श्री नारदीयमहापुराणम् - द्विषाष्टितमोऽध्यायः
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
सूत उवाच ॥
एतच्छुत्वा तु वचनं नारदो भगवानुषिः ॥ पुनः पप्रच्छ तं विप्र शुकाभिपतनं मुनिम् ॥१॥
नारद उवाच ॥
भगवन्सर्वमाख्यातं त्वयाऽतिकरुणात्मना ॥ यच्छुत्वा मानसं मेऽद्य शांतिमग्यामुपागतम् ॥२॥
पुनश्व मोक्षशास्त्रं मे त्वमादिश महामुने ॥ नहि सम्पूर्णतामेति तृष्णा कृष्णगुणार्णवे ॥३॥
ये तु संसारनिर्मुक्ता मोक्ष शास्त्रपरायणाः ॥ कुत्र ते निवसंतीह संशयो मे महानयम् ॥४॥
तं छिन्धि सुमहाभाग त्वत्तो नान्यो विदांवरः ॥ सन०उ०॥ धारयामास चात्मानं यथाशास्त्रं महामुनिः ॥५॥
पादात्प्रभृति गात्रेषु क्रमेण क्रमयोगवित् ॥ ततः स प्राङ्मुखो विद्वानादित्येन विरोचिते ॥६॥
पाणिपादं समाधाय विनीतदुपाविशत् ॥ न तत्र पक्षिसंघातो न शब्दो न च दर्शनम् ॥७॥
यत्र वैयासकिर्धाम्नि योक्तुं समुपचक्रमे ॥ स ददर्श तदात्मानं सर्वसंगविनिःसृतः ॥८॥
प्रजहास ततो हासं शुकः सम्प्रेक्ष्य भास्करम् ॥ स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये ॥९॥
महायोगीश्वरो भूत्वा सोऽत्यक्रामद्विहायसम् ॥ अंतरिक्षचरः श्रीमान्व्यासपुत्रः सुनिश्वितः ॥१०॥
अमुंद्यतं द्विजश्रेष्ठं वैनतेयसमद्युतिम् ॥ ददृशुः सर्वभूतानि मनोमारुतरंहसम् ॥११॥
यथाशक्ति यथान्यायं पूजयांचक्रिरे तथा ॥ पुष्प वर्षैश्व दिव्यैस्तमवचक्रुर्दिवौकसः ॥१२॥
तं दृष्ट्रा विस्मिताः सर्वे गंधर्वाप्सरसां गणाः ॥ ऋषयश्वैव संसिद्धाः कोऽयं सिद्धिमुपागतः ॥१३॥
ततोऽसौ स्वाह्रयं तेभ्यः कथयामास नारद ॥ उवाच च महातेजास्तानृषीन्संप्रहर्षितः ॥१४॥
पिता यद्यनुगच्छेन्मां क्रोशमानः शुकेति वै ॥ तस्मे प्रतिवचोदेयं भवद्धिस्तु समाहितैः ॥१५॥
बाढमुक्तस्ततस्तैस्तु लोकान्हित्वा चतुर्विधान् ॥ तमो ह्यष्टविधं त्यक्ता जहौ पञ्चविधं रजः ॥१६॥
ततः सत्वं जहौ धीमांस्तदद्धुतमिवाभवत् नित्ये निर्गुंणे लिंगपूजिते ॥१७॥
स श्रृङेऽप्रतिमे हिमवन्मेरुसन्निभे ॥ संश्लिष्टे श्वेतपीते च रुक्मरुप्यमये शुभे ॥१८॥
शतयो जनविस्तारे तिर्यगूर्द्धंच नारद ॥ सोऽविशंकेन तथैवाभ्यपतच्छुकः ॥१९॥
श्रृङेऽत्यंतसंश्लिष्ट सहसैव द्विधाकृते ॥ अदृश्येतां द्विजश्रेष्ठ तदद्धुतमिवाभवत् ॥२०॥
ततः पर्वतश्रृंगाभ्यां सहसैव विनिःसृतः ॥ न च प्रतिजघानास्य स गतिं पर्वतोत्तमः ॥२१॥
ततो मंदाकिनीं दिव्या मुपारिष्टादभिव्रजन् ॥ शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननम् ॥२२॥
तस्यां क्रीडासु निरताः स्त्रांति चैवाप्सरोगणाः ॥ निराकारं तु साकारा ददृशस्तं विवाससः ॥२३॥
तं प्रक्रमंतमाज्ञाय पिता स्त्रेहसमन्वितः ॥ उत्तमां गतिमास्थाय पृष्ठतोऽनुससार ह ॥२४॥
शुकस्तु मारुतदूर्द्धं गतिं कृत्वां तरिक्षगाम् ॥ दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा ॥२५॥
अथ योगगतिं व्यासः समास्थाय महातपाः ॥ निमेषांतरमात्रेण शुकाभिपतनं ययौ ॥२६॥
स ददर्शं द्विधा कृत्वा पर्वताग्रं गतं शुकम् ॥ शशंसुर्मुनयः सिद्धा गतिं तस्मै सुतस्य ताम् ॥२७॥
ततः शुकेतिशब्देन दीर्घेण क्रंदितं तदा ॥ स्वयं पित्रा स्वरेणोच्चैस्त्रींल्लोकाननुनाद्य वै ॥२८॥
शुकः सर्वगतिर्भूत्वा सर्वात्मा सर्वतोमुखः ॥ प्रत्यभाषत धर्मात्मा भोः शब्देना नुनादयन् ॥२९॥
तत एकाक्षरं नादं भोरित्येवसुदीयन् ॥ प्रत्याहरज्जगत्सर्वमुच्चैः स्थावरजंगमम् ॥३०॥
ततःप्रभृति वाऽप्रभृति वाऽद्यापि शब्दानुच्चारितान्पृथक् ॥ गिरिगह्रर पृष्ठेषु व्याजहार शुक्रं प्रति ॥३१॥
अंतरितप्रभावं तं दर्शयित्वा शुकस्तदा ॥ गुणान्संत्यज्य सत्त्वादीन्पदमध्यगमत्परम् ॥३२॥
महिमानं तु तं दृष्ट्रा पुत्रस्यामिततेजसः ॥ सोऽनुनीतो भगवता व्यासो रुद्रेण नारद ॥३३॥
किसु त्वं ताम्यसि मुने पुत्रं प्रति समाकुलः ॥ पश्यसि विप्र नायांत ब्रह्मभूतं निजांतिके ॥३४॥
इत्येवमनुनीतोऽसौ व्यासः पुनरुपाव्रजत् ॥स्वाश्रंम स शुको ब्रह्मभूतो लोकांश्वचार ह ॥३५॥
तत कालांतरे ब्रह्मन्व्यासः सत्यवतीसुतः ॥ नरनारायणौ द्रष्टुं ययौ बदरिकाश्रमम् ॥३६॥
तत्र दृष्ट्रा तु तौ देवौ तप्यमानो महत्तपः ॥ स्वयं च तत्र तपसि स्थितः शुकमनुस्मरन् ॥३७॥
यावत्त स्थितो व्यासः शुकः परमयोगवित ॥ श्वेतद्वीपं गतस्तात यत्र त्वमगमः पुरा ॥३८॥
तत्र दृष्टप्रभावस्तु श्रीमान्नारायणः प्रभुः ॥ दृष्टः श्रुतिविमृग्यो हि देवदेवो जनार्दनः ॥३९॥
स्तुतश्व शुकदेवेन प्रसन्नः प्राह नारद ॥ श्रीभगवा नुवाच ॥ त्वया दृष्टोऽस्मि योगीन्द्र सर्वदेवरहःस्थितः ॥४०॥
सनत्कुमारादिष्टेन सिद्धो योगेन वाडव ॥ त्वं सदागतिमार्गस्थो लोकार्पश्य यथेच्छया ॥४१॥
इत्युक्तो वासुदेवेन तं नत्वारणिसंभवः ॥ वैकुंठ प्रययौ विप्र सर्वलोकनमस्कृतम् ॥४२॥
वैमानिकैः सुरैर्जुष्टं विरजापरिचेष्टितम् ॥ यं भांतनुभांत्येते लोकाः सर्वेऽपि नारद ॥४३॥
यत्र विदुमसोपानाः स्वर्णरत्नविचित्रिताः ॥ वाप्य उत्पलसछन्नाः सुरस्त्रीक्रीडनाकुलाः ॥४४॥
दिव्यैर्हसकुलैर्घुष्टाः स्वच्छांबुनिभृताः सदा ॥ तत्र द्वाःस्थैश्वतुर्हस्तेनानार्नाभरणभूषितैः ॥४५॥
विष्वक्सेनानुगैः सिद्धैः कुसुदाद्यैरवारितः प्रविश्याभ्यंतरं तत्र देवदेवं चतुर्भजम् ॥४६॥
शांत प्रसन्नवदनं पीतकौशेयवाससम् ॥ शंखचक्रगदापद्मैर्मूतिद्धिरुपासितम् ॥४७॥
वक्ष स्थलस्थया लक्ष्म्या कौस्तुभेन विराजितम् ॥ कटिसूत्रकटकांगदभूषितम ॥४८॥
भ्राजत्किरीट्वलयं मणिनूपुरशोभितम् ॥ ददर्श सिद्धनि करैः सेव्यमानमहर्निशम् ॥४९॥
तं द्दष्ट्रा भक्तभावेन तुष्टाव मधुसूदनम् ॥ शुक उवाच ॥ नमस्ते वासुदेवाय सर्वलो कैकसाक्षिणे ॥५०॥
जगद्वीजस्वरुपाय पूर्णाय निभृतात्मने ॥ हरये वासुकिस्थाय श्वेतद्वीपनिवासिने ॥५१॥
हंसाय मत्स्यरुपाय वाराहतनुधारिणे ॥ नृसिंहाय ध्रुवे ज्याय सांख्ययोगेश्वराय च ॥५२॥
चतुःसनाय कूर्माय पृथवे स्वसुखात्मने ॥ नाभेयाय जगद्धात्रे विधात्रेंऽतकराय च ॥५३॥
भार्गवेंद्राय रामा य राघवाय पराय च ॥ कुष्णाय वेदकर्ते च बुद्धकलिकस्वरुपिणे ॥५४॥
चतुर्व्यूहाय वेद्याय ध्येयाय परमात्मने ॥ नरनारयणाख्याय शिपिविष्टाय विष्णवे ॥५५॥
ऋतधाग्ने विधाम्ने च सुपर्णाय स्वरोचिषे ॥ ऋभवे सुव्रताख्याय सुधाम्ने चाजिताय च ॥५६॥
विश्वरुपाय विश्वाय सृष्टिस्थित्यंतकारिणे ॥ यज्ञाय यज्ञभोक्रे च स्थविष्ठायावेऽर्थिने ॥५७॥
आदित्यसोमनेत्राय सहओजोबलाय च ॥ ईज्याय साक्षिणेऽजायबहु शीर्षांघ्रिबाहवे ॥५८॥
श्रीशाय श्रीनिवासाय भक्तवश्याय शार्ङिणे ॥ अष्टप्रकृत्यधीशाय ब्रह्मणेऽनंतसक्ताये ॥५९॥
बृहदारण्यवेद्याय ह्रषीकेशाय वेधसे ॥ पुंडरीकनिभाक्षाय क्षेत्रज्ञाय विभासिने ॥६०॥
गोविंदाय जगत्कत्रे जगन्नाथाय योगिने ॥ सत्याय सत्यसंधाय वैकुंठायाच्युताय च ॥६१॥
अधोक्षजाय धर्माय वामनाय त्रिधातवे ॥ घृतार्चिषे विष्णवे तेऽनंताय कपिलाय च ॥६२॥
विरिंचये त्रिककुदे ऋग्यजुःसामरुपिणे ॥ एक श्रृंगाय च शुचिश्रवसे शास्त्रयोनये ॥६३॥
वृषाकपय ऋद्धाय प्रभवे विश्वकर्मणे ॥ भूर्भुवुःस्वःस्वरुपाय दैत्येघ्ने निर्गुणाय च ॥६४॥
निरंज नाय नित्याय ह्याव्य्यायाक्षराय च ॥ नमस्ते पाहि मामीश शरनागतवत्सल ॥६५॥
इति स्तुतःस भगवाञ्च्छंखचक्रगदाधरः ॥ आरणेयमु वाचेदं भृशं प्रणतवत्सलः ॥६६॥
श्रीभगवानुवाच ॥ व्यासपुत्र महाभाग प्रीतोऽस्मि तव सुव्रत ॥ विद्यामाप्नुहि भक्तिं च ज्ञानीं त्व मम रुपधृक् ॥६७॥
यद्रूपं मम दृष्टं प्राक् श्वेतद्वीपे त्वया द्विज ॥ सोऽहमेवावतारार्थं स्थितो विश्वंभरात्मकः ॥६८॥
सिद्धोऽसि त्वं महाभाग मोक्षधर्मानुचिं तया ॥ वरलोकान्यथा ॥ वायुर्यथा खं सविता तथा ॥६९॥
नित्यमुक्तस्वरुपस्त्वं पूज्यमानः सुरैर्नरैः ॥ भक्तिर्हि दुर्लभा लोके मयि सर्व परायणे ॥७०॥
तां लब्ध्वा किंचिल्लब्धव्यमवशिष्यते ॥ आकल्पांतः तपःसंस्थौ नरनारायणावृषी ॥७१॥
तयोर्निदेशतो व्यासो जनक स्तव सुव्रतः ॥ कर्तां भागवंत शास्त्रं तदधीष्व भुवं ब्रज ॥७२॥
स तष्यति तप्स्त्वद्य पर्वते पर्वते गंधमादने ॥ त्वद्वियोगेन खिन्नात्मा तं प्रसादय मात्प्रिय मूः ॥७३॥
एवसुक्तः शुको विप्र नमस्कृत्य चतुर्भुजम् ॥ यथागतं निवृत्तोऽसौ पितुंरतिकमागमत् ॥७४॥
अथ तं स्वांतिके दृष्ट्रा पाराशर्य्यः प्रता पवान् ॥ पुत्रं प्राप्य प्रह्रष्टात्मा तपसो निववर्त ह ॥७५॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥ आरणेसमायुक्थ स्वाश्रमं समुपागमत् ॥७६॥
नारायणनियोगात्तु त्वन्मुखेन मुनीश्वर ॥ चकारं संहितां दिव्यां नानाख्यानसमन्विताम् ॥७७॥
वेदतुल्यां भागवतीं हरिभक्तिविवर्द्धिनीम् ॥ निवृत्तिनिरतं पुत्रं शुकमध्यापयच्च ताम् ॥७८॥
आत्मारामोऽपि भगवान्पाराशर्यात्मजः शुकः ॥ अधीतवान्संहितां वै नित्यं विष्णुजनप्रियाम् ॥७९॥
एवमेते समाख्याता मोक्षधर्मास्तवानघः ॥ पठतां श्रृण्वतां चापि हरिभक्तिविवर्द्धनाः ॥८०॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीय पादे बृहपाख्याने मोक्षधर्म्मनिरुपणं नाम द्विषाष्टितमोऽध्यायः ॥६२॥
N/A
References : N/A
Last Updated : June 05, 2011
TOP