नारद उवाच ॥
ब्रह्मन्कथं स भगवान्मृकण्डोः पुत्रतां गतः॥ किं चकार च तदूब्रूहि हरिर्भार्गववंशजः॥१॥
श्रूयते चपुराणेषुमार्कण्डेयो महामुनिः ॥ अपश्यद्वैष्णवीं मायां चिरंजीव्यस्य संप्लवे ॥२॥
सनक उवाच ॥ श़ृणु नारद वक्ष्यामि कथामेतां सनातनीम् ॥ विष्णुभक्तिसमायुक्तां मार्कण्डेयमुनिं प्रति ॥३॥
तपसोऽन्ते कृकण्डुस्तु भार्यामुद्वाह्य सत्तमः ॥ गार्हस्थ्यमकरोद्धृष्टः शान्तो दान्तः कृतार्थकः ॥४॥
तस्य भार्या शुर्चिदक्षा नित्यं पतिपरायणा ॥ मनसा वचसा चापि देहेन च पतिव्रता ॥५॥
काले दधार सा गर्भं हरितेजोंशसंभवम् ॥ रुषुवे दशमासान्ते पुत्रं तेजस्विनं परम् ॥६॥
स ऋृषिः परमप्रीतो दृष्ट्वा पुत्रं सुलक्षणम् ॥ जातकं कारयामास मङ्गलं विधिपूर्वकम् ॥७॥
स बालो ववृधे तत्र शुक्ल पक्ष इवोडुपः ॥ ततस्तु पञ्चमे वर्षे उपनीय मुदान्वितः ॥८॥
शिक्षां चकार विपेन्द्र वैदिकीं धर्मसंहिताम् ॥ नमस्कार्या द्विजाः पुत्र सदा दुष्टा विधानतः ॥९॥
त्रिकालं सूर्यमभ्यर्च्य सलिलाञ्जलिदानतः ॥ वैदिक कर्म कर्तव्यं वेदाध्ययनपूर्वकम् ॥१०॥
ब्रह्मचर्येण तपसा पूजनीयो हरिः सदा ॥ निषिद्धं वर्जनीयं स्यादृष्टसंभाषणादिकम् ॥११॥
साधुभिः सह वस्तव्यं विष्णुभक्तिपरैः सदा॥ न द्वेषः कस्यचित्कार्यः सर्वेषां हितमा चरेत् ॥१२॥
इज्याध्ययनदानानि सदा कार्याणि ते सुत ॥ एवं पित्रा समादिष्टो मार्कण्डेयो मुनीश्वरः ॥१३॥
चचार धर्म सततं सदा संचिन्तयन्हरिम् ॥ मार्कण्डेयो महाभागो दयावान्धर्मवत्सलः ॥१४॥
आत्मवान्सत्यसन्धश्च मार्तण्डसदृशप्रभः॥ वशी शान्तो महाज्ञानी सर्वतत्त्वार्थकोविदः ॥१५॥
तपश्चचार परममच्युतप्रीतिकारणम् ॥ आराधितो जगन्नाथो मार्कण्डेयेन धीमता ॥१६॥
पुराणसंहिता कर्त्तुं दत्तवान्वरमच्युतः ॥ मार्कण्डेयो मुनि स्तस्मान्नारायण इति स्मृतः ॥१७॥
चिरजीवी महाभक्तो देवदेवस्य चक्रिणः ॥ जगत्येकार्णवीभूते स्वप्रभावं जनार्द्दनः ॥१८॥
तस्य दर्शयितुं विप्रास्तं न संत्दृतवान्हरिः ॥ मृकण्डुतनयो धीमान्विष्णुभक्तिसमन्वितः ॥१९॥
तस्मिञ्जले महाघोरे स्थितवाञ्छीर्णपत्रवत् ॥ मार्कण्डेयः स्थितस्तावद्यावच्छेते हरिः स्वयम् ॥२०॥
तस्य प्रमाणं वक्ष्यामि कालस्य वदतः श़ृणु ॥ दशभिः पञ्चभिश्चैव निमेषैः परिकीर्तिता ॥२१॥
काष्ठा तत्रिंशतो ज्ञेया कला पद्मजनन्दन ॥ तत्रिंशतो क्षणो ज्ञेयस्तैः पङ्भिर्घटिका स्मृता ॥२२॥
तद्दयेन मुहूर्त्तं स्याद्दिनंतत्रिंशता भवेत् ॥ त्रिंशद्दिनैर्भवेन्मासः पक्षाद्वितसंयुतः ॥२३॥
ऋतुर्मासद्वयेन स्यात्तत्रयेणायनं स्मृतम् ॥ तद्दयेन भवेदब्द स देवानां दिनं भवेत् ॥२४॥
उत्तरं दिवसं प्राहू रात्रिर्वै दक्षिणायनम् ॥ मानुषेणैव मासेन पितृणां दिनमुच्यते ॥२५॥
तस्मात्सूर्येन्दुसंयोगे ज्ञातव्यं कल्पमुत्तमम् ॥ दिव्यैर्वर्षसहस्रैर्द्वादशभिर्दैवतं युगम् ॥२६॥
दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् ॥ एकसप्तति संख्यातैर्दिव्यैर्मन्वन्तरं युगैः ॥२७॥
चतुर्द्दशभिरेतैश्च ब्रह्मणो दिवसंमुने ॥ यावत्प्रमाणं दिवसं तावद्रात्रिः प्रकीर्तिता ॥२८॥
नाशमायाति विपेन्द्र तस्मिन्काले जगत्रयम् ॥ मानुषेण सहस्रेण यत्प्रमाणं भवेच्छृणु ॥२९॥
चतुर्युगसहस्राणि ब्रह्मणो दिवसं मुने ॥ तद्वन्मासो वत्सरश्च ज्ञेयस्तस्यापि वेधसः ॥३०॥
परार्द्धद्वयकालस्तु तन्मतेन भवेद्विजाः॥ विष्णोरहस्तु विज्ञेयं तावद्रात्रिः प्रकीत्तिता ॥३१॥
मृकण्डुतनयस्तावत्स्थितः संजीर्णपर्णवत् ॥ तस्मिन्घोरे जलमये विष्णुशत्त्युपबृंहितः॥
आत्मानं परमं ध्यायन्स्थितवान्हरिसन्निधौ ॥३२॥
अथ काले समायाते योगनिद्राविमोचितः ॥ सृष्टवान्ब्रह्मरूपेण जगदेतच्चराचरम् ॥३३॥
संहृतं तु जलं वीक्ष्य सृष्टं विश्वं मृकण्डुजः ॥ विस्मितः परमप्रीतो ववन्दे चरणौ हरेः ॥३४॥
शिरस्यञ्जलिमाधाय मार्कण्डेयो महामुनिः ॥ तुष्टाव वाग्भिरिष्टाभिः सदानन्दैकविग्रहम् ॥३५॥
मार्कण्डेय उवाच ॥
सहस्रशिरसं देवं नारायणमनामयम् ॥ वासुदेवमनाधारं प्रणतोऽस्मि जनार्दनम् ॥३६॥
अमेयमजरं नित्यं सदानन्दैकविग्रहम् ॥ अप्रतर्क्यमनिर्द्देश्यं प्रणतोऽस्मि जनार्द्दनम् ॥३७॥
अक्षरं परमं नित्यं विश्वाक्षं विश्वसम्भवम् ॥ सर्वतत्त्वमयं शान्तं प्रणतोऽस्मि जनार्द्दनम् ॥३८॥
पुराणं पुरुषं सिद्ध सर्वज्ञानैकभाजनम् ॥ परात्परतरं रूपं प्रणतोऽस्मि जनार्द्दनम् ॥३९॥
परं ज्योतिः परं धाम पवित्रं परमं पदम् ॥ सवैर्करूपं परमं प्रणतोऽस्मि जनार्द्दनम् ॥४०॥
तं सदानन्दचिन्मात्रं पराणां परमं पदम् ॥ सर्वं सनातनं श्रेष्ठं प्रणतोऽस्मि जनार्द्दनम् ॥४१॥
सगुणं निर्गुणं शान्तं मायाऽतीतं सुमायिनम् ॥ अरूपं बहुरूपं तं प्रणतोऽस्मि जनार्द्दनम् ॥४२॥
यत्र तद्भगवान्विश्वं सृजत्यवति हन्ति च ॥ तमादिदेवमीशानं प्रणतोऽस्मि जनार्द्दनम् ॥४३॥
परेश परमानन्द शरणागतवत्सल ॥ त्राहि मां करुणासिन्धोमनो तीत नमोऽस्तुते ॥४४॥
एवं स्तुवन्तं विप्रेन्दं विप्रेन्द्रं मार्कण्डेयं जगद्रुरुम् ॥ उवाच परया प्रीत्या शङ्खचक्रगदाधरः॥४५॥
श्रीभगवानुवाच ॥ लोके भागवता ये च भगवद्भक्तमानसाः ॥ तेषां तुष्टो न सन्देहो रक्षाम्येतांश्च सर्वदा ॥४६॥
अहमेव द्विजश्रेष्ठ नित्यं प्रच्छन्नविग्रहः ॥ भगवद्भक्तरूपेण लोकान्रक्षामि सर्वदा ॥४७॥
मार्कण्डेय उवाच ॥ किंलक्षणा भागवता जायन्ते केन कर्म्मणा ॥ एतदिच्छाम्यहं श्रोतुं कौतूहलपरो यतः ॥४८॥
श्रीभगवानुवाच ॥ लक्षणं भागवतानां श़ृणुष्व मुनिसत्तम॥ वक्तुं तेषां प्रभावं हि शक्यते नाब्दकोटिभिः॥४९॥
ये हिताः सर्वजन्तूनां गतासूया अमत्सराः॥ वशिनो निस्पृहाः शान्तास्ते वै भागवतोत्तमाः॥५०॥
कर्म्मणा मनसा वाचा परपीडां न कुर्वते ॥ अपरिग्रहशीलाश्च ते वै भागवताः स्मृताः ॥५१॥
सत्कथाश्रवणे येषां वर्तते सात्त्विकी मतिः ॥ तद्भक्तविष्णुभक्ताश्च ते वै भागवतोत्तमाः ॥५२॥
मातापित्रोश्च शुश्रूषां कुर्वन्ति ये नरोत्तमाः॥ गङ्गाविश्वेश्वरधिया ते वै भागवतोत्तमाः ॥५३॥
ये तु देवार्च्चनरता ये तु तत्साधकाः स्मृताः॥ पूजां दृष्ट्वानुमोदन्ते ते वै भागवतोत्तमाः ॥५४॥
व्रतिनां च यतीनां च परिचर्यापराश्च ये ॥ वियुक्तपरनिन्दाश्च ते व भागवतोत्तमाः ॥५५॥
सर्वेषां हितवाक्यानि ये वदन्ति नरोत्तमाः॥ ये गुणग्राहिणो लोके ते वै भगवताः स्मृताः ॥५६॥
आत्मवत्सर्वभूतानि ये पश्यंति नरोत्तमाः॥ तुल्याः शत्रुषु मित्रेषु ते वै भागवतोत्तमाः ॥५७॥
धर्म्मशास्त्रप्रवक्तारः सत्यवाक्यरताश्च ये ॥ सतां शुश्रूषवो ये च ते वै भागवतोत्तमाः ॥५८॥
व्याकुर्वते पुराणानि तानि शृण्वन्ति ये तथा ॥ तद्वक्तरि च भक्ता ये ते वै भागवतोत्तयाः ॥५९॥
ये गोब्राह्मणशुश्रूषां कुवेत सततं नराः॥ तीर्थयात्रापरा ये च ते वै भागवतोत्तमाः ॥६०॥
अन्येषामु दयं दृष्ट्वा ये त्रभिनन्दन्ति मानवाः ॥ हरिनामपरा ये च ते वै भागवतोत्तमाः ॥६१॥
आरामारोपणरतास्तडागपरिरक्षकाः॥ कासारकूपकर्त्तारस्तेवै भागवतोत्तमाः॥६२॥
ये वै तडागकर्त्तारो देवसद्मानि कुर्वते ॥ गायत्रीनिरता ये च ते वै भागवतोत्तमाः ॥६३॥
येऽभिनन्दन्ति नामानि हरेः श्रुत्वाऽतिहर्पिताः ॥ रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः ॥६४॥
तुलसीकानं दृष्ट्वा ये नमस्कुर्वते नराः ॥ तत्काष्ठाङ्कितकर्णा ये ते वै भागवतोत्तमाः ॥६५॥
तुलसीगन्धमाघ्राय सन्तोषं कुर्वते तु ये ॥ तन्मूलमृत्तिकां ये च ते वै भगवातोत्तमाः ॥६६॥
आश्रमाचारनिरतास्तथै वातिथिपूजकाः ॥ ये च वेदार्थवक्तारस्ते वै भागवतोत्तमाः ॥६७॥
शिवप्रियाः शिवासक्ताः शिवपादार्च्चने रताः ॥ त्रिपुण्ड्रधारिणो ये च ते वै भागवतोत्तमाः ॥६८॥
व्याहरन्ति च नामानि हरेः शुम्भोर्महात्मनः ॥ रुद्राक्षलङ्कता ये च ते वै भागवतोत्तमाः ॥६९॥
ये यजन्ति महादेवं क्रतुभिर्बहुदक्षिणैः ॥ हरिं वा परया भक्तया ते वै भागवतोत्तमाः ॥७०॥
विदितानि च शास्त्राणि पदार्थं प्रवदन्ति ये ॥ सर्वत्र गुणभाजो ये ते वै भागवताः स्मृताः ॥७१॥
शिवे च परमेशे च विष्णौ च परमात्मनि ॥ समबुद्ध्य़ा प्रवर्त्तन्ते ते वै भागवताः स्मृताः ॥७२॥
शिवाग्निकार्यनिरताः पञ्चाक्षरजपे रताः॥ शिवध्यानरता ये च ते वै भागवतोत्तमाः ॥७३॥
पानीयदाननिरता येऽन्नदानरतास्तथा ॥ एकादशी व्रतरता ते वै भागवतोत्तमाः ॥७४॥
गोदाननिरता ये च कन्यादानरताश्च ये ॥ मदर्थं कर्म्मकर्त्तारस्ते वै भागवतोत्तमाः ॥७५॥
एते भागवता विप्र केचिदत्र प्रकीर्त्तिताः॥ मयाऽपि गदितुं शक्या नाब्दकोटिशतैरपि ॥७६॥
तस्मात्त्वमपि विप्रेन्द्र सुशीलो भव सर्वदा ॥ सर्व भूताश्रयो दान्तो मैत्रो धर्म्मपरायणः ॥७७॥
पुनर्युगान्तपर्य्यन्तं धर्म्मं सर्वं समाचरन् ॥ मन्मूर्त्तिध्याननिरतः परं निर्वाणमाप्स्यसि ॥७८॥
एवं मृकंडुपुत्रस्य स्वभक्तस्य कृपानिधिः ॥ दत्त्वा वरं स देवेशस्तत्रैवांतरधीयत ॥७९॥
मार्कण्डेयो महाभागो हरिभक्तिरतः सदा ॥ चचार परमं धर्ममीजे च विधिवन्मखैः ॥८०॥
शालग्रामे महाक्षेत्रे तताप परमं तपः ॥ ध्यानक्षपितकर्मा तु परं निर्वाणमाप्तवान् ॥८१॥
तस्माज्जनतुषु सर्वेषु हितकृद्धरिपूजकः ॥ ईप्सितं मनसा यद्यततदाप्नोत्यसंशयम् ॥८२॥
सनक उवाच ॥
एतत्सर्वं निगदितं त्वया पृष्टं द्विजोत्तम ॥ भगवद्भक्ति महात्म्यं किमन्यच्छ्रोतुमिच्छसि ॥८३॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे मार्कण्डेयवर्णनं नाम पञ्चमोऽध्यायः ॥५॥