संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः| षट्रचत्वारिंशत्तमोऽध्यायः श्री नारदीयमहापुराणम् : पूर्वभागः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पंचविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पंचत्रिशोंऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पश्वचत्वारिशत्तमोऽध्यायः षट्रचत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोध्यायः पञ्चाशत्तमोऽध्यायः एकपंचाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषाष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुष्षष्टितमोऽध्यायः पञ्चषष्टिमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षटसप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्याय एकोनाशीतितमोऽध्यायः नामाशीतितमोऽध्यायः नामैकाशीतितमोऽध्यायः व्द्यशीतितमोऽध्यायः त्र्यशीतितमोऽधायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः नामाष्टाशीतितमोऽध्यायः नामैकोननवतितमोऽध्यायः नवतितमोऽध्यायः नामैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः नामाष्टनतितमोऽध्यायः नामैकोनशततमोऽध्यायः शततमोऽध्यायः नामैकोत्तरशततमोऽध्यायः द्वयुत्तरशततमोऽध्यायः त्र्युत्तरशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडुत्तशततमोऽध्यायः सप्तोत्तशततमोऽध्यायः नामाष्टोत्तरशततमोऽध्यायः नवोतरशततमोऽध्यायः दशोत्तरशततमोऽध्यायः नामैकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाघिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशदधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशतमोऽध्यायः पंचविंशोत्तरशततमोऽध्यायः श्री नारदीयमहापुराणम् - षट्रचत्वारिंशत्तमोऽध्यायः `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण षट्रचत्वारिंशत्तमोऽध्यायः Translation - भाषांतर सूत उवाच ॥तच्छृत्वा नारदो विप्रा मैथिलाध्यात्ममुत्तमम् ॥ पुनः पप्रच्छ तं प्रीत्या सनंदनमुदारधीः ॥१॥नारद उवाच ॥आष्यात्मिकादित्रिविधं तापं नानुभवेद्यथा ॥ प्रब्रूहि तन्मुने मह्यं प्रपन्नाय दयानिधे ॥२॥सनंदन उवाच ॥तदस्य त्रिविधं दुःखमिह जातस्य पंडित ॥ गभे जन्मजराद्यंषु स्थानेषु प्रभविष्यतः ॥३॥निरस्तातिशयाह्यादसुखभावैकलक्षणा ॥ भेषजं भगवत्प्राप्तिरैका चात्यंतिकी मता ॥४॥तस्मात्तात्प्रात्तत्प्रप्तये यत्नः कर्तव्यः पडितैर्नरैः ॥ तत्प्राप्तिहेतुज्ञानं च कर्म चोक्तं महामुने ॥५॥आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते ॥ शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ॥६॥मनुरप्याहं वेदार्थं स्मृत्वायं मुनित्वायं मुनिसत्तमः ॥ तदेतच्छ्रयतामत्र सुबोधं गदतो मम ॥७॥द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ॥ शब्दब्रह्मणि निष्णातः परं ब्रह्मधिगच्छति ॥८॥द्वे विद्ये वेदितव्ये चेत्याह चाथर्वणी श्रुतिः ॥ परमा त्वक्षरप्राप्तिऋग्वेदादिमया परा ॥९॥यत्तदव्यक्तमजरमनीहमजव्ययम् ॥ अनिर्देश्यमरुपं च पाणिपादादिसंयुतम् ॥१०॥विभुं सर्वगतं नित्यं भूतयोनिमकारणम् ॥ व्याप्तं व्याप्तं यतः सर्वं तं वै पश्यंति सूरयः ॥११॥तदूह्य तत्परं धाम तद्धयेयं मोक्षकांक्षिभिः ॥ श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ॥१२॥तदेव भगवद्वाच्यं स्वरुपं परमात्मनः ॥ वाचमो भगवच्छब्दस्तस्योद्दिष्टोऽक्षयात्मनः ॥१३॥एवं निगदितार्थस्य यत्तत्वं तस्य तत्त्वतः ॥ ज्ञायते येन तज्ज्ञानं परमन्य त्रयीमयम् ॥१४॥अशब्दगोचस्यापि तस्य वै ब्रह्मणो द्विज॥ पूजायां भगवच्छब्दः क्रियते ह्यौपचारिकः ॥१५॥शुद्धे महाविभूत्याख्ये परे ब्राह्मणि वर्त्तते ॥ भगवन्भगवच्छाब्दः सर्वकारणकारणे ॥१६॥ज्ञेयं ज्ञातेति तथा भकारोऽर्थद्वयात्मकः तेनागमपिता स्त्रष्टा गकारोऽयं तथा मुने ॥१६॥ऐंश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ॥ ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥१७॥वसंति तत्र भूतानि भूतात्मन्यखिलात्मनि ॥ सर्वभूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ॥१८॥एवमेव महाशब्दो भगवानिति सत्तम॥ परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥१९॥तत्र पूज्यपदार्थेक्तिः परिभाषासमन्वितः ॥ शब्दोऽयं नोपचारेण चान्यत्र ह्युपचारतः ॥२०॥ उत्पत्तिं प्रलर्यं चैवे भूतानामागतिं गतिम् ॥ वेत्ति विद्याविद्यां च स वाच्यो भगवानिति ॥२१॥ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ॥ भगवच्छब्दवाच्यानि विना हेयैर्गुणा दिभिः ॥२२॥सर्वाणि तत्र भूतानि वसंति परमात्मनि ॥ भूतेषु वसनादेव वासुदेवस्ततः स्मृतः ॥२३॥खांडिक्यं जनकं प्राह पृष्टः केशिध्वजः पुरा ॥ नामव्याख्यामनंतस्य वासुदेवस्य तत्त्वतः ॥२४॥भूतेषु वसते सोंऽतर्वसंत्यत्र च तानि यत् ॥ धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥२५॥स सर्वभूतप्रकृतिं विकारं गुणादिदोषाश्वमुने व्यतीतः ॥ अतीतसर्वावरणोऽखिलात्मां तेनास्तृतं यद्धुवनांतरालम् ॥२६॥समस्तकल्याणगुण गुणात्मको हित्वातिदुःखावृतभूतसर्गः ॥ इच्छागृही ताभिमतोरुदेहः संसाधिताशेषजगद्धितोऽसौ ॥२७॥तजोबलैश्वर्यमहावबोधं स्ववीर्यशक्त्यादिगुणैकराशिः ॥ परः पराणां सकला न यत्र क्लेशादयः संति परावरेशे ॥२८॥स ईश्वरो व्यष्टिमष्टिरुपोऽव्यक्तस्वरुपः प्रकटस्वरुपः ॥ सर्वेश्वरः सर्वनिसर्गवेत्ता समस्तशक्तिः पर मेश्वराख्यः ॥२९॥स ज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेव रुपम् ॥ संदृश्यते चाष्यवगभ्यते तज्ज्ञानमज्ञानमतोऽन्यदुक्तम् ॥३०॥स्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमः ॥ तत्प्राप्तिकारणं ब्रह्म तदेतत्प्रतिद्यते ॥३१॥स्वाध्यायाद्योगमासीत योगात्खाध्यायमामनेत् ॥ स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते ॥३२॥तदीक्षणाय स्वाध्यायश्वक्षुर्योगस्तथापरम् ॥ न मांसचक्षुषा द्रष्ट्रं ब्रह्मभूतः स शक्यते ॥३३॥॥ नारद उवाच ॥भगवंस्तमहं योगं ज्ञातुमिच्छामि तं वद ॥ ज्ञात यन्नाखिलाधारं पश्येयं परमेश्वर्म् ॥३४॥सनंदन उवाच ॥केशिध्वजो यथा प्राह खांडिक्याय महात्मने ॥ जनकाय पुरा योत्गं तथाहं कथयामि ते ॥३५॥नारद उवाच ॥खांडिक्यः कोऽभवद्ध्वह्यन्को वा केशिध्वजोऽभवत् ॥ कथं तयोश्व संवादो योगसंबन्धवानभूत् ॥३६॥सनंदन उवाच ॥धर्मध्वजो वै जनकस्तस्य पुत्रोऽमितध्वजः ॥ कृतध्वजोऽस्य भ्राताभूत्सदाध्यात्मतिर्नृपः ॥३७॥कृतध्वजस्य पुत्रोऽभूद्धन्यः केशिध्वजो द्विजः ॥। पुत्रोऽमितध्वजस्यापि खांडिक्यजनकाभिधः ॥३७॥कर्ममार्गे हि खांडिक्यः स्वराज्यदवरोपितः ॥ पुरोधसा मंत्रिभिश्व समवेतोऽसमवेतोऽल्पसाधनः ॥३८॥राज्यान्निराकृतः सोऽथ दुर्गारण्यचरोऽभवत् ॥ इयाज सोऽपि सुबहून यज्ञाञ्ज्ञानव्यपाश्रयः ॥३९॥ब्रह्मविद्यामधिष्ठाय तर्तुं मृत्युमपि स्वयम् ॥ एकदा वर्तमानस्य यागे योगविदा वर ॥४०॥तस्य धेनुं जधानेग्रः शार्दूलो विजने वने ॥ ततो राजा हतां ज्ञात्वा धेनुं व्याप्रेण चर्त्विजः ॥४१॥प्रायश्चित्तं स पप्रच्छ किमत्रेति विधीयताम् ॥ ते चोचुर्नवयविद्मः कशेरुः पृच्छयतामिति ॥४२॥कशेरुपि तेनोक्तस्तथेति प्राह नारद ॥ शुनकं पृच्छ राजेन्द्र नाहं वेद स वेत्स्यति ॥४३॥स गत्वा तमपृच्छच्च सोऽप्याह नृपतिं मुने ॥ न कशेरुर्नचैवाहं न चान्यः सांप्रतं भुवि ॥४४॥वेत्त्येक एव त्वच्छत्रुः खांडिक्यो यो जितस्त्वया ॥ स चाह तं व्रजाम्येष प्रष्टुमात्मरिंपु मुने ॥४५॥प्राप्त एव मया यज्ञे यदि मां स हनिष्यति ॥ प्रायश्चित्तं स चेत्पृष्तो वदिष्यति रिपुर्मम ॥४६॥ततश्वावि कलो योगो मुनिश्रेष्ठ भविष्यति ॥ इत्युक्ता रथमारुह्य कृष्णाजिनधरो नृपः ॥४७॥वनं जगाम यत्रास्ते खांडिक्यः स महीपतिः ॥ तमायातं समालोक्य खांडिक्यो रिपुमात्मनः ॥४८॥प्रोवाच क्रोधताम्राक्षः समारोपितकार्सुकः ॥ खांडिक्य उवाच ॥कृष्णाजिनत्वक्कवचभावेनास्मान्हनिष्यसि ॥४९॥कृष्णाजिनधरे वेत्सि न मयि प्रहरिष्यति ॥ मृगानां वद पृष्ठेषु मूढ कृष्णाजिंन न किमू ॥५०॥येषां मत्वा वृथा चोग्राः प्रहिताः शितसायकाः ॥ स त्वामहं हनिष्यामि न मे जीवन्विमोक्ष्यसे ॥५१॥आतताय्यसि दुर्बुद्धे मम राज्यहरो रिपुः ॥ केशिध्वज उवाच ॥ खांडिक्य संशयं प्रष्टुं भवंतमहमागतः ॥५२॥न त्वां हंतुं विचार्यतैत्कोपं बाणं च मुंच वा ॥ ततः स मंत्रिभिः सार्द्धमेकांते सपुरोहितः ॥५३॥मंत्रयामास खांडिक्यः सर्वैरेव महामतिः ॥ तमूचुर्मंत्रिणो वध्यो रिपुरेष वशंगतः ॥५४॥हतेऽत्र पृथिवी सर्वा वश्या भविष्यति ॥ खांडिक्यश्वाह तान्सर्वानेह मेव न संशयः ॥५५॥हते तु पृथिवी सर्वा मम वश्या भविष्यति ॥ परलोकजयस्तस्य पृथिवी सकला मम ॥५६॥न हन्मि चेल्लोकजयो मम वयत्वस्सुंधरा ॥ परलोकजयोऽनंत स्वल्पकालो महीजयः ॥५७॥तस्मानैनं हनिष्येऽहं यत्पृच्छति वदामि तत् ॥ ततस्तमभ्युपेत्याह खांडिक्यो जनको रिपुम् ॥५८॥प्रष्टव्यं यत्त्वया सर्व्म तत्पृच्छ त्वं वदाम्यहम् ॥ ततः प्राह यथावृत्तं होमधेनुवर्ध मुने ॥५९॥ततश्व तं पप्रश्व तं स पप्रच्छ प्रायश्वित्तं हि तद्धूतम् ॥ स चाचष्ट यथान्यायं मुने केशिध्वजाय तत् ॥६०॥प्रायश्चित्तमशेषं हि यद्वै तत्र विधीयते ॥ विदितार्थः स तेनैवमनुज्ञातो महात्मना ॥६१॥यागभूओमिमुपागत्य चक्रे सर्वां क्रियां क्रमात् ॥ क्रमेण विधिवद्यागं नीत्वा सोऽवभृथाप्लुतः ॥६२॥कृतकृत्यस्ततो भूत्वा चिंतयामास पार्थिवः ॥ पूजिता ऋत्विजः सर्वे सदस्या मानिता मया ॥६३॥तथैवार्थिज नोऽप्यर्थैर्योजितोऽभिमतैर्मया ॥ यथाहं मर्त्यकृत्यस्ततो मया सर्वं विचष्टितम् ॥६४॥अनिष्पन्नक्रियं चैतस्तथा न मम किं यथा ॥ इत्थं तु चिंताव्रेष सम्मार स महीपतिः ॥६५॥खांडिक्याय न दत्तेति मया वै गुरुदक्षिणा ॥ स जगाम ततो भूयो रथामारुह्य पार्थिवः ॥६६॥स्वायंभुवः स्थितो यत्र खांडिक्योऽरण्यदुर्गमम् ॥ खांडिक्योऽपि पुनर्द्दष्टा तमायान्तं धृतायुधः ॥६७॥तस्थौ हंतु कृतमतिस्तमाह स पुनर्नृपः ॥ अहं तु नापकराय प्राप्तः खांडिक्य मा क्रुधः ॥६८॥गुरोर्निष्कृतिदानाय मामवेहि सेमागतम् ॥ निष्पादितो मया यागः सम्यक् त्वदुपदेशतः ॥६९॥सोऽहं दातुमिच्छामि वृणीष्व गुरुदक्षिणाम् । इत्युक्तो मंत्रत्रामास स भूयो मंत्रिभिः सह ॥७०॥गुरोर्निष्कृतिमाकोऽय किमयं प्रार्थ्यतां मया ॥ तमूचुर्मंत्रिणो राज्यशेपं याच्यतामयम् ॥७१॥कृतिभिः प्रार्थ्यते राज्यमना यासितसैनिकैः ॥ प्रहस्य तानाह तृपःस खांडिक्यो महापतिः ॥७२॥स्वल्पकालं महीराज्यं मादृशैः प्रार्थ्यते कथम् ॥ एतमेतद्धंवतोऽत्र स्वार्थ साधनमंत्रिणः ॥७३॥परमार्थः कथं कोऽत्र यूयं नात्र विचक्षणाः ॥ इत्युक्ता समुपेत्यैंन स तु केशिध्वजं नृपम् ॥७४॥उवाच किमवश्यं त्वं दास्यसि गुरुदक्षिणाम् ॥ बाढमित्येव तेनोक्तः खांडिक्यस्तमथाब्रवीत् ॥७५॥भवानध्यात्मविज्ञानपरमार्थविचक्षणः ॥ यदि चेद्दीयते मह्यं भवता गुरु निष्कयः ॥७६॥तत्क्लेशप्रशमायालं यत्कर्म तदुदीय ॥ केशिध्व्ज उवाच ॥ न प्रार्थितं त्वया कस्मान्मम राज्यमकंटकम् ॥७७॥राज्यलाभाद्वि नास्त्यन्यत्क्षत्रियाणामतिप्रियम् ॥ खांडिक्य उवाच ॥ केशिध्वज निबोध त्वं मया न प्रार्थितं यतः ॥७८॥राज्यमेतदशेषेण यन्न गृंध्रति पंडिताः ॥ क्षत्रियाणामंय धर्मो यत्प्रजापरिपालनम् ॥७९॥वधश्व धर्मयुद्धेन स्वराज्यपरिपंथिनाम् ॥ यत्राशक्तस्य मे दोषो नैवास्त्यपकृते त्वया ॥८०॥बंधायैव भवत्येषा ह्याविद्या चाक्रमोज्झिता ॥ जन्मोपभागलिप्सार्थमियं राज्यस्पृहा मम ॥८१॥अन्येषां दोपजानेव धर्ममेवानुरुध्यते ॥ न याच्ञा क्षत्रबंधूनां धर्मायैतत्सतां मतम् ॥८२॥अतो न याचित राज्यविद्यांगर्गतं तव ॥ राज्यं गृन्धंति विद्वांसो ममत्वाकृष्टचेतसः ॥८३॥अहंमानमहपानमदमत्ता न मादृशाः ॥ केशिध्वज उवाच ॥ अहं च विद्यया मृत्युं तर्तुकामः करोमि वै ॥८४॥राज्यं यज्ञांश्व विविधान्भोगे पुण्यक्षयं तथा ॥ तदिदं ते मनो दिष्ट्या विवेकैश्वर्यता गतम् ॥८५॥श्रूयतां चाप्यविद्यायाः स्वरुपं कुलनंदन ॥ अनात्मन्यात्मबुद्धिर्या ह्यस्वे स्वविषया मतिः ॥८६॥अविद्यातरुसन्भूतं बीजमेताडिधा स्थितम् ॥ पंचभूतात्मके देहे देही मोहतमोवृतः ॥८७॥अहमेतदितीत्युच्चैः कुरुते कुमतिर्मतिम् ॥ आकाशवाय्वग्रिजलपृथिवीभिः पृथक् स्थिते ॥८८॥आत्मन्यात्ममयं भावं कः करोति कलेवरे ॥ कलेवरोपभोग्यं हि गृहक्षेत्रादिकं च यत् ॥८९॥अदेहे ह्यात्मनि प्राज्ञो ममेदमिति मन्यते ॥ इत्थं च पुत्रपौत्रेषु तद्देहोत्पादितेषु च ॥९०॥करोति पंडितः स्वाम्यमनात्मनि कलेवरे ॥ सर्वदेहोपभोगाय कुरुते कर्ममानवः ॥९१॥देहं चान्यद्यदा पुंसस्सदा बंधाय तत्परम् ॥ मृण्मयं हि यथा गेहं लिप्यते वै मृदं भसा ॥९२॥पाथिवोऽयं तथा देहो मृदंभोलेपनस्थितिः ॥ पंचभोगात्मकैर्भोगैः पंचभोगात्मकं वपुः ॥९३॥आप्यायते यदि तथ पुंसो गर्वोऽत किंकृतः ॥ अनेकजन्मसाहस्त्रं ससारपदवीं ब्रजन् ॥९४॥मोहश्रमं प्रयातोऽसौ वासनारेणुगुंठितः ॥ प्रक्षाल्यते यदा सौम्य रेणुर्ज्ञानोष्णवारिणा ॥९५॥तदा संसारपांथस्य याति मोहश्रमः शमम् ॥ मोहश्रम शमं याए स्वच्छांतःकरणः पुमान् ॥९६॥अनन्यातिशयाधारः परं निर्वाणमृच्छाति ॥ निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः ॥९७॥दुःखाज्ञानमया धर्माः प्रकृतेस्ते तुनात्मनः ॥ जलस्य नाग्रिना संगः स्थालीसंगात्तथापि हि ॥९८॥शब्दोद्रेकादिकान्धर्मान्करोति हि यथा बुधः ॥ तथात्मा प्रकृतेः संगादहंमानादिदूषितः ॥९९॥भजते प्राकृतान्धर्मात्र्यस्तस्तंभो हि सोऽव्यथः ॥ तदेतत्कथितं बीजमविद्याया मया त्व ॥१००॥क्लेशानां च क्षयकरं योगादन्यन्न विद्यते ॥१०१॥इति श्रीबृहब्रारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे षट्रचत्वारिंशत्तमोऽध्यायः ॥४६॥ N/A References : N/A Last Updated : May 13, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP