपेत्पश्वान्मंत्रसिद्धयै भूतलक्षं समाहितः ॥५१॥अरुणैः कमलैहुत्वा सर्वसिद्द्धिश्वरो भवेत् ॥ पूर्वोक्ते वैष्णवे पीठे मूर्ति संकल्प्य मूलतः ॥५२॥तस्यामावाह्य चाभ्यर्चेद्धोपीजनमनोहरम् ॥ मुखे वेणुं समभ्यर्च्य वनमालां च कौस्तुभम ॥५३॥श्रीवत्सं च त्दृद्दि प्रार्च्य ततः पुष्पांजलिं क्षिपेत् ॥ ततः श्वेतां च तुलसीं शुल्कचंदनपंकिलाम् ॥५४॥रक्तां च तुलसीं रक्तचंदनाक्तां क्रसात्सुधीः ॥ अर्पयेद्दक्षिणे वामभागे ध्यायन्सुरेश्वरम् ॥५५॥हयमारद्वयेनैव ह्रदि मूर्न्धि तथा पुनः ॥ पद्मद्वयं च विधिवत्ततः शीर्षे समर्पयेत् ॥५६॥तुलसीद्वयमंभो जद्वयमश्वारियुग्मकम् ॥ ततः सर्वाणि पुष्पाणि सर्वाङेषु समर्पयेत् ॥५७॥दक्षिणे वासुदेवाख्यं स्वच्छं चैतन्यमव्ययम् ॥ वामे च रुक्मिणी तद्वन्नित्यां रक्तां रजोगुणाम् ॥५८॥एवं संपूज्य गोपालं कुर्यादावरनार्चनम् ॥ यजेद्दामसुदामौ च वसुदामं च किंकिणीम् ॥५९॥पूर्वा द्याशासु दामाद्या ङेंनमोन्तध्रुवादिकाः ॥ अग्निनैऋतिवाय्यीशकोणेषु ह्रदयादिकान् ॥६०॥दिक्ष्वस्त्राणि समभ्यर्च्य पत्रेषु महिषीर्यजेत् ॥ रुक्मिंणी सत्यभामा च नाग्रजित्यभिधा पुनः ॥६१॥सुविंदा मित्रविंदा च लक्ष्मणा चर्क्षजा ततः ॥ सुशीला च लसद्रम्यचित्रितांबरभूषणा ॥६२॥ततो यजेद्दलाग्रेषु वसुदेवञ्च देवकीम् ॥ नंदगोपं यशोदां च बलभद्रं सुभद्रिकाम् ॥६३॥गोपान् गोपीश्व गोविंदविलीनमतिलोचनान् ॥ ज्ञानमुद्राभयकरौ पितरौ पीतपांडुरौ ॥६४॥दिव्यमाल्यांबरालेपभूषणे मातरौ पुनः ॥ धारयंत्यौ चरुं चैव पायसीं पूर्णपात्रिकाम् ॥६५॥अरुणश्यामले हारमणिकुंडलंमडिते ॥ बलः शंखेंदुधवलो मुशलं लांगलं दधत् ॥६६॥हालालोलो नीलवासा हलवानेककुंडलः ॥ कला या श्यामला भद्रा सुभद्रा भद्रभूषणा ॥६७॥वराभयुता पीतवसना रुढयौवना ॥। वेणुवीणाहेमयष्टिशंख श्रृंगादिपाणयः ॥६८॥गोपा गोप्यश्व विविधप्राभृतान्नकरांबुजाः ॥ मंदारादींश्व तद्वाह्ये पूजयेत्कल्पपादपान् ॥६९॥मंदारश्व तथा संतानको वै पारिजातकः ॥ कल्पद्रुमस्ततः पश्वाद्द्धरिचन्दनसंज्ञकः ॥७०॥मध्ये दिक्षु समभ्यर्च्य बहिः शुक्रादिकान्यजेत् ॥ तदस्त्राणि च संपूज्य यजेत्कृष्णाष्टकेन च ॥७१॥कृष्णं च वासुदेवं च देवकीनन्दनं तथा ॥ नारायणं यदुश्रेष्ठं वार्ष्णैयं धर्मपालकम् ॥७२॥असुराकांतभूभारहारिणं पूजयेत्ततः ॥ एभिरावरणैः पूजा कर्तव्यासुरवैरिणः ॥७३॥संसारसागरोतीर्त्यै बुधैः ॥ एवं पूजादिभिः सिद्धा भवद्वश्रवणो यमः ॥७४॥त्रिकालपूजनं चास्य वक्ष्ये सर्वार्थसिद्धिदम् ॥ श्रीमदुद्यानसंवीतिहेमभूरत्नमंडपे ॥७५॥लसत्कपद्रुमाधस्थरत्नाब्जपीठसंस्थितम् ॥ सुत्रामरत्नसंकाशं गुडस्निग्धालकं शिशुम् ॥७६॥चलत्कन ककुंडलोल्लसित्चारुगंडस्थलं सुघोणधरमद्धुतास्मितमुख्यवुतं सुन्दरम् ॥ स्फुरद्विमलरत्नयुक्कनकसूत्रनद्धं दधत्सुवर्णपरिमंडितं सुभगपौंडरीकं नखम्॥७७॥समुद्धूसरोरस्थले धेनुधूल्या सुपुष्टांगमष्टापदाकल्पदीप्तम् ॥ कटीलस्थले चारुजंघान्तयुग्मं पिनद्धं क्कणत्किंकिणीजालदाम्रा ॥७८॥हसन्तं हसद्वंधुजीवप्रसूनप्रभापाणिपादांबुजोदारकांत्या ॥ दधानं करे दक्षिणे पायसान्न सुहैयंगवीनं तथा वामहस्ते ॥७९॥लसद्रोपगोपीगवां वृंदमध्ये स्थितं वासवाद्यैः सुरैरर्चिताघ्रिम् ॥ महीभारमरारातियूथांस्ततः पूतनादीन्निहंतुं प्रवृत्तम ॥८०॥एवं ध्यात्वार्च्चद्देवं पूर्ववत्स्थिरमा नसः ॥ दघ्ना गुडने नैवेद्यं दत्वा दशशतं जपेत् ॥८१॥मध्यांदिने यजेदेवं विशिष्टरुपधारिणम् ॥ नारदाद्यैर्मुनिगणैः सुरवृन्दैश्व पूजितम् ॥८२॥लसद्वोपगोपीगवां वृन्दमध्यस्थित सांद्रमेघप्रभं सुन्दरांगम् ॥ शिखंडिच्छपीडमब्जायताक्षं लसच्चिल्लिकं पूर्णचद्राननं च ॥८३॥चलत्कुण्डलोल्ला सिगंडस्थलश्रीभरं सुन्दरं मंदहांस सुनासम ॥ सुकार्तस्वराभांबर दिव्यभूषं क्कणत्किंकिणीजालमत्तानुलेपम् ॥८४॥वेणुं धमंतं स्वकरे दधानं सव्ये दरं यष्टिसुदारवेषम् ॥ दक्षे तथैवेप्सितदानदक्षं ध्यात्वारयन्नेदंजमिंदिराप्त्यै ॥८५॥एवं ध्यात्वार्चयेत्कृष्णं पूर्ववद्वैष्नवोत्तमः ॥ अपूपायसान्नाद्यैनैवेद्यं परिकल्पयेत् ॥८६॥हुत्वा चाष्टोत्तरशतं पयोऽन्नैः सर्पिणाप्लुतैः ॥ स्वस्वदिक्षु बलिं दद्याद्दिशेदाचमनं ततः ॥८७॥अष्टोत्तरसहस्त्रं च प्रजपेन्मंत्रसुत्तमम् ॥ अह्रो मध्ये यजेदेवं यःकृष्ण वैष्णवोत्तमः ॥८८॥देवाः सर्वे नमस्यंति लोकानां वल्लभो नरः ॥ मेधायुः श्रीकांतियुक्तः पुत्रैः पौत्रैश्व वर्द्धते ॥८९॥तृतीयकालपूजायामस्ति कालविकल्पना ॥ सायाह्रे निशि वेत्यत्र वदंत्येके विषश्वितः ॥९०॥दशाक्षरेण चेद्रात्रौ सायाह्रेऽष्टादशार्णतः ॥ उभर्यामुभयेनैव कुर्यादित्यपरे जगुः ॥९१॥सायाह्रे द्वारवत्यां तु चित्रोद्यानोपशोभिते ॥ अष्टसाहस्त्रसंख्यातैर्भवनैरुपमंडिते ॥९२॥हंससारससंकीर्णकमलोत्पलशालिभिः ॥ सरोभिर्निर्मलांभोभिः परीते भवनोत्तमे ॥९३॥उद्यत्प्रद्योतनोद्योतद्युतौ श्रीमणिमंडले ॥ हेमांभोजासनासीनं कृष्णं त्रैलोक्यमोहनम् ॥९४॥मुनिवृंदैः परिवृतमात्मतत्त्वविनिर्णये ॥ तेभ्यो मुनिभ्यः स्वं धाम दिशंतं परमक्षरम् ॥९५॥उन्निद्रेंदीवरश्यामं पद्मपत्रायत्रेक्षणम् ॥ स्निग्धं कुंतलसंभिन्नकिरीटमालिनम् ॥९६॥चारुप्रसन्नवदनं स्फुरन्मकुंडलम् ॥ श्रीवत्स वक्षसं भ्राजत्कौस्तुभ सुमनोहरम् ॥९७॥काश्मीरकपिशोरस्कं पीतकौशेयवाससम् ॥ हारकेयूरकटककटिसूत्रैरलंकृतम् ॥९८॥ह्रतविश्वंभ राभूरिभारं मुदितमानसम् ॥ शंखचक्रगदापद्मराजद्धुजचतुष्टयम् ॥९९॥एवं ध्यात्वार्चयेन्मन्त्री स्यादंगैः प्रथमावृतिः ॥ द्वितीया महिषीभस्तु तृतीयायां समर्चयेत् ॥१००॥नारदं पर्वतं जिष्णुं निशठोद्धवदारुकान् ॥ विष्वक्सेनं च शैनेयं दिक्ष्वग्रे विनतासुतम् ॥१०१॥लोकपालैश्व वज्राद्यैः पूजयेद्वैष्णवोत्तमः ॥ एवं संपूज्य विधिवत्पायसं विनिदयेत् ॥१०२॥तर्पयित्वा खंडमिश्रदुग्धबुद्धया जलैरिह ॥ जपेदष्टशतं मन्त्री भावयन्पुरुषोत्तमम् ॥१०३॥पूजासु होमं सर्वासु कुर्यान्मध्यंदिनेऽथवा ॥ आसनादर्घ्यपर्यंतं कृत्वा स्तुत्वा नमेत्सुधीः ॥१०४॥समर्थात्मानमुद्वास्य स्वीयह्रत्सरसीरुहे ॥ विन्यस्य तन्मयो भूत्वा पुनरात्मानमर्चयेत् ॥१०५॥सायाह्रे वासुदेवं यो नित्यमेवं समर्चयेत् ॥ सर्वान्कामानवाप्यांते स याति परमां गतिम ॥१०६॥ रात्रौ चेन्मदनाक्रांतचेतसं नन्दन्दनम् ॥ यजेद्रासपरिश्रांतं गोपीमंडलमध्यगम् ॥१०७॥विकसत्कुंदकह्रारमल्लिकाकुसुमोद्धतैः ॥ रजोभिर्धूसरैमंदमारुतैः शिशिरीकृते ॥१०८॥उन्मीलनवकैरवालिविगलन्माध्वीकलब्धांतरं भ्राम्यन्मत्तमिलिंदगीतललिते सन्मल्लिकोज्जृभ्भिते ॥ पीयूषांशुकरैर्विशालितहरित्प्रांते स्मरोद्दीपने कालिन्दीपुलिनांगणे स्मितमुखं वेणुंरणंतं मुहुः ॥१०९॥अन्तस्तोयलसन्नवांबुदघटासंघट्टकारत्विषं चंचच्चिकमंबुजायतदृशं बिम्बाधरं सुन्दरम् ॥ मायूरच्छदबद्धमौलिवि लसद्द्धस्मिल्लमालं चलं दीप्यत्कुण्डलरत्नश्मिविलसदंडद्वयोद्धसितम् ॥११०॥कांचीनूपुरहारकंकलसत्केयूरभूषान्वितं गोपीनां द्वितयां तरे सुललितं वन्यप्रसूनस्त्रजम् ॥ अन्योन्यं विनिबद्धगोपदयितादोर्वल्लिवीतं लसद्रासक्रीडनलोलुपं मनसिजाक्रांतं मुकुन्दं भजेत् ॥१११॥विविधश्रुतिभिन्नमनोज्ञमनोज्ञतरस्वरसप्तकमूर्छनतान गणैः ॥ भ्रममाणममूभिरुदारमणिस्फुटमंडनसिंजितचारुतम् ॥११२॥इतरेतबद्धकरप्रमददागण कल्पितरासविहारविधौ ॥ मणिशंकुगमप्यमुना वयुषा बहुधा विहितस्वकदिव्यतनुम् ॥११३॥एवं धात्वार्चयेन्मन्त्री स्यादंगैः प्रथमावृतिः ॥ श्रीकामः सस्वराद्यानि कलाब्जैष्णवोत्तमः ॥११४॥यजेत्केशवकीर्त्यादिमिथुनानि च षोडेश ॥ इन्द्राद्यानपि वज्रादीन्पूजयेत्तदनन्तरम् ॥११५॥पृथुं सुवृत्तं मसृणं वितस्तिमात्रोन्नतं कौ विनिखन्य शंकुम् ॥ आक्रम्य पद्धयमितरेतरैस्तु हस्तैर्भ्रमाऽयं खलु रासगोष्ठी ॥११६॥संपूज्यैव च पयसा ससितो पलसर्पिषा ॥ नैवेद्यमर्चयित्वा तु चषकैर्नृपसंख्यकैः ॥११७॥मत्री मिथुनेष्वर्पयेत्कामात् ॥ विधाय पूर्ववच्छेषं सहस्त्रं प्रजपेन्मनुम् ॥११८॥स्तुत्वा नत्वा च संप्रार्थ्य पूजाशेष समापयेत् ॥ एवं यः पूजयेत्कृष्णं द्धेःपदं भवेत् ॥११९॥अणिमाद्यष्टसिद्धीनामीश्वरः स्यान्न संशयः ॥ भुक्त्वेह विविधान्भोगांनते विष्णुपदं व्रजेत् ॥१२०॥एवं पूजादिभिः सिद्धे मना यानि साधयेत् ॥ अष्टविंशतिवारं वा त्रिकालं पूजयेत्सुधीः ॥१२१॥स्वजाकविहितान् भूयः परिवारांश्व ॥ प्रातर्द्दघ्ना गुडाक्तेन मध्याह्रं पयसा पुनः ॥१२२॥नवनीतयुतेनाथ सायह्री तर्पयेत्पुनः ॥ ससितोपलमि श्रेण पयसा वैष्णवोत्तमः ॥१२३॥तर्पयामिपदं योज्यं मंत्रांते नामसु ॥ द्वितीयांतेषु तु पुनः पुजाशेषं समापयेत् ॥१२४॥अभ्युक्ष्य तत्प्रसादाद्धिरामानं प्रपिबेदपः ॥ तत्तूप्तस्तमथोद्वास्य तन्मयः प्रजमेन्मनुम् ॥१२५॥अथ द्रव्याणि काम्येषु प्रोच्यंते तर्पणेषु च ॥ तानि प्रोक्त विधानानामाश्रित्यान्यतमं भजेत् ॥१२६॥पायसं दाधिकं चाज्यं गौडान्नं कृसर पयः ॥दधीनि कदली मोचा चिंचा रजस्वला तथा ॥१२७॥अपूपा मोदका लाजाः पृथुका नवनीतकम् ॥ द्रव्यषोडशकं ह्येतत्कथितं पद्मजादिभिः ॥१२८॥लाजांते पृथुकं प्राक्च समर्प्य च सितोपलम् ॥ चतुःसप्ततिवारं यःप्रातरेवं प्रतर्पयेत् ॥१२९॥ध्यात्वा कृष्णपदं मंत्री मंडलादिष्टमाप्नुयात् ॥ धारोष्णपक्कपयसा नवनीतं दधीनि च ॥१३०॥दौग्धाम्रभाज्यं मत्स्यंडी क्षौद्रं कीलालमेव च ॥ पूजयेन्नवभिर्द्रव्यैः प्रत्येकं रविसंख्यया ॥१३१॥एवमष्टोतरशतसंख्याकं तर्पणं पुनः ॥ यः कुर्याद्वैष्णवश्रेष्ठः पूर्वोक्त फलमाप्नुयात् ॥१३२॥किं बहूक्तेन सर्वेष्टदायकं तर्पणं त्विदम् ॥ ससितोपलधारोष्णदुग्धबुद्धया जलेन वै ॥१३३॥कृष्णं प्रतपर्यन् ग्रामं व्रजन्प्राप्नोति साधकः ॥ धनवस्त्राणि भोज्यं च परिवारगणैः सह ॥१३४॥यावत्संतर्पयेन्मंत्री तावत्संख्यं जपेन्मनुम् ॥ तर्पणेनैव कार्याणि साधयेदखिलन्यपि ॥१३५॥काम्यहोममथो वक्ष्ये साधकानां हिताय च ॥ श्रीपुष्पैर्जुहुयान्मंत्री श्रियमिच्छन्ननिंदिताम् ॥१३६॥साज्येनान्नेन जुहुयात्घृतान्नस्य समृद्धये ॥ वन्यपुष्पैर्द्विजान् जातीपुष्पैश्व पृथिवीपतीन् ॥१३७॥असितैः कुसुमै वैश्यान् शूद्रन्नीलोतलैस्तथा ॥ वशयेल्लावर्णैः सर्वानंबुजेर्युवतीजनम् ॥१३८॥गोशालासु कृतो होमः पायसेन ससर्पिषा ॥ गवां शांतिं करोत्याशु गोपालो गोकुलेश्वरः ॥१३९॥शिक्षावेषधरं कृष्णं किंकिणीजालशोभितम् ॥ ध्यात्वा प्रतर्पयेन्मंत्री दुग्धबुद्धया शुभैर्जलैः ॥१४०॥धनं धान्य सुतान्कीर्ति प्रीतस्तस्मै ददाति सः ॥ ब्रह्मवृक्षसमिद्धिर्वा कुशैर्वा तिलतंदुलैः ॥१४१॥जुहुयादयुतं मंत्री त्रिमध्वाक्तैर्हुताशने ॥ वशये द्धाह्यणांश्वाथ राजवृक्षसमुद्धवैः ॥१४२॥प्रसूनैः क्षत्रियान्वैश्यान्कुरंडकुसुमैस्तथा ॥ पाटलोत्थैश्व कुसुमैशयेदंतिमन्सुधीः ॥ १४३॥श्वेतपद्मै रक्तपद्मैश्वंपकैः पाटलैः क्रमात् ॥ हुत्वायुतं त्रिमध्वाक्तैर्वशयेत्त्द्वूरांगनाः ॥१४४॥नित्यं हयारिकुसुमौर्निशीथे त्रिमधुप्लुतैः ॥ वरस्त्री र्वशयेत्प्राज्ञः सम्यग्र्धुत्वा दिनाष्टकम् ॥१४५॥अयुतत्रितयं रात्रौ सिध्दाथैस्त्रिमधुप्लुतैः ॥ प्रत्यहं जुह्यतो मासात्सुरेशोऽपि वशीभवेत् ॥१४६॥आह्रत्य बल्लवीवस्त्राण्यारुढं नीपभूरुहे ॥ स्मरेत्कृष्णं जपेद्रात्री सहस्त्रं खेंद्वहात्सुधीः ॥१४७॥हठादाकर्षयेच्छीघ्रसुर्वशीमपि साधकः ॥ बहुना किमिहोक्तेन मंत्रोऽयं सर्ववश्यकृत् ॥१४८॥रहस्यं परमं चाथ वक्ष्ये मोक्षप्रदं नृणाम् ॥ ध्यायेत्स्वह्रत्सरसिजे देवकीनंदनं विभुम् ॥१४९॥श्रीमत्कुन्देंदुगौरं सरसिजनयनं सकलभयहरं पीतवस्त्रं मुरारिम् ॥१५०॥एवं ध्यात्वा पुमांसं स्फुटह्रदयसरोजनासीनमाद्यं सांद्राभोदाच्छबिंबाद्धुतकनकनिभं संजपेदर्कलक्षम् ॥ मन्वोरेकं द्वितारांतरितमथ हुनेदर्कसाहस्त्रमिध्मैः क्षीरिद्रूत्थर्यथोक्तेः समधु घृत्सितेनाथवा पायसेन ॥१५१॥एवं लोकेश्वराराध्यं कृष्णं स्वह्रदयांबुजे ॥ ध्यायन्ननुदिनं मंत्री त्रिसहस्त्रं जपेन्मनुम ॥१५२॥सायाह्रोक्तेन विधिना संपूज्य हवनं पुनः ॥ कृत्वा पूर्वोक्तविधिना मन्त्री तद्धुतमानसः ॥१५३॥एवं यो भजते नित्यं विद्वान् गोपालनंदनम् ॥ समुत्तीर्य भवांभोधिं स याति परमं पदम् ॥१५४॥मध्ये कोणेषु बाह्येष्वनलपुरपुटस्यालिखेत्कर्णिकायां कंदर्प साध्ययुक्तं विवरगतषडर्णंद्विषः केशरेषु ॥ शक्तिः श्रीपूर्विकाणिद्विनवलिपिमनोरक्षराणिच्छदानां मध्ये वर्णान्दशान्तो दशलिपिमनुवर्यस्य वैकैकशोऽब्जम् ॥१५५॥भूसद्मनाभिवृतमस्त्रमन्मथेन गोरोचनाविलिखितं तपनीयसूच्या ॥ पट्टे हिरण्यरचिते गुलिकीकृतं तद्धोपालयंत्रमखिलादमेतदुक्तम् ॥१५६॥संयातसिक्तमभिजप्तमिमं महद्धिर्धार्यं जगत्रवशीकरणैकदक्षम् ॥ रक्षायशः सुतमहीधनधान्यलक्ष्मीसौभाग्यलिप्सुभिरजस्त्रमनर्घ्यवीर्यम् ॥१५७॥स्मरस्त्रिविक्रमाक्रांतश्वाक्रीष्टयाय त्दृदित्यसौ ॥ षडक्षरोऽयं संप्रोक्तः सर्वसिद्धिकरो मनुः ॥१५८॥क्रोडः शान्तीदुवह्ययाढ्यो माया बीज प्रकीर्तितम् ॥ गोविंदवह्रिचन्द्राढ्यो मनुः श्रीबीजमीरितम् ॥१५९॥आभ्यामष्टादशलक्लिपिः स्याद्विंशत्यक्षरो मनुः ॥ शालग्रामे मणौ यत्रे मंडले प्रतिमासु वा ॥१६०॥नित्यं पूजा हरेः कार्या न तु केवलभूतले ॥ एवं यो भजंते कृष्णं स याति परमां गतिम ॥१६१॥विंशार्णस्य मुनिर्ब्रह्मा गायत्री छन्द ईरितम् ॥ कृष्णश्व देवता कामो बीजं शक्तिर्द्विठो बुधैः ॥१६२॥रामग्निवेदवेदाब्धेनैत्राणैरंगकल्पनम् ॥ मूलेन व्यापकं कृत्वा मनुना पुटितानथ ॥१६३॥मातृकार्णान्न्यसेत्तत्तत्स्थानेषु सुसमाहितः ॥ दशतत्त्वानि विन्यस्य मूलेन व्यापकं चरेत् ॥१६४॥मंत्रन्यासं ततः कुर्याद्देवताभावसिद्धये ॥ शीर्ष ललाटे भ्रूमध्ये नेत्रयोः कर्णयोस्तथा ॥१६५॥नसोर्वक्रे च चिबुके कण्ठे दोर्मूलके ह्रदि ॥ उदरे नाभि देशे लिंगे मूलसरोरुहे ॥१६६॥कट्यां जान्वोर्जघयोश्व गुल्फयोः पादयोः क्रमात ॥ न्यसेद्धदंतान्मंत्राणां सृष्टिन्यासोऽयमीरितः ॥१६७॥ह्रदये चोदरे नाभौ लिंगे मूलसरोरुहे ॥ कट्यां जान्वोर्जंघयोश्व गुल्फयोः पादयोस्तथा ॥१६८॥मूर्न्धि कपोले भ्रूमध्ये नेत्रयोः कर्णयोर्नसोः ॥वदने चिबुके कंठे दोर्मूले विन्यसेत्क्रमात् ॥१६९॥नमोतान्मंत्रवर्णाश्व स्थितिसोऽयमीरितः ॥ पादुयोर्गुल्फयोश्वैव जंघयोर्जानुनोस्तथा ॥१७०॥कट्यां मूले ध्वजे नाभौ जठरे ह्रदये पुनः ॥ दोर्मूले कंठदेशे च चिबुके वदने नसोः ॥१७१॥कर्णयोर्नेत्रयोश्वैव भ्रूमध्ये निटिले तथा ॥ मूर्ध्नि न्यसेन्मंत्रवर्णान्संहाराख्योऽयमीरितः ॥१७२॥पुनः सृष्टिस्थितिन्यासौ विधाय वैष्णवोत्तमः ॥ मूर्तिपंजरनामानं विन्यसेत्पूर्वत्ततः ॥१७३॥पुनः षडंगः कृत्वार्थ ध्यायेत्कृष्णं ह्रदंबुजे ॥ द्वारवत्यां सहस्त्रार्कभास्वरैर्भवनोत्तमैः ॥१७४॥अनल्पैः कल्पवृक्षैश्व परीते मणिमण्डपे ॥ ज्वलद्रत्न मयस्तंभद्वारतोरणकुड्यक् ॥१७५॥फुल्लप्रफुल्लसच्चित्रवितानालंबिमौक्तिके ॥ पद्मरागस्थलीराजद्रत्नघैश्व मध्यतः ॥१७६॥अनारतगल द्रत्नधाराढ्यस्वस्तरोरधः ॥ रत्नप्रदीपावलिभिः प्रदीपितादिगंपते ॥१७७॥उद्यदादित्यसंकाशमणिसिंहासनांबुजे ॥ समासीनोऽच्युतो ध्येयो द्रुतहा टकसन्निभः ॥१७८॥समानोदितचंद्रार्कताडित्कोटिसमुद्युतिः ॥ सर्वागंसुंदरः सौम्यः सर्वाभरणभूषितः ॥१७९॥पीतवासाः शंखचक्रगदांभोजल सत्करः ॥ अनाहतोच्छलद्रत्नधारौघकलशं स्पृशान् ॥१८०॥वामपादांबुजाग्रेण मुष्णताः पल्लवच्छविम् ॥ रुक्मिणीसत्यभामेऽस्य मूर्ध्नि रत्नौघ धारया ॥१८१॥सिंचंत्यौ दक्षवामस्थे स्वदोस्थकलशोत्थया ॥ नाग्रजिती सुनंदा च दिशंत्यौ कलशौ तयोः ॥१८२॥ताभ्यां च दक्षवामस्थमित्रविंदासुलक्ष्मणे ॥ रत्ननद्याः समुद्धृत्य रत्नपूर्णौ घटौ तयोः ॥१८३॥जांबवती सुशीला च दिशंत्यो दक्षवामके ॥ बहिःषोडश साहस्त्रसंख्याकाः परितः प्रियाः ॥१८४॥ध्येयाः कनकरत्नोघधारायुक्कलशोज्वलाः ॥ तद्वहिश्चानिधयः पूरयंतो धनैर्धराम् ॥१८५॥तद्वहिर्वृष्णयः सर्वे पुरोवच्च स्वरादय ॥ एवं ध्यात्वा जपेल्लक्षपंचकं तद्दशांशतः ॥१८६॥अरुणैः कमलेर्हुत्वा पीठे पूर्वोदिते यजेत् ॥ विलिप्य गंधपंकेन लिखेददष्टदलांबुजम् ॥१८७॥कर्णिकाया च षटकोण ससाध्यं तत्र मन्मथम् ॥ शिष्टैस्तु सप्तदशभिरक्षरैर्वेष्टयेत्स्वरम् ॥१८८॥प्राग्रक्षोऽनिलकोणेषु श्रियं शिष्टेषु संविदम् ॥ षट्सु संधिषु षटर्णे केसरेषु त्रिशत्रिशः ॥१८९॥विलिखेत्स्मरगायत्रीं मालामंत्र दलाष्टके ॥ षटशः संलिख्य तद्वाह्ये वेष्टयेन्मातृकाक्षरैः ॥१९०॥भूबिंब च लिखेद्वाह्ये श्रीमायादिग्विदिक्ष्वपि ॥ भूग्रहं चतुरस्त्रं स्यादष्टवज्रविभूषितम् ॥१९१॥एतद्यंत्रं हाटका हाटकादिपट्टेष्वालिख्य पूर्ववत् ॥ संस्कृत धारयेद्यो वै सोऽर्च्यते त्रिदशैरपि ॥१९२॥स्याद्धायत्री वामदेवपुष्पबाणौ तु ङेतिमौ ॥ विद्महेधीमहियुतौ तन्नोऽनंगः प्रचोदयात् ॥१९३॥जप्या जपादौ गोपालमनूनां जनरंजनी ॥ ह्रदय्म कामदेवाय ङेंतं सर्वजनप्रियम् ॥१९४॥उक्ता सर्वजनांते तु समोहनपदं तथा ॥ ज्वल ज्वल प्रज्वलेति प्रोच्य सर्वजनस्य च ॥१९५॥ह्रदयं मम च ब्रूयाद्वशंकुरुयुगं शिरः ॥ प्रोक्तो मदनमंत्रोऽष्टत्वारिंशद्धिरक्षरैः ॥१९६॥जपादौ स्मरबीजाद्यो जगत्रयशीकरः ॥ पीठ प्राग्वसम्भ्यर्च्य मूर्ति संकल्प्य मूलतः ॥१९७॥तत्रावाह्याच्युतं भक्त्या सकलीकृत्य पूजयेत् ॥ आसनादिविभूषांतं पुनर्न्यासक्रमाद्यजेत् ॥१९८॥सृष्टिं स्थितिं षडंगं च किरीटं कुंडलद्वयम ॥ शंख चक्रं गदां पद्मं मालां श्रीवत्सकौस्तुभौ ॥१९९॥गन्धपुष्पैः समभ्यर्च्य मूलेन वैष्णवोत्तमः ॥ षटोणेषु षडंगानि दिग्दलेषु क्रमाद्यजेत् ॥२००॥वासुदेवादिकान्कोणेषु तु शांत्यादिकांस्ततः ॥ पत्राग्रगा महिष्योऽष्टौ यजेत्साधकसत्तमः ॥२०१॥ततः षोडशसाहस्त्रं सकृदेवार्चयेत्प्रियाः ॥ इंद्रनीलमुकुंदांश्व करालानंदकच्छपान् ॥२०२॥शंखपद्मौ ततः पश्वान्निधीनष्टौ क्रमाद्यजेत् । तद्वहिर्लोकपालांश्व वज्राद्यानपि पूजयेत् ॥२०३॥एवं सप्तावृत्तिवृतं कृष्णमभ्यर्च्य चादरात् ॥ प्रीणयेद्दधिखंडाज्यमिश्रेण तु पयोंऽधसा ॥२०४॥दिव्योपचारं दत्वाथ स्तुत्वा नत्वा च केशवम् । उद्वासयेत्स्वह्रदये परिवारगणैः सह ॥२०५॥न्यस्यात्मानं समभ्यर्च्य तन्मयो विहरेत्सुधीः ॥ रत्नाभिषेकध्यानेज्या विंशत्यर्णाश्रितेरिता ॥२०६॥एवं यो भजते मन्त्रं स समृद्धेः पदं भवेत् ॥ जपहोमार्चनद्यानैर्यो मनुं प्रजपेदमुम् ॥२०७॥तद्वेशम पूर्यते रत्नैः रवर्णधान्यैरनार तम् ॥ पृथ्वी करे तस्य सर्वसस्यसमाकुला ॥२०८॥पुत्रैर्मित्रैः सुसंपन्नः प्रयात्यंते परां गतिम् ॥ वह्रावभ्यर्च्य गोविंदं शुल्कपुष्पैः सतंदुलैः ॥२०९॥आज्याक्तैरयुतं हुत्वा भस्म तन्मूर्ध्नि धारयेत् ॥ तस्यान्नादिसमृद्धिः स्यात्तद्वशे सर्वयोषितः ॥२१०॥रक्तांभोजैस्त्रिमध्वक्तैर्हुनेल्लक्षं समाहितः ॥ श्रिया तस्यैंद्रमैश्वर्यं तृणलेशायते ध्रुवम् ॥२११॥त्रिमध्वकैः सितैः पुष्पैरष्टोत्तरसहस्त्रकम ॥ यो हुनेप्रत्यहं मासात्पुरोधा नृपते र्भवेत ॥२१२॥एवमादिप्रयोगांश्व साधयेन्मनुनामुना ॥ मन्त्रराजमथो वक्ष्ये दशार्णं सर्वसिद्धिदम् ॥२१३॥स्मृतिः सद्यान्विता साक्षिर्लोहितो जनवल्लभा ॥ पवनोऽग्निप्रियांतोऽयं दशार्णो मन्त्र ईरितः ॥२१४॥नारदोऽस्य मुनिश्छंदो विराट् कृष्णोऽस्य देवता ॥ कामो बीजं वह्रिजाया शक्तिः प्रोक्ता मनीषिभिः ॥२१५॥आचक्रं च विचक्रं च सुचकं तदनन्तरम् ॥ त्रैलोक्यरक्षणं चक्रमसुरांतकचक्रकम् ॥२१६॥एतैर्डठद्वयातैश्व चक्रैः पंचांगकं मनोः ॥ ततस्तारपुटं मन्त्रं व्यापय्य करयोस्त्रिशः ॥२१७॥सेंदून्ह्रदंतान्मंत्रार्णान्मंत्रार्णान्प्रणवांतरितान्न्यसेत् ॥ दक्षांगुष्ठाच्च वामांगुष्ठांतमंगुलिपर्वसु ॥२१८॥सृष्टिन्यासोऽयमुदितः स्थितिन्यासोऽधुनोच्यते ॥ न्यसेद्धामकनिष्ठादिकनिष्ठांतं स्थितौ सुधीः ॥२१९॥वामांगुष्ठान्न्यसेद्दक्षां गुष्ठांतं संह्रतौ तथा ॥ संह्रतिर्दोषसंघातहारिणी परिकीतता ॥२२०॥विद्याप्रदश्व सृष्टंयतो वर्णिनां शुद्धचेतसाम् ॥ स्थित्यंतः स्यादृहस्थाना मेवं काम्यदिरुपतः ॥२२१॥संहारतो मुनींद्राणां विरक्तानां च सर्वशः ॥ पुनः स्थितिक्रमेणार्णान्मनोरंगुलिषु न्यसेत् ॥२२२॥पुनश्वक्रैश्व पूवोक्तैः करयोर्न्यसेत ॥ ततो मूलेन पुटितान्माकार्णान्सबिंदुकान् ॥२२३॥विन्यसेन्मातृकान्यासस्थानेषु प्रणतः सुधीः ॥ ततस्तारपुटं मूलं व्यापकत्वेन विन्यसेत् ॥२२४॥संहारसृष्टिभेदेन दशतत्त्वानि विन्यसेत् ॥ नमोंतमूलमंत्रार्णपदायाम्यानि चात्मने ॥२२५॥मत्यतानि च तत्त्वानि पृथिव्याद्यानि च क्रमात् ॥ पृथ्वी जलं तथा वह्रिर्वायुराकाशमेव च ॥२२६॥अहंकारो महत्तत्वं प्रकृतिं पुरुषं परम् ॥ प्रविन्यसेन्मस्तके च नेत्र योः श्रोत्रयोर्नसोः ॥२२७॥वदने ह्रदये नाभौ लिंगे जान्वोश्व पादयोः । प्रणवांतरितान्वर्णन्हदंतान्विन्यस्न्मनोः ॥२२८॥सृष्टिन्यासोऽयमाख्यातः स्थितिन्यासं श्रृणु द्विज ॥ ह्रदि नाभौ ध्वजे जान्वोः पादयोर्मस्तके पुनः ॥२२९॥नेत्रयोः कर्णयोर्घाणे वदने विन्यसेत्क्रमात् ॥ पदोर्जान्वोलिंगदेशे नाभौ ह्रदि मुखे नसोः ॥२३०॥कर्णयोर्नेत्रयोर्मूर्ध्न्रि संहाराख्योऽयमीरितः ॥ सृष्टयंतो वर्णिना न्यासः स्थित्यंतो गृहमेधिनाम् ॥२३१॥यतेर्वैरेराग्ययुक्तस्य संहारांतः प्रकीर्तितः ॥ चतुर्द्धा वर्णिनां चैव गृहस्थानां च पंचधा ॥२३२॥यतीना च त्रिधा न्यासः प्रोक्तोऽयं क्रमतः शुभः ॥ केचिद्धिरक्ते गृहगे संहारांतं विदुर्बुधाः ॥२३३॥विभूतिपंजरं न्यासं कुर्यादिष्टाप्तये ततः ॥ मनोर्दशावृत्तिमयं कृष्णसाणिध्यकारकम् ॥२३४॥आधारे च ध्वजे नाभौ त्दृदिकंठे मुखे शये ॥ ऊर्वोश्व कंधरायां च नाभौ कुक्षौ तथा ह्रदि ॥२३५॥स्तनयोः पार्श्वयोः श्रोण्योर्मस्तके वदने तथा ॥ नेत्रयोः कर्णयोर्नासापुट्योश्व कपोलयोः ॥२३६॥एवं दक्षिणदोर्मूलसंध्यग्रेष्वंगुलीषु च ॥ ततः शिरसि तत्पूर्वाद्याशासु स्वकलासु च ॥२३७॥दोष्णोः सक्थ्नोः शिरोक्ष्यास्यकंठह्रज्जठरेषु च ॥ मूलाधारे लिंगदेशे जानुनीः पादयोस्तथा ॥२३८॥श्रोत्रगंडांसवक्षोपजपार्श्वलिगेषु विन्यसेत् ॥ ऊर्वोर्जान्वोघयोश्व पादयोर्विन्यसेत्क्रमात् ॥२३९॥विभूतिपंजराख्योऽयं न्यासः सर्वार्थसिद्धिदः ॥ अनेन न्यासवर्येण साक्षात्कृष्णनुर्भ वेत् ॥२४०॥मूर्तिपंजरनामानं न्यासं पूर्वोदितं न्यसेत् ॥ ततो दशांगपंचागौ न्यासवर्यौ न्यसे क्रमात् ॥२४१॥त्दृदि मूर्ध्नि शिखायां च सर्वांगे दिक्षु पार्श्वयोः ॥ कट्या पृष्ठे तथा मूर्ध्नि विन्यसद्वैष्णवोत्तमः ॥२४२॥पंचांगानि न्यसेद्धूयश्वक्रैः प्राग्वत्समाहितः ॥ अन्योऽप्यष्टादशार्णोक्तः कर्तव्यो न्याससंचयः ॥२४३॥ततः किरीटमंत्रेण व्यापकं रचयेत्सुधीः ॥ वेणुबिल्वादिमुद्रांश्व दर्शयेत्साधकोत्तमः ॥२४४॥सुदर्शनस्य मंत्रेण कुर्याद्दिग्बंधनं ततः ॥ अनंगुष्ठाश्व ऋजवः करशाखा भवंति चेत् ॥२४५॥ह्रह्मुद्रेयं समाख्याता शिरोमुद्रा तथा भवेत् ॥ अधोंगुष्ठा तु या मुष्टिः शिखामुद्रयमीरिता ॥ प्रसारितकरांगुल्योर्वर्मद्रेयमीरिता ॥२४६॥नाराचमुष्ट्या धृतबाहुयुग्म अंगुष्ठतर्जन्युदितो ध्वनि स्तु । विष्वग्विसुक्ता कथितास्त्रमुद्रा यत्राक्षिणी तर्जनिमध्यमे च ॥२४७॥ओष्ठे वामकरांगुष्ठो लग्नस्यस्य कनिष्ठिका ॥ दक्षिणांगुष्ठसंसक्ता तत्कनिष्ठां प्रसारिता ॥२४८॥तर्जनी मध्यमानामा किंचित्सकुंच्य चालिता ॥ वेणुमुद्रेयसुदिता सुगुप्ता प्रेयसी हरेः ॥नोच्यंते तत्र सिद्धत्वान्मालाश्रीवत्सकौस्तुभाः ॥२४९॥वामांगुष्ठं समुद्रं तमपरकरांगुष्ठाकेनाथ बद्धा संपीड्याग्रं च दक्षांगुलिभिरपि च तां वामहस्तांगुलिभिः ॥ गाढं बद्धा स्वकीये ह्रदयसरसिजे स्थापयेत्कामबीजं प्रोच्चार्यैषा तु गोप्या सकलसुखकरी विल्वमुद्रा मुनी द्रैः ॥२५०॥कायेन मनसा वाचायत्पापं समुपार्जितम् ॥ मुद्राया ज्ञान मात्रेण सर्वं नाशमुपैष्यति ॥२५१॥ध्यानं जपस्त्रिकालार्चा कार्या पूर्वोदिता मनोः ॥ सर्वेष्वेकः क्रमः प्रोक्तो दशार्णाष्टादशार्णयोः ॥२५२॥एवं सिद्धे मनौ मंत्री प्रयोगान्कर्तुमर्हति ॥ उद्दंडबाहुदोर्दंडधृतगोवर्द्धनाचलम् ॥२५३॥अन्यहस्तांगुलीव्यक्तस्वरवं शार्पिताताननम् ॥ ध्यायन्कृष्णं जपेन्मंत्रं व्रजेच्छत्रं विना सुधीः ॥२५४॥वर्षवाताशनिभ्योऽपि भयं तस्य न जायते ॥ मोघमेघौघव्राताद्धगतेन्द्रं तं स्मरन्हुनेत् ॥२५५॥लोणैरेयुतसंख्यैःस्यादनावृष्टिर्न संशयः ॥ क्रीडंतमर्कजातीरे मज्जनस्नापनादिभिः ॥२५६॥तच्छीकरजलासारैः सिच्यमानं प्रियाजनैः । ध्यात्वायुतं पयः सिक्तैर्हुनेद्वा नीरत्पणैः ॥२५७॥वृष्टिर्भवत्याकालेऽपि महती नात्र संशयः ॥ सदाहमोहैरार्तस्य विस्फोटकज्वरादिभिः ॥२५८॥अमुमेव स्मरन्मूर्ध्नि जपेच्छांतिर्भवेत्क्षणात् ॥ अथवा गरुडारुढं प्रद्युम्नबलसंयुतम् ॥२५९॥निजज्वरनिष्पिष्टज्वराभिष्टुतमच्युतम् ॥ ध्यात्वा मूर्ध्नि जपेन्मंत्रं ज्वरमुक्तो भवेन्नवरी ॥२६०॥ध्यात्वैवमग्रावभ्यर्च्य यथोकैश्वतुरंगुलैः ॥ जुहुयादमृताखण्डैरयुतं ज्वरशांतये ॥२६१॥शिलीमुखविनिर्भिन्नभीष्मतापहरं हरिम् ॥ ध्यात्वा जपेत्स्पृशन्नात पाणिभ्यां ज्वरशांतये ॥२६२॥सांदीपनाय ददत्म पुत्रं ध्यात्वायुतं हुनेत् ॥ यथोक्तैरमृताखंडैरपमृत्युनिवृत्तये ॥२६३॥सपार्थं मृतपुत्रायार्पयंत च द्विजन्मने ॥ सुतं घ्यात्वा जपेल्लक्षं पुत्रपौत्रादिवृद्धये ॥२६४॥पुत्रजीव फलैर्हुत्वायुतं मधुरसंप्लुतेः ॥ तत्कोष्ठेधिते वह्रौ सुतान्दीर्घायुषो लभेत् ॥२६५॥क्षीरदुक्कासंपूर्णमभ्यर्च्य कलशं निशि ॥ प्रातर्ज्जप्त्वायुतं नारीमभिषिंचेद्दिषड्दिनम् ॥२६६॥एवं कृते तु वंध्यापि लभेत्पुत्रांश्विरायुषः ॥ प्रातर्वाचंमाश्वत्थदलंसपुटकं जलम् ॥२६७॥अष्टोत्तरशतं जप्तं मासं पुत्रार्थिनी पिबेत् ॥ सर्वलक्षणसंपन्नं वंध्यापि लभते सुतम् ॥२६८॥जित्वा कृत्यां काशिराजप्रेषितां च निजारिणः ॥ तेजसा तस्य नगरं दहंतं भावयन्हरिम् ॥२६९॥हुनेत्सप्तदिनं मंत्री सुस्नेहाक्तैश्व सर्षपैः ॥ कृत्याकर्तारमेवास्मै कुपिता नाशयेद्धुवम् ॥२७०॥बदरीद्रुमसंकीर्णे स्थितं दिव्याश्रमे शुभे ॥ स्पृशंत करपद्माभ्यां घंटाकर्णकलेवरम् ॥२७१॥ध्यात्वैवं जुहुयाल्लक्षं तिलैस्त्रिमधुराप्लुतैः ॥ महापापयुतोऽप्येवं पूतो भवति तत्क्षणात् ॥२७२॥द्यूतासक्ती रुक्मिबलौ द्वेषंयतं हरिं स्मरन् ॥ जुहुयादिष्टयोर्द्विष्टयै गुलिका गोमयोद्धवाः ॥२७३॥नित्यं सहस्त्रं सप्ताहान्मिथो विद्वेषयेदरीन् ॥ वर्षंतं गरुडारुढं ज्वलदग्रिमुखैः शरैः ॥२७४॥धावंतं रिपुसंघातमनुधावतमच्युतम् ॥ ध्यात्वा सप्तसहस्त्रं तु जपेन्मंत्रमनन्यधीः ॥२७५॥उच्चाटनं भवत्येव शत्रूणां सप्तभिर्दिनैः । ध्यायन्नुत्क्षिप्तवत्सं तु कपित्थफलहारिणम् ॥२७६॥प्रजपेदयुतं शत्रुमुच्चा टयति तत्क्षणात् ॥ आत्मानं कंसमथनं ध्यायमंचाव्रिपातितम् ॥२७७॥कंसात्मानं व्यकर्षन्तं गतासुं तं जपेन्मनुम् ॥ रिपुजन्मर्क्षवृक्षोत्थसमिद्धिरयुतं निशि ॥२७८॥जुहुयादेवमुग्रोऽपि सपत्नो निधनं व्रजेत् ॥ अथवा निंबतैलाकैर्हुनेदेधोभिरक्षजैः ॥२७९॥अयुतं नियतो रात्रौ मारये दचिरादरीन् ॥ नीशादिष्टदलव्योषकार्पासास्थिकरौर्निशि ॥२८०॥हुनेदेरेंडतैलार्क्तः श्मशाने रिपुशांतये ॥ न शस्तं मारणं कर्म कुर्य्याच्चेदयुतं हुनेन् ॥२८१॥पायसैर्वा हुनेत्तावच्छांतये शांतमानसः ॥ पारिजातहरं कृष्णं घ्यायन् लक्षं जपेन्मनुम् ॥२८२॥सर्वत्रैव जयस्तस्य च कदापि पराजयः ॥ व्याख्यासमुदाकरं कृष्णं रथस्थं भावयञ्जपेत् ॥२८३॥पार्थे दिशंतं गीतार्थ धर्मवृद्धयै सुमानवः ॥ पालाशपुष्पैर्मध्वक्तैर्लक्षं विद्याप्तये हुनेन ॥२८४॥राष्ट्रपूर्ग्रामवस्तूनां शरीरस्यापि रक्षणे ॥ विश्वरुपधरं प्रोद्यद्धानुकोटिसमप्रभम् ॥२८५॥अग्नीषोमात्मकं कृष्णं दुतचामीकरप्र भम् ॥ अर्काग्निद्योतितस्यांघ्रिंपंकज दिव्यभूषणम् ॥२८६॥नानायुधधरं प्राप्तं विश्वाकाशावकाशकम् ॥ ध्यात्वा लक्ष जपेन्मन्त्रं रक्षणाय समाहितः ॥२८७॥रक्तैर्वन्यप्रसूनैयां दिनादौ पूजयेद्धरिम् ॥ दिनमध्योक्तविधिना जपेदष्टोत्तरं शतम् ॥२८८॥सहस्त्रमंडलान्मन्त्री वशयेन्मुखरा न्दिजान् ॥ जातिपुष्पैः क्षत्रियांश्र्व गोपवेषधरं स्मरन् ॥२८९॥ध्यायन् क्रीडारतं कृष्णं रत्कैरश्वारिपुष्पकैः ॥ वशयेद्वैश्यजातीयान् शूद्रान्नीलोत्पलैः स्मरन् ॥२९०॥गीतनृत्यरतं श्वेतपुष्पैः साज्यैश्व तंदुलैः ॥ हुत्वान्वहं सप्तदिनं भस्म भाले च मूर्द्धनि ॥२९१॥धारयन्वशयेत्कांताम सापि तद्वत्पतिं ध्रुवम् ॥ तांबूल कुसुमं वासोऽजनं चंदनमेव च ॥२९२॥सहस्त्रं मनुना जप्तं दद्यद्यस्मै नराय च ॥ सोऽचिरादेष वशगः सपुत्रपशुबांधवः ॥२९३॥वृन्दारण्यास्थितं ध्यायन्बल्लवीसंयुतं हरिम् ॥ अपामार्गसमिद्धिस्तु हुत्वा तु वशयेज्जगत् ॥२९४॥संप्राप्य सद्धरो र्दीक्षां कृष्णं यो विधिनामुना ॥ अर्चयद्वैष्णश्रेष्ठः सोऽष्टसिद्धीश्वरो भवेत् ॥२९५॥तस्य दर्शनमात्रेण वादिनो निष्प्रभोः स्मृताः ॥ वसेत्सर स्वती वक्रे गृहे चापि सभासदः ॥२९६॥भुक्ता नानाविधान्भोगानंते विष्णुपदं व्रजेत् ॥२९७॥इति श्रीबृहन्नारदीयपुराणे पूर्वभागे तृतीयपादे कृष्णमन्त्रनिरुपणं नामाशीतितमोऽध्यायः ॥८०॥ N/A References : N/A Last Updated : June 06, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP