संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः| नवतितमोऽध्यायः श्री नारदीयमहापुराणम् : पूर्वभागः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पंचविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पंचत्रिशोंऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पश्वचत्वारिशत्तमोऽध्यायः षट्रचत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोध्यायः पञ्चाशत्तमोऽध्यायः एकपंचाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषाष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुष्षष्टितमोऽध्यायः पञ्चषष्टिमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षटसप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्याय एकोनाशीतितमोऽध्यायः नामाशीतितमोऽध्यायः नामैकाशीतितमोऽध्यायः व्द्यशीतितमोऽध्यायः त्र्यशीतितमोऽधायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः नामाष्टाशीतितमोऽध्यायः नामैकोननवतितमोऽध्यायः नवतितमोऽध्यायः नामैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः नामाष्टनतितमोऽध्यायः नामैकोनशततमोऽध्यायः शततमोऽध्यायः नामैकोत्तरशततमोऽध्यायः द्वयुत्तरशततमोऽध्यायः त्र्युत्तरशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडुत्तशततमोऽध्यायः सप्तोत्तशततमोऽध्यायः नामाष्टोत्तरशततमोऽध्यायः नवोतरशततमोऽध्यायः दशोत्तरशततमोऽध्यायः नामैकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाघिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशदधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशतमोऽध्यायः पंचविंशोत्तरशततमोऽध्यायः श्री नारदीयमहापुराणम् - नवतितमोऽध्यायः `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण नवतितमोऽध्यायः Translation - भाषांतर सनत्कुमार उवाच ॥अथातो विप्र नित्यानां प्रयोगादिसमन्वितम् ॥ पटलं तेऽभिधा स्यामि नित्याभ्यर्चनदीपकम् ॥१॥ललितायास्त्रिभिवर्णैः सकलार्थोऽभिधीयते ॥ शेषेण देवीरुपेण तेन स्यादिदमीरितम् ॥२॥अशेषतो जगत्कूत्स्त्रं हल्लेखात्मकमुच्यते ॥ तस्याश्वार्थस्तु कथितः सर्वतंत्रेषु गोपितः ॥३॥व्योम्ना प्रकाशमानत्वं ग्रसमानत्वमग्निना ॥ तयोर्विमर्श ईकारो बिंदुना तन्निफाल नम ॥४॥पिंडकर्तंरि बीजाख्या मन्त्रा मालाभिधाः क्रमात् ॥ एकार्णवन्तो द्वयर्णाश्व त्रिदिङ्मुखमुखार्णकाः ॥५॥वृत्तिजार्णंल्लिखेदंकैर्व्यत्यस्तक्रमयोगतः ॥ तैर्भेदयोजनं कुर्यात्संदर्भाणामशेषतः ॥६॥देव्यात्मकं समुदयं विश्रांति च शिवात्मकम् ॥ उभयात्मकमण्यात्मस्वरुपं तैश्व भावयेत् ॥७॥काले नान्यच्च दुःखात्तिवासनानाशनो ध्रुवम् ॥ पराहंतामयं सर्वस्वरुपं चात्मविग्रहम् ॥८॥सदात्मकं स्फुरताख्यमरोषोपाधिवर्जितम् ॥ प्रकाशर्रुपमात्मत्वे वस्तु तद्धासते परम् ॥९॥यत एवमतो लोके नात्स्यमंत्रं यदक्षरम् ॥ यद्विद्येति समाख्यातं सर्वथाः सदा ॥१०॥वासरेषु तु तेष्वेवं सर्वापत्तरकं भवेत् ॥ तद्विधानं च वक्ष्यामि सम्यगासवकल्पनम् ॥११॥गौडी पैष्टी तथा माध्वीत्यवं तत्रिविधं स्मृतम् ॥ गुडमुष्णोदके क्षिप्त्वा समालोड्य विनिक्षिपेत् ॥१२॥घटे काचमये तस्मिन् धातकोसुमनोरजः ॥ खात्वा भूमौ संध्ययोस्तु करैः संक्षोभ्य भूयसा ॥१३॥मासमात्रे गते तस्मिन्निमग्रे रजसि द्रुतम् ॥ संशोध्य पूजयेत्तेन गौडी सा गुडयोगतः ॥१४॥एवं मधुसमायोगान्माध्वी पैष्टीं श्रृणु प्रिय ॥ अध्यर्द्धद्विगुणे तोये श्रपयेत्तंदुलं शनैः ॥१५॥दिनत्रयोषिते तस्मिन्धात्र्यंकुररजः क्षिपेत् ॥ दिनमेकं धृते निवाते स्थापयेत्ततः ॥१६॥उदकै लोंलित पश्वाद्धलितं पैष्टिकं मधु ॥ वृक्षजं फलजं चेति द्विविधं क्रियते मधु ॥१७॥तन्निर्माणं श्रृणुष्वाद्य यदास्वादान्मनोलयः ॥ मृद्वीकां वाथ खर्जूरफलं पुष्पमथापि वा ॥१८॥मधूकस्यांभसि क्षिप्त्वा शृतमर्द्धावशेषितम् ॥ प्राक्सृतास्वलेशेन मिलितं दिवसद्वयात् ॥१९॥गालितं स्वादु पूजार्हं मनोलयकरं शुभम् ॥ वार्क्षं तु नालिकरें स्याद्धिंतालस्याथ तालतः ॥२०॥फलकांडात्स्नुतं दुग्धं नीतं सद्यो रसावहम् ॥ नालिके रफलांतस्थसलिले शशिना युते ॥२१॥अर्द्ध्पूगफलोत्थं तु रसं संक्षिप्य तापयेत् ॥ आतपे सद्य एवैतदासवं देवताप्रियम् ॥२२॥आसवैरेभिरुदितैरर्घ्यं देव्यै निवेदयेत् ॥ देवैः कृत्वा ततः सद्यो तद्यात्तत्सिद्धये द्वयम् ॥२३॥साधको नियताहारः समाधिस्थः पिबेत्सदा ॥ न कदाचित्पिबोत्सिद्धो देव्यर्थमानिवेदितम् ॥२४॥पानं च तावत्कुर्वीतं यावता स्यान्मनोलयः ॥ ततः करोतिः चेत्सद्यः पातकी भवति ध्रुवम् ॥२५॥देवतागुरुशिष्टान्यं पिबन्नासवमाशया ॥ पातकी राजदंड्यश्व रिक्थोपासक एव च ॥२६॥साध्यसाधकयोरेतत्काम्य एव समीरितम् ॥सिद्धस्य सर्वदा प्रोक्तं यतोऽसौ तन्मयो भवेत् ॥२७॥पूजयेत्प्राक्तोपस्तु प्रोक्तरुपाश्व ताः क्रमात् ॥ उपचारैरासवैश्व मत्स्यैर्मांसैस्तु संस्कृतैः ॥२८॥अथ काम्यार्चनं वक्ष्ये प्रयोगांश्वापि नारद ॥ येषामाचरणात्सिद्धिं साधको लभते ध्रुवम् ॥२९॥चैत्रे दमनकैरर्चेत्पूर्णायां मदनोत्सवम् ॥ वैशाखे मासि पूर्णायां पूजयेद्धेमपुष्पकैः ॥३०॥ज्यैष्ठयां फलैर्यजेंद्देवीं कदलीपनसाम्रजैः ॥आषाढ्यां चन्द्नैरेलाजातीकंकोलकुंकुमैः ॥३१॥श्रावण्यामागमोक्तेन विधिनार्चेत्पवित्रकैः ॥ प्रौष्ठपद्यां गन्धपुष्पैर्यजेद्वा केतकीसुमैः ॥३२॥आश्वयुज्यां कन्यकाचां भूषावस्त्रधनादिभिः ॥ कार्ति क्यां कुंकुमैश्वैव निशि दीपमणैरपि ॥३३॥सचंद्रैर्मार्गशीर्ष्यां तु नालिकेरैरपूपकैः ॥ पौष्यां गुडैर्गवां दुगधैः समर्चयेत् ॥३४॥स्वर्णरौप्यैः पंकजैस्तु माघ्यां सौगनिभादिभिः ॥ फाल्गुन्यां विविधैर्द्रव्यैः फलैः पुष्पैः सुगंधिभिः ॥३५॥पर्वताग्रे यजेद्देवीं पलाशकुसुमैर्निशि ॥ सिद्धद्रव्यैश्व सप्ताहात्खेचरामलनं भवेत् ॥३६॥अरण्ये वटमूले वा कुंजे वा धरणीभृताम् ॥ कदम्बजातिपुष्पाभ्यां सिद्धद्रव्यैः शिवां यजेत् ॥३७॥मासेन सिद्धा यक्षिण्य़ प्रत्यक्षा वांछितप्रदाः ॥ केतकीकुसुमैः सिद्धाश्वेटका वारिधेस्तटे ॥३८॥आज्ञामभीष्टां कुर्वन्ति रणे मायां महाद्धुताम् ॥ वसूनि मालां भूषां च दद्युरस्येहयानिशम् ॥३९॥पीठमृक्षद्रुमैः कृत्वा देवीं यजेन्निशि ॥ शाल्मलैः कुसुमैः सिद्धद्रव्यैर्मासं तु निर्भयम् ॥४०॥श्मशानदेशे विप्रेंद्र सिद्धयंत्यस्य पिशाचकाः ॥ अश्मपातप्रहारद्यैर्जीयादाभिर्द्विषश्विरम् ॥४१॥र्निजने विपिने रात्रौ मासमात्रं तु निर्भयः ॥ यजेद्दवीं चक्रगतां सिद्धद्रव्यसमन्विताम् ॥४२॥मालतीजातपुन्नागकेतकीमरुभिः क्रमात् ॥ तेन सिद्धयंति वेतालास्तानाह्येच्छया चरेत् ॥४३॥श्मशाने चंडिकागेहे निर्जने विपिनेऽपि वा ॥ मध्यरात्रे यजेद्देवीं कृष्णवस्त्रविभूषणैः ॥४४॥कृष्णचक्रेऽतिकृष्णां तामतिक्रुद्धाशयो यजेत् ॥ साध्य योनिं तदग्रे तु बलिं छिंदन्निवेदयेत् ॥४५॥सिद्धद्रव्यसमेतं तु मासात्तद्धललोचनात् ॥ जायन्ते भीषणाः कृत्यास्ताभ्यः सिद्धिं निवेदयेत् ॥४६॥विश्वसंहारसंतुष्टाः पुनरेत्य निजेच्छाया ॥ देव्या ललाटनेत्रे स्युः प्रार्थिते तु तिरोहिताः ॥४७॥रक्तभूषांबरालेपमालाभूषिताविग्रहाः ॥ उद्याने निर्जने देवीं चक्रे सचिंत्य पूजयेत् ॥४८॥कह्रारचंपकाशोकपाटलाशतपत्रकैः ॥ सिद्धद्रव्यसमोपेतैर्मायाः सिद्धयंति मासतः ॥४९॥यासां प्रसादलाभेन कामरुपो भवेन्नरः ॥ याभिर्विश्वजयी विश्वचारी विश्वविनोदवान् ॥५०॥षडाधाराब्जमध्ये तु चक्रं संचिंत्य पूजयेत् ॥ चंद्रचं दनकस्तूरीमृगनाभिमहोदयैः ॥५१॥त्रिकालज्ञो भवेद्देवीं तेषु सम्यग्विचिंतयेत् ॥ पूर्णप्रतीतौ भव्यानि विकलेऽभव्यमीरितम् ॥५२॥देवीं चक्रेण सहितां स्मरेद्धक्तियुतो नरः ॥ विवेका विभवा विश्वा वितता च प्रकीर्तिता ॥५३॥कामिनी खेचरी गर्वा पुराणा परमेश्वरी ॥ गौरी शिवा ह्यमेया च विमला विजया परा ॥५४॥पवित्रा पीडनी विद्या विश्वेशी शिववल्लभा ॥ अशेषरुपा स्वानंदांबुजाक्षी चाप्यनिंदिता ॥५५॥वरदा वाक्यदा वाणी विविधा वेदविग्रहा ॥ विद्या वागीश्वरी सत्या संयता च सरस्वती ॥५६॥निर्मलानन्दरुपा ह्यमृता मानदा तथा ॥ पूषा चैव तथा तुष्टिः पुष्टिश्वापि रतिर्धृतिः ॥५७॥चंद्रिका कांतिर्ज्योत्स्त्रा श्रीः प्रीतिरंगदा ॥ देवीनामानि चैतानि चुलुके सलिले स्मरन् ॥५८॥मातृकासहितां विग्रां त्रिरावृत्त्यामृतात्मिकाम् ॥ ताडीं सारस्वती जिह्रां दीपाकारां स्मरन्पिबेत् ॥५९॥अब्दाच्चतुर्विधं तस्य पांडित्यं भुवि जायते ॥ एवं नित्यसुषःकाले यः कुर्याच्छुद्धमानसः ॥६०॥स योगी ब्रह्मविज्ञानी तथात्मवित् ॥ अनुग्रहेक्तचक्रस्थां देवीं ताभिर्वृतां स्मरेत् ॥६१॥चंपर्केदविरैर्मासादारोग्यमुपजायते ॥ ज्वरभूतग्रोहोन्मदशीतकाकामला क्षिह्रत् ॥६२॥दंतकर्णज्वरशिरःशूलगुल्मादि कुक्षिजाः ॥ व्रणप्रमेहच्छर्घशांग्रहण्यामात्रिदोषजाः ॥६३॥सर्वे तथा शमं यांति पूजया परमेश्वरी ॥ द्रव्य्म चक्रस्य निर्माणि काश्मीरं समुदी रितम् ॥६४॥सिंदूरं गैरिकं लाक्षा दरदं चंदनद्वयम् ॥ बिलद्वारे लिखेत्र्यस्त्रं षोडशस्त्र्य्संयुतम् ॥६५॥दरदेनास्य मध्यस्थां पूजयेत्पर मेश्वरीम् ॥ ताभिस्तच्छक्तिभिः साकं सिद्धद्रव्यैः सुंगांधिभिः ॥६६॥कुसुमैर्मासमात्रेण नागकन्यासमन्वितम् ॥ पातालादिषु लोकेषु रमयत्य निशं चिरम् ॥६७॥यक्षरक्षसगंधर्वसिद्धविद्याहरांगनाः ॥ पिशाचा गुह्यका वीराः किन्नरा भुजगास्तथा ॥६८॥सिद्धयंति पूजयात्तत्र तथा तत्प्रोक्तकालतः ॥ किंशुकैर्भूषणावाप्तौ पाटलैर्गजसिद्धये ॥६९॥रक्तोत्पलैरश्वसिद्धौ कुमुदैश्वरसिद्धये ॥ उत्पलैरुष्ट्रसंसिद्वयै तगरैः पशुसिद्धये ॥७०॥जंबीरेर्महिषावाप्त्यै लकुचैरजसिद्धये ॥ दाडिमैर्निधिसंसिद्धयै मधुकैर्गानसिद्धये ॥७१॥बकुलैरंगनासिद्धयै कह्रारैः पुत्रसिद्धये ॥ शतपत्रैर्जयावाप्त्यै केतकैर्वाहनाप्तये ॥७२॥सौरभाढ्यैः प्रसनैस्तु नित्यं सौभाग्यसिद्धये ॥ पूजयेन्मासमांत्र वा द्विगुणं त्रिगुणं तु वा ॥७३॥यावत्फलावाप्तिकांक्षी शर्कराघृतपायसैः ॥ सचक्रपरिवारां तां देवी सलिलमध्यगाम् ॥७४॥तर्प्पयेत्कुसुमैः सार्घ्यैः सर्वोपद्रवशान्तये ॥ घृतैः पूर्णायुषः सिद्धयै क्षौद्दैः सौभाग्यसिद्धये ॥७५॥दुग्धैरारोग्यसंसिद्धयै त्रिभिरैश्वर्यसिद्धये ॥ नालिकेरोद कैः प्रीत्यै हिमतोयैरनृपाप्तये ॥ सर्वार्थसिद्धय तौयैरभिषिंचेन्महेश्वरीम् ॥७६॥पूर्गोद्याने यजेद्देवीं सिद्धद्रव्यैर्दिवानिशम् ॥ निवसंस्तत्र तत्पुष्पैर्जायते मनमथोपमः ॥७७॥पूर्णासु नियतं देवीं कन्यकायां समर्चयन् ॥ कृत्याः परेरिता मंत्रा विमुखांस्तान् ग्रसंति वै ॥७८॥लिंगत्रयमयीं देवीं चक्रस्था भिश्व शक्तिभिः ॥ पूजयन्निष्टमखिलं लभतेऽत्र परत्र च ॥७९॥शतमानकृतैः स्वर्णपुष्पैः सौरभ्यवासितैः ॥ पूजयन्मासमात्रेण प्राग्जन्माद्यैर्वि मुच्यते ॥८०॥तथा रत्नैश्व नवाभिर्मासं तु यदि पूजयेत् ॥ विमुक्तसर्वपापौघैस्तां च पश्यति चक्षुषा ॥८१॥अंशुकैरर्चयेद्देवीं मासमात्रं सुगंधिभिः ॥ मुच्यते पापकृत्यादिदुःखौघैरितरैरपि ॥८२॥देवीरुपं स्वमात्मानं चक्रं शक्तिः समंततः ॥ भावयान्विषयैः पुष्पैः पूजयंस्तन्मयो भवेत् ॥८३॥षोडशाना तु नित्यानां प्रत्येक तिथयः क्रमात् ॥ तत्तत्तिथौ तद्धजनं जपहोमादिकं चरेत् ॥८४॥घृतं च शर्करा दुग्धमपूपं कदलीफलम् ॥ क्षौद्रं गुदं नालिकेरफलं लाजा तिलं दधि ॥८५॥पृथुकं चणकं मुद्रपायसं च निवेदयेत् ॥ कामेश्वर्यादिशक्तिनां सर्वासामापि चोदितम् ॥८६॥आद्याया ललितायास्तु सर्वाण्येतानि सर्वदा ॥ निवेदयेच्च जुहुयाद्वह्रौ दद्यान्नृणामपि ॥८७॥तत्तद्विद्याक्षरप्रोक्तमौषधं तत्प्रमाणतः ॥ संपिष्य गुटिकीकृत्य ताभिः सर्वं च साधयेत् ॥८८॥रविवारेऽरूणांभोजैः कुमुदैः सोमवारके ॥ भौमे रक्तोत्पलैः सौम्ये वारे तगरसंभवैः ॥८९॥गुरुवारे सुकह्रारैः शुक्रवारे सितांबुजैः ॥ नीलोत्पलैर्मंदवारे पूजयेदिष्टमादरात् ॥९०॥निवेदयेत्क्रमात्तेषु रविवारादिषु क्रमात् ॥ पायसं दुग्धकदलीनवनीतसिताघृतम् ॥९१॥एवमिष्टं समाराध्य देवीं गंधादिभिर्यजेत् ॥ ग्रहपीडां विजित्याशु सुखानि च समश्र्नुते ॥९२॥अर्धरात्रे तु साध्यां स्त्रीं स्स्मरन्मदनवह्रिना ॥ दह्रमानां ह्रतस्वांतां मस्तकस्थापितांजलिम् ॥९३॥विकीर्णकेशीमालोललोचनामरुणारुणाम् ॥ वायुप्रेंखत्पताकास्थपदा पद्मकलेवराम् ॥९४॥विवेकविधुरां मत्तां मानलजाभयातिगाम् ॥ चिंतयन्नर्चयेच्चक्रं मध्ये देवीं दिगंबराम् ॥९५॥जपादाडिमबंधूककिंशुकाद्यैः समर्चयेत् ॥ अन्यैः सुगंधिशेफालीकुसुमाद्यैः समर्चयेत् ॥९६॥त्रिसप्तरात्रादायाति प्रोक्तरुपा मदाकुला ॥ यावच्छरीरपातः स्याच्छापो वानपगास्य सा ॥९७॥पद्मैरक्तैस्त्रिमध्वक्तैर्होमाल्लक्ष्मीमवाप्नुयात् ॥ तथैव कैरवै रक्तैरंगनाः स्ववशं नयेत् ॥९८॥समानरुपवत्सायाः शुल्काया गोः पय पयःप्लुतैः ॥ मल्लिकामालतीजातीशतपत्रैर्हुतैर्भवेत् ॥९९॥कीर्तिविद्याधनारोग्यसौभाग्यवित्तपादिकम् ॥ आरग्वधप्रसूनैस्तु क्षौद्राक्तैर्हवनाद्धवेत् ॥१००॥स्वर्णादिस्तंभनं शत्रोर्नृपादीनां क्रुधाऽपि च ॥ आज्याक्तैः करवीरोत्थैः प्रसूनैररुणैर्हुतैः ॥१०१॥रक्तांबराणि वनिता भूपामात्यवशं तथा ॥ भूषावाहनवाणिज्यसिद्धयश्वास्य वांछिताः ॥१०२॥लवणैः सर्षपैगौरेरितरैर्वाथ होमतः ॥ सतैलाक्तैर्निशामध्ये त्वानयेद्वांछितां वधूम् ॥१०३॥तैलाक्तैर्जुहुयात्कृष्ण दरपुष्पैर्निशांतरे ॥ मासादरातेस्तर्तिर्ज्वरेण भवति ध्रुवम् ॥१०४॥आरुष्करैर्घृताभ्यक्तैस्तद्वीजैर्निशि होमतः ॥ शत्रोर्द्दाव्रणानि स्युर्दुःसा ध्यानि चिकित्सकैः ॥१०५॥तथा तत्तैलसंसिक्तैबीजैरंकोलकैरपि ॥ मरिचैः सर्षपाज्याकौनशि होमानुसारतः ॥१०६॥वांछिता वनितां काम ज्वरार्तामानयेद्दुतम् ॥ शालिभिश्वाज्यसंसिक्तैर्होमाच्छालीनवाप्नुयात् ॥१०७॥मुद्धैर्मुद्धं घृतैराज्यं सिद्धैरित्थं हुतैर्भवेत् ॥ साध्यर्क्षवृक्षसंभूतां पिष्टपा दरजः कृताम् ॥१०८॥राजीमरीचिलोणोत्थां पुत्तलीं जुहुयान्निशि ॥ प्रपदाभ्यां च जंघाभ्यां जानुभ्यामुरुयुग्मतः ॥१०९॥नाभेरधस्ताद्धदया द्धिन्नेनाकण्ठतस्तथा ॥ शिरसा च सुतीक्ष्णेन च्छित्वा शस्त्रेण वै क्रमात् ॥११०॥एवं द्वादशधा होमान्नरनारीनराधिपाः ॥ वश्या भवंति सप्ताहाज्ज्व रार्त्ती श्वास्य वांछया ॥१११॥पिष्टेन गुडयुक्तेन मरिचैर्जीरकैर्युताम् ॥ कृत्वा पुत्तलिकां साध्यनामयुक्तामथो ह्रदि ॥११२॥सनामहोमंपातघृते पार्च्यता पुनः ॥ स्पृशाव्रिजकराग्रेण सहस्त्रं प्रजपेन्मनुम ॥११३॥अभ्यर्च्य तदू घृताभ्यक्तं भक्षयेत्तद्धिया जपन् ॥ नरनारीनृपास्तस्य वश्याः स्युर्मराणावधि ॥११४॥शक्तयष्टगंधं सांपिष्य कन्यया शिशिरे जले ॥ तेन वै तिलकं भाले धारयन्वशयेज्जगत् ॥११५॥शालि तंदुलमादाय प्रस्थं भांडे नवे क्षिपेत् ॥ समानवर्णवत्साया रक्ताया गोः पयस्तथा ॥११६॥द्विगुणं तत्र निक्षिप्य श्रपयेत्संस्कृतेऽनले ॥ घृतेन सिक्त सिक्थं तु कृत्वा तत्ससितं करे ॥११७॥विधाय विद्यामष्टोर्द्धशतं जस्वा हुनेत्ततः ॥ एवं होमो महालक्ष्मीमावहेत्प्रेतिपत्कृतः ॥११८॥शुक्रवारेष्वपि तथा वर्षान्नृपसमो भवेत् ॥ पंचगम्यां तु विशेषेण प्राग्वद्धोमं समाचरेत् ॥११९॥तस्यां तिथौ त्रिमध्वक्तैर्मल्लिकाद्यैः सित्तैर्हु नेत् ॥ अन्नाज्याभ्यां च नियतं हुत्वान्नाढ्यो भवेन्नरः ॥१२०॥यद्यद्धि वांछितं वस्तु तत्तसर्वं तु सर्वदा ॥ घृतहोमादवाप्नोति तथैव तिलतं दुलैः ॥१२१॥अरुणैः पंकजैर्होमं कुर्वंस्त्रिमधुराप्लुतैः ॥ मंडलाल्लभते लक्ष्मीं महतीम श्लाघ्यविग्रहाम् ॥१२२॥कह्रारैः क्षोद्रसंयुक्तैः पूर्णाद्यः तद्दिनावधि ॥ जुहुयान्नित्यशो भक्तया सहर्स्त्रं विकचैः शुभैः ॥१२३॥स तु कीर्ति धनं पुत्रान्प्राप्नुयान्नात्र संशयः ॥ चंपकैः क्षौद्रसंसिकैः सहस्त्रहवनाद्धुवम् ॥१२४॥लभते स्वर्णानिष्काणां शतं मासेन नारद ॥ पाटलैर्घृतसंसिक्तैस्त्रिसहस्त्रं हुतैस्तथा ॥१२५॥दर्शादि मासाल्लभते चित्राणि वसनानि च ॥ कर्पूरचंदनाद्यानि सुगन्धानि तु मासतः ॥१२६॥वस्तूनि लभते त्दृद्यैरन्यैर्बोगोपयोगिभिः ॥ शालिभिः क्षीरसिक्ताभिः सप्तमीषु शतं हुतम् ॥१२७॥तेन शालिनसमृद्धिः स्यान्मासैः षड्भिरसंशयम ॥ तिलैर्हुतैस्तु दिवसैर्वर्षादारोग्यमाप्नुयात् ॥१२८॥स्वजन्मर्क्षत्रिषु तथा दूर्वाभिर्ज्जुहुयान्नरः ॥ निरातंको महाभोगः शतं वर्षाणि जीवति ॥१२९॥गुडूचीतिलदूर्वाभिस्त्रिषु जन्मसु वा हुनेत ॥ तेनायुःश्रीयशोभोगपुण्यनिध्यादिमान्भवेत् ॥१३०॥घृतपायसदुग्धस्तु हुतैस्तेषु त्रिषु क्रमात् ॥ आयुरारो ग्याविभ्नरिनृपामात्यो भवेत्तथा ॥१३१॥सप्तम्यां कदलीहोमात्सौभाग्यं लभतेऽन्वहम् ॥ दूर्वात्रिकैस्तु प्रादेशमानैस्त्रिस्वादुसंयुतैः ॥१३२॥जुहुयाद्दिनशो घोरे सन्निपातज्वरे तथा ॥ तद्दिनेषु जपोद्विद्यां नित्यशः सलिलं स्पृशन् ॥१३३॥सहस्त्रवारः तत्तोयैः स्त्रानं पानं समाचरेत् ॥ पाकाद्यमपि तैरव कुर्याद्रोगविमुक्तये ॥१३४॥साध्यर्क्षवृक्षसंचूर्ण त्र्यूषणं सर्षपं तिलम् ॥ पिष्टं च साध्यपादोत्थरजसा च समन्वितम् ॥१३५॥कृत्वा पुत्तलिका सम्यग्घृदये नामसंयुताम् ॥ प्राग्वच्छित्वायसैस्तीक्ष्णैः शस्त्रैः पुत्तलिकां हुनेत् ॥१३६॥एवं दिनैः सप्तभिस्तु साध्यो वश्यो भवेद्दढम् ॥ तथाविधां पुत्तलिकां कुंडमध्ये निखन्य च ॥१३७॥उपर्याग्निं निधायाथ विद्यया दिनशो हुनेत् ॥ त्रिसहस्त्रं त्रिय मायां सर्षपैस्तद्रसाप्लुतैः ॥१३८॥शतयोजनदूरादप्यानयेद्वनितां बलात् ॥ वशयेद्वनितां होंमात्कौशिकैर्मधुमिश्रितैः ॥१३९॥नालिकेरफलोपे तैर्गुडैर्लक्ष्मीमवाप्नुयात् ॥ तथाज्यसिक्तैः कह्रारैः क्षीराक्तिररुणोत्पलैः ॥१४०॥त्रिमध्वक्तैश्वंपकंश्व प्रसूनैर्बकुलोद्धवैः ॥ मधूकजैः प्रसूनैश्व हुतैः कन्यामवाप्नुयात् ॥१४१॥पुन्नागजैर्हुतर्वस्त्राण्याज्यैरिष्टमवाप्नुयात् ॥ माहिषैर्महिषीराजैरजान् गव्यैश्व गास्तथा ॥१४२॥अवाप्नोति हुतैराज्यैः रत्नै रत्नं च साधकः ॥ शालिपिष्टमयीं कृत्वा पुत्तलीं ससितां ततः ॥१४३॥ह्रद्देशन्यस्तनामार्णां पचेत्तैलाज्ययोर्निशि ॥ तन्मनाश्व दिवारात्रौ विद्याजप्तां तु भक्षयेत् ॥१४४॥सप्तरात्रप्रयोगेण नरो नारी नृपोऽपि वा ॥ दासवद्वशमायाति चित्तप्राणादि चार्पयेत् ॥१४५॥हयारिपुष्पैंररुणैः सितैर्वा जुहुयात्तथा ॥ त्रिसप्तरात्रान्महतीमवाप्नोति श्रियन्नरः ॥१४६॥छागमांसैस्त्रिमध्वक्तैर्होमात्स्वर्णमवाप्नुयात् ॥ क्षीराक्तैः सस्यसंपन्नां भुवनाप्नोति मंडलात् ॥१४७॥पद्मक्षैर्हवनाल्लक्ष्मीमवाप्नोति त्रिभिर्दिनैः ॥ बिल्वैर्दशांशं जुहुयान्मंत्राद्यैः साधने जपे ॥१४८॥एवं संसिद्धमंत्रस्तु मंत्रित्रैश्चुलुकोदकैः ॥ फणिदष्टमृतानां तु मुखे संताड्य जीवयेत् ॥१४९॥तत्कर्णयोर्जपन्विद्यां यष्टया वा जपसिद्धया ॥ संताड्य शीर्षं सहसा मृतमुत्थापयेदिति ॥१५०॥कृत्वा योनिं कुंडमध्ये तत्राग्नौ विधिवद्धुनेत् ॥ तिलसर्षपगोधूमशालिधान्ययवैर्हुनेत् ॥१५१॥त्रिमध्वक्तैरेकशो वा समेतैर्वा समृद्धये ॥ बकुलैश्वंपकैरब्जैः कह्रारैररुणोत्पलैः ॥१५२॥कैरवैर्मल्लिकाकुंदमधूकैरिंदिराप्तये ॥ अशोकैः पाटलैर्विल्वै र्जातीविकंकतैः सितैः ॥१५३॥नवनीलोत्पलैरश्वरिपुजैः कर्णिकारजेः ॥ होमाल्लक्ष्मीं च सौभाग्यं निधिमायुर्यशो लभेत् ॥१५४॥दूर्वां गुडूचीमश्वत्थं वटमारग्वधं तथा ॥ सितार्कप्लक्षजं हुत्वा चिरान्मुच्येत रोगतः ॥१५५॥इक्षुजंबूनालिकेरमोचागुडसितायुतैः ॥ अचलां लभते लक्ष्मीं भोक्ता च भवति ध्रुवम् ॥१५६॥सर्षपाज्यैर्हुते मृत्युः काष्ठाग्नौ वैरिमृत्यवे ॥ चतुरंगुलजैर्होमाच्चतुरंगबले रिपोः ॥१५७॥सप्ताहाद्रोगदुःखार्तिर्भवत्येव न संशयः ॥ नित्यं नित्यार्चनं कुर्यात्तथा होमं घृतेन वै ॥१५८॥विद्याभिमंत्रितं तोयं पिबेत्प्रातस्तदाप्तये ॥ चंदनोशीरकर्पूरकस्तूरीरोचना न्वितैः ॥१५९॥काश्मीरकालागुरुभिर्मृगस्वेदमयैरपि ॥ पूजयेच्च शिवामेतैर्गंधेः सर्वार्थसिद्धये ॥१६०॥सर्वाभिरपि नित्याभिः प्रातर्मातृकया समम् ॥ त्रिजप्ताभिः पिबेत्तोयं तथा वाकिसद्धये शिवम् ॥१६१॥विदध्यात्साधनं प्राग्वद्वर्णलक्षं पयोव्रतः ॥ त्रिस्वादुसिक्तैररुणैरंबुजैर्हवनं चरेत् ॥१६२॥जपतर्पणहोमार्चासेकसिद्धमनुर्नरः ॥ कुर्यादुक्तान्र्पयोगांश्व न चेत्तन्मनुदेवताः ॥१६३॥प्राणांस्तस्य ग्रसंत्येव कुपितास्तत्क्षणान्मुने ॥ अनया विद्यया लोके यदसाध्यं न तत्क्कचित् ॥१६४॥अरण्यवटमूले च पर्वताग्रगुहासु च ॥ उद्यानमध्यकांतारे मातृपादपमूलत् ॥१६५॥सिंधुतीरे वने चैता यक्षिणी साधयेन्नरः ॥ कमलैः कैरवे रक्तैः सितैः सौगंधिकोत्पलेः ॥१६६॥सुगंधिशेफाअलिकया न्निमध्वक्तैर्यथाविधि ॥ होमात्सप्तसु वारेषु तन्मंडलात् एव वै ॥१६७॥विजयं समवाप्नोति समरे द्वंद्वयुद्धके ॥ मल्लयुद्धे शस्त्रयुद्धे वादे द्यूताह्रयेऽपि च ॥१६८॥व्यवहारेषु सर्वेत्र जयमाप्नोति निश्चितम् ॥ चतुरंगुलजैः पुष्पैर्होमात्संस्तंभयेदरीन् ॥१६९॥तथैव कर्णिकारोत्थैः पुन्नागोत्थैर्नमेरुजैः ॥ चंपकैः केतकै राजवृक्षजैर्माधवोद्धवैः ॥१७०॥प्राग्वद्दारेषु जुहुयात्क्रमात्पुष्पैस्तु सप्तभिः ॥ प्रोक्तेषु स्तंभनं शत्रोर्भंगो वा भवति ध्रुवम् ॥१७१॥शत्रोर्नक्षत्रवृक्षाग्नौ तत्समिद्धिस्तु होमतः ॥ सर्षपाज्यप्लुताभिस्ते प्रणमंत्येव पादयोः ॥१७२॥मृत्युकाष्ठानले मृत्युपत्रपुष्पफलैरपि ॥ समिद्धिर्जुहुयात्सम्यग्वारेशार्चनपूर्वकम् ॥१७३॥अरातेश्वतुरंगं तु बलं रोगार्द्दितं भवेत् ॥ तेनास्य विजयो भूयान्निधनेनापि वा पुनः ॥१७४॥अर्कवारेऽर्कजैरिध्मैः समिद्धेऽग्नौ तदुद्धवैः ॥पत्रैः पुष्पैः फलैः काण्डेर्मूलैश्चापि हुनेत्क्रमात् ॥१७५॥सवर्णारुणवत्साया घृतसिक्तैस्तु मण्डलात् ॥ अरातिदिङ्मुखो भूत्वा कुंडे त्र्यस्त्रे विधानतः ॥१७६॥पलायते वा रोगार्तः प्रणमेद्वा भयान्वितः ॥ पलाशेध्मानले तस्य पंचांगैस्तद्घृताप्लुतैः ॥१७७॥होमेन सोमवारे च भवेत्प्राग्वन्न संशयः ॥ खादिरेध्मानले तस्य पंचांगैस्तद्घृताप्लुतैः ॥१७८॥वारे भौमस्य हवनात्तदाप्नोति मुनिश्वितम् ॥ अपामार्गस्य सौम्येऽह्री पिप्पलस्य गुरोर्दिने ॥१७९॥उदुंबरस्य भृगुजे शम्या मांदेऽह्री गोघृतैः ॥ शुभ्रपीतासितश्यामवर्णाद्याः पूर्वत्तथा ॥१८०॥तत्फलं समवाप्नोति तत्समिद्देपितेऽनले ॥ प्रतिपत्तिथि मारभ्य पंचम्यंतं क्रमेण वै ॥१८१॥शालीचणकमुद्धैश्व यवमाषैश्व होमतः ॥ माहिषाज्यप्लुतैस्ताभिस्तिथिभिः समवाप्नुयात् ॥१८२॥षष्ठ्यादिसप्तम्यंतं तु चाजाभवघृतैस्तथा ॥ प्रागुक्तैर्निस्तुषैर्होमात्प्रागुक्तफलमाप्नुयात् ॥१८३॥तदूर्द्धं पंचके त्वेतैः समस्तैश्व तिलद्वयैः ॥ सितान्नैः पायसैः सिक्तैरावि कैस्तु घृतैस्तथा ॥१८४॥हवनात्तदवाप्नोति यदादौ फलमीरितम् ॥ एवं नक्षत्रवृक्षोत्थवह्रौ तैस्तैर्मधुप्लुतैः ॥१८५॥हवनादपि तत्प्रप्तिर्भवत्येव न संशयः ॥ विद्यां संसाध्य पूर्वं तु पश्वादुक्तानशेषतः ॥१८६॥प्रयोगान्साधयेद्धीमान् मंगलायाः प्रसादतः ॥ संपूज्यं देवतां विप्रकुमारीं कन्यका तु वा ॥१८७॥सशुभावयवां मुग्धां स्त्रातां धौतांबरां शुभाम् ॥ तथाविधं कुमारं वा संस्थाप्याभ्यर्च्य विद्यया ॥१८८॥स्पृष्टशीर्षो जपेद्विद्यां शतवारं तथार्चयेत् ॥ प्रसूनैररुणैः शुभ्रैः सौरभाढ्यैरथापि वा ॥१८९॥दद्याद्वग्ग्गुलधूपं च यावत्कर्मावसानकम् ॥ ततो समाविष्टे तस्मिन्संपूज्य भक्तितः ॥१९०॥ततस्तामुपचारैस्तैः प्रागुक्तौंर्विद्यया व्रती ॥ प्रजपंस्तां ततः पृच्छेदभीष्टं कथयेच्च सा ॥१९१॥भूतं भवद्धविष्यं च यदन्यन्मनसि स्थितम् ॥ जन्मांतराण्यतीतानि सर्वं सा पूजिता वदेत् ॥१९२॥ततस्तां प्राग्वदभ्यर्च्य स्वात्मन्युद्वास्य तां जपेत् सहस्त्रवारं स्थिरधीः पूर्णात्मा विचरेत्सुखी ॥१९३॥मधुरत्रयसंसिक्तैररुणैरंबुजैः श्रियम् ॥ प्राप्नोति मंडलं होमात्सितैस्तैश्व महद्यशः ॥१९४॥क्षौद्राक्तैरुत्पलै रक्तैर्हवनात्प्रोक्तकालतः ॥ सुवर्णं समवान्पोति निधिं वसुधाम तु वा ॥१९५॥क्षीराक्तैः कैरवेर्होमात्प्रोक्तं काममवाप्नु यात् ॥ धान्यानि विविधान्याशु सुभगः स भवेन्नरः ॥१९६॥आज्याक्तैरुत्पलैर्होमाद्वामाद्वांछितं समवाप्नुयात् ॥ तदक्तैरपि कह्रारैर्हवनाद्राज्वल्लभः ॥१९७॥पलाशपुष्पैस्त्रिस्वादुयुक्तैस्तत्कलाहोमतः ॥ चतुर्विधं तु पांडित्यं भवत्येव न संशयः ॥१९८॥लाजैस्त्रिमधुरोपेतैस्तत्कालहवनेन वै ॥ कन्यकां लभते पत्नीं समस्तगुणसंयुताम् ॥१९९॥नालिकेरफलक्षोदं सासितं सगुडं तु वा ॥ क्षौद्राक्षं जुहुयात्तद्वदयत्नाद्धनदोपमः ॥२००॥तथैवान्नाज्यहोमेन सतंदुलतिलैरपि ॥ प्रसूनैररुणैस्तद्वत्तथा ॥ बंधूकसंभवैः ॥२०१॥सितैः प्रसूनर्वाक्सिद्धिं हवनात्समवाप्नुयात् ॥ सितरक्तैस्तु मिलितैरायुरारोग्यमाप्नुयात् ॥२०२॥दूर्वात्रिकैस्त्रिमध्वक्तैर्हवनात्तु जयेच्च तान् ॥ तथा गुडूच्या होमेन पायसेन तिलेन च ॥२०३॥श्रीखंडपंक कर्पूरमिलितैः शतपत्रकैः ॥ ॥ हवनाच्छ्रियमाप्नोति यावदन्वयगा भवेत् ॥२०४॥कुंकुमं हिमतोयेन पिष्ट्रा कर्पूरसंयुतम् ॥ तत्पंक मार्द्दितैर्होमात्कह्रारैर्विकचैः सुमैः ॥२०५॥राजकल्पः श्रिया भूयाज्जीवेद्वर्षशतं भुवि ॥ निःसपत्नो निरातंको निर्द्वंदो निर्मलाशयः ॥२०६॥इक्षुकांडस्य शकलैर्हवनाद्वस्त्रमाप्नुयात् ॥ तथैव करवीरोत्थैः प्रसूनैररुणैः सितैः ॥२०७॥क्षौद्राक्तैः पाटलापुष्पैर्हवनाद्वशयेद्वधः ॥ तथैव पंकजै र्होमाद्रूपाजीवां वंश नयेत् ॥२०८॥सरुपवत्सासितगोक्षीराक्तसितहोमतः ॥ लभतेऽनुपमां लक्ष्मीमपि पापिष्ठचेतनः ॥२०९॥सौवीराक्तै स्तु कार्पासबीजस्तत्कालहोमतः ॥ अर्द्धेन्दुकुंडे नियतं वशगा रिपवो मुने ॥२१०॥अरिष्टपत्रैस्तद्वीजैस्तद्वह्रौ तैस्तथा हुतैः ॥ मृत्युबीजैर्निम्ब तैलसिक्तैर्होमान्निहंति तान् ॥२११॥रोगार्तांस्तुरगांस्तद्वत्पंचगव्यैर्हुतैर्धुवम्र ॥ अक्षबीजैस्तु तैलाक्तैर्होमः सर्वविनाशनः ॥२१२॥करंजबीजैः संसिक्तैर्होमाद्वैरी पिशाचवान् ॥ तथैवाक्षतरुद्रूतपंचांगहवनादपि ॥२१३॥निंबतैलान्वितैरक्षद्रुमबीजैस्तु होमतः ॥ तद्दिने स्यादपस्मारी वैरी भवति निश्चितम् ॥२१४॥अरातेर्जन्मनक्षत्रवृर्क्षेधनगतेऽनले ॥ तद्योनिपिशितैस्तैश्व हवनान्मृत्युकृद्रिपोः ॥२१५॥पद्माक्षबीजैः सर्षप तैलाक्तर्हवनात्तथा ॥ जायंते वैरिणः कुष्ठरोगा देहविलोपकाः ॥२१६॥मार्रचैः सर्षपैर्होमात्तैलाक्तैर्मध्यराजके ॥ दाहज्वरेण ग्रस्तः स्यादरी तिस्तद्दिने ध्रुवम् ॥२१७॥एवं निग्रहहोमेषु स्वरक्षायै तथान्वहम् ॥ स्निग्धैः संप्राप्तसद्विद्यैर्जपहोमादि कारयेत् ॥२१८॥मृत्युंजयेन वा तत्तत्प्रयोगस्थाभिरेव वा ॥ विद्याभिरन्यथासिद्धमंत्रमस्याशु नाशयेत् ॥२१९॥लक्षत्रयं कृते प्रोक्तं त्रेतायां द्विगुणं तथा ॥ त्रिगुणं प्रोक्तं कलौ तत्तु चतुर्गुणम् ॥२२०॥दशांश हवनं कार्यं तर्पणं तद्द्शांशतः ॥ तद्दशांशं मार्जनं स्पाद्दशांशं द्विजभोजनम् ॥२२१॥एवं क्रमेण सर्वासा या या संख्या जपस्य सा ॥ कार्या सिद्धयै तु विद्यायास्ततः कुर्यात्प्रयोगकान् ॥२२२॥द्विगुणी हि जपः कार्यः कामेश्वर्यां मुनीश्वर ॥ सिद्धे मंत्रे प्रयोगांस्तु विदधीत यथा तथा ॥२२३॥जपो लक्षं समाख्यातो होमादिस्तद्दशांशतः ॥ कर्तव्यो भगमालाया विद्यासिद्धयै मुनीश्वर ॥२२४॥नित्याक्लिन्नाजपः प्रोक्तो लक्षं होमो दशांशतः कार्यः सिद्धयै तु विद्यायाः प्रयोगान्साधयेत्ततः ॥२२५॥ततो मौनी पयोभक्षः प्रजपेन्नवलक्षकम् ॥ भेरुंडामन्त्रमुक्तं तु शेषं कुर्यात्प्रयत्नतः ॥२२६॥लक्षत्रयं जपो वह्रिवासिन्याः समुदीरितः ॥ अन्यत्सर्वंपुरा वच्च कार्य्यं साधकसत्तमैः ॥२२७॥महावज्रेश्वरीविद्याजपो लक्षत्रयो मतः ॥ हवनादि दशांशेन कार्यं प्रोक्तक्रमेण हि ॥२२८॥अतंद्रितो जपेल्लक्षमितं दूतीमनुं मुने ॥ तद्दशांशक्रमेणैव होमादिः प्रोक्तमार्गतः ॥२२९॥त्वरितां प्रजपेल्लक्षप्रमितां तद्दशांशतः ॥ कृत्वा होमादिकं सर्वं विद्यासिद्धियै मुनीश्वरः ॥१३०॥जपो लक्षं समाख्यातो होमादिस्तद्दशांशथ ॥ विद्यायाः कुलसुन्दर्याः कर्तव्यो द्विजसत्तम् ॥२३१॥नित्यानित्याजपो विप्रत्रिलक्षप्रमितो मतः ॥ होमादिस्तद्दशांशेन प्रोक्तः प्रोक्तविधानतः ॥२३२॥त्रिपञ्चाशल्लक्षमुक्तो नियमेन मुनीश्वरे ॥ जपो नित्यपताकाया होमादिस्त द्दशांशतः ॥२३३॥विजयाया जपः प्रोक्तो लक्षमानेन नारद ॥ अन्यत्पूर्ववदाख्यांत विद्यासिद्धयै तु साधनम् ॥२३४॥दन्तलक्षप्रमाणेन सर्वमंगलिका जपेत् ॥ तद्दशांशक्रमेणैव होमादि समुदीरितम् ॥२३५॥अष्टलक्षं हविष्याशी ज्वालामालिनिकां जपेत् ॥ होमादिस्तद्दशांशेन प्रोक्तद्रव्यैः समीरितः ॥२३६॥चित्राया भूपलक्षं तु जपो होमादिकस्ततः ॥ प्रोक्तेन विधिना कार्यो विद्यासिद्धयै मुनीश्वर ॥२३७॥एतत्संक्षेपतः प्रोक्तं नित्यापटलमादितः ॥ ज्ञातव्यं सर्वमेवात्र यन्त्रसाधनपूर्वकम् ॥२३८॥इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे नित्यापटलकथनं नाम नवतितमोऽध्यायः ॥९०॥ N/A References : N/A Last Updated : June 06, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP