श्री नारदीयमहापुराणम् - पञ्चषष्टिमोऽध्यायः
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
सनत्कुमार उवाच ॥
परीक्ष्य शिष्यं तु गुरुर्मंत्रशोधनमाचरेत् ॥ प्राक्प्रत्यग्दक्षिणोदक्च पंचसूत्राणि पातयेत् ॥१॥
चतुष्टंय चतुष्कानां स्यादेवं नृपकोष्ठके ॥ तत्राद्यप्रथमे त्वाद्यं द्वितीपाद्ये द्वितीयकम् ॥२॥
तृतीयाद्ये तृतीयं स्याच्च तुर्थाद्ये तुरीयकम् ॥ तत्तदाग्नेकोष्ठेषु तत्तत्पंचममक्षरम् ॥३॥
विलिख्य क्रमतो धीमान्मनुं संशोधयेत्ततः ॥ नामाद्यक्षरमारभ्य यावन्मन्त्रादि वर्णकम् ॥४॥
चतुष्के यत्र नामार्णस्तत्स्यात्सिद्धिचतुष्ककम् ॥ प्रादक्षिण्यात्तद्दितीयं साध्याख्यं परिकीर्तितम् ॥५॥
तृतीयं पुंसि सिद्धाख्यं तुरीयमंरिसंज्ञकम् ॥ द्वयोर्वर्णावेककोष्ठे सिद्धसिद्धेति तन्मतम् ॥६॥
तद्दितीय तु मंत्रार्णे सिद्धसाध्यः प्रकीर्तितः ॥ तृतीये तत्सुसिद्धः स्यात्सिद्धारिस्तच्चतुर्थके ॥७॥
नामार्णान्यचतुष्कात्तु द्वितीये मंत्रवर्णके ॥ चतुष्के चेत्तदा पूर्वं यत्र नामाक्षरं स्थितम् ॥८॥
तत्र तत्कोष्ठमारभ्य गणये त्पूर्ववत्क्रमात् ॥ साध्यसिद्धः साध्यसाध्यस्तत्सुसिद्धश्व तद्रिपुः ॥९॥
तृतीये चेच्चतुष्के तु यदि स्यान्मंत्रवर्णकः ॥ तदा पूर्वोक्तरीत्या तु क्रमाद्देयं मनीषिभिः ॥१०॥
सुसिद्धस्तत्साध्यस्तत्सुसिद्धश्व तद्दभिः ॥ तुरीये चेच्चतुष्के तु तदैवं गणयेत्सुधीः ॥११॥
अरिसिद्धोऽरिसाध्यश्व तत्सुसिद्धश्व तद्रिपुः ॥ सिद्धसिद्धो यथोक्तेन द्विगुणात्सिसाध्यकः ॥१२॥
सिद्धः सुसिद्धिर्द्धतयात्सिद्धारिर्हंति गोत्रजान् ॥ द्विगुणात्साध्यासिद्धस्तु साध्यसाध्यो विलंबतः ॥१३॥
साध्यः सुसिद्धो द्विगुणात्साध्यारिर्हंति बांधवान् ॥ सुसिद्धसिद्धोर्द्धतया तत्सध्यो द्विगुना ज्जपातु ॥१४॥
तत्सुसिद्धप्राप्तिमात्रात्सुसिद्धारिः कुटुंबत्द्दत् ॥ अरिसिद्धस्तु पुत्रघ्नोऽरिसाध्यः ॥ कन्यकापहः ॥१५॥
तत्सुसिद्धः कलत्रघ्नः साधकघ्नोरेऽप्यरिः स्मृतः ॥ अन्येऽप्यत्र प्रकारा हि संति वै बहवों मुने ॥१६॥
सर्वेषु मुख्योऽयं तेऽत्र कथितो कथहाभिधः ॥ एवं संशोध्य मंत्रं तु शुद्धे काले स्थले तथा ॥१७॥
दीक्षयेच्च गुरुः शिष्यं तद्विधानमुदीर्यते ॥ नित्यकृत्यं विधायाथ प्रणम्य गुरुपादुकाम् ॥१८॥
प्रार्थ्येत्सदुरुं भक्तभीष्टमंत्रार्थमादृतः ॥ संपूज्य वस्त्रालंकारगोहिरण्यधरादिभिः ॥१९॥
कृत्वा स्वस्ति विधानं तु मंडलादि च तुष्टिमान् ॥ गुरुः शिष्येण सहितः शुचिर्यागगृहं विशेत् ॥२०॥
सामान्यार्घोदकेनाथ संप्रोक्ष्य द्वारमस्त्रतः ॥ दिव्यानुत्सारयेद्विघ्रान्नभस्थानर्च्य वारिणा ॥२१॥
पार्ष्णिघातैस्त्रिभिर्भौमआंस्ततः कर्म समाचरेत् ॥ वर्णकैः सर्वतोभद्रे यथोक्तप्रिकल्पिते ॥२२॥
वह्रिमण्डललमभ्यर्च्य तत्कलाः परिपूज्य च ॥ अस्त्रप्रक्षालितं कुंभं यथाशक्ति विनिर्मितम् ॥२३॥
तत्र संस्थाप्य विधिवत्तत्र भानोः कलां यजेत् ॥ विलोममातृकामूलसुच्चरन् शुद्धवारिणा ॥२४॥
आपूर्य कुंभं तत्रार्चित्सोमस्य विधिवत्कलाः ॥ धूम्राचिरुष्मा ज्वलिनी ज्वालिनी विस्फुलिंगिनी ॥२५॥
सुश्रीः सुरुपा कपिला हव्यकव्यवहा तथा ॥ वह्रेर्दश कलाः प्रोक्ताः प्रोच्यंतेऽथ खेः कलाः ॥२६॥
तपिनी तापिनी धूम्रा मरीचिज्वा लिनी रुचिः ॥ सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥२७॥
अर्थेदोश्व कला ज्ञेया ह्यमृता मानदा पुनः ॥ पूषा तुष्टिश्व पुष्टिश्व रतिश्व धृतिसंज्ञिकाः ॥२८॥
शशिनी चंद्रिका कांतिर्ज्योत्स्ना श्रीः प्रीतिरंगदा ॥ पूर्णापूर्णामृता चेति प्रोक्ताश्वंद्रमसः कलाः ॥२९॥
वस्त्रयुग्मेन संवेष्टय तस्मिन्सर्वौषधीः क्षिपेत् ॥ नवस्त्रानि निक्षिप्य विन्यसेत्पञ्चपल्लवान् ॥३०॥
पनसाम्रवटाश्वत्थवकुलेति च तान् विदुः ॥ मुक्तामाणिक्य वैडूर्यगोमेदान्वज्रविद्रुमौ ॥३१॥
पद्मरागं मरकतं नीलं चेति यथाक्रमम् ॥ एवं रत्नानि निक्षिप्य तत्रावाह्येष्टदेवताम् ॥३२॥
संपूज्य विधिवन्मंत्री तथ शिष्यं स्वलंकृतम् ॥ वेद्यां संवेश्य संप्रोक्ष्य प्रोक्षर्णास्थेन वारिणा ॥३३॥
भूतशुद्धयादिकं कृत्वा तच्छरीरे विधानतः ॥ न्यास जालेन संशोध्य मूर्घ्नि विन्यस्य पल्लवान् ॥३४॥
अष्टोत्तशतेनाथ मूलमंत्रेण मंत्रैतैः ॥ अभिर्षिचेत्प्रियं शिष्यं जनन्मूलमनुं ह्रदि ॥३५॥
शिष्टोदकेन वाचम्य परिधायांबरं शिशुः ॥ गुरुं प्रणम्य विधिवत्संविशेत्पुरतः शुचिः ॥३६॥
अथ शिष्यस्य शिरसि हस्तं दत्वा गुरुस्ततः ॥ जपेदष्टोत्तरशंत देयमन्त्रं विधानतः ॥३७॥
समोऽस्त्वित्यक्षरान्दद्यात्ततः शिष्योऽर्चयेदुरुम् ॥ ततः सचन्दनं हस्तं दत्वा शिष्यस्य मस्तके ॥३८॥
तत्कर्णे प्रवदेद्विद्यामष्टवारं समाहितः ॥ संप्राविद्यः शिष्योऽपि निपतेद्धुरुपादयोः ॥३९॥
उत्तिष्ठ वत्स मुक्तोऽसि सम्यगाचार वान्भव ॥ कीर्तिश्रीकांतिपुत्रायुबलारोग्य सदास्तु ते ॥४०॥
ततः शिष्यः समुत्थाय गन्धाद्यैर्गुरुमर्चयेत् ॥ दद्याच्च दक्षिणां तस्मै वित्तशाठ्य विवर्जितः ॥४१॥
संप्राप्यैवं गुरोर्मंत्रं तदारभ्य धनादिभिः ॥ देहपुत्रकलत्रैश्व गुरुसेवापरो भवेत् ॥४२॥
स्वेष्टदेवं यजेन्मध्ये दत्वा पुष्पांजलिं ततः ॥ अग्निनैऋतिवागीशान् क्रमेण परिपूजयेत् ॥४३॥
यदा मध्ये यजेद्विष्णुं बाह्यादिषु विनायकम् ॥ रविं शिवां चैव यदा मध्ये तु शङुरम ॥४४॥
रविं गणेशमंबां च हरिं चाथ यदा शिवाम् ॥ ईशं विघ्रर्कगोविंदान्मध्ये चेद्धणनायकम् ॥४५॥
शिवं शिवां रविं विष्णुं खौ मध्यगते पुनः ॥ गणेश्म विष्णुमंबां च शिवं चेति यथाक्रमम् ॥४६॥
एवं नित्य समभ्यर्च्य देवपञ्चकमादृअतः ॥ ब्राह्ये मुहूर्ते ह्युत्थाय कृत्वाचा वश्यंक बुधः ॥४७॥
अशंकितो वा शय्यायां स्वकीयशिरसि स्मरेत् ॥ सहस्त्रदलशुक्लब्जकणिकास्थेदुमण्डले ॥४८॥
अकथादित्र्कोणस्थं वरा भयकरं गुरुम् ॥ द्विनेत्रं द्विभुजं शुल्कगंधमाल्यानुलेपनम् ॥४९॥
वामे शक्या युतं ध्यात्वा मानसैरुप्चारकैः ॥ आराध्य पादुकामन्त्रं दशधा प्रजपेत्सुधीः ॥५०॥
वा माया श्रीर्भगेंद्वाढ्या वियद्धंसखकाग्नयः ॥ हसक्षमलवार्याग्निवामकर्णैदुयुग्मरुत ॥५१॥
ततो भृग्वाकाशखाग्नि भगेंद्वाढ्याः परंतिमः ॥ सहक्षमलतोयाग्निचंद्रशांतियुतो मरुत् ॥५२॥
ततः श्रीश्वामुकांते तु नन्दनाथामुकी पुनः ॥ देव्यंबांते श्रीपांदुका पूजयामि त्द्ददंतिमे ॥५३॥
अयं श्रीपादुकामंत्रः सर्वसिद्धिप्रदो नृणाम् ॥ गुह्येति च समप्यार्थ मन्त्रैरेतैर्नमेत्सुधीः ॥५४॥
अखण्ड मंडलाकारं व्याप्तं येन चराचरम् ॥ तत्पदं दशितं येन तस्मे श्रीगुरवे नमः ॥५५॥
अज्ञानतिमिरांधस्य ज्ञानाञ्जशलाकया ॥ चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥५६॥
नमोऽस्तु गुरवे तस्मा इष्टदेवस्वरुपिणे ॥ यस्य वागमृतं हंति विषं संसारसंज्ञकम् ॥५७॥
इति नत्वापठेत्स्तोत्रं सद्यः प्रत्ययकारकम् ॥ ॐ नमस्ते नाथ भगवन् शिवाय गुरुरुपिणे ॥५८॥
विद्यावतारसंसिद्धयै स्वीकृतानेकविग्रह ॥ नवाय तनरुपाय परमार्थैकरुपिणे ॥५९॥
सर्वाज्ञानतमोभेदमानवे चिद्धनाय ते ॥ स्वतंत्राय दयाक्लप्तविग्रहाय शिवात्मने ॥६०॥
परत्राय भक्तानां भव्यानां भावरुपिणे ॥ विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ॥६१॥
प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानरुपिणे ॥ पुरस्तात्पार्श्वयोः पृष्ठे नमस्तुभ्यसुपर्यधः ॥६२॥
सदा सच्चित्स्वरुपेण विधेहि भवदासनम् ॥ त्वत्प्रसादादहं देव कृतकृत्योऽस्मि सर्वतः ॥६३॥
मायामृत्युमहापाशाद्विसुक्रोऽस्मि शिवोऽस्मि वः ॥ इति स्तुत्वा ततः सर्व गुरवे विनिवेदयेत् ॥६४॥
प्रातःप्रभृति सायांतं सायादिप्रातरंततः ॥ यत्करोमि जगन्नाथ तदस्तु तव पूजनम् ॥६५॥
ततश्व गुरुपादाब्जगलितामृतधारया ॥ क्षालितं निजमात्मानं निर्मलं बहवयेत्सुधीः ॥६६॥
मूलादिब्रह्मरंध्रांतं मूलविद्या विभावयेत् ॥ मूलाधारदधो भागे वर्तुलं वायुमंडलम् ॥६७॥
तत्रस्थावायुबीजोत्थ वायुना च तदूर्द्धकम् ॥ त्रिकोणं मंडलं वह्रेस्तत्रस्थवह्रिबीजतः ॥६८॥
उत्पन्नेनाग्निना मूलाधारावस्थिततविग्रहाम् ॥ प्रसुप्तभुजगाकारां स्वयं भूलिंगवेष्टिनीम् ॥६९॥
विसतंनिभां कोटि विद्युदाभां तनीयसीम् ॥ कुलकुंडलिनीं ध्यात्वा कूर्चेनात्थापयेच्च ताम् ॥७०॥
सुषुम्णावर्त्मना तां च षट्चक्रक्रमभेदिनीम् ॥ गुरुपदिष्टविधिना ब्रह्मरंध्रं नयेत्सुधीः ॥७१॥
तत्रस्थामृतसंमग्रीकृत्यात्मानं विभावयेत् ॥ तत्प्रभापटलव्याप्तं विमलं चिन्मयं परम् ॥७२॥
पुनस्तां स्वस्थलं नीत्वा ह्रदि देवं विचिंतयेन् ॥ दृष्ट्रा च मानसैर्द्रव्यैः प्रार्थयेन्मनुनामुना ॥७३॥
त्रैलोक्यचैत न्यमयादिदेव श्रीनाथ विष्णो भवदाज्ञयैव ॥ प्रातः समुत्थाय तव प्रियार्थं संसारयात्रां त्वनुवर्तयिष्ये ॥७४॥
विष्णोरिति स्थले विप्र कार्य ऊहोऽन्यदैवते ॥ ततः कुर्यात्सर्वसिद्धये त्वजपाया निवेदनम् ॥७५॥
षट्शतानि दिवा रात्रौ सहस्त्राण्येकविंशतिः ॥ अजपाख्यां तु गायत्रीं जीवो जपति सर्वदा ॥७६॥
ऋषिर्हंसस्तथाव्यक्तगायत्रीछंद ईरितम् ॥ देवता परमोहंसश्वाद्यंते बीजशक्तिकम् ॥७७॥
ततः षडंगं कुर्वीत सूर्यः सोमो निरंजनः ॥ निराभासश्व धर्मश्व ज्ञानं चेति तथा पुनः ॥७८॥
क्रमादेतान्हंसपूर्वानात्मनेपापश्विमान् ॥ जातयुक्तान्साधकेंद्र षडंगेषु नियोजयेत् ॥७९॥
हकारः सूर्यसंकाशतेजाः संगच्छते बहिः ॥ सकार्स्तादृश्वैव प्रवेशे ध्यानमीरितम् ॥८०॥
एवं धात्वायुक्तान्वमान्वह्रयर्केषु विभागषः॥ मूलाधारे वादिसांतबीजयुक्त चतुर्दले ॥८१॥
बंधूकाभे स्वशक्त्या तु सहितापास्वगाय च ॥ पाशांकुशसुधापात्रमोदकोल्लासपाणये ॥८२॥
षट्शतं तु गणेशाय वागधीशाय चार्पयेत् ॥ स्वाधिष्ठाने विद्रुमाभे वादिलांतार्णसंयुते ॥८३॥
वामांगशक्तियुक्ताय विद्याधिपतये तथा ॥ स्त्रुवाक्षमालालसितबाहवे पद्मजन्मने ॥८४॥
ब्रह्मणे षट्सहस्त्रं तु हंसारुढाय चार्पयेत् ॥ विद्युल्लसितमेघाभे डादिफांतार्णपत्रके ॥८५॥
मणिपूरे शंखचक्रगदापंकजधारिणे ॥ सश्रिये षट्सहस्त्रं च विष्णवे विनिवेदयेत् ॥८६॥
अनाहतेऽर्कपत्रे च कादिठांतार्णंसंयुते ॥ शुल्के शूलाभयवरसधा कलशाधारिणे ॥८७॥
वामांगे शक्तियुक्ताय विद्याधिपतये सुधीः ॥ वृषारुढाय रुद्राय षट्सहस्त्र निवेदयेत् ॥८८॥
विशुद्धे षोडशदले स्वराढ्ये शुल्कवणके ॥ महाज्योतिप्रकाशायेन्द्रियाधिपतये ततः ॥८९॥
सहस्त्रमर्पयेत्प्राणशक्त्या युक्तेश्वराय च ॥ आज्ञाचक्रे हक्षयुक्ते द्विदिलेऽब्जे सहस्त्रकम् ॥९०॥
सदाशिवाय गुरवे पराशक्तियुताय वै ॥ सहस्त्रारे महापद्मे नादबिन्दुद्वयान्विते ॥९१॥
विलसन्मातृकावर्णे वराभयकराय च ॥ परमाद्ये च गुरवे सहस्त्रं विनिवेदयेत् ॥९२॥
चुलुकेंऽबु पुनर्द्धुत्वा स्वभावादेव सिध्यतः ॥ एकविंशतिसाहस्त्रप्रमितस्य जपस्य च ॥९३॥
षटशताधिकसंख्यास्ता दजपाया विभागशः ॥ संकल्पेन मोक्षदाता विष्णुर्मे प्रीयतामिति ॥९४॥
अस्याः संकल्पमात्रेण महापापैः प्रमुच्यते ॥ बह्यैवाहं न संसारी नित्यमुक्तो न शोकभाक् ॥९५॥
सच्चिदानंदरुपोऽहमात्मानमिति भावयेत् ॥ ततः समाचरेद्देहकृत्यं देवार्चनं तथा ॥९६॥
तद्विधानं प्रवक्ष्यामि सदाचारस्य लक्षणम् ॥९७॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहपाख्याने तृतीयपादे पञ्चषष्टिमोऽध्यायः ॥६५॥
N/A
References : N/A
Last Updated : June 05, 2011
TOP