संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
द्विसप्ततितमोऽध्यायः

श्री नारदीयमहापुराणम् - द्विसप्ततितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


सनत्कुमार उवाच ॥
प्रणवो त्दृदयं विष्णुर्नेन्तः सुरपतिस्तथा ॥ महाबलाय स्वाहांतो मंत्रो वसुधरक्षरः ॥१॥
मुनिरिंदुविराट् छ्न्दो देवता दधिवामनः ॥तारो बीजं तथा शक्तिर्वह्रिजाया प्रकीर्तिता ॥२॥
चंद्राक्षिरामबाणेषु नेत्रसंख्यैर्मनूद्धवैः॥ वर्णैः षडंगं कृत्वा च मूर्ध्नि भाले च नेत्रयोः ॥३॥
कर्णयो र्घ्राणयोरोष्ठतालुकण्ठभुजेषु च ॥ पृष्ठे ह्रद्युदरे नाभौ गुह्ये चोरुस्थले पुनः ॥४॥
जानुद्वयं जङ्वयोश्व पादयोर्विन्यसेत्क्रमात् ॥ अष्टादशैव मंत्रोत्थास्ततो देवं विचिंतयेत् ॥५॥
मुक्तागौरं रत्नभूषं चन्द्रस्थं भृङुसन्निभैः ॥ अलकैर्विलसद्वक्रं कुम्भं शुद्धांबुपूरि तम् ॥६॥
दध्यन्नपूर्णचषकं दोर्भ्यां संदधत्म भजेत् ॥ लक्षत्रयं जपेन्मन्त्रं तद्दशांशं घृतप्लुतैः ॥७॥
पायसान्नैः प्रजुहुयाद्दध्यन्नेन यथाविधि ॥ चन्द्रांते कल्पिते पीठे पूर्वोक्ते पूजयेच्च तम् ॥८॥
संकल्पमूर्तिमूलेन संपूज्य च विधानतः ॥ केसरेषु षडंगानि संपूज्य दिग्दलेषु च ॥९॥
वासुदेवं संकर्षणं प्रद्युम्रमानिरुद्धकम् ॥ कोणपत्रेषु शांतिं च श्रिय सरस्वती रतिम् ॥१०॥
ध्वजं च वैनतेयं च कौस्तुभं वनमालिकम् ॥ शंखं चक्रं गदां शार्ङं दलेष्वष्टसुपूजयेत् ॥११॥
दलाग्रेषु केशवादीन्दिक्पालांस्तदनंतरम् ॥ तदस्त्राणि च सम्पूज्य गजानष्टौ समर्चयेत् ॥१२॥
ऐरावतः पुण्डरीको वामनः कुसुदोंऽजनः ॥ पुष्पदंतः सार्वभौमः सुप्रईकश्व दिग्गजाः ॥१३॥
करिण्योऽभ्रमुकपिलापिंगलानुपमः क्रमात् ॥ ताम्रकर्णी शुभ्रदंती चांगना ह्रंजनावती ॥१४॥
एवमाराधितो मंत्री दद्यादिष्टानि मंत्रिणे ॥ श्रीकामः पायसाज्येन सहस्त्रं जुहुयात्सुधीः ॥१५॥
महतीं श्रियमाप्नोति धान्यप्तिर्धान्य होमतः ॥ शतपुष्पासमुत्थैश्व बीजैर्हुत्वा सहस्त्रतः ॥१६॥
महाभयं नाशयेद्धि नात्र कार्य विचारणा ॥ दद्धयोदनेन शुद्धेन हुत्वा मुच्येत दुर्गतेः ॥१७॥
ध्यात्वा त्रैविक्रमं रुपं जपेन्मंत्र समाहितः ॥ कारागृहाद्धवन्मुक्तो बद्धो मंत्रप्रभावतः ॥१८॥
भित्तौ संपाद्य देवेशं फलके वा प्रपूज येत ॥ नित्यं सुगंधकुसुमैर्महतीं श्रियमाप्नुयात् ॥१९॥
हुत्वा रक्तोत्पलैर्मंत्री वशयेत्सकलं जगत ॥ अन्नाज्यैर्जुहुयान्नित्यमष्टाविंशतिसंख्यया ॥२०॥
सिताज्यान्नं च विधिवत्प्राप्नुयादन्नमक्षयम् ॥ अपूपैः षड्रसोपेतैर्हुनेद्वसुसहस्त्रकम् ॥२१॥
अलक्ष्मीं च पराभूय महतीं श्रियमाप्नुयात् ॥ जुहुयाद युतं मंत्री दध्यन्नं च सितान्वितम् ॥२२॥
यत्र यत्र वसेत्सोऽपि तत्रान्नगिरिमाप्नुयात ॥ पद्माक्षरैर्युतं बिल्वांतिकस्थो जुहुयान्नरः ॥२३॥
महालक्ष्मीं स लभते तत्र तत्र न संशयः ॥ जुहुयात्पायसैर्लक्षं वाचस्पतिसमो भवेत् ॥२४॥
लक्षं जप्त्वा तद्दशांश पुत्रजीवफलैर्हुनेत ॥ तत्काष्ठैरेधित वह्रौ श्रेष्ठं पुत्रमाप्नुयात् ॥२५॥
रसाध्यतारं विलासत्कर्णिकं च सुवर्णकैः ॥ विलसत्केसरं मंत्राक्षरंद्वद्वाष्टपत्रकम् ॥२६॥
शेषयुग्मार्णात्यपत्रं द्वादशाक्षरवेष्टितम् ॥ तद्वहिर्मातृकावणैर्यंत्रं सम्पत्प्रदं नृणाम् ॥२७॥
रक्तं त्रिविकमं ध्यात्वा प्रसूनै रक्तवर्णकैः ॥ जुहुयादयुतं मंत्री सर्वत्र विजयी भवेत् ॥२८॥
ध्यायेच्चंद्रासनगतं पद्मानामयुतं हुनेत ॥ लभेदकंटकं राज्यं सर्वलक्षणसंयुतम् ॥२९॥
हुत्वा लवंगैर्मध्वाक्तैरपामार्गदलैस्तु वा ॥ अयुतं साध्यना माढ्यं स वश्यो जायते ध्रुवम् ॥३०॥
अष्टोत्तरशतं हुत्वा ह्यपामार्गदलैः शुभैः ॥ तावजप्त्वा च सप्ताहान्महारोगात्प्रमुच्यते ॥३१॥
उहिरत्पदमा भाष्य प्रणवोहीय शब्दतः ॥ सर्ववागीश्वरेत्यंते प्रवदीदीश्वरेत्यथ ॥३२॥
सर्ववेदमयाचित्यपदान्ते सर्वमीरयेत ॥ बोधयद्वितवांतोऽयं मन्त्रस्तारादिरी रितः ॥३३॥
ऋषिर्ब्रह्मास्य निर्दिष्टछंदोऽनुष्टुदाह्रतम् ॥ देवता स्याद्धयग्रीवो वागैश्वर्यप्रदो विभुः ॥३४॥
तारेण पादैर्मंत्रस्य पञ्चांगानि प्रकल्प येत् ॥ तुषारद्रिसमच्छायं तुलसीदामभूषितम् ॥३५॥
तुरंगवदनं वंदे तुंगसारस्वतः पदम् ॥ ध्यात्वैवं प्रजपेन्मंत्रमयुतं तद्दशांशतः ॥३६॥
मध्वकैः पायसिर्हुत्वा विमलादिसमन्विते ॥ पूजयेद्वैष्णवे पीठे मूर्ति संकल्प्य मूलतः ॥३७॥
कर्णिकायां चतुर्दिक्षु यजेत्पूर्वादितः क्रमात् ॥ संनदनं च सनकं श्रिय च पृथिवीं तथा ॥३८॥
तद्वहिर्दिक्षु वेदाश्व षट्कोणेषु ततोऽर्चयेत् ॥ निरुक्तं ज्योतिषं पश्वाद्यजेद्वयाकरणं ततः ॥३९॥
कल्पं शिक्षाम च छंदांसि वेदांगानि त्विमानि वै ॥ ततोऽष्टदलमूले तु मातरोऽष्टौ समर्चयेत् ॥४०॥
वक्रतुडादिकानष्टौ दलमध्ये प्रपूजयेत् ॥ द्लाग्रेष्वर्चयेत्प श्रात्साधकश्वाष्टभैरवान् ॥४१॥
असितांग रुरुं चैव भीषण रक्तनेत्रकम् ॥ बटुकं कालदमनं दंतुरं विकटं तथा ॥४२॥
तद्वहिः षोडशदलेष्ववतारान्हरेर्दश ॥ शंख चक्रं गदां नंदकं शार्ङमेव च ॥४३॥
तद्वाहिर्भूगृहे शक्रमुखान्दश दिगीश्वरान् ॥ वज्राद्यांस्तद्वहिश्वेष्टा द्वारेषु च ततः क्रमात् ॥४४॥
महागणपतिं दुर्गां क्षेत्रेशं बटुकं तथा ॥ समस्तप्रकटाद्याश्व योगिन्यस्तद्वहिर्भवेत् ॥४५॥
तद्वहिः सप्त नद्यश्व तद्वाह्ये तु ग्रहान्नव ॥ तद्वाह्ये पर्वतानष्टौ नक्षत्राणि च तद्वहिः ॥४६॥
एव पंचदशावृत्त्या संपूज्य तुरगाननम् ॥ वागीश्वरसमो वाचि धनैर्धनपतिर्भवेत् ॥४७॥
एवं सिद्धे मनौ मंत्री प्रयोगान्कर्तुमर्हति ॥ अष्टोत्तरसहस्त्र तु शुद्ध वार्यभिमंत्रितम् ॥४८॥
बीजेन मासमात्रं यः पिबेद्धीमान् जितन्दियः ॥ जन्ममूकोऽपि स नरो वाक्सिद्धिं लभते ध्रुवम् ॥४९॥
वियद्वगुस्थमर्धीराबिंदुमद्वीजमीरितम् ॥ चंद्रसूर्योपरागे तु पात्रे रुक्ममये क्षिपेत ॥५०॥
दुग्धं वचां ततो मंत्री कंठमात्रोदके स्थितः ॥ स्पर्शाद्विमोक्षपर्यंत प्रजपेन्मंत्रमादरात ॥५१॥
पिबेत्तत्सर्वमचिरात्तस्य सारस्वतं भवेत् ॥ ज्योतिष्मतीलताबीजं दिनेष्वेकैकवर्द्धितम् ॥५२॥
अष्टोत्तरशतं यावद्धक्षयेदभिमंत्रितम् ॥ सरस्वत्यवतारोऽसौ सत्यं स्याद्धुवि मानवः ॥५३॥
किं बहूक्तेन विप्रेंद्र मनोरस्य प्रसादतः ॥ सर्ववेदागमादीनां व्याख्याता ज्ञानावान् भवेत् ॥५४॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहपाख्याने सनत्कुमारविभागे तृतीयपादे हयग्रीवोपासनानिरुपणं नाम द्विसप्ततितमोऽध्यायः ॥७२॥

N/A

References : N/A
Last Updated : June 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP