सूत उवाच ॥ भगवद्भक्तिमाहात्म्यं श्रुत्वा प्रीतस्तु नारदः॥ पुनः पप्रच्छ सनकं ज्ञानविज्ञानपारगम् ॥१॥
नारद उवाच ॥ क्षेत्राणामुत्तमं क्षेत्रं तीर्थानां च तथोत्तमम् ॥ परया दयया तथ्य ब्रूहि शास्त्रार्थपारग ॥२॥
सनक उवाच ॥ शृणु ब्रह्मन्परं गृह्यं सर्वसंपत्करं परम् ॥ दुःस्वप्नाशनं पुण्य धर्म्यं पापहरं शुभम् ॥३॥
श्रोतव्यं मुनिभिर्नित्यं दुष्टग्रहनिवारणम् ॥ सर्वरोगप्रशमनमायुर्वर्द्धनकारणम् ॥४॥
क्षेत्राणामुत्तमं क्षेत्रं तीर्थानां च तथोत्तमम् ॥ गङ्गायमु नयोर्योगं वदन्ति परमर्षयः ॥५॥
सितासितोदकं तीर्थं ब्रह्माद्याः सर्वदेवताः ॥ मुनयो मनवश्चैव सेवन्ते पुण्यकाङ्क्षिणः ॥६॥
गङ्गा पुण्यनदी ज्ञेयायतो विष्णुपदोद्भवा ॥ रविजा यमुना ब्रह्मंस्तयोर्योगः शुभावहः ॥७॥
स्मृतार्तिनाशिनी गङ्गा नदीनां प्रवरा मुने ॥ सर्वपापक्षयकरी सर्वोपद्र वनाशिनी ॥८॥
यानि क्षेत्राणि पुण्यानि समुद्रान्ते महीतले ॥ तेषां पुण्यतमं ज्ञेयं प्रयागाख्यं महामुने ॥९॥
इयाज वेधा यज्ञेन यत्र देवं रमापितम् ॥ तथैव मुनयः सर्वे चक्रुश्च विविधान्मखान् ॥१०॥
सर्वतीर्थाभिषेकाणि यानि पुण्यानि तानि वै ॥ गङ्गाबिन्द्वभिषेकस्य कलां नार्हन्ति षोडशीम् ॥११॥
गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शते स्थितः॥ सोऽपि मुच्यते पापेभ्यः किमु गङ्गाभिषेकवान् ॥१२॥
विष्णुपादोद्भवा देवी विश्वेश्वर शिरःस्थिता ॥ संसेव्या मुनिभिर्देवः किं पुनः पामरैर्जनैः ॥१३॥
यत्सैक्तं ललाटे तु ध्रियते मनुजोत्तमैः॥ तत्रैव नेत्रं विज्ञेयं विध्वद्धार्धः समुज्ज्वलत् ॥१४॥
यन्मज्जनं महापुण्यं दुर्लभं त्रिदिवौकसाम् ॥ सारूप्यदायकं विष्णोः किमस्मात्कथ्यते परम् ॥१५॥
यत्र स्राताः पापिनोऽपि सर्वपापविवर्जिताः ॥ महद्विमानमारूढाः प्रयान्ति परमं पदम् ॥१६॥
यह स्राता महात्मानः पितृमातृकलानि वै ॥ सहस्राणि समुद्धृत्य विष्णुलोके व्रजन्ति वै ॥१७॥
स स्रातः सर्वतीर्थेषु यो गङ्गां स्मरति द्विज ॥ पुण्यक्षत्रेषु सर्वेषु स्थितवान्नात्र संशयः ॥१८॥
यत्र स्रातं नरं दृष्ट्वा पापोऽपि स्वर्गभूमिभाक् ॥ मदङ्गस्पशेमात्रेण दवानामाधपो भवेत् ॥१९॥
तुलसीमूलसंभूता द्विजपादोद्भवा तथा ॥ गङ्गोद्भवा तु मृल्लोकान्नयत्यच्युतरूपताम् ॥२०॥
गङ्गा च तुलसी चैव हरिभक्तिरचञ्चला ॥ अत्यन्तदुर्लभा नृणं भक्तिर्द्धर्मप्रवक्तरि ॥२१॥
सद्धर्मवक्तुः पदसंभवां मृदं यङ्गोद्भवां चैव तथा तुलस्याः॥ मूलोद्भवां भक्तियुतो मनुष्यो धृत्वा शिरस्येति पदं च विष्णोः ॥२२॥
कदा यास्याम्यहं गङ्गां कदा पश्यामितामहम् ॥ वाञ्च्छत्यपि च यो ह्येवं सोऽपि विष्णुपदं व्रजेत् ॥२३॥
गङाया महिमा ब्रह्मन्वक्तुं वर्षशतैरपि ॥ न शक्यते विष्णुनापि किमन्यैर्बहुभाषितैः ॥२४॥
अहो माया जगत्सर्वं मोहयत्येतदद्भुतम् ॥ यतो वै नरकं यान्ति गङ्गानाम्नि स्थितेऽपि हि ॥२५॥
संसारदुःख विच्छेदि गङ्गानाम प्रकीर्तितम् ॥ तथा तुलस्या भक्तिश्च हरिकीर्तिप्रवक्तरि ॥२६॥
सकृदप्युच्चरेद्यस्तु गङ्गेत्येवाक्षरद्वयम् ॥ सर्व पापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥२७॥
योजनत्रितयं यस्तु गङ्गायामधिगच्छति ॥ सर्वपापविनिर्मुक्तः सूर्यलोकं समेति हि ॥२८॥
सेयं गङ्गा महापुण्या नदी भक्तया निषेविता ॥ मेषतौलिमृगाकेंषु नावयत्यखिलं जगत् ॥२९॥
गोदावरी भीमरथी कृष्णा रेवा सरस्वती ॥ तुङ्गभद्रा च कावेरी कालिंन्दी बाहुदा तथा ॥३०॥
वेत्रवती ताम्रपर्णी सरयूश्च द्विजोत्तम ॥ एवमादिषु तीर्थेषु गङ्गा मुख्यतमा स्मृता ॥३१॥
यथा सर्वगतो विष्णुर्जग व्द्याप्य प्रतिष्ठितः॥ तथेयं व्यापिनी गङ्गा सर्वपापप्रणाशिनी ॥३२॥
अहो गङ्गा जगद्धात्री स्नानपानादिभिर्जगत् ॥ पुनाति पावनीत्येषा न कथं सेव्यते नृभिः ॥३३॥
तीर्थानामुत्तम॥ तीर्थं क्षेत्राणां क्षेत्रमुत्तमम् ॥ वाराणसीति विख्यातं सर्वदेवनिषेवितम् ॥३४॥
ते एव श्रवणे धन्ये संविदाते बहुश्रुतम् ॥ इह श्रुतिमतां पुंसां काशी याभ्यां श्रुताऽसकृत् ॥३५॥
ये यं स्मरन्ति संस्थानमविमुक्तं द्विजोत्तमम् ॥ निर्धूतसर्वपापारते शिवलोकं व्रजन्ति वै ॥३६॥
योजनानां शतस्थोऽपि अविमुक्तं स्मरेद्यदि ॥ बहुपातकपूर्णोऽपि पदं गच्छत्यनामयम् ॥३७॥
प्राणप्रयाणसमये योऽविमुक्तं स्मरेद्दिज ॥ सोऽपि पापविनिर्मुक्तः शैवं पदमवाप्नुयात् ॥३८॥
काशीस्मरणजं पुण्यं भुक्त्वा स्वर्गे तदन्ततः ॥ पृथिव्यामेकराड् भूत्वा काशीं प्राप्य च मुक्तिभाक् ॥३९॥
बहुनात्र किमुक्तेन वाराणरया गुणान्प्रति ॥ नामापि गृह्णतां काश्याश्चतुर्वर्गो न दूरतः ॥४०॥
गङ्गायमुनयोर्योगोऽधिकः काश्या अपिद्विज ॥ यस्य दर्शनमात्रेण नरा यान्ति परां गतिम् ॥४१॥
मकरस्थे रवौ गङ्गा यत्र कुत्रावगाहिता ॥ पुनाति स्नानपानाद्यैर्नयन्तीन्द्रपुरं जगत् ॥४२॥
यो गङ्गां भजते नित्यं शंकरो लोकशंकरः ॥ लिङ्गरूपी कथं तस्या महिमा परिकीर्त्यते ॥४३॥
हरिरूपधरं लिङ्गं लिङ्गरूपधरो हरिः ॥ ईषदप्यन्तरं नास्ति भेदकृच्चानयोः कुधीः ॥४४॥
जनादिनिधने देवे हरिशंकरसंज्ञिते ॥ अज्ञानसागरे मग्ना भेदं कुर्वन्ति पापिनः ॥४५॥
यो देवो जगतामी शः कारणानां च कारणम् ॥ युगान्ते निगदन्त्येतद्रुद्ररूपधरो हरिः॥४६॥
रुद्रो वै विष्णुरूपेण पालयत्यखिलंजगत् ॥ ब्रह्मरूपेण सृजति प्रान्ते हयेतत्रयंहरः ॥४७॥
हरिशंकरयोर्मध्ये ब्रह्मणश्चापि यो नरः॥ भेदं करोति सोऽभ्येति नरकं भृशदारुणम् ॥४८॥
हरं हरिं विधातारं यः पश्यत्येकरूपिणम् स याति परमानन्दं शास्त्राणामेष निश्चयः॥४९॥
योऽसावनादिः सर्वज्ञो जगतामादिकृद्विभुः॥ नित्यंसंनिहितस्तत्र लिङ्गरूपी जनार्दनः ॥५०॥
काशीविश्वेश्वरं लिङ्गंज्योतिर्लिङ्ग तदुच्यते ॥ तं दृष्ट्वा परमं ज्योतिराप्नोति मनुजोत्तमः॥५१॥
काशीप्रदक्षिणा येन कृता त्रैलोक्यपावनी ॥ सप्तद्वीपा साब्धिशैला भूः परि क्रमितामुना ॥५२॥
धातुमृद्दारुपाषाणलेख्याद्या मूर्तयोऽमलाः॥ शिवस्य वाच्युतस्यापि तासु संनिहितो हरिः॥५३॥
तुलसीकाननं यत्र यत्र पद्मवनं द्विज ॥ पुराणपठनं यत्र तत्र संनिहितो हरिः॥५४॥
पुराणंसंहितावक्ता हरिरित्यभिधीयते ॥ तद्भक्तिं कुर्वतां नृणां गङ्गास्नानं दिने दिने ॥५५॥
पुराण श्रवणे भार्क्तर्गङ्गास्नानसमा द्विज ॥ तद्वक्तरि च या भक्तिः सा प्रयागोपमा स्मृता ॥५६॥
पुराणधर्मकथनैर्यः समुद्धरते जगत् ॥ संसारसागरे मग्नं स हरिः परिकीर्तितः ॥५७॥
नास्ति गङ्गासमं तीर्थं नास्ति मातृसमो गुरुः ॥ नास्ति विष्णुसमं दैवं नास्ति तत्त्वं गुरोः परम् ॥५८॥
वर्णानां ब्राह्मणः श्रेष्ठस्तारकाणां यथा शशी ॥ यथा पयोधिः सिन्धूनां तथा गङ्गा परा स्मृता ॥५९॥
नास्ति शान्तिसमो बन्धुर्नास्ति सत्यात्परं तपः ॥ नास्ति मोक्षत्परो लाभो नास्ति गङ्गासमा नदी ॥६०॥
गङ्गायाः परमं नाम पापारण्यदवानलः ॥ भवव्याधिहरा गङ्गा तस्मात्सेव्या प्रयत्नतः ॥६१॥
गायत्री जाह्नवी चोभे सर्वपापहरे स्मृते ॥ एतयोर्भक्तिहीनो यस्तं विद्यात्पतितं द्विज ॥६२॥
गायत्री छन्दसां माता माता लोकस्य जाह्नवी ॥ उभे ते सर्व पापानां नाशकारणतां गते ॥६३॥
यस्य प्रसन्ना गायत्री तस्य गङ्गा प्रसीदति ॥ विष्णुशक्तियुते ते द्वे समकामप्रसिद्धिदे ॥६४॥
धर्मार्थकामरूपाणां फलरूपे निरञ्जने ॥ सर्वलोकानुग्रहार्थ प्रवर्तेते महोत्तमे ॥६५॥
अतीव दुर्ल्लभा नृणां गायत्री जाह्नवी तथा ॥ तथैव तुलसीभक्तिर्हरिभक्तिश्च सात्त्विकी ॥६६॥
अहो गङ्गा महाभागा स्मृता पापप्रणाशिनी ॥ हरिलोकप्रदा दृष्टा पीता सारूप्यदायिनी ॥
यत्र स्नाता नरा यान्ति विष्णोः पदमनुत्तमम् ॥६७॥
नारायणो जगद्धाता वासुदेवः सनातनः ॥ गङ्गास्नानपराणां तु वाञ्छितार्थफलप्रदः॥६८॥
गङ्गाजलकणेनापि यः सिक्तो मनुजोत्तमः ॥ सर्वपापविनिर्मुक्तः प्रयाति परमं पदम् ॥६९॥
यद्बिन्दुसेवनादेव सगरान्वयसम्भवः ॥ विसृज्य राक्षसं भावं संप्राप्तः परमं पदम् ॥७०॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामहात्म्यं नाम षष्ठोऽध्यायः॥६॥