सनक उवाच ॥
वर्णाश्रमाचारविधिं प्रवक्ष्यामि विशेषतः ॥ श़ृणुष्व तन्मुनिश्रेष्ठ सावधानेन चेतसा ॥१॥
यः स्वधर्मं परित्यज्य परधर्म समाचरेत् ॥ पाषंडः स हि विज्ञेयः सर्वधर्मबहिष्कृतः ॥२॥
गर्भाधानादिसंस्काराः कार्या मंत्रविधानतः ॥ स्त्रीणाममंत्रतः कार्या यथाकालं यथाविधि ॥३॥
सीमंतकर्म प्रथमं चतुर्थे मासि शस्यते ॥ षष्ठे वा सप्तमे वापि अष्टमे वापि कारयेत् ॥४॥
जाते पुत्रे पिता स्नात्वा सचैलं जातकर्म च ॥ कुर्य्याच्च नांदीश्राद्धं च स्वस्तिवाचनपूर्वकम् ॥५॥
हेम्ना वा जनतेनापि वृद्धिश्राद्धं प्रकल्पयेत् ॥ अन्नेन कारयेद्यस्तु स चांडाल समो भवेत् ॥६॥
कृत्वाभ्युदयिकं श्राद्धं पिता पुत्रस्य वाग्यतः ॥ कुर्वीत नामनिर्द्देशं सूतकांते यथाविधि ॥७॥
अस्पष्टमर्थहीनं च ह्यतिगुर्व क्षरान्वितम् ॥ न दद्यान्नाम विप्रेंद्र तथा च विषमाक्षरम् ॥८॥
तृतीयवर्षे चौलं च पंचमे षष्ठसम्मिते ॥ सप्तमे चाष्टमे वापि कुर्याद् गृह्योक्तमार्गतः ॥९॥
दैवयोगादतिक्रांते गर्भाधानादिकर्मणि ॥ कर्त्तव्यः पादकृच्छ्रो वै चौले त्वर्द्धं प्रकल्पयेत् ॥१०॥
गर्भाष्टमेऽष्टमे वाब्दे बटुकस्योपनायनम् ॥ आषोडशाब्दपर्यंत गौणं कालमुशंति च ॥११॥
गर्भैकादशमेऽब्दे तु राजन्यस्योपनायनम् ॥ आद्वाविंशाब्दपर्यंत कालमाहुर्विपश्चितः ॥१२॥
वैश्योपनयनं प्रोक्तं गर्भाद्वादशमे तथा ॥ चतुर्विंशाब्दपर्यंत गौणमाहुर्मनीषिणः ॥१३॥
एतत्कालवधेर्यस्य द्विजस्यातिक्रमो भवेत् ॥ सावित्रीपतितं विद्यात्त तु नैवालपेत्कदा ॥१४॥
द्विजोपनयने विप्र मुख्यकालव्यतिक्रमे ॥ द्वादशाब्दं चरेत्कृच्छ्रं पश्चाच्चांद्रायणं तथा ॥
सांतपनद्वयं चैव कृत्वा कर्म समाचरेत् ॥१५॥
अन्यथा पतितं विद्यात्कर्त्तापि ब्रह्महा भवेत् ॥ मौंजी विप्रस्य विज्ञेया धनुर्ज्या क्षत्त्रियस्य तु ॥१६॥
आवी वैशस्य विज्ञेया श्रूयतामजिनं तथा ॥ विप्रस्य चोक्तमैणेयं रौखं क्षत्रियस्य तु ॥१७॥
आजं वैशस्य विज्ञेयं दंडान्वक्ष्ये यथाक्रमम् ॥ पालाशं ब्राह्मणस्योक्तं नृपस्योदुम्बरं तथा ॥१८॥
बैल्वं वैशस्य विज्ञेय तत्प्रमाणं श़ृणुष्व मे ॥ विप्रस्य केशमानं स्यादा ललाटं नृपस्य च ॥१९॥
नासाग्रसंमित दण्डं वैश्यस्याहुर्विपश्चितः ॥ तथा वासांसि वक्ष्यामि विप्रादीनां यथाक्रमम् ॥२०॥
कषायं चैव मांजिष्ठं हारिद्रं च प्रकीर्तितम् ॥ उपनीतो द्विजो विप्र परिचर्यापरो गुरोः ॥२१॥
वेदग्रहणपर्यंत निवसेद्गुरुवेश्मनि ॥ प्रातः स्नायी भवेद्वर्णी समित्कुशफलादिकान् ॥२२॥
गुर्वर्थमाहरेन्नित्यं कल्ये कल्ये मुनीश्वर ॥ यज्ञोपवीतमजिनं दंडं च मुनिसत्तम ॥२३॥
नष्टे भ्रष्टे नवं मंत्राद्धृत्वा भ्रष्टं जले क्षिपेत् ॥ वर्णिनो वर्त्तनं प्राहुर्भिक्षान्नेनैव केवलम् ॥२४॥
भिक्षा च श्रोत्रियागारादाहरेत्प्रयतेंद्रियः ॥ भवत्पूर्वं ब्राह्मणस्य भवन्मध्यं नृपस्य च ॥२५॥
भवदंत्य विशः प्रोक्तं भिक्षाहरणकं वचः ॥ सायंप्रातर्वह्निकार्यं यथाचारं जितेंद्रियः ॥२६॥
कुर्यात्प्रतिदिनं वर्णीं ब्रह्मयज्ञं च तर्पणम् ॥ अग्निकार्यपरित्यागी पतितः प्रोच्यते बुधैः ॥२७॥
ब्रह्मयज्ञविहीनश्च बह्माहा परिकीर्तितः ॥ देवताभ्यर्च्चन कुर्याच्छुश्रूषानुपदं गुरोः ॥२८॥
भिक्षान्नं भोजयेनित्यं नैकान्नाशी कदाचन ॥ आनीयानिन्द्यविप्राणां गृहाद्भिक्षां जितेंद्रियः ॥२९॥
निवेद्य गुरवेऽश्र्नीयाद्वाग्यतस्तदनुज्ञया ॥ मधुस्त्रीमांसलवणं ताम्बुलं दंतधावनम् ॥३०॥
उच्छिष्टभोजनं चैव दिवास्वापं च वर्जयेत् ॥ छत्रपादुकगंधांश्च तथा माल्यानुलेपनम् ॥३१॥
जलकेलिं नृत्यगीतवाद्यं तु परिवर्जयेत् ॥ परिवादं चोपतापं विप्रलापं तथांजनम् ॥३२॥
पाषण्ड जनसंयोगं शूद्रसंगं च वर्जयेत् ॥ अभिवादनशीलः स्याद् वृद्धेषु च यथाक्रमम् ॥३३॥
ज्ञानवृद्धास्तपोवृद्धा वयोवृद्धा इति त्रयः ॥ आध्यात्मिकादिदुःखानि निवारयति यो गुरुः ॥३४॥
वेदशास्त्रोपदेशेन तं पूर्वमभिवादयेत् ॥ असावहिमिति ब्रूयाद्विजो वै ह्यभिवादने ॥३५॥
नाभिवाद्याश्च विप्रेण क्षत्रियाद्याः कथंचन ॥ नास्तिकं भिन्नमर्यादं कृतघ्नं ग्रामयाजकम् ॥३६॥
स्तेनं च कितवं चैव कदाचिन्नाभिवादयेत् ॥ पाषण्डं पतितं व्रात्यं तथा नक्षत्रजीविनम् ॥३७॥
तथा पातकिन चैव कदाचिन्नाभिवादयेत् ॥ उन्मत्तं च शठं धूर्त्तं धावन्तमशुचिं तथा ॥३८॥
अभ्यक्तशिरसं चैव जपन्तं नाभिवादयेत् ॥ विवादशीलिनं चंडं वमंतं जलमध्यगम् ॥३९॥
भिक्षान्नधारिणं चैव शयानं नाभिवादयेत् ॥ भर्तुघ्नीं पुष्पिणीं जारां सूतिकां गर्भपातिनीम् ॥४०॥
कृतघ्नीं च तथा चंडी कदाचिन्नाभिवादयेत् ॥ सभायां यज्ञशालायां देवतायतनेष्वपि ॥४१॥
प्रत्येक तु नमस्कारो हंति पुण्य पुराकृतम् ॥ श्राद्धं व्रतं तथा दानं देवताभ्यर्चनं तथा ॥४२॥
यज्ञं च तर्पणं चैव कुर्वंत नाभिवादयेत् ॥ कृतेऽभिवादने यस्तु न कुर्यात्प्रतिवादनम् ॥४३॥
नाभिवाद्यः स विज्ञेयो यथा शूद्रस्तथैव सः ॥ प्रक्षाल्य पादावाचम्य गुरोरभिमुखः सदा ॥४४॥
तस्य पादौ च संगृह्य अधीयीत विचक्षणः ॥ अष्टकासु चतुर्दश्यां प्रतिपत्पर्वणोस्तथा ॥४५॥
महाभरण्यां विप्रद्रें श्रवणद्वादशीदिने ॥ भाद्रपदापरपक्षे द्वितीयायां तथैव च ॥४६॥
माघस्य शुक्लसप्तम्यां नवम्यामाश्विनस्य च ॥ परिवेषं गते सूर्ये श्रोत्रिये गृहमागते ॥४७॥
बंधिते ब्राह्मणे चैव व्रवृद्धकलहे तथा । संध्यायां गर्जिते मेघे ह्यकाले परिवर्षणे ॥४८॥
उल्काशनिप्रपाते च तथा विप्रेऽवमानिते ॥ मन्वादिषु च देवर्षे युगादिषु चतुर्ष्वपि ॥४९॥
नाधीयीत द्विजः कश्चित्सर्वकर्मफलोत्सुकः ॥ तृतीया माधवे शुक्ला भाद्रे कृष्णा त्रयोदशी ॥५०॥
कार्त्तिके नवमी शुद्धा माघे पंचदशी तिथिः॥ एता युगाद्याः कथिता दत्तस्याक्षयकारिकाः ॥५१॥
मन्वादींश्च प्रवक्ष्यामि श़ृणुष्व सुसमाहितः ॥ अक्षयुक्छुक्लनवमी कार्तिके द्वादशी सिता ॥५२॥
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥ आषाढशुल्कदशमी सिता माघस्य सप्तमी ॥५३॥
श्रावणस्याष्टमी कृष्णा तथाषाढी च पूर्णिमा ॥ फालगुनस्य त्वमावास्या पौषस्यैकादशी सिता ॥५४॥
कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पंचदशी सिता ॥ मन्वादयः समाख्याता दत्त स्याक्षयकारिकाः ॥५५॥
द्विजैः श्राद्धं च कर्त्तव्यं मन्वादिषु युगादिषु ॥ श्राद्धे निमंत्रिते चैव ग्रहणे चंद्रसूर्ययोः॥५६॥
अयनद्वितये चैव तथा भूकंपने मुने ॥ गलग्रहे दुर्द्दिने च नाधीयीत कदाचन ॥५७॥
एवमादिषु सर्वेषु अनघ्यायेषु नारद ॥ अधीयतां सुमूढानां प्रजां प्रज्ञां यशः श्रियम् ॥५८॥
आयुष्यं बलमा रोग्यं निकृंतति यमः स्वयम् ॥ अनघ्याये तु योऽधीते तं विद्याद्ब्रह्मघातकम् ॥५९॥
न तं संभाषयेद्विप्र न तेन सह संवसेत् ॥ कुंडगोलकयोः केचिज्जडादीनां च नारद ॥६०॥
वदंति चोपनयनं तत्पुत्रादिषु केचन ॥ अनधीत्य तु यो वेदमन्यत्र कुरुते श्रमम् ॥६१॥
शुद्रतुल्यः स विज्ञेयो नरकस्य प्रियोऽतिथिः॥ अनधीतश्रुतिर्विप्र आचारं प्रतिपद्यते ॥६२॥
नाचारफलमाप्नोति यथा शूद्रस्तथैव सः॥ नित्यं नैमित्तिकं काम्यं यच्चान्यत्कर्म वैदिकम् ॥६३॥
अनधीतस्य विप्रस्य सर्वं भवति निष्फलम् ॥ शब्दब्रह्ममयो विष्णुर्वेदः साक्षाद्धरि स्मृतः ॥६४॥
वेदाध्यायी ततो विप्रः सर्वान्कामानवा प्नुयात् ॥६५॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे स्मार्ताचारेषु वर्णाश्रमधर्मेष्वध्ययनादिधर्मनिरूपणं नाम पंचविंशोऽध्यायः ॥२५॥