संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
तृतीयोऽध्यायः

श्री नारदीयमहापुराणम् - तृतीयोऽध्यायः

नारदपुराणात शिक्षण , कल्प , व्याकरण , छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन आहे .


नारद उवाच ॥

कथं ससर्ज ब्रह्मादीनादिदेवः पुरा विभुः ॥ तन्म माख्याहि सनक सर्वज्ञोऽस्ति यतो भवान् ॥१॥

श्रीसनक उवाच ॥

नारायणोऽक्षरोऽनन्तः सर्वव्यापी निरञ्जनः॥ तेनेदमखिलं व्याप्तं जगत्स्थावरजङ्गमम् ॥२॥

आदिसर्गे महाविष्णुः स्वप्रकाशो जगन्मयः॥ गुणभेदमधिष्ठाय मूर्तित्रिकमवासृजत् ॥३॥

सृष्ट्यर्थं तु पुरा देवो दक्षिणाङ्गात्प्रजापतिम् ॥ मध्ये रुद्राख्यमीशानं जगदन्तकरं मुने ॥४॥

पालनायास्य जगतो वामाङ्गाद्विष्णुमव्ययम् ॥ तमादिदेवमजरं केचिदाहुः शिवाभिधम् ॥

केचिद्विष्णुं सदा सत्यं ब्रह्माणं केचिदूचिरे ॥५॥

तस्य शक्तिः परा विष्णोर्जगत्कार्यप्रवर्तिनी ॥ भावाभावस्वरूपा सा विद्याविद्येति गीयते ॥६॥

यदा विश्वं महा विष्णोर्भिन्नत्वेन प्रतीयते ॥ तदा ह्यविद्या संसिद्धा भवेद्दुःखस्थ साधनम् ॥७॥

ज्ञातृज्ञेयाद्युपाधिस्ते यदा नश्यति नारद ॥ सवैकभावना बुद्धिः सा विद्येत्यभिधीयते ॥८॥

एवं माया महाविष्णोर्भिन्ना संसारदायिनी ॥ अभेदबुद्ध्य़ा दृष्टा चेत्संसारक्षयकारिणी ॥९॥

विष्णुशक्तिसमुद्भूतमेत त्सर्वं चराचरम् ॥ यस्माद्भिन्नमिदं सर्वं यच्चेङ्गेद्यच्चने ङ्गति ॥१०॥

उपाधिभिर्यथाकाशो भिन्नत्वेन प्रतीयते ॥ अविद्योपाधियोगेन तथेदमखिलं जगत् ॥११॥

यथा हरिर्जव्द्यापी तस्य शक्तिस्तथा मुने ॥ दाहशक्तिर्यथांगारे स्वाश्रयं व्याप्य तिष्ठति ॥१२॥

उमेति केचिदाहुस्तां शक्तिं लक्ष्मीं तथा परे ॥ भारतीत्यपरे चैनां गिरिजेत्यम्बिकेति च ॥१३॥

दुर्गेति भद्रकालीति चण्डी माहेश्वरीत्यपि ॥ कौमारी वैष्णवी चेति वाराह्यैन्द्रीच शम्भवी ॥१४॥

ब्राह्मीति विद्याविद्येति मायेति च तथा परे ॥ प्रकृतिश्च परा चेति वदन्ति परमर्षयः ॥१५॥

शेषशक्तिः परा विष्णोर्जगत्सर्गादिकारिणी ॥ व्यक्ताव्यक्तस्वरूपेण जगव्द्याप्य व्यवस्थिता ॥१६॥

प्रकृतिश्च पुमांश्चैव कालश्चेति विधिस्थितिः ॥ सृष्टिस्थितिविनाशानामेकः कारणतांगतः ॥१७॥

येनदमखिलं जातं ब्रह्मरूपधरेण वै ॥ तस्मात्परतरो देवो नित्य इत्यभिधीयते ॥१८॥

रक्षां करोति यो देवो नित्य इत्यभिधीयते ॥१९॥

रक्षां करोति यो देवो जगतां परतः पुमान् ॥ तस्मात्परतरं यत्तदव्ययं परमं पदम् ॥२०॥

अक्षरो निर्गुणः शुद्धः परिपूर्णः सनातनः ॥ यः परः कालरूपाख्यो योगिध्येयः परात्परः ॥२१॥

परमात्मा परानन्दः सर्वोपधिविवर्जितः ॥ ज्ञानैकवेद्यः परमः सच्चिदानन्दविग्रहः ॥२२॥

योऽसौ शुद्धोऽपि परमो ह्यहंकारेण संयुतः ॥ देहीति प्रोच्यते मूढैरहोऽज्ञानविडम्बनम् ॥२३॥

स देवः परमः शुद्धः सत्त्वादिगुणभेदतः ॥ मूर्तित्रयं समापन्नः सृष्टिस्थित्यन्तकारणम् ॥२४॥

योऽसौ ब्रह्मा जगत्कर्ता यन्नाभिकमलोद्भवः॥ स एवानन्दरूपात्मा तस्मान्नास्त्यपरो मुने ॥२५॥

अन्तर्यामी जगव्द्यापी सर्व साक्षी निरञ्जनः ॥ भिन्नाभिन्नस्वरूपेण स्थितो वै परमेश्वरः ॥२६॥

यस्य शक्तिर्महामाया जगद्विस्रम्भधारिणी ॥ विश्वोत्पत्तेर्निदानत्वात्प्रकृतिः प्रोच्यते बुधैः ॥२७॥

आदिसर्गे महाविष्णोर्लोकान्कर्त्तुं समुद्यतः ॥ प्रकृतिः पुरुषश्चेति कालश्चेति त्रिधा भवेत् ॥२८॥

पश्यन्ति भावितात्मानो यं ब्रह्मेत्यभिसंज्ञितम् ॥ शुद्धं यत्परमं धाम तद्विष्णोः परमं पदम् ॥२९॥

एवं शुद्धोऽक्षरोऽनन्तः कालरूपी महेश्वरः॥ गुणरूपी गुणाधारो जगतामादिकृद्विभुः ॥३०॥

प्रकृतिः क्षोभमापन्ना पुरुषाख्ये जगद्रुरौ ॥ महान्प्रादुरभूद्बुद्धिस्तातोऽहं समवर्त्तत ॥३१॥

अहंकारच्च सूक्ष्माणि तन्मात्राणीन्द्रियाणि च ॥ तन्मात्रेभ्यो हि जातानि भूतानि जगतः कृते ॥३२॥

आकाशवाय्वग्निजलभूमयोऽब्जभवात्मज ॥ यथाक्रमं कारणतामेकैकस्योपयान्ति च ॥३३॥

ततो ब्रह्मा जगद्धाता तामसानसृजत्प्रभुः ॥ तिर्यग्योनिगताञ्जन्तून्पशुपक्षिमृगादिकानं ॥३४॥

तमप्यसाधकं मत्वा देवसर्गं सनातनात् ॥ ततो वै मानुषं सर्ग कल्पयामास पद्मजः ॥३५॥

ततो दक्षादिकान्पुत्रान्सृष्टिसाधनतत्परान् ॥ एभिः पुत्रैरिदं व्याप्तं सदेवासुरमानुषम् ॥३६॥

भूर्भुवश्च तथा स्वश्च महश्चैव जतस्तथा ॥ तपश्च सत्यमित्येवं लोकाः सत्योपरि स्थिताः ॥३७॥

अतलं वितलं चैव सुतलं च तलातलम् ॥ महातलं च विप्रेन्द्र ततोऽधश्च रसातलम् ॥३८॥

पातालं चेति सप्तैव पातालानि क्रमादधः ॥ एष सर्वेषु लोकेषु लोकनाथांश्च सृष्टवान् ॥३९॥

कुलाचलान्नदी श्चासौ ततल्लोकनिवासिनाम् ॥ वर्त्तनादीनि सर्वाणि यथायोग्यंमकल्पयत् ॥४०॥

भूतले मध्यगो मेरुः सर्वदेवसमाश्रयः ॥ लोकालोकश्च भूम्यन्त तन्मध्ये सप्त सागराः ॥४१॥

द्वीपाश्च सप्त विपेन्द्र द्वीपे द्वीपे कुलाचलाः ॥ बाह्या नद्यश्च विख्याता जनाश्चामरसान्निभाः ॥४२॥

जम्बूप्लक्षाभिधानौ च शाल्मलश्च कुशस्तथा ॥ क्रौञ्चशाकौ पुष्करश्च ते सर्वे देवभूमयः ॥४३॥

एते द्विपाः समुद्रैस्तु सप्तसप्तभिरावृत्ताः ॥ लवणेक्षुसुरासर्पिर्दधिक्षीरजलैः समम् ॥४४॥

एते द्वीपाः समुद्राश्च पूर्वस्मादुत्तरोत्तराः ॥ ज्ञेया द्विगुणविस्तारा लोकालोकाच्च पर्वतात् ॥४५॥

क्षारोदधेरुत्तरं यद्धि माद्रेश्चैव दक्षिणाम् ॥ ज्ञेयं तद्भारतं वर्षं सर्वकर्मफलप्रदम् ॥४६॥

अत्र कर्माणि कुर्वान्ति त्रिविधानि तु नारद ॥ तत्फलं भुज्यते चैव भोगभूमिधन क्रमात् ॥४७॥

भारते तु कृतं कर्म शुभं वाशुभमेव च ॥ तत्फलं क्षयि विप्रेन्द्र भुज्यतेऽन्यत्रजन्तुभिः ॥४८॥

अद्यापि देवा इच्छन्ति जन्म भारतभूतले ॥ संचितं सुमहत्पुण्यमक्षय्यममलं शुभम् ॥४९॥

कदा लाभामहे जन्म वर्षभारतभूमिषु ॥ कदा पुण्येन महता यास्याम् परमं पदम् ॥५०॥

दानैर्वा विविधैर्यज्ञेस्तपोभिर्वाथवा हरिम् ॥ जगदीशं समेष्यामो नित्यानन्दमनामयम् ॥५१॥

यो भारतभुवं प्राप्य विष्णुपूजापरो भवेत् ॥ न तस्य सदृशोऽन्योऽस्ति त्रिषु लोकेषु नारद ॥५२॥

हरिकीर्तनशीलो वा तद्भक्तानां पियोऽपि वा ॥ शुश्रषुर्वापि महतः सवेद्यो दिविजैरपि ॥५३॥

हरिपूजारतो नित्यं भक्तः पूजारतोऽपि वा ॥ भक्तोच्छिष्टान्नसेवी च याति विष्णोः परं पदम् ॥५४॥

नारायणेति कृष्णेति वासुदेवेति यो वदेत् ॥ अहिंसादिपरः शान्तःसोऽपिवन्द्यः सुरोत्तमैः ॥५५॥

शिवेति नीलकण्ठेति शङ्करेतिच यः स्मरेत ॥ सर्वभूतहितो नित्यं सोऽभ्यर्च्यो दिविजैः स्मृतः ॥५६॥

गुरुभक्तः शिवध्यानी स्वाश्रमाचारतत्परः ॥ अनसूयुःशुचिर्दक्षो यः सोऽप्यर्च्यःसुरेश्वरैः ॥५७॥

ब्राह्मणानां हितकरःश्रद्धावान्वर्णधर्मयोः ॥ वेदवादरतो नित्यं स ज्ञेयः पङ्किपावनः ॥५८॥

अभेददर्शी देवेश नारायणशिवात्मके ॥ सर्वं यो ब्रह्मणा नित्यमस्मदादिषु का कथा ॥५९॥

गोषु क्षान्तो ब्रह्मचारी परनिंदाविवर्जितः ॥ अपरिग्रहशी लश्च देवपूज्यः स नारद ॥६०॥

स्तेयादिदोषाविमुखः कृतज्ञः सत्यवाक् सुचिः ॥ परोपकारनिरतः पूजनीय सुरासुरैः ॥६१॥

वेदार्थ श्रवणे बुद्धिः पुराणश्रवणे तथा ॥ सत्संगेऽपि च यस्यास्ति सोऽपि वन्द्यः सुरोत्तमैः ॥६२॥

एवमादीन्यनेकानि कर्माणि श्रद्धयान्वितः॥ करोति भारते वर्षे संबन्धोऽस्माभिरेव च ॥६३॥

एतेष्वन्यतमो विप्रमात्मानं नारभेत्तु यः॥ स एव दुष्कृतिर्मूढो नास्त्यन्योऽस्मादंचेतनः ॥६४॥

संप्राप्य भारते जन्म सत्कर्म सुपराङ्मुखः ॥ पीयूषकलशं मुक्ता विषभाण्डमुपाश्रितः ॥६५॥

श्रुतिस्मृत्यदितैर्द्धर्मैर्नात्मानं पावयेतु यः॥ स एवात्मविघाती स्यात्पापिनामग्रणीर्मुने ॥६६॥

कर्मभूमि समासाद्य यो न धर्मं समाचरेत् ॥ स च सर्वाधमः प्रोक्तो वेदविद्भिर्मुनीश्वर ॥६७॥

शुभं कर्म समुत्सृज्य दुष्कर्माणि करोति यः॥ कामधेनुं परित्यज्य अर्कक्षीरं स मार्गति ॥६८॥

एवं भारतभूमागं प्रशंसन्ति दिवौकसः ॥ ब्रह्माद्या अपि विप्रेन्द्र स्वभोगक्षयभीरवः ॥६९॥

तस्मा त्पुण्यतमं ज्ञेयं भारतं वर्षमुत्तमम् ॥ देवानां दुर्लभं वापि सर्वकर्मफलप्रदम् ॥७०॥

अस्मिमन्पुण्ये च भूभागे यस्तु सत्कर्मसूद्यतः ॥ न तस्य सदृशं कश्चित्रिषु लोकेषु विद्यते ॥७१॥

अस्मञ्जातो नरो स्वकर्मक्षपणोद्यतः ॥ नररूपपरिच्छन्नः स हरिर्नात्र संशयः ॥७२॥

परं लोकफलं प्रेप्सुः कुर्यात्कर्माण्यतन्द्रितः ॥ निवेद्य हरये भक्तया तत्फलं ह्यक्षयं स्मृतम् ॥७३॥

विरागी चेत्कर्मफलेष्वपि किंचिन्न कारयेत् ॥ अर्पयत्सुकृत कर्म प्रायता मिति मे हरिः ॥७४॥

आब्रह्मभुवनाल्लोकाः पुनरुत्पत्तिदायकाः ॥ फलागृध्नुः कर्मणां तत्प्राप्नोति परमं पदम् ॥७५॥

वेदोदितानि कर्माणि कुर्यादीश्वरतुष्टये ॥ यथाश्रमं त्यक्तुकामः प्राप्नोति पदमव्ययम् ॥७६॥

निष्कामो वा सकामो वा कुर्यात्कर्म यथाविधि ॥ स्वाश्रमाचारशून्यश्च पतितः प्रोच्यते बुधैः ॥७७॥

सदाचारपरो विप्रो वर्द्धते ब्रह्मतेजसा ॥ तस्य विष्णुश्च तुष्टः स्याद्भक्तियुक्तस्य नारद ॥७८॥

भारते जन्म संप्राप्य नात्मानं तारयेतु यः ॥ पच्यते निरये घोरे स त्वाचन्द्रार्कतारकम् ॥७९॥

वासुदेवपरो धर्मो वासुदेवपरं ठपः ॥ वासुदेवपरं ज्ञानं वासुदेवपरा गतिः ॥८०॥

वासुदेवात्मकं सर्वं जगत्स्थावरजङ्गमम्॥ आब्रह्मस्तम्बपर्यन्तं तस्मादन्यत्र विद्यते ॥८१॥

स एव धाता त्रिपुरान्तकश्च स एव देवासुरयज्ञरूपः॥ स एव ब्रह्माण्डमिंद ततोऽन्यन्न् किंचिदस्ति व्यतिरिक्तरूपम् ॥८२॥

यस्मात्परं नापरमस्ति किंचिद्यस्मादणीयान्न तथा महीयान् ॥ व्याप्तं हि तेनेदमिदं विचित्रं तं देवदेवं प्रणमेत्समीड्यम् ॥८३॥

इति श्री बृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सृष्टिभरतखण्डप्राशस्त्यभूगोलानां वर्णनं नाम तृतीयोऽध्यायः ॥

N/A

References : N/A
Last Updated : June 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP