श्री नारदीयमहापुराणम् - नवोतरशततमोऽध्यायः
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
ब्रह्योवाच ॥
श्रृणु वत्स प्रवक्ष्यामि ब्रह्यांडाख्यं पुरातनम् ॥ यच्च द्वादशसाहस्त्रमादिकल्पक थायुतम् ॥१॥
प्रक्रियाख्योऽनूषंगाख्य उपोद्धातस्तृतीयकः ॥ चतुर्थ उपसंहारः पादाश्वत्वार एव हि ॥२॥
पूर्वपादद्वयं पूर्वो भागोऽत्र समुदाहृतः ॥ तृतीयो मध्यमो भागश्वतुर्थस्तूत्तरो मतः ॥३॥
आदौ कृत्यसमुद्देशो नैमिषाख्यानकं ततः ॥ हिरण्यगर्भोत्पत्तिश्व लोककल्पनमेव च ॥४॥
एष वै प्रथमः पादो द्वितीयं श्रुणु मानद ॥ कल्पमन्वन्तराख्यांन लोकज्ञानं ततः परम् ॥५॥
मानसीसृष्टिकथनं रुद्रप्रसववर्णनम् ॥ महादेवविभूतिश्व ऋषिसर्गस्ततः परम् ॥६॥
अग्नीनां विजयश्वाथ कालसद्धाववर्णनम् ॥ प्रियव्रतान्वयोद्देशः पृथिव्यायामविस्तरः ॥७॥
वर्णनं भारतस्यास्य ततोऽन्येषां निरुपणम् ॥ जम्ब्यादिसप्तद्वीपाख्या ततोऽधोलोकवर्णनम् ॥८॥
उर्द्धलोकानुकथनं ग्रहचारस्ततः परम् ॥ आदित्यव्यूहकथनं देवग्रहानु कीर्तनम् ॥९॥
नीलकंठाह्रयाख्यानं महादेवस्य वैभवम् ॥ अमावास्यानुकथंन युगतत्त्वनिरुपणम् ॥१०॥
यज्ञप्रवर्तनं चाथ युगयोरंत्ययोः कृतिः ॥ युगप्रजालक्षणं च ऋषिप्रवरवर्णनम् ॥११॥
वेदानां व्यसनाख्यानं स्वायम्भुवनिरुपणम् ॥ शेषन्वंतराख्यानं पृथिवीदोहनं ततः ॥१२॥
चाक्षुषेऽद्यतने सर्गे द्वितीयोऽङ्घ्रिः पुरोदले ॥ अथोपोद्धातपादे तु सप्तर्षिपरिकीर्तनम् ॥१३॥
प्रजापत्यन्वस्तस्माद्देवादीनाम समुद्धवः ॥ ततो जयाभिलाषश्व मरुदुत्पत्तिकीर्तनम् ॥१४॥
काश्यपेयानुकथनं ऋषिवंशनिरुपणम् ॥ पितृकल्पानुकथनं श्राधकल्पस्ततः परम् ॥१५॥
वैवस्वसमुत्पत्तिः सृष्टिस्तस्य ततः परम् ॥ मनुपुत्रान्वयश्वांतो गान्धर्वस्य निरुपणम् ॥१६॥
इक्ष्वाकुवंशकथनं वंशोऽत्रेः सुमहात्मनः ॥ अमावसोरन्वयश्व रजेश्चरितमद्धुतम् ॥१७॥
ययातिचरितं चाथ यदुवंशनिरुपणम् ॥ कार्तवीर्यस्य चरितं जामदग्न्यं ततः परम् ॥१८॥
वृष्णिवंशानुकथनं सगर स्याथ संभवः ॥ भार्गवस्यानुचरितं पितृकार्यवधाश्रयम् ॥१९॥
सगरस्याथ चरितं भार्गवस्य कथा पुनः ॥ देवासुराहवकथा कृष्णाविर्भाववर्णनम् ॥२०॥
इंद्रस्य तु स्तवः पुण्यः शुक्रेण परिकीर्तितः ॥ विष्णुमाहात्म्यकथनं बलिवंशनिरुपणम् ॥२१॥
भविष्यराजचरितं संप्राप्तेऽथ कलौ युगे ॥समुपोद्धातपादोऽयं तृतीयो मध्यमे दले ॥२२॥
चतुर्थमुपसंहारं वक्ष्ये खण्डे तथोत्तरे ॥ वैवस्वतांतरख्यानं विस्तरेण यथातथम् ॥२३॥
पूर्वमेव समुद्दिष्टं संक्षेपादिह कथ्यते ॥ भविष्याणां मनूनां च चरितं हि ततः परम् ॥२४॥
कल्पप्रलयनिर्देशः कालमानं तत परम् ॥ लोकाश्वतुर्द्दश ततः कथिताः प्राप्तलक्षणैः ॥२५॥
वर्णनं नरकाणाम च विकर्माचरणैस्ततः ॥ मनोमयपुराख्यांन लयः प्राकृतिकस्ततः ॥२६॥
शैवस्याथ पुरस्यापि वर्णन च ततः परम् ॥त्रिविधा गुणसंबधाज्जंतूनां कीर्तिता गतिः ॥२७॥
अनिर्देश्याप्रतर्क्यस्य ब्रह्मणः परमात्मनः ॥ अन्वयव्यतिरेकाभ्यां वर्णनं हि ततः परम् ॥२८॥
इत्येष उपसंहारपादो वृत्तः सहोत्तरः ॥ चतुष्पादं पुराणं ते ब्रह्माण्डं सभुदाहृतम् ॥२९॥
अष्टादशमनौपम्यं सारात्सारतरं द्वीज ॥ ब्रह्मांड यच्चतुर्लक्षं पुराणं येन पठ्यते ॥३०॥
तदेतदस्य गदितमत्राष्टादशधा पृथक् ॥ पराशर्येण मुनिना सर्वेषामपि मानद ॥३१॥
वस्तुतस्तपदेष्ट्राथ मुनीनां भावितात्मनाम् ॥ मत्तःश्रुत्वा पुराणानि लोकेभ्यः प्रचकाशिरे ॥३२॥
मुनयो धर्मशीलास्ते दीनानुग्रहकारिणः ॥ मया चेंद्र पुराणां तु वसिष्ठाय पुरोदितम् ॥३३॥
तेन शक्तिसुतायाक्त जातूकण्याय तेन च ॥ व्यासा लब्ध्वा ततश्वतत्प्रभंजनमुखोद्धतम् ॥३४॥
प्रमाणीकृत्य लोकेऽस्मिन्प्रावर्तयदनुत्तमम् ॥ य इदं कीतयेद्वत्स श्रूनोति च समाहितः ॥३५॥
स विधूयेह याति लोकमनामयम् ॥ लिखित्वैतत्पुराणे तु स्वर्णसिंहासनास्थितम् ॥३६॥
वस्त्रेणाच्छदितं यस्तु ब्राह्यणाय प्रयच्छति ॥ स याति ब्रह्यणो लोकं नात्र कार्या विचारणा ॥३७॥
मरीचेऽष्टादशैतानि मया प्रोक्तानि यानि ते ॥ पुराणानि तु संक्षेपाच्छ्रोतव्यानि च विस्तरात् ॥३८॥
अष्टादश पुराणानि यः श्रृणोति नरोत्तमः ॥ कथयेद्वा विधानेन नेह भूयः स जायते ॥३९॥
सूत्रमेतत्पुराणानां यन्मयोक्तं तवाधुना ॥ तन्नित्यं शीलनीयं हि पुराणाफलमिच्छता ॥४०॥
न दांभिकाय पापाय देवगुर्वनुसूयवे ॥ देयं कदापि साधूनां द्वेषिणे न शठाय च ॥४१॥
शांताय शमचित्ताय शुश्रूषाभिरताय च ॥ निर्मत्सराय शुचये देयं सद्वैष्णवाय च ॥४२॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे ब्रह्माण्डपुराणानुक्रमणीनिरुपणं नाम नवोतरशततमोऽध्यायः ॥१०९॥
N/A
References : N/A
Last Updated : June 06, 2011
TOP