संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
षड्विंशोऽध्यायः

श्री नारदीयमहापुराणम् - षड्विंशोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


सनक उवाच ॥

वेदग्रहणपर्यंतं शुश्रूषनियतो गुरोः ॥ अनुज्ञातस्ततस्तेन कुर्यादग्निपरिग्रहम् ॥१॥

वेदाश्च धर्मशास्त्राणि वेदाङ्गान्यपि च द्विजः ॥ अधीत्य गुरवे दत्त्वा दक्षिणां संविशेद्गुहम् ॥२॥

रूपलावण्यसंपन्ना सगुणां सुकुलोद्भवाम् ॥ द्विजः समुद्वहेत्कन्यां सुशीलां धर्मचारिणीम् ॥३॥

मातृतः पंचमीं धीमान्पितृतः सप्तमी तथा ॥ द्विजः समुद्वहेत्कन्यामन्यथा गुरुतल्पगः ॥४॥

रोगिणीं चैव वृत्ताक्षीं सरोग कुलसंभवम् ॥ अतिकेशामेकशां च वाचालां नोद्वहेद्रुधः ॥५॥

कोपानां चैव दीर्घदेहां विरूपिणीम् ॥ न्यूनाधिकाङ्गीमुन्मत्तां पिशुनां नोद्वहेद् बुधः ॥६॥

स्थूलगुल्फां दीर्घजंघां तथैव पुरुषाकृतिम् ॥ श्मश्रुवयंजनसंयुक्तां कुब्जां चैवेद्वहेन्न च ॥७॥

वृथाहास्यमुखीं चेव सदान्यगृह वासिनीम् विवादशीलां भ्रमितां निष्ठुरां नोद्वहेद्ब्रुधः ॥८॥

बह्वशिनीं स्थूलदंतां स्थूलोष्ठीं घुर्घुरस्वनाम् ॥ अतिकृष्णां रक्तवर्णां धूर्तां नैवोद्वहे द्ब्रुधः ॥९॥

सदा रोदनशीलां च पांडुराभां च कुत्सिताम् कासश्वासादिसंयुक्तां निद्राशीलां च नोद्वेहेत् ॥१०॥

अनर्थभाषिणीं चैव लोकद्वेष परायणाम् ॥ परापवादनिरतां तस्करां नोद्वेहेद्बु्रधः ॥११॥

दीघ्रनासां च कितवां तनूरुहवषिपताम् ॥ गर्वितां बकवृत्तिं च सर्वथा नोद्वहेद्बु्रधः॥१२॥

बालभावादविज्ञातस्वभावामुद्वहेद्यदि ॥ प्रगल्भां वाऽगुणां ज्ञात्वा सर्वथा तां परित्यजेत् ॥१३॥

भर्त्तुपुत्रेषु या नारी सर्वदा निष्ठुरा भवेत् ॥ परानुकूलिनी या च सर्वथा तां परित्यजेत् ॥१४॥

विवाहाश्चाष्टधा ज्ञेया ब्रह्माद्या मुनिसत्तम ॥ पूर्वः पूवो्र वरोज्ञेयः पूर्वाभावे परः परः ॥१५॥

ब्राह्मो दैवस्तथैवार्षः प्राजापतयस्तासुरः ॥ गांधर्वे राक्षसश्चैव पैशाचश्चाष्टमो मतः ॥१६॥

ब्राह्मेण च विवाहेन वेवाह्यो वे द्विजोत्तमः ॥ दैवेनाप्यथवा विप्र केचिदार्षं प्रचक्षते ॥१७॥

प्रजापत्यादयो विप्र विवाहाः पंच गर्हिताः ॥ अभावेषु तु पूर्वेषां कुर्यादेव परान्बुधः ॥१८॥

यज्ञोपवीतद्वितयं सोत्तरीयं च धारयेत् ॥ सुवर्णकुंडले चैव धौतवस्त्रद्वयं तथा ॥१९॥

अनुलेपनलिप्तांगः कृत्तकेशनखः शुचिः ॥ धारयेद्वैणवं दंडं सोदकं च कमंडलुम् ॥२०॥

उष्णीषममलं छत्रं पादुके चाप्युपानहौ ॥ धार येत्पुष्पमाल्ये च सुगंधं प्रियदर्शनः ॥२१॥

नित्यं स्वाध्यायशीलः स्याद्यथाचारं समाचारेत् ॥ परान्नं नैव भुञ्जीत परवादं च वर्जयेत् ॥२२॥

पादेन नाक्रमेतपादमुच्छिष्टं नैव लंघयेत् ॥ न संहताभ्यां हस्ताभ्यां कंडूयेदात्मनः शिरः ॥२३॥

पूज्यं देवालयं चैव नापसव्यं व्रजेद्विजः ॥ देवार्चाचमनस्नानव्रतश्राद्धक्रियादिषु ॥२४॥

न भवेन्मुक्तकेशश्च नैकवस्रधरस्तथा ॥ नारोहेदुष्ट्यानं च वर्जयेत् ॥२५॥

अन्य स्त्रियं न गच्छेच्च पैशुन्यं परिवर्जयेत् ॥ नापसव्यं व्रजेद्विप्र गोश्वत्थानलपव्रतान् ॥२६॥

चतुष्पथं चैत्यवृक्षं देवखातं नृपं तथा ॥ असूयां मतसरत्वं च दिवास्वापं च वर्जयेत् ॥२७॥

न वदेत्परपापानि स्वपुण्यं न प्रकाशयेत् ॥ स्वकं नाम स्वनक्षत्रं मानं चैवातिगोपयेत् ॥२८॥

न दुर्जनैः सह वसेन्नाशास्त्रं श़ृणुयात्तथा ॥ आसवद्यूतगीतेषु द्विजस्तु न रतिं चरेत् ॥२९॥

आर्द्रास्थि च तथोच्छिष्टं शूद्रं च पतितं तथा ॥ सर्पं च भषणं स्पृष्ट्वा सचैल स्नानमाचरेत् ॥३०॥

चितिं च चितिकाष्ठं च यूपं चांडालमेव च ॥ स्पृष्ट्वा देवलकं चैव सवासा जलमाविशेत् ॥३१॥

दीपखट्वातनुच्छायाकेशवस्त्रकटोदकम् ॥ अजामार्जनिमार्जाररेणुद्दैवं शुभं हरेत् ॥३२॥

शूर्प्पवातं प्रतधूमं तथा शूद्रान्नभोजनम् ॥ वृषलीपतिसङ्गं च दूरतः परिवर्जयेत् ॥३३॥

असच्छास्त्रार्थमननं खादनं नखकेशयोः ॥ तथैव नग्नशयनं सर्वदा परिवर्जयेत् ॥३४॥

शिरोभ्यंगावशिष्टेन तैलेनांगं न लेपयेत् ॥ तांबूलमशुचिं नाद्यात्तथा सुप्तं न बोधयेत् ॥३५॥

नाशुद्धोऽग्निं परिचरेतपूजयेद्गुरुदेवताः ॥ न वामहस्तेनैकेन पिबेद्वक्रेण वा जलम् ॥३६॥

न चाक्रमेद्गुरोश्छायां तदाज्ञां च मुनीश्वर ॥ न निंदद्योगिनो विप्रान्व्रतिनोऽपि यतींस्तथा ॥३७॥

परस्परस्य मर्माणि न कदापि वदेद्विजः॥ दर्शे च पौण्रमास्यां च यांग कुर्याद्यथाविधि ॥३८॥

उपासनं च होतव्यं सायं प्रातर्द्विजातिभिः ॥ उपासनपरित्यागी सुरापीत्युच्यते बुधैः ॥३९॥

अयने विषुवे चैव युगादिषु चतुष्व्रपि ॥ दर्शे च प्रेतपक्षे च श्राद्धं कुया्रदगृही द्विजः ॥४०॥

मन्वादिषु मृताहे च अष्टकासु च नारद ॥ नवधान्ये समयाते गृही श्राद्धं समाचरेत् ॥४१॥

श्रोत्रिये गृहमायाते ग्रहणे चंद्रसूर्योः ॥ पुण्यक्षेत्रेषु तीर्थेषु गृही श्राद्धं समाचरेत् ॥४२॥

यज्ञो दानं तपो होमः स्वाध्यायः पितृतर्पणम् ॥ वृथा भवति ततसर्वमूर्द्धपुंड्रं विना कृतम् ॥४३॥

उर्द्धपुंड्र च तुलसीं श्राद्धे नेच्छंति केचन ॥ वृथाचारः परित्याजयस्तस्माच्छ्रेयोऽर्थिभिद्विजैः॥४४॥

इत्येवमादयो धर्माः स्मृतिमार्गप्रचोदिताः ॥ कार्या द्विजातिभिः सम्यकसर्वकर्मफलप्रदाः ॥४५॥

सदा चारपरा ये तु तेषां विष्णुः प्रसीदति ॥ विष्णौ प्रसन्नतां याते किमसाध्यं द्विजोत्तम ॥४६॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे स्मार्त्तधर्मेषु वेदाध्ययनादिकस्य गृहस्थधर्मस्य च निरूपणं नाम षड्विंशोऽध्यायः॥२६॥

N/A

References : N/A
Last Updated : June 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP