धर्मराज उवाच ॥
श्रुतिस्मृत्युदितं धर्मं वर्णानामनुपूर्वशः ॥ प्रब्रवीमि नृपश्रेष्ठ तं श़ृणुष्व समाहितः ॥१॥
यो भुञ्जानोऽशुचिं वापि चाण्डालं पतितं स्पृशेत् ॥ क्रोधादज्ञानतो वापि तस्य वक्ष्यामि निष्कृतिम् ॥२॥
त्रिरात्रं वाथ षड्रात्रं यथासंख्यं समाचरेत् ॥ स्नानं त्रिषवणं विप्र पञ्चगव्येन शुध्यति ॥३॥
भुञ्जानस्य तु विप्रस्य कदाचित्स्रवते गुदम् ॥ उच्छिष्टत्वेऽशुचित्वे च तस्य शुद्धिं वदामि ते ॥४॥
पूर्वं कृत्वा द्विजः शौचं पश्चादप उपस्पृशेत् ॥ अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥५॥
निगिरन्यदि मेहेत भुक्त्वा वा मेहेन कृते ॥ अहोरात्रोषितो भूत्वा जुहुयात्सर्पिषाऽनलम् ॥६॥
यदा भोजनकाले स्यादशुचिर्ब्राह्मणः क्वचित् ॥ भूमौ निधाय तं ग्रासं स्नात्वा शुद्धिमवाप्नुयात् ॥७॥
भक्षयित्वा तु तद् ग्रासमुपवासेन शुद्ध्य़ति ॥ अशित्वा चै तत्सर्वं त्रिरात्रमशुचिर्भवेत् ॥८॥
अश्र्नतश्चेद्वमिः स्याद्वै ह्यस्वस्थस्रिशतं जपेत् ॥ स्वस्थस्रीणि सहस्राणि गायत्र्याः शोधनं परम् ॥९॥
चाण्डालैः श्वपचैः स्पृष्टो विण्मूत्रे च कृते द्विजः ॥१०॥
त्रिरात्रं तु प्रकुर्वीत भुक्तोच्छिष्टः षडाचरेत् ॥ उदक्यां सुतिकांवापि संस्पृशेदन्त्यजो यदि ॥११॥
त्रिरारेण विशुद्धिः स्यादिति शातातपोऽब्रवीत् ॥ रजस्वला तु संस्पृष्टा श्वभिर्मातङ्गवायसैः ॥१२॥
निराहारां शुचिस्तिष्ठेत्काले स्नानेन शुद्धयति ॥ रजस्वले यदा नार्यावन्योन्यं स्पृशतः क्वचित् ॥१३॥
शुघ्येते ब्रह्मकूर्चेन ब्रह्मकूर्चेन चोपरि ॥ उच्छिष्टेन च संस्पृष्टो यो न स्नानं समाचरेत् ॥१४॥
ऋतो तु गर्भं शङ्कित्वा स्नानं मैथुनिनः स्मृतम् ॥ अनृतौ तु स्त्रियं गत्वा शौचं मूत्रपुरीषवत् ॥१५॥
उभावप्यशुची स्यातां दम्पतीं याभसंगतौ ॥ शयनादुत्थिता नारी शुचिः स्यादशुचिः पुमान् ॥१६॥
भर्त्तुः शरीरशुश्रूषां दौरात्म्यादप्रकुर्वती ॥ दण्ड्या द्वादशकं नारी वर्षं त्याज्या धनं विना ॥१७॥
त्यजन्तो पतितान्बन्धून्दण्ड्यानुत्तमसाहसम् ॥ पिता हि पतितः कामं न तु माता कदाचन ॥१८॥
आत्मानं घातयेद्यस्तु रज्ज्वादिभिरूपेक्रमैः ॥ मृते मेध्येन लेप्तव्यो जीवतो द्विशतं दमः ॥१९॥
दण्ड्यास्तत्पुत्रमित्राणि प्रत्येकं पाणिकं दमम् ॥ प्रायश्चित्तं ततः कुर्युर्यथाशास्त्रप्रचोदितम् ॥२०॥
जलाग्य्रुद्बन्धनभ्रष्टाः प्रव्रज्यानाशकच्युताः शस्त्रघातहताश्च ये ॥२१॥
न चैते प्रवत्यवसिताः सर्वलोकबहिष्कृताः ॥ चान्द्रायणेन शुद्ध्य़न्ति तप्तकृच्छ्रद्वयेन वा ॥२२॥
उभयावसितः पापश्यामच्छबलकाच्चुतः ॥ चान्द्रायणाभ्यां शुद्ध्य़ेत दत्त्वा धेनुं तथा वृषम् ॥२३॥
श्वश़ृगाप्लवङ्गाद्यैर्मानुषैश्च रतिं विना ॥ स्पृष्टः स्नात्वा शुचिः सद्यो दिवा संध्यासु रात्रिषु ॥२४॥
अज्ञानाद्वा तु यो भुक्त्वा चाण्डालान्नं कथंचन ॥ गोमूत्रयावकाहारो मासार्द्धेन विशुद्ध्य़ति ॥२५॥
गोब्राह्मणगृहं दग्ध्वा मृतं चोद्बन्धनादिना ॥ पाशं छित्वा तथा तस्य कृच्छ्रमेकं चरेद्दिजः ॥२६॥
चाण्डालपुल्कसानां च भुक्त्वाहत्वा च योषितम् ॥ कृच्छ्रार्द्धमाचरेज्ज्ञानदज्ञानादैन्दवद्धयम् ॥२७॥
कोपालिकान्नभोक्तृणां तन्नारीगामिनां तथा ॥ अगम्यागमने विप्रो मद्यगो मांसभक्षणे ॥२८॥
तप्तकृच्छ्रपरिक्षिप्तो मौर्वीहोमेन शुद्ध्य़ति ॥ महापातककर्त्तारश्चत्वारोऽथ विशेषतः ॥२९॥
अग्निं प्रविश्य शुद्ध्य़न्ति स्थित्वा वा महति क्रतौ ॥ रहस्यकरणोऽप्येवं मासमभ्यस्य पूरुषः ॥३०॥
अधमर्षणसूक्तं वा शुद्ध्य़ेदन्तर्जले जपन् ॥ रजकश्चर्मकारश्च नटो बुरूड एव च ॥३१॥
कैवर्त्तमेदभिल्लाश्च सप्तैते ह्यन्त्यजाः स्मृताः ॥ भुक्त्वा चैषां स्त्रियो गत्वा पीत्वा यः प्रतिगृह्यते ॥३२॥
कृच्छ्रार्द्धमाचरेज्ज्ञानादैन्दवद्वयम् ॥ मातरं गुरुपत्नीं च दुहितृभगिनीस्नुषाः॥३३॥
संगम्य प्रविशेदग्निं नान्या शुद्धिर्विधीयते ॥ राज्ञीं प्रव्रजितां धात्रीं तथा वर्णोत्तमामपि ॥३४॥
गत्वा कृच्छ्रद्वयं कुर्यात्सगोत्रामभिगम्य च ॥ अमूषु पितृगोत्रासु मातृगोत्रगतासु च ॥३५॥
परदारेषु सर्वेषु कृच्छ्रार्द्धं तपनं चरेत् ॥ वेश्याभिगमने पापं व्यापोहन्ति द्विजास्तथा ॥३६॥
पीत्वा सकृत्सुतप्तं च पञ्चरात्रं कुशोदकम् ॥ गुरुतल्पगतो कुर्याद्बह्मणो विधिवद्वतम् ॥३७॥
गोघ्नस्य केचिदिच्छन्ति केचिच्चैवावकीर्णिनः ॥ दण्डादूर्ध्वं प्रहारेण यस्तु गां विनिपातयेत् ॥३८॥
द्विगुणं गोव्रतं तस्य प्रायश्चितं विशोधयेत् ॥ अङ्गुष्ठमात्रस्थूलस्तु बाहुमात्रप्रमाणकः ॥३९॥
सार्द्रकस्सपलाशश्च गोदण्डः परिकीर्त्तितः ॥ गवां निपातने गर्भोऽपि चैव गर्भोऽपि संभवेद्यदि ॥४०॥
एकैकशश्चरेत्कृच्छ्रं एषा गोघ्नस्य निष्कृतिः ॥ बन्धने रोधने चैव पोषणे वा गवां रुजाम् ॥४१॥
संपद्यते चेन्मरणं निमित्तेनैव लिप्यते ॥ मूर्च्छितः पतितो वापि दण्डेनाभिहतस्ततः ॥४२॥
उत्थाय षट्पदं गच्छेत्सप्त पञ्च दशापि वा ॥ ग्रांस वा यदि गृह्णीयात्तोयं वापि पिबेद्यदि ॥४३॥
सर्वव्याधिप्रनष्टानां प्रायश्चित्तं न विद्यते ॥ काष्ठलोष्टाश्मभिर्गावः शस्त्रैर्वा निहता यदि ॥४४॥
प्रायश्चित्तं स्मृतं तत्र शस्त्रे निगद्यते ॥ काष्ठे सानतपनं प्रोक्तं प्राजापत्यं तु लोष्टके ॥४५॥
तप्तकृच्छ्रं तु पाषाणे शस्त्रे चाप्यतिकृच्छ्रकम् ॥ औषधं स्नेहमाहारं दद्याद्रोब्राह्मणेषु च ॥४६॥
दीयमाने विपत्तिः स्यात्प्रायश्चित्तं तदा नहि ॥ तैलभेषजपाने च भेषजानां च भक्षणे ॥४७॥
निशल्यकरणे चैव प्रायश्चित्तं न विद्यते ॥ वत्सानां कण्ठबन्धेन क्रियया भेषजेन तु ॥४८॥
सायं संगोपनार्थं च त्वेदोषो रोषबन्धयोः ॥ पादे चैवास्य रोमाणि द्विपादे श्मश्रु केवलम् ॥४९॥
त्रिपादे तु शिखावर्तं मूले सर्वं समाचरेत् ॥ सर्वान्केशान्समुद्धृत्य छेदयेदङ्गुलद्वयम् ॥५०॥
एवमेव तु नारीणां मृण्डनं शिरसः स्मृतम् ॥ न स्त्रिया वपनं कार्यं न च वीरासनं स्मृतम् ॥५१॥
न च गोष्ठे निवासोऽस्ति न गच्छन्तीमनुव्रजेत् ॥ राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः ॥५२॥
अकृत्वा वपनं तेषां प्रायश्चित्तं विनिर्द्दिशेत् ॥ केशानां रक्षणार्थं च द्विगुणं व्रतमादिशेत् ॥५३॥
द्विगुणे तु व्रते चीर्णे द्विगुणा व्रतदक्षिणा ॥५४॥
पापं न क्षीयते हन्तुर्दाता च नरकं व्रजेत् ॥ अश्रौतस्मार्तविहितं प्रायश्चित्तं वदन्ति ये ॥५५॥
तान्धर्मविघ्नकर्तृंश्च राजा दण्डेन पीडयेत् ॥ न चैतान्पीडयेद्राजा कथंचित्काममोहितः ॥५६॥
तत्पापं शतधा भूत्वा तमेव परिसर्पति ॥ प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम् ॥५७॥
विंशतिर्गा वृषं चैकं दद्यात्तेषां च दक्षिणाम् ॥ क्रिमिभिस्तृण संभूतैर्मक्षिकादिनिपातितैः ॥५८॥
कृच्छ्रार्द्धं प्रकुर्वीत शक्तया दद्याच्च दक्षिणाम् ॥ प्रायश्चित्तं च कृत्वा वै भोजयित्वा द्विजोत्तमान् ॥५९॥
सुवर्णमानिकं दद्यात्ततः शुद्धिविधीयते ॥ चाण्डालश्वपचैः स्पृष्टे निशि स्नानं विधीयतें ॥६०॥
न वसेत्तत्र रात्रौ तु सद्यः स्नानेन शुद्धयति ॥ वसेदथ यदा रात्रावज्ञानादविचक्षणः ॥६१॥
तदा तस्य तु तत्पापं शतधा परिवर्त्तते ॥ उद्रच्छन्ति च नक्षत्राण्युपरिष्टाच्च ये ग्रहाः ॥६२॥
संस्पृष्टे रश्मिभिस्तेषामुदकस्नानमाचरेत् ॥ याश्चान्तर्जलवल्मीकमूषिकोषरवर्त्मसु ॥६३॥
श्मशाने शौचशेषे च न ग्राह्याः सप्त मृत्तिकाः ॥ इष्टापूर्तं तु कर्त्तव्यं ब्राह्मणेन प्रयत्नतः॥६४॥
इष्टेन लभते स्वर्गं मोक्षं पूर्त्तेन चाप्नुयात् ॥ वित्तक्षेपो भवेदिष्टं तडागं पूर्त्तमुच्यते ॥६५॥
आरामश्च विशेषेण देवद्रोण्यस्तथैव च ॥ वापीकूपतडागानि देवतायतनानि च ॥६६॥
पतितान्युद्धरेद्यस्तु स पूर्वफलमश्नुते ॥ शुक्लाया आहरेन्मूत्रं कृष्णाया गोः शकृत्तथा ॥६७॥
ताम्रायाश्च पयो ग्राह्यं श्वेतायाश्च दधि स्मृतम् ॥ कपिलाया घृतं ग्राह्यं महापातकनाशनम् ॥६८॥
कुशैस्तीर्थनदीतोयैः सर्वद्रव्यं पृथक् पृथक् ॥ आहृत्य प्रणवेनैव उत्थाप्य प्रणवेन च ॥६९॥
प्रणवेन समालोड्य प्रणवैनैव संपिबेत् ॥ पालाशे मध्यमे पर्णे भाण्डे ताम्रमये शुभे ॥७०॥
पिबेत्पुष्करपर्णे वा मृन्मये वा कुशोंदकम् ॥ सूतके तु समुत्पन्ने द्वितीये समुपस्थिते ॥७१॥
द्वितीये नास्ति दोषस्तु प्रथमेनैव शुघ्यति ॥ जातेन शुघ्यते जातं मृतेन मृतकं तथा ॥७२॥
गर्भसंस्रवणे मासे त्रीण्यहानि विनिर्दिशेत् ॥७३॥
रात्रिभिर्मासतुल्याभिर्गर्भस्त्रावे विशुद्ध्य़ति ॥ रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला ॥७४॥
स्वगोत्राद्भृश्यते नारी विवाहात्सप्तमे पदे ॥ स्वामिगोत्रेण कर्त्तव्यास्तस्याः पिण्डोदक क्रियाः ॥७५॥
उद्देश्यं पिण्डदाने स्यात्पिण्डे पिण्डे द्विनामतः ॥ षण्णा देयास्त्रयः पिण्डा एवं दाता न मुह्यति ॥७६॥
स्वेन भर्त्रा सहस्राब्दं माता भुक्ता सुदैवतम् ॥ पितामह्यपि स्वेनैव स्वेनैव प्रपितामही ॥७७॥
वर्षे वर्षे तु कुर्वीत मातापित्रोस्तु सत्कृतिम् ॥ अदैवं भोजयेच्छ्राद्धं पिण्डमेकं तु निर्वपेत् ॥७८॥
नित्यं नैमित्तिकं काम्य वृद्धिश्राद्धमथापरम् ॥ पावर्ण चेति विज्ञेयं श्राद्धं पञ्चाविधं बुधैः ॥७९॥
ग्रहोपरागे संक्रान्तौ पर्वोत्स वमहालये ॥ निर्वपेन्नीन्नरः पिण्डानेकमेव मृतेऽहनि ॥८०॥
अनूढा न नृथकन्या पिण्डे गोत्रे च सूतके ॥ पाणिग्रहणमन्त्राभ्यां स्वगोत्राद्भ्रश्यते ततः ॥८१॥
येन येन तु वर्णेन या कन्या परिणीयते ॥ तत्समं सूतकं याति तथा पिण्डोदकेऽपि च ॥८२॥
विवाहे चैव संवृत्ते चतुर्थेऽहनि रात्रिषु ॥ एकत्वं सा व्रजेद्भ्रर्तुः पिण्डे गोत्रे च सूतके ॥८३॥
प्रथमेऽह्नि द्वितीये वा तृतीये वा चतुर्थके ॥ अस्थिसंचयनं कार्यं बन्धुभिर्हितबुद्धिभिः ॥८४॥
चतुर्थे पञ्चमे चैव सप्तमे नवमे तथा ॥ अस्थिसंचयनं प्रोक्तं वर्णानामनुपूर्वशः ॥८५॥
एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः ॥ मुच्यते प्रेत लोकात्स स्वर्गलोकं महीयते ॥८६॥
नाभिमात्रे जले स्थित्वा हृदयेन तु चिन्तयेत् ॥ आगच्छन्तु मे पितरो गृह्णन्त्वेताञ्जलाञ्जलीन् ॥८७॥
हस्तौ कृत्वा तु संयुक्तौ पूरयित्वा जलेन च ॥ गोश़ृङ्गमात्रमुद्धृत्य जलमध्ये विनिःक्षिपेत् ॥८८॥
आकाशे च क्षिपेद्वारि वारिस्थो दक्षिणामुखः ॥ पितृणां स्थानमाकाशं दक्षिणादिक् तथैव च ॥८९॥
आपो देवगणाः प्रोक्ता आपः पितृगणास्तथा ॥ तस्मादस्य जलं देयं पितृणां हितमिच्छता ॥९०॥ .
दिवसासूर्यांशुसंतप्त रात्रौ नक्षत्रमारुतैः ॥ मध्ययोरप्युभाभ्यां च पवित्रं सर्वदा जलम् ॥९१॥
स्वभायुक्तमव्यक्तममेध्येन सदा सुचिः ॥ भाण्डस्थं धरणीस्थं वा पवित्र सर्वदा जलम् ॥९२॥
देवतानां पितृणां च जलं दद्याज्जलाञ्जलीन् ॥ असंस्कृतप्रमीतानां स्थले दद्याद्विचक्षणः ॥९३॥
श्राद्धे हवनकाले च दद्यादेकेन पाणिना ॥ उभाभ्यां तर्पणे दद्यादेष धर्मो व्यवस्थितः ॥९४॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्मशान्तिनिर्देशो नाम चतुर्दशोऽध्यायः ॥१४॥