संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः| नामाष्टाशीतितमोऽध्यायः श्री नारदीयमहापुराणम् : पूर्वभागः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पंचविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पंचत्रिशोंऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पश्वचत्वारिशत्तमोऽध्यायः षट्रचत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोध्यायः पञ्चाशत्तमोऽध्यायः एकपंचाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषाष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुष्षष्टितमोऽध्यायः पञ्चषष्टिमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षटसप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्याय एकोनाशीतितमोऽध्यायः नामाशीतितमोऽध्यायः नामैकाशीतितमोऽध्यायः व्द्यशीतितमोऽध्यायः त्र्यशीतितमोऽधायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः नामाष्टाशीतितमोऽध्यायः नामैकोननवतितमोऽध्यायः नवतितमोऽध्यायः नामैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः नामाष्टनतितमोऽध्यायः नामैकोनशततमोऽध्यायः शततमोऽध्यायः नामैकोत्तरशततमोऽध्यायः द्वयुत्तरशततमोऽध्यायः त्र्युत्तरशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडुत्तशततमोऽध्यायः सप्तोत्तशततमोऽध्यायः नामाष्टोत्तरशततमोऽध्यायः नवोतरशततमोऽध्यायः दशोत्तरशततमोऽध्यायः नामैकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाघिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशदधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशतमोऽध्यायः पंचविंशोत्तरशततमोऽध्यायः श्री नारदीयमहापुराणम् - नामाष्टाशीतितमोऽध्यायः `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण नामाष्टाशीतितमोऽध्यायः Translation - भाषांतर सूत उवाच ॥श्रुत्वेत्थं यजनं विप्रा मन्त्रध्यानपुरःसरम् ॥ सर्वासामवतारानां नारदो देव दर्शनः ॥१॥सर्वाद्याया जगन्मातुः श्रीराधायाः समर्चनम् ॥ अवतारकलानां हि पप्रच्छ विनयन्वितः ॥२॥नारद उवाच ॥धन्योऽस्मि कृतकृत्योऽस्मि जातोऽहं त्वत्प्रसादतः ॥ यज्जनन्मातृमंत्राणां वैभवं श्रुतवान्मुने ॥३॥यथा लक्ष्मीमुखानां तु अवताराः प्रकीर्तिताः ॥ तथा राधावताराणां श्रोतुमिच्छामि वैभवम् ॥४॥यत्संख्याकाश्व यद्रूपा यत्प्रभावा विदांवर ॥ राधावतारास्तान्सत्यं कीर्तयाशेषसिद्धिदान् ॥५॥एतच्छुत्वा वचस्तस्य नारदस्य विधेः सुतः ॥ सनत्कुमारः प्रोवाच ध्यात्वा राधापदांबुजम् ॥६॥सनत्कुमार उवाच ॥श्रृणु विप्र प्रवक्ष्यामि रहस्यातिरहस्यकम् ॥ राधावतारचरितं भजतामिष्टिसिद्धिदम् ॥७॥चन्द्रावली च ललिता द्वे सख्यौ सुप्रिये सदा ॥ मालावतीमुखाष्टानां चन्द्रावल्यधिपा स्मृता ॥८॥कलावतीमुखाष्तानामीश्वरी ललिता मता ॥ राधाचरनपूजायामुक्ता मालावतीमुखाः ॥९॥ललिताधीश्वरीणां तु नामानि श्रृणु सांप्रतम् ॥ कलावती मधुमती विशाखा श्यामलाभिधा ॥१०॥शैब्या वृन्दा श्रीधराख्या सर्वास्तत्तुल्यविग्रहाः ॥ सुशीलाप्रमुखा श्वान्याः सख्यो द्वात्रिंशदीरिताः ॥११॥ताः श्रृणुष्व महाभाग नामतः प्रवदामि ते ॥ सुशीलां शशिलेखा च यमुना माधवी रतिः ॥१२॥कदम्बमाला कुन्ती च जाहवी च स्वयंप्रभा ॥ चन्द्रानना पद्ममुखी सावित्री च सुधामुखी ॥१३॥शुभा पद्मा पारिजाता गौरिणी सर्वमंगला ॥ कालिका कमला दुर्गा विरजा भारती सुरा ॥१४॥गंगा मधुमती चैव सुन्दरी चन्दना सती ॥ अपर्णा मनसानन्दा द्वात्रिंशद्राधिकाप्रियाः ॥१५॥कदाचिल्ललिता देवी पुंरुपा कृष्णविग्रहा ॥ ससर्ज षोडशकलास्ताः सवस्तित्समप्रभाः ॥१६॥तासां मन्त्रं तथा ध्यानं यन्त्रार्चादिक्रमं तथा ॥ वर्णये सर्वतंत्रेषु रहस्यं मुनिसत्तम ॥१७॥वाती मरुच्चाग्रिवह्री धराक्ष्मे जलचारिणी ॥ विमुखं चरशुचिविभू वनस्वशक्तयः स्वराः ॥१८॥प्राणस्तेजः स्थिरा वायुर्वायुश्वापि प्रभा तथा ॥ ज्यकुमभ्रं तथा नादो दावकः पाथ इत्यथ ॥१९॥व्योमरयः शिखी गोत्रा तोयं शून्यजवी द्युतिः ॥ भूमी रसो नमो व्याप्तं दाहश्वापि रसांबु च ॥२०॥वियत्स्पर्शश्व हद्धंसहलाग्रासो हलात्मिकाः ॥ चन्द्रावली च ललिता हंसेला नायके मते ॥२१॥ग्रासस्थिता स्वयं राधा स्वयं शक्तिस्वरुपिणी ॥ शेषास्तु षोडशकला द्वात्रिंशत्तत्कलाः स्मृताः ॥२२॥वाड्मयं निखिलं व्याप्तमाभि रेव मुनीश्वर ॥ ललिताप्रमुखाणां तु षोडशीत्वमुपागता ॥२३॥श्रीराधा सुन्दरी देवी तांत्रिकैः परिकीर्त्यते ॥ कुरुकुल्ला च वाराही चन्द्रालिललिते उभे ॥२४॥संभूते मन्त्रवर्गं तेऽभिधास्तेऽहं यथातथम् ॥ ह्रत्प्राणलाहंसदाहवह्रिस्वैर्ललितोरिता ॥२५॥त्रिविधा हंसभेदेव श्रृणु तां च यथाक्र मम् ॥ हंसाद्ययाऽद्या मध्या स्यादादिमध्यस्थहंसया ॥२६॥तृतीया प्रकृतिः सैव तुर्या तैरंत्यमायया ॥ आसु तुर्याभवन्मुक्त्यै तिस्त्रोऽन्याः स्युश्व संपदे ॥२७॥इति त्रिपुरसुंदर्या विद्या सम्यवसमीरिता ॥ दाहभूमीरसाक्ष्मास्वैर्वशिनीबीजमीरितम् ॥२८॥प्राणो रसाशक्तियुतः कामेश्वर्यक्षरं महत् ॥ शून्यमंबुरसावह्रिस्वयोगान्मोहनीमनुः ॥२९॥व्याप्तं रसाक्ष्मास्वयुतं विमलाबीजमीरितम् ॥ ज्यानभोदाहवह्रिस्वयोगैः स्यादरुणामनुः॥३०॥जयिन्यास्तु समुद्दिष्टः सर्वत्र जयदायकः ॥ कं नभो दाहसहितं व्याप्तक्ष्मास्वयुतं मनुः ॥३१॥सर्वेश्वर्याः समाख्यातः सर्वसिद्धिकरः परः ॥ ग्रासो नभोदाहवह्रिस्वैर्युक्तः कौलिनीमनुः ॥३२॥एतैर्मनुभिरष्टाभिः शक्तिभिर्वर्गसंयुतैः ॥ वाग्देवतांतैन्यांसः स्याद्येन देव्यात्मको भवेत ॥३३॥रंध्रे भाले तथाज्ञायां गले ह्रदि तथा न्यसेत् ॥ नाभावाधारके पादद्वये मूलाग्रकावधि ॥३४॥षड्र्दीर्घाढ्येन बीजेन कुर्याच्चैव षडंगकम् ॥ लोहितां ललितां बाणचापपाशसृणीः करैः ॥३५॥दधानां कामराजांके यन्त्रिकां यन्त्रितां मुदिता स्मरेत् ॥ मध्यस्थदेवी त्वेकैव षोडशाकारतः ॥३६॥यतस्तस्मात्तनौ तस्यास्त्वन्याः पंचदशार्चयेत् ॥ ऋषिः शिवश्छंद उक्ता देवता ललिताद्काः ॥३७॥सर्वासामपि नित्यानामावृती र्नामसंचये ॥ पटले तु प्रयोगांश्व वक्ष्याम्यग्रे सविस्तरम् ॥३८॥अथ षोडशनित्यासु द्वितीया या समीरिता ॥ कामेश्वरीति तां सर्वकामदां श्रृणु नारद ॥३९॥शुचिः स्वेन युतस्त्वाद्यो ललिता स्याद्दितीयकः ॥ शून्यमग्नियुतं पश्वाद्रयोव्याप्तेन संयुतम् ॥४०॥प्राणो रसाग्रिसहितः शून्ययुग्मं चरान्वितम् ॥ नभोगोत्रा पुनश्वैषां दाहेन समयोजिता ॥४१॥अंबु स्याच्चरसंयुक्तं नवशक्तियुतं च त्दृत् ॥ एषा कामेश्वरी नित्या कामदैकादशाक्षरी ॥४२॥मूलविद्याक्षरैरेव कुर्यादंगानि षट् क्रमात् ॥ एकेन त्दृदयं शीर्षं तावताथो द्वयं द्वयात् ॥४३॥चतुर्भिर्नयनं तद्वदस्त्रमे केन कीर्तितम् ॥ दृकूश्रोत्रनासाद्वितये जिह्राह्रन्नाभिगृह्यके ॥४४॥व्यापकत्वेन सर्वांगे मूर्द्धा दिप्रदावधि ॥ न्युसेद्विद्याक्षराण्येषु स्थानेषु तदनं तरम् ॥४५॥समस्तेन व्यापकं तु कुर्यादुक्तक्रमेण तु ॥ अथ ध्यानं प्रवक्ष्यामि नित्यपूजासु चोदितम् ॥४६॥येन देवे सुप्रसन्ना ददातीष्टम यत्नतः ॥ बालार्ककोटिसंकाशां माणिक्यमुकुटोज्ज्वलाम् ॥४७॥हारग्रैवेयकांचीभिरुर्मिकानूपुरादिभिः ॥ मंडितां रक्तवसनां रत्नाभरणशोभिताम् ॥४८॥षड्भुजां त्रीक्षणामिंदुकलाकलितमौलिकाम् ॥ पञ्चाष्टषोडशद्वंद्वषक्टोणचतुरस्त्रगाम् ॥४९॥मंदस्मितलसद्वक्त्रां दयामंथरवीक्षणाम् ॥ पाशांकुशी च पुंड्रेक्षुचापं पुष्पशिलीमुखम् ॥५०॥रत्नपात्रं सीधुपूर्ण वरदं बिभ्रतीं करैः ॥ ततः प्रयोगान्कुर्वीत सिद्धे मत्रे तु साधकः ॥५१॥तृतीयामथ वक्ष्यामि नाम्ना तु भगमालिनी ॥ कामेश्वर्यादिरादिः स्याद्रश्वापरिस्थरारसः ॥५२॥धरायुक्सचरा पश्वात्स्थिरा पश्वाद्रसः स्मृतः ॥ स्थिराशून्येऽग्निसंयुक्ते रसः स्यात्तदनंतरम् ॥५३॥स्थिरा भूसहिता गोत्रा सदाहोऽग्रिरसः स्थिरा ॥ नभश्व मरुता युक्तं रसवर्णसमन्वितम् ॥५४॥ततो रसः स्थिरा पश्वान्मरुता सह योजिता ॥ अंबहंसचरोऽथोक्तो रसोऽथ स्यात्सिथिरा पुनः ॥५५॥स्थिराधरान्विता हंसो व्याप्तेन च चरेण च ॥ रसः स्थिरा ततो व्याप्तं भूयुतं शून्यमग्नियुक् ॥५६॥रसः स्थिरा ततः साग्निशून्यं तवियुतो मरुत् ॥ रयः शून्यं चाग्रियुतं ह्रदाहंसाच्च तत्परम् ॥५७॥रसः स्थिरांबुच वियत्स्वयुतं प्राण एव च ॥ दाहोऽग्रियुग्रसस्तस्मास्थिराक्ष्मा दाहसंयुताः ॥सचरः स्याज्जवीपूर्वविद्यां तर्तियतः क्रमात् ॥५८॥चतुष्टयमथार्णानां रसस्तदनु च स्थिरा ॥ ह्रदंबुयुक् क्ष्मया दाहः सचर्ह स्याज्जवी च त्दृत् ॥५९॥दाहोंऽबुमरुता युक्तो व्योम्नि साग्निरसस्तुतः ॥ स्थिरा तु मरुता युक्ता शून्यं साग्निनभ श्वरौ ॥६०॥हंसो व्याप्तमरुद्युक्तः शून्यं व्याप्तमतोंऽबु च ॥ दाहो गोत्राचरयुता तथा दाहस्तथा रयः ॥६१॥ह्रद्धरासहितं दाहरयौ चरसमन्वितौ ॥ रसः स्थिराततः प्राणो रसान्गिसहितो भवेत् ॥६२॥शून्ययुग्मं चरयुतं ततः पूर्वमतः परम् ॥ शून्ययुग्मं च गोत्रा स्याद्वाहयुक्तांबुना चरः ॥६३॥प्राणो रसा चरयुतो गोत्रव्यसिमतः परम् ॥ गोत्रादाहमरुद्युक्ता त्वंबुन्यासमतो भवेत् ॥६४॥युक्तोनांभश्व भूयुक्तं वाश्वरेण समन्वितम् ॥ ग्रासो धरायुतः पश्वाद्रसः शक्तया समन्वितः ॥६५॥ग्रासो भूसहितो विप्र रसो व्याप्तं ततश्व ह्रतू ॥ दाहोनांबु च त्दृत्पश्वाद्रयेंऽबुमरुदन्वितः ॥६६॥शून्यं च केवलं चैव रसश्व सचरस्थिरा ॥ वियंदबुयुतं दाहस्त्वग्नियुक्त्सयुतः शुचिः ॥६७॥भूमी रसाक्ष्मायुता पंचैकांतरिताः स्थिताः ॥ तदंतरित बीजानि स्वंसयुक्तानि पंच वै ॥६८॥तानि क्रमाज्ज्यासचरो रसो भूश्व न भोयूता ॥ हंसश्वरयुतो द्विः स्यात्तथ प्राणो रसान्गियुक्त् ॥६९॥शून्य युग्मं चरयुतं हद्दाहोंबुमरुद्युतः व्योमाग्निसहितं पश्वाद्रसश्व मरुता स्थिरा ॥७०॥शून्यं साग्निनभश्चैव चरेण सहितं तथा ॥ अंबु पश्वाद्वियत्तस्मान्न भश्व मरुदान्वितम् ॥७१॥शून्यं व्याप्तं च दद्युक्तं रयदाहस्ववह्रिभिः ॥ हंसः सदाहोंबुरसा चरस्वैः संयुतो भवेत् ॥७२॥हंसः सदाहवह्रिस्वैर्युक्त मंत्यमुदीरितम् ॥ सप्तात्रिंशच्छतार्णैः स्यान्नित्या सौभगमालिनी ॥७३॥अंगानि मंत्रवर्णैः स्युराद्येन ह्रद्य्दीरितम् ॥ ततश्वतुर्भिः शीर्षे स्याच्छिरवा त्रिभिरुदीरिता ॥७४॥गुणवेदाक्षरैः शेषाण्यंगानि षडिति क्रमात् ॥ अरुणामरुणाकल्पां सुंदरीं सुस्मिताननाम् ॥७५॥त्रिनेत्रां बाहुभिः षड्भि रुपेतां कमलासनाम् ॥ कह्रारपाशपुंड्रेक्षुकोदंडान्वामबाहुभिः ॥७६॥दधानां दक्षिणैः पद्ममंकुशं पुष्पसायकम् ॥ तथाविद्याभिः परितो युतां शक्तिगणैः स्तुतैः ॥७७॥अक्षरोक्ताभिरन्याभिः स्मरोन्मादमदान्मभिः ॥ एषा तृतीया कथिता वनिता जनमोहिनी ॥७८॥चतुर्थी श्रृणु विप्रेन्द्र नित्यक्लिन्नासमाह्रयाम् ॥ हंसस्तु दाहवह्रिस्वैर्युक्तः प्रथममुच्यते ॥७९॥कामेश्वर्यास्तृतीयादिवर्णानामष्ट्रकं भवेत् ॥ह्रदंबुमरुता युक्तः स एवै कादशाक्षरः ॥८०॥एकादशाक्षरी चेय विद्याणैरंगकल्पनम् ॥ आद्येन मन्त्रवर्णेन ह्रदयं समुदीरितम् ॥८१॥द्वाभ्यां द्वाभ्यां तु शेषाणि अंगानि परिकल्पयेत् ॥ न्यसेदंगुष्ठमूलादिकनिष्ठाग्रांतमूर्द्धगम् ॥८२॥शेषं तद्वलये न्यस्य हद्दक्च्छ्रोत्रे नसोर्द्वयोः ॥ त्वचि ध्वजे च पायौ च पादयो रर्णकान्न्यसेत् ॥८३॥अरुणामरुणाकल्पामरुणांशुकधारिणीम् ॥ अरुणस्त्रग्विलेपां तां चारुस्मेरमुखांबुजाम् ॥८४॥नेत्रत्रयोल्लसद्वक्रां भाले घर्मांबुमौक्तिके ॥ विराजमानां मुकुटलसदर्द्धैदुशेखराम् ॥८५॥चतुर्भिर्बाहुभिः पाशमंकुशं पानपात्रकम् ॥ अभय विभ्रतीं पद्ममध्यासीनां मदालसाम् ॥८६॥ध्यात्वैवं पूजयेन्नित्यक्लिन्नां नित्यां स्वशक्तिभिः ॥ पुण्या चतुर्थी गदिता नित्याक्लिन्नह्रया मुने ॥८७॥वनिता नव नीतस्य दाविकाग्रिर्जयादिना ॥ भूः स्वेन युक्ता प्रथमं प्राणो दाहेन तद्युतः ॥८८॥रसो दाहेन तद्युक्तं प्रभादाहेन तद्युता ॥ ज्या च दाहेन तद्युक्ता नित्याक्लिन्नांतगद्वयम् ॥८९॥एषा नवाक्षरी नित्या भेरुण्डा सर्वसिद्धिदा ॥ प्रणवं ठद्वयं त्यक्ता मध्यस्थेः षड्भिरक्षरैः ॥९०॥षदंगानि प्रकुर्वीत वर्णन्यासं ततः परम् ॥ रंध्राद्यामुखकंठेषु हन्नाभ्यां धारयद्वयम् ॥९१॥न्यसेन्मंत्रार्णनवकं मातृकान्यासपूर्वकम् ॥ अथ ध्यानं प्रवक्ष्यामि देव्याः सर्वार्थसिद्धिदम् ॥९२॥तप्तकांचनसंकाशदेहां नेत्रत्रयान्विताम् ॥ चारुस्मितां चितमुखीं दिव्यालंकारभूषिताम् ॥९३॥ताटंकहारकेयूररत्नस्तबक मंडिताम् ॥ रसनानूपुरोर्भ्यादिभूषर्णैरतिसुन्दरीम् ॥९४॥पाशांकुशौ चर्मखङौ गदावह्रिधनुःशरान् ॥ करैर्दधानामासीना पूजायां मन्पसा स्थिताम् ॥९५॥शक्तिश्व तत्समाकारतेजोहेतिभिरन्विताः ॥ पूजयेत्तद्वदभितः स्मितास्या विजयादिकाः ॥९६॥पंचमीय समाख्याला भेरुडाख्या मुनीश्वर ॥ यस्याः स्मरणतो नश्येद्ररलं त्रिविधं क्षणात् ॥९७॥या तु षष्ठी द्विजश्रेष्ठ सा नित्या वह्रिवासिनी ॥ तद्विधानं श्रृणुष्वाद्य साधकानां सुसिद्धिदम् ॥९८॥भेरुंडाद्यमिहाद्यं स्यान्नित्यक्लिन्नाद्यनंतरम् ॥ ततोंऽबुशून्ये हंसाग्निह्युत्तमंबुमरुद्युतम् ॥९९॥ह्रदगिना युतं शून्यं व्याप्तेन शुचिना च युक् ॥ शून्यं नभः शक्तियुतं नवार्णैयमुदाहता ॥१००॥विद्या द्वितीयबीजेन स्वरान्दीर्घान्नियोजयेत् ॥ मायांतान्षड्भिरेवां गान्याचरेत्सकरांगयोः ॥१०१॥नवाक्षराणि विद्याया नवरंध्रेषु विन्यसेत् ॥ व्यापकं च समस्तेन कुर्यादेवात्मसिद्धये ॥१०२॥सर्वास्वपि च विद्यासु व्यापकन्यासमाचरेत् ॥ तप्तकांचनसंकाशां नवयौवनसुन्दरीम् ॥१०३॥चारुस्मेरमुखांभोजां विलसन्नयनत्रयाम् ॥ अष्टाभिर्बाहुभिर्युक्तां माणिक्योभरणोज्ज्वलाम् ॥१०४॥पद्मरागकिरीटांशुसंभेदारुणितांबराम् ॥ पीतकौशेयवसनां रत्नमजीरमेखलाम् ॥१०५॥रक्तमौक्तिकसं भिन्नस्तबकाभरणोज्ज्वलाम् ॥ रत्नाब्जकंबुपुंड्रेक्षुचापपूर्णेन्दुमंडलम् ॥१०६॥दधानां बाहुभिर्वामैः कह्रारं हेमश्रृंगकम् ॥ पुष्पेषुं मातुलिंगं च दधानां दक्षिणैः करैः ॥१०७॥स्वस्वनामाभिरभितः शक्तिभिः परिवारिताम् ॥ एवं ध्यात्वार्चयेद्वह्रिवासिनीं वह्रिविग्रहाम् ॥१०८॥यस्याः समस्ता वश्यं जायते भुवनत्रयम् ॥ अथ या सप्तमी नित्या महावज्रेश्वरी मुने ॥१०९॥तस्या विद्यां प्रवक्ष्यामि साधकानां सुसिद्धिदाम् ॥ द्वितीयं वह्रिवासिन्या नित्यक्लिन्ना चतुर्थकम् ॥११०॥पंचमं भगमालाद्यं भेरुंडाया द्वितीयकम् ॥ नित्यक्लिन्नद्वितीयं च तृतीयं षष्ठसप्तमौ ॥१११॥अष्टम नवमं चापि पूर्व स्यादंतिमं पुनः ॥ द्वयमेकैकमथ च द्वयद्वयमथ द्वयम् ॥११२॥मायया पुटितं कृत्वा कुर्यादंगानि षट् क्रमात् ॥ प्रत्येकं शक्ति पुटितैर्मंत्रार्णैर्दशाभिर्न्यसेत् ॥११३॥दृक्छ्रोत्रनासावाग्वक्षोनाभिगुह्येषु च क्रमात् ॥ रक्तां रक्तांबरां रक्तगंधमालाविभूषणाम् ॥११४॥चतुर्भुजां त्रिनयनां माणिक्यमुकुटोज्ज्वलाम् ॥ पाशांकुशामिक्षुचापं दाडिमीशायकं तथा ॥११५॥दधानां बाहुभिर्नेत्रैर्दयासुप्रीतिशीतलैः ॥ पश्यंती साधके अस्त्रषट्कोणाब्जमहीतरे ॥११६॥चक्रमध्ये सुखासीनां स्मेरवक्रसरोरुहाम् ॥ शक्तिभिः स्वस्वरुपाभिरावृतां पीतमध्यगाम् ॥११७॥सिंहासनेऽभितः प्रेंखत्पोतस्थाभिश्व शक्तिभिः ॥ वृतां ताभिविनोदानि यातायातादिभिः सदा ॥११८॥कुर्वाआमरुणांभोधौ चिंतयेन्मन्त्रनायकम् ॥ एषा तु सप्तमी प्रोक्ता दूतीं चाप्यष्टमीं श्रृणु ॥११९॥वज्रेश्वर्याद्यमाद्यं स्याद्वियदग्नियुतं ततः ॥ अंबु स्यान्मरुता युक्तं गोत्रा क्ष्मासंयुता ततः ॥१२०॥रयोव्या सेन शुचिना युतः स्यात्तदनंतरम् ॥ अत्यार्णा वह्रिवासिन्यां दूती नित्या समीरिताः ॥१२१॥षड्दीर्घस्वरयुक्तेन विद्यायाः स्यात्षंडंगकम् ॥ तेनैव पुटितैरर्णैर्न्यसेच्छ्रोत्रादिपञ्चसू ॥१२२॥षष्ठकं नसि विन्यस्य व्यापकं विद्यया न्यसेत् ॥ निदाघकालमध्याह्रदिवाकरसमप्रभाम् ॥१२३॥नवरत्नदिकिरीटां व त्रीक्षणामरुणांबराम् ॥ नानाभरणसंभिव्रदेहकांतिविराजिताम् ॥१२४॥शुचिंस्मितामष्टभुजां स्तूयमानां महर्षिभिः ॥पाशंखेटं गदां रत्नचषकं वामबाहुभिः ॥१२५॥दक्षिणैरंकुशं खङुं कमलं तथा ॥ दधानां साधकाभीष्टदानोद्यसमन्विताम् ॥१२६॥ध्यात्वैवं पूजयेद्देवीं दूर्ती दुर्नीतिनाशिनीम् ॥इत्येषा कथिता तुभ्यं समस्तापन्निवारिणी ॥१२७॥श्रीकरी शिवतावसकारिणी सर्वैसिद्धिदा ॥ अथ ते नवमीं धरा त्वरितां नमा नारद ॥१२८॥प्रवक्ष्यामि यशोविद्याधनारोग्यसुखप्रदाम् ॥ आघ्रं तु वह्रिवासिन्या दूत्यादिस्तदनन्तरम् ॥१२९॥हंसो धरा स्वयं युक्तस्तेजश्वरसमन्वितम् ॥ वायुः प्रभाचरयुता ग्रासशक्तिसमन्वितः ॥१३०॥ह्रदार येण दाहेन वह्रिस्वावष्टमं तथा ॥ हंसः क्ष्मारवंयुतो ग्रासश्वरयुक्तो द्वितीयकः ॥१३१॥द्वितिर्नादयुता नित्या त्वरिता द्वादशक्षरी ॥ विद्या चतुर्थवर्णा दिसप्तभिस्त्वक्षरैस्तथा ॥१३२॥कुर्यादंगानि युग्मार्णैः षट्क्रमेण करांगयोः शिरोललाटकंठेषु त्दृन्नाभ्याधारके तथा ॥१३३॥ऊरुयुग्मे तथा जानुद्वये जंघाद्वये तथा ॥ पादयुग्मे तथा वर्णान्मंत्रजान्दशं विन्यसेत् ॥१३४॥द्वितीयोपांत्यमध्यस्थैर्मंत्रार्णौरितरैरपि ॥ ताराद्यैः श्रृणु तद्धायानं सर्वसिद्धिविधायकम् ॥१३५॥श्यामवर्णशुभाकारां नवयौवनशोभिताम् ॥ द्विद्विक्रमादष्टनागैः कल्पिताभरणोज्ज्वलैः ॥१३६॥ताटंकमंगदं गद्वद्रसना नूपुरं च तैः ॥ विप्रक्षत्रियविट्शूद्रजातिभिर्भी मविग्रहैः ॥१३७॥पल्लवांशुकसंवीतां शिखिपिच्छकृतैः शुभैः ॥ वलयैर्भूषितभुजां माणिक्यमुकुटोज्ज्वलाम् ॥१३८॥बर्हिबर्हकृतापीडां तच्छत्रां तत्पताकिनीम् ॥ गुंजागुणलसद्वक्षःकुचकुंकुममंडलाम् ॥१३९॥त्रिनेत्रां चारुवदनां मंदस्मितमुखांबुजाम् ॥ पाशांकुशवराभीतिलसद्धुज चतुष्टयाम् ॥१४०॥ध्यात्वैवं तोतलां देवीं पूजयेच्छक्तिभिर्वृताम् ॥ तदग्रस्था लु फट्कारी शरचापकरोज्ज्वला ॥१४१॥प्रसीदेत्फलदाने च साधकाना त्वरान्विता ॥ एषा तु नवमी नित्या त्वरितोक्ता मुनीश्वरो ॥१४२॥विघ्नदुःस्वप्रशमनी सर्वाभीष्टप्रदायिनी ॥ शुचिः स्वेन युतस्त्वाद्यो रसावह्रिसमन्वितः ॥१४३॥प्राणो द्वितीयः स्वयुतो वनदुच्छक्तिभिः परः ॥ इतीरिता त्र्य्क्षराख्या नित्येयं कुलसुंदरी ॥१४४॥यस्याः स्मरण मात्रेण सर्वज्ञत्वं प्रजायते ॥ त्रिभिस्तैरुदितैर्मूलवर्णैः कुर्य्यात्षडंगकम् ॥१४५॥आदिमध्यावसानेषु पूजाजविधिक्रमात् ॥ प्रत्येक तैस्त्रिभिर्बीजै र्दीर्घस्वसमन्वितैः ॥१४६॥कुर्यात्करांगवक्राणां न्यासं प्रोक्तं यथाविधि ॥ ऊर्द्धप्राग्दक्षिणोदक्च पश्चिमाधस्नामभिः ॥१४७॥सुविनंद्यतरस्थैस्तन्न दात्मसु यथाक्रमम् ॥ आधारर्ध्रह्रत्स्वेकं द्वितीयं लोचनत्रये ॥१४८॥तृतीयं श्रोत्रचिबुके चतुर्थं घ्राणतालुषु ॥ पंचमं चांसनाभीषु ततः पाणिपद द्वये ॥१४९॥मूलमध्याग्रतो न्यस्येन्नवधा मूलवर्णकैः ॥ लोहितां लोहिताकारशक्तिवृंदनिषेविताम् ॥१५०॥लोहितांशुकभूषास्त्रग्लेपनां षन्मुखांबुजाम् ॥ अनर्घ्यरत्नघटितमाणिक्यमुकुटोज्वलाम् ॥१५१॥रत्नस्तबकसंभिन्नलसद्वक्षःस्थलां शुभाम् ॥ कारुण्यानंदपरमा मरुणांबुजविष्टराम् ॥१५२॥भुजैर्द्वादशभिर्युक्तां सर्वेषां सर्ववाङ्मयीम् ॥ प्रवालाक्षस्त्रंजं पद्मं कुंडिकां रत्ननिर्मिताम् ॥१५३॥रत्नपूर्ण तु चषकं लुंगी व्याख्यानमुद्रिकाम् ॥ दधानां दक्षिणैर्वामैः पुस्तकं चारुणोत्पलम् ॥१५४॥हैमीं च लेखनीं रत्नमालां कंबुवरं भुजैः अभितः स्तूयमानां च देवगंधर्वकिन्नरैः ॥१५५॥यक्षराक्षसदैत्यर्षिसिद्धाविद्याधरादिभिः ॥ ध्यात्वेवमर्चयेन्नित्यां वाग्लक्ष्मीकान्तिसिद्धये ॥१५६॥सितां केवलवाक्सिद्धयैं लक्ष्म्यै हेमप्रभामपि ॥ धूमाभां वैरिविद्विष्टयै मृतये निग्रहाय च ॥१५७॥नीलां च मूकीकरणे स्मरेत्तत्तदपेक्षया ॥इत्येषा दशमी नित्या प्रोक्ता ते कुलसुन्दरी ॥१५८॥नित्यानित्यां तु दशमीं त्रिकुटां वच्मि सांप्रतम् ॥ हंसश्व त्दृत्प्राणरसादाहकर्णैः समन्वितः ॥१५९॥विद्यया कुलंसुदर्या योजितः संप्रदायतः ॥ नित्यानित्यत्रिवर्णैयं षडूभिः कूटाक्षरैर्युता ॥१६०॥प्रतिलोमादिभी रुपैर्द्विसप्ततिभिदा मता ॥ यस्या भजनतः सिद्धो नरः स्यात्खेचरः सुखी ॥१६१॥निग्रहानुग्रहौ कर्तुं क्षमः स्याद्धुवनत्रये ॥ दीर्घस्वरसमेताभ्यां हंसत्दृघां षडंगकम् ॥१६२॥भ्रूमध्ये कण्ठह्रन्नाभिगुह्याधारेषु च क्रमात् ॥ विद्याक्षराणि क्रमशो न्यसेद्विंदुयुतानि च ॥१६३॥व्यापकं च समस्तेन विधाय विधिना पुनः ॥ ध्यायेत्समस्त संपत्तिहेतोः सर्वात्मिकां शिवाम् ॥१६४॥उद्यद्धास्करबिंबाभां माणिक्यमुकुटोज्ज्वलाम् ॥ पद्मरागकृताकल्पामरुणांशुकधारिणीम् ॥१६५॥चारुस्मितलसद्वक्रषटूसरोजविराजिताम् ॥ प्रतिवक्रं त्रिनयनां भुजैर्द्वादशभिर्युताम् ॥१६६॥पाशाक्षगुणपुंड्रेक्षेचापखेटत्रिशूलकान् ॥ करैर्वामैर्द धानां च अङुंश पुस्तकं तथा ॥१६७॥पुष्पेषुमंबुजं चैव नृकपालाभये तथा ॥ दधानां दक्षिणैहस्तैर्ध्यायेद्देवीमनन्यधीः ॥१६८॥इत्येषैका दशी प्रोक्ता द्वादशीं श्रॄणु नारद ॥ त्वरितोयांत्यमाद्यं स्याद्युतिदोहचस्वयुक् ॥१६९॥ह्रच्च दाहक्ष्मास्वयुतं वज्रेशीपञ्चमं तथा ॥ मरुत्स्वयुक्तो मध्याढ्यो दशम्याः परतः पुनः ॥१७०॥भूमी रसाक्ष्मास्वयुता वज्रेशीत्यष्टमः ॥ क्रमात् ॥ षडक्षराणि त्वरिता तृतीयं तदनंतरम् ॥१७१॥द्युतिर्दाहचरस्वेन अस्या आद्यमनन्तरम् ॥ उक्ता नीलपताकाख्या नित्या सप्तदशाक्षरी ॥१७२॥द्विद्विपक्षक्षिषड्वर्णैर्मंत्रोत्थैरंगकल्पनम् ॥ श्रोत्रादिनासायुगले वाचि कण्ठे त्दृदि क्रमात् ॥१७३॥नाभावाधारकेऽथापि पादसंधिषु च क्रमात् ॥ मन्त्राक्षराणि क्रमशो न्यसेत्सप्तदशपि च ॥१७४॥व्यापकं च समस्तेन विदध्याच्च यथाविधि ॥ इन्द्रनीलनिभां भास्वन्मणिमौलिविराजिताम् ॥१७५॥पञ्चवक्रां त्रिनयनामरुणांशुकधारिणीम् ॥ दशहस्तां लस न्मुक्तामण्याभरणंमडिताम् ॥१७६॥रत्नस्तबकसंपन्नदेहां चारुस्मिताननाम् ॥ पाशं पताकां चर्मापि शार्ङचापं वरं करैः ॥१७७॥दधानां वाम पार्श्वस्थैः सर्वाभरणाभूषितैः ॥ अंकुश च तथा शक्तिं खङुं बाणं तथाभयम् ॥१७८॥दधानां दक्षिणैर्हस्तैरासीनां पद्मविष्टरे ॥ स्वाकारवर्ण वेषास्यपाण्यायुधविभूषणैः ॥१७९॥शक्तिवृदेर्वृता ध्यायेद्देवीं नित्यार्चनक्रमे ॥ त्रिषट्रकोणयुतं पद्ममष्टपत्रं बहिः ॥१८०॥अष्टास्त्र भूपुरद्वन्द्वावृतं तत्पुरयुगमकम् ॥ चतुर्द्वारयुतं दिक्षु शाखाभिश्व समन्वितम् ॥१८१॥कृत्वा नामावृतां शक्तिं गणैस्तत्रार्चयोच्छिवाम् ॥ एषा ते द्वादशी नित्या प्रोक्ता नीलपताकिनी ॥१८२॥समरे विजयं खङुपादुकांजनसिद्धिदा ॥ वेतालयक्षिणीचेटपिशाचादिप्रसाधिनी ॥१८३॥निधानाबिलसिद्धन्नसाधिनी कामचोदिता ॥ अथ त्रयोदेशो नित्यां वक्ष्यामि श्रृणु नारद ॥१८४॥रसो नभस्तभा दाहो व्याप्तक्ष्मावनपूर्विका ॥ खेन युक्ता भवेन्नित्या विजयैकाक्षरा मुने ॥१८५॥विद्याया व्यंजनैर्दीर्घस्वयुक्तैश्वतुष्टयम् ॥ शेषाभ्यां च द्वय्म कुर्यात्षडंगानि कारांगयोः ॥१८६॥ज्ञानेंद्रियेषु श्रोत्रदिष्वथ चित्ते च विन्यसेत् ॥ अक्षराणि क्रमाद्विन्दुयुतान्यन्यतु पूर्ववत् ॥१८७॥पञ्चवक्रां दशभुजां प्रतिवक्रं त्रिलोचनाम् ॥ भास्वन्मुकुटविन्यासचन्द्रलेखाविराजिताम् ॥१८८॥सर्वाभरणसंयुक्तां पीतांबरसमुज्ज्वलाम् ॥ उद्यद्धास्वद्विंबतुल्यदेहकांतिं शुचिस्मिताम् ॥१८९॥शंखं पाशं खेटचापौ कह्रारं वामबाहुभिः ॥ चक्रं तथांकुशं खङुं सायकं मातुलुंगकम् ॥१९०॥दधानां दक्षिणैर्हस्तैः प्रयोगे भीमदर्शनाम् ॥ उपासनेति सौम्यां च सिंहोपरि कृतासनाम् ॥१९१॥व्याघ्रारुढाभिरभितः शक्तिभिः परिवारिताम् ॥ समरे पूजनेऽन्येषु प्रयोगेषु सुखासनाम् ॥१९२॥शक्तयश्वापि पूजायां सुखासनसमन्विताः ॥ सर्वा देव्याः समाकारमुखपाण्यायुधा अपि ॥१९३॥चतुरस्त्रद्वयं कृत्वा चतुर्द्वारोपशोभितम् ॥ शाखाष्टकसमोपेतं तत्र प्राग्वत्समर्चयेत् ॥१९४॥तदंतर्वृत युग्मांतरष्टकोणं विधाय तु ॥ तदंतश्व तथा पद्मं षोडशच्छदसंयुतम् ॥१९५॥तथैवाष्टच्छद पद्मं विधायावाह्य तत्र ताम् ॥ तत्तच्छत्तया वृतां सम्य गुपचारैस्तथार्चयेत् ॥१९६॥एषा त्रयोदशी प्रोक्ता वादे युद्धे जयप्रदा ॥ चतुर्दशीं प्रवक्ष्येऽथ नित्यां वै सर्वमंगलाम् ॥१९७॥ह्रदंबुवनयुक्तं खं नित्या स्यात्सर्वमंगला ॥१९८॥एकाक्षर्यनया सिद्धो जायते खेचरः क्षणात् ॥ षड्दीर्घाढ्यो मूलविद्यां षडंगेषु प्रविण्यसेत् ॥१९९॥तां नित्यां जात रुपाभां मुक्तामाणिक्यभूषणाम् ॥ माणिक्यमुकुटां नेत्रद्वयप्रेंखद्दयापराम् ॥२००॥द्विभुजां शासनां पद्मे त्वष्टषोडशतद्वयैः ॥ पत्रैरुपेते सचतुद्वारं भूसद्मयुग्मके ॥२०१॥मातुलिंगफलं दक्षे दधानां करपंकजे ॥ वामेन निजभक्तानां प्रयच्छंती धनादिकम् ॥२०२॥स्वसमानाभिरभितः शक्तिभिः परिवारिताम् ॥ षट्सप्तातीभिरन्याभिरप्सरोत्थाभिरन्विताम् ॥२०३॥प्रयोगेष्वन्यदा नित्यं सपर्यासूक्तशक्तिकम् ॥ एषा चतुर्दशी प्रोक्ता तथा पंचदशीं श्रृणु ॥२०४॥भूः शून्यं नभसा भूश्व रसश्वाथ स्थिरांबु च ॥ रयोग्निना युतीज्यांमरुद्युक्तारसा मरुत ॥२०५॥नभश्व मरुता युक्तं रसा शून्येऽपि संयुते ॥ गोत्रा चरेण सहिता अंबुपूर्वाक्षरस्तथा ॥२०६॥अंब्वग्री हरच्च दाहांबुरसक्ष्मरयह्रत्स्वयुक् ॥ हंसश्व मरुता दाहः प्राणश्व मरुता युतः ॥२०७॥दाहः साग्निप्राणचरौ ज्यामरुत्सहितारयः ॥ चरेणांबु च गोत्राह्रत्साग्निर्ज्यांबुरसा स्वयुक् ॥२०८॥रयः साग्निर्ज्यांबुरसा पुनरेते जवी ततः ॥ दाहेनानेन ते द्विः स्याद्धस्वो दाहमरुत्स्वयुक् ॥२०९॥हंसः सदाहवह्रिस्वो दाहक्ष्मास्वयुतश्व सः ॥ सप्तदाहास्ततोऽस्याः स्युरष्ट माद्यास्तु पंच ते ॥२१०॥उपांत्याधः स्थितं नीलपताकाय अन्तरम् ॥ त्वरिता त्वं च भेरुंडाष्टमं च नवमं तथा ॥२११॥सा ज्वालामालिनी नित्या त्रिषष्टयर्णा समीरिता ॥ एकद्वयचतुःपंचतुष्टयद्शाक्षरैः ॥२१२॥कुर्यादंगानि मूलार्णैरादितः षटरांगयोः ॥ शेषैस्तु व्यापकं कुर्यात्ततो ध्यायेत्सनातनीम् ॥२१३॥ज्वलज्ज्वलनसंकाशां माणिक्यमुकुटोज्ज्वलाम् ॥ षड्वक्रां द्वादशभुजां सर्वाभरणभूषिताम् ॥२१४॥पाशांकुशौ खङु खेटौ चापबाणौ गदादरौ ॥ शूलवह्री वराभीती दधानां करपंकजैः ॥२१५॥स्वप्रमाणाभिरभितः शक्तिभिः परिवारिताम् ॥ चारुस्मितलसद्वक्र सरोजां त्रीक्षणान्विताम् ॥२१६॥ध्यात्वेवमुपचारैस्तैरर्चयेत्तां तु नित्यशः ॥ चतुरस्त्रद्वयं कृत्वा चतुर्द्वारसमन्वितम् ॥२१७॥सशाखमष्टपत्राब्जमंतरा त्र्यस्त्रकं ततः ॥ षट्कोणं मध्यतस्त्र्यस्त्रं विधायात्र शिवां यजेत् ॥२१८॥एषा पंचदशी प्रोक्ता षोडशीं श्रृणु नारद ॥ वायुप्रणवतत्त्वैस्तु चित्रास्तादक्षरद्वया ॥२१९॥या सिद्धा धनधान्यत्मनिधिलाभाय कल्प्यते ॥ विद्याद्यवायुना कुर्याद्दीर्घस्वरयुजा क्रमात् ॥२२०॥षडंगानि यथापूर्वं मातृकां विद्यया न्यसेत् ॥ उद्यददित्यबिंबाभां नवरत्नविभूषणाम् ॥२२१॥नवरत्नकिरीटां च चित्रपट्टांशुकोज्ज्वलाम् ॥ चतुर्भुजां त्रिनयनां शुचिस्मितलसन्मुखीम् ॥२२२॥सर्वानंदमयीं नित्यां समस्तेप्सितदायिनीम् ॥ चतुर्भुजेषु वै पाशंमकुशं वरदाभये ॥२२३॥दधानां मंगलां पद्मकर्णिकायोनिमध्यगाम् ॥ तच्छक्तिभिश्व तच्चक्रे तथैवार्चनमीरितम् ॥२२४॥प्राणदाहो धरायुक्तो पुनराद्यं रसे मरुत् ॥ व्यांस मरुच्छक्तियुतं भूः स्वयुक्ता ततस्त्रयम् ॥२२५॥अस्या आद्यं रसायुग्मं चरणेन प्रयोजितम् ॥ दाहेन वह्रिशक्तिभ्यां युतो हंसस्तथ परम् ॥२२६॥नभो दिर्त्दृअत्सदाहांबुज्या शून्यं स्वेन संयुतम् ॥ अंबु पश्वाद्विषयुक्तं मरुता तु नभोयुतम् ॥२२७॥शून्यं व्याप्तं भुवा हंसः पूर्वांत्यौ स्यान्मनुत्रयम् ॥ अस्याः षष्ठादिपंचार्णी दैत्यास्यादाद्य ईरितः ॥२२८॥एकादशाक्षरादंत्या द्वितीयः खंड ईरितः ॥ तृतीयः पंचर्विंशार्णः प्रोक्ता मंत्रा इति क्रमात् ॥२२९॥बाला बीजत्रयाद्यैर्विस्त्रिभिर्मंत्रैः षदंगकम् ॥ विकीर्णकुंतलां नग्नां रक्तामानंदविग्रहाम् ॥२३०॥दधानां चिंतयेद्वाणचापपाशसूणी करैः ॥ तत्भूमानायुधाकारवर्णा देव्यस्तु बा ॥२३१॥ऋतस्त्राताः स्फुरद्यौन्यः सदानंददारुणेक्षणाः ॥ इत्येषां कुरुकुल्लांते प्रोक्ता चंद्रावली स्वयम् ॥२३२॥वाराहीमाभिधास्यामि ललितायाः परा तनुः ॥ शुचिः स्वेनाथ शून्यं स्यान्नभसाभ्रसस्थिरा ॥२३३॥अबुं पश्वाद्रयः साग्निर्मरुतांबुरयौ तथा ॥ इलायुतोऽग्निरेतानि पुनरंबुमरुद्युतम् ॥२३४॥दाहांबुमरुताहंसरस्त्वग्नितैतत्रयं पुनः ॥ अम्बुदाहौ मरुद्युक्तौ हंसोऽथ धरया नभः ॥२३५॥तेजोग्निना पुनः पंच वात स्वेन समायुतः ॥ तोयं चरेण तत्पूर्वं तोयमग्नियुतं ततः ॥२३६॥शून्यं व्याप्तेन शुचिना शून्य्म शक्तया नभो युतम् ॥ दाहो धरा स्वसहितस्तोयं चरसमन्वितम् ॥२३७॥एतत्पूर्वमधुः प्रोक्तं चतुष्टयमतः परम् ॥ ज्याख्येन युक्ता सचरो रभश्वैतस्य पूर्वकम् ॥२३८॥रसोऽग्र्निना पुनः प्रोक्ता चतुष्का अपयं ततः ॥ शुभोभ्रता चरेणापि हंसः स्वेन सपूर्वकम् ॥२३९॥हंसोऽग्निना प्राकू त्रितयं त्दृदयं स्वसमायुतम् ॥ रसश्वरेण तत्पूर्वमाग्निना च रसो युतः ॥२४०॥पश्वादुक्तस्त्रयं वातो धरया च नभोन्वितम् ॥ प्राणः स्वेन युतः पश्वाद्धदयस्वयुतं रसः ॥२४१॥व्याप्तमेतत्रयं पश्वाद्दाहेनांबु समन्वितम् ॥ गोत्राभरायुता स्पर्शो नादयुक्तो जर्वीयुतः ॥२४२॥दाहेन पूर्वपूर्व च पूर्वं च मरुता युतम् ॥ शून्यं मरुत्स्वसहितं ह्रद्दाहेनांबुना चरः ॥२४३॥स्पर्शो मरुत्स्वसहितो ह्र्द्दाहेनांबुसंयुतम् ॥ ज्याग्रिः स्वसंयुतो इंसस्तथांबु मरुता सह ॥२४४॥ह्रद्रूप्रेण स्वेन युतं रसश्व स्वेन संयुतः ॥ प्राणदाहौ पुनस्तौ वह्रिना वियत् ॥२४५॥वार्द्दाहयुक्तमंबु स्यादिषष्टयासस्वसंयुतम् ॥ पूर्वाद्विरुक्तवर्णो च शुद्धिः स्वेन युतस्तथा ॥२४६॥स्थिरा रसा वतस्वेन दावौ हंसौ धरा स्वयुक् ॥ युतिर्नादवती पश्वाद्धृदंबुमरुता युतम् ॥२४७॥हंसश्व मरुता विद्यः दशोत्तरशताक्षरी ॥ वाराही पंचमी विश्वविजया भद्रक्ॐउदी ॥२४८॥वार्तालीति च विख्यात स्तंभनाद्यखिलेष्टदा ॥ अंगानि कुर्यान्मंत्रार्णैः सप्तभि षड्भिरेव च ॥२४९॥दशभिः सप्तभिः सप्तसंख्यैर्जातिभिरर्दिताः ॥ त्रिकोणवृत्तषट्रकोणवृत्तद्वयसमन्वितम् ॥२५०॥विधाय चक्रं तत्रैव स्वनामलिख्य पूजयेत् ॥ ध्यायेच्च देवीं कीलास्यां ततः कांचनसन्निभाम् ॥२५१॥आकंठं वनितारुपां ज्वलत्पिंगसरोरुहाम् ॥ त्रिनेत्रामष्टहरता च चक्रं शंख मथांकुशम् ॥२५२॥पाशं च मुशलं शीर्षमभयं वरदं तथा ॥ दधानां गरुडस्कन्धे सुखावासीनां विचितयेत् ॥२५३॥नित्यपूजासु तच्छक्तीस्तत्स मानाः स्मरेन्मुने ॥ प्रयोगेषु स्मरद्देवीं सिंहस्थां व्याघ्रगामपि ॥२५४॥गजारुढां ह्यारुढां तार्भ्यारुढां च शक्तिभिः ॥ श्यामामप्यरुणां पीतामसि तांबोजविग्रहाम् ॥२५५॥तत्तत्त्प्रयोगेषु तथा ध्यायत्तत्तदवाप्तये ॥ अरुणां पंचमीं वश्ये पीतां स्तंभनके स्मरेत् ॥२५६॥श्यामां च दुर्गमे च दुर्गमे मार्गे सितां युद्धेऽरिनष्टयं ॥ धूम्रामुच्चाटने ध्यायेत्साधको द्विजसत्तमः ॥२५७॥एताः षोडश नित्यास्ते संक्षेपात्समुदीरिताः ॥ भजतामिष्टदाः सद्यः सर्वपापक्षयंकराः ॥२५८॥इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे राधादिमन्त्रनिरुपंच नामाष्टाशीतितमोऽध्यायः ॥८८॥ N/A References : N/A Last Updated : June 06, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP