संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः| सप्तषष्टितमोऽध्यायः श्री नारदीयमहापुराणम् : पूर्वभागः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पंचविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पंचत्रिशोंऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पश्वचत्वारिशत्तमोऽध्यायः षट्रचत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोध्यायः पञ्चाशत्तमोऽध्यायः एकपंचाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषाष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुष्षष्टितमोऽध्यायः पञ्चषष्टिमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षटसप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्याय एकोनाशीतितमोऽध्यायः नामाशीतितमोऽध्यायः नामैकाशीतितमोऽध्यायः व्द्यशीतितमोऽध्यायः त्र्यशीतितमोऽधायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः नामाष्टाशीतितमोऽध्यायः नामैकोननवतितमोऽध्यायः नवतितमोऽध्यायः नामैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः नामाष्टनतितमोऽध्यायः नामैकोनशततमोऽध्यायः शततमोऽध्यायः नामैकोत्तरशततमोऽध्यायः द्वयुत्तरशततमोऽध्यायः त्र्युत्तरशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडुत्तशततमोऽध्यायः सप्तोत्तशततमोऽध्यायः नामाष्टोत्तरशततमोऽध्यायः नवोतरशततमोऽध्यायः दशोत्तरशततमोऽध्यायः नामैकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाघिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशदधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशतमोऽध्यायः पंचविंशोत्तरशततमोऽध्यायः श्री नारदीयमहापुराणम् - सप्तषष्टितमोऽध्यायः `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण सप्तषष्टितमोऽध्यायः Translation - भाषांतर सनत्कुमार उवाच ॥अथ वक्ष्ये देवपूजां साधकभीष्टसिद्धिदाम् ॥ त्रिकोणं चतुरस्त्रं वा वामभागे प्रकल्प्य च ॥१॥सम्पूज्या स्त्रेण संक्षाल्य ह्रदाधारं निधाय च ॥ तत्राग्निमण्डलं चेद्वा पात्रं संक्षाल्य चास्त्रतः ॥२॥आधारे नमसं स्थाप्य तत्र चेद्रविमंडलम् ॥ विलोममातृकामूलमुच्चरन्पूरशेज्जलैः ॥३॥तत्रेंदुमांप्राच्यताथान्यावाह्य पूर्ववत् ॥ गोमुद्रयामृतीकृत्य कवचेनागुंठ्येत् ॥४॥संक्षालास्त्रेण प्रणवं तदुपर्यष्टधा जपेत् ॥ सामान्याघमिंद प्रोक्तं सर्वसिद्धिकरं नृणाम् ॥५॥तज्जलं किंचिदुद्धृत्य प्रोक्षिण्यां साधकोत्तमः ॥आत्मानं यागवस्तूनि तेन संप्रोक्षयेत्पृथक् ॥६॥आत्मवामाग्रतः कुर्यात्षटोणांतस्त्रिकोणकम् ॥ चतुरस्त्रेण संवेष्टय संक्षाल्यार्घोदकेन च ॥७॥ततस्तु साधकश्रेष्ठः स्तंभयेच्छंखमुद्रया ॥ आग्नेयादिषु कोणेषु ह्रदाद्यंगचतुष्टयम् ॥८॥नेत्रं मध्ये दिक्षु चास्त्रं त्रिकोणे पूजयेत्ततः ॥ मूलखंडत्रयेनाथा घारशक्तिं तु मध्यगाम् ॥९॥एवं सपूज्य विधिवदस्त्रसंक्षालितं त्द्ददा ॥ प्रतिष्ठाप्य त्रिपदिकां पूजयेन्मनुनामुना ॥१०॥मं वह्रिमण्डला येति ततो दशकलात्मने ॥ असुकार्द्ध्येति पात्रांते सनापह्रदयोंऽतिमे ॥११॥चतुर्विशतिवर्णोऽयमाधरस्यार्चने मनुः ॥ स्वमंत्रक्षालितं शंखं संस्थाप्याथ समर्चयेत् ॥१२॥तारः कार्म्ममहांस्ते तु ततो जलचराय च ॥ वर्म फटू ह्रदयं पांचजन्याय त्द्ददयं मनुः ॥१३॥तत्रार्कमण्डलायेति द्वादशांते कलासाने ॥ असुकार्घ्येति पात्रांते नमोंतस्त्र्याक्षिवर्णवान् ॥१४॥सम्पूज्य तेन तत्रार्चेद्दादशार्ककलाः क्रमात् ॥ ततः शुद्धजलैर्मूलं विलोममातृकां पठन् ॥१५॥शङ्खमापूरयेतस्मिन्पूजयेन्मनुनामुना ॥ ॐ सोममण्डललायेति षोडशांते कलात्मने ॥१६॥असुका र्घ्यामृतायेति हन्मनुश्वार्घ्यपूजने ॥ तत्र षोडसंख्याका यजेच्चंद्रमसः कलाः ॥१७॥ततस्तु तीर्थान्यावाह्य गङे चेत्यादिपूर्ववत् ॥ गोमुद्रयामृती कृत्याच्छादयेन्मत्स्यमुद्रया ॥१८॥कवचेनावगुंठ्याथ रक्षेदस्त्रेण तत्पुनः ॥ चिंतायित्वेष्टदेवं च ततो मुद्राः प्रदर्शयेत् ॥१९॥शङ्खमौ शलचक्राख्याः परमीकरण्म ततः ॥ महामुद्रां योनिमुद्रां दर्शयेत्क्रमतः सुधीः ॥२०॥गारुडी गालिनी चैव मुख्ये मुद्रे प्रकीर्तीते ॥ गन्धपुष्पादिभि स्त पूजयेद्देवतां स्मरन् ॥२१॥अष्टकृत्वो जपेन्मूलं प्रणवं चाष्टधा तथा ॥ शंखाद्दक्षिणदिग्भागे प्रोक्षणीपात्रमादिशेत् ॥२२॥प्रोक्षण्यां तज्जलं किंचित्कृत्वात्त्मानं त्रिधा ततः ॥ आत्मतत्त्वात्मने हच्च विद्यात्त्वामने नमः ॥२३॥शिवतत्त्वात्मने हच्च इत्येतैर्मनुभिस्त्रिभिः ॥ प्रोक्षेत्पुष्पाक्ष तैश्वापि मण्डलं विधिवत्सुधीः ॥२४॥अथवा मूलगायत्र्या पूजाद्रव्याणि प्रोक्षयेत् ॥ पाद्यार्घ्यचमनीयार्थं मधुपर्कार्थमप्युत ॥२५॥पात्राण्याधा स्युक्तानि स्थापयेद्विधिना पुरः ॥ पाद्यं श्यामाकदूर्वाब्जविष्णुक्रांतजलैः स्मृतम् ॥२६॥अर्घ्यं पुष्पाक्षतयवैः कुशाग्रतिलर्सर्षपैः ॥ गंधदूर्वादलैः प्रोक्तं ततश्वाचमनीयकम् ॥२७॥जातीफलं च कंकोलं लवंगं च जलान्वितम् ॥ क्षौंद्राज्यदधिसंमिश्रं मधुपर्कसमीरितम् ॥२८॥एकस्मिन्नथवा पात्रे पाद्यादिनि प्रकल्पयेत् ॥ शंकरार्कार्चने शंखमयेनैव प्रशस्यते ॥२९॥श्वेताकृष्णारुणापीताश्मामारक्तासितासिताः ॥ रक्तांबराभयकरा ध्येयास्स्युः पीठशक्तयः ॥३०॥ स्वर्णादिलिखेत यंत्रे शालग्रामे मणौ तथा ॥ विधिना स्थापिताया वा प्रतिमायां प्रपूजयेत् ॥३१॥अंगुष्ठा दिवितत्यंतमाना स्वर्णादिधातुभिः ॥ निर्मिता शुभदा गेहे पूजनाय दिने दिने ॥३२॥ वक्रां द्ग्धां खंडितां च भिन्नमूर्द्धदृशं पुनः ॥ स्पृष्टां वाप्य न्त्यजाडौभ प्रतिमा नैव पूजयेत् ॥३३॥बाणादिलिंगे वाभ्यर्चेत्सर्वलक्षणलक्षिते ॥ मूलेन मूर्ति संकल्प ध्यात्वा देवं यथोदितम् ॥३४॥आवाहा पूजयेतस्यां परिवारगणैः सह ॥ शालग्रामे स्थापितायां नावाहनविसर्जने ॥३५॥पुष्पांजलिं समादाय ध्यात्वा मंत्रमुदीरेयेत् ॥३६॥आत्मंसंश्तमजं शुद्धं त्वामहं परमेश्वर ॥ अरण्यामिव हव्याशं मूर्तावावह्याम्यहम् ॥३७॥तवेयं हि महामूर्तिस्तस्यां त्वां सर्वगं प्रभो ॥ भक्तिसेहसमाकृष्टें दीपवत्स्थापयाम्यहम् ॥३८॥सर्वांतर्यामिणे देवं सर्वबीजमय शुभम् ॥रवात्मस्थाय परं शुद्धमासनं कल्पया ध्यहम् ॥३९॥अनन्या तव देवेश मूर्तिशक्तिरियं प्रभो ॥ सांनिध्यं कुरु तस्यां त्वं भक्तानुग्राहकारकः ॥४०॥अज्ञानादुत मत्तत्त्वाद्वैतल्यात्साध नस्य च ॥ यच्चपूर्णं भवेत्कल्पं तयाप्याभिमुखो भव ॥४१॥दृशा पीयूषवर्षिण्या पूरयन्यज्ञविष्टरे ॥ मूर्तौ वा यज्ञसंपूर्त्यै स्थितो भव महेश्वर ॥४२॥अभक्तवाङ्मनश्वक्षुः श्रोत्रदूरायितद्युते ॥ स्वतेजः पंजरेणाशु वेष्टितो भव सर्वतः ॥४३॥यस्य दर्शमनिम्च्छंति देवाः स्वाभीष्टदिद्धये ॥ तस्मै ते परमेशाय स्वागंत स्वागतं च से ॥४४॥कृतार्थोऽनुगृहीतोऽस्मि सफलं जीवितं मम ॥ आगतो देवदेवेशः सुखागतमिदं पुनः ॥४५॥यद्धक्ति लेरासंपर्कात्परमानंदसंभवः ॥ तस्यै परणाब्जाय पाद्यं शुद्धाय कल्प्यते ॥४६॥वेदानामपि वेदाय देवानां देवतात्मने ॥ आचामं कल्प यामीश शुद्धानाशुधिहेतवे ॥४७॥तापत्रयहरं दिव्यं परमानन्दलक्षणम् ॥ तापत्रविनिर्सुत्त्यै तवार्घ्यं कल्पयाम्यहम् ॥४८॥सर्वकालुष्यहीनाय परिपूर्णसुखात्मने ॥ मधुपर्कमिदं देव कल्पयामि प्रसीद मे ॥४९॥च्छिष्टोऽप्यशुचिर्वापि यस्य स्मरणमात्रतः ॥ शुद्धिमाप्नोति तस्मै ते पुनरा चमनीकम् ॥५०॥स्त्रेहं गृहाण लोकनाथ महाशय ॥ सर्वलोकेषु शुद्धात्मन्ददामि स्नेहमुत्तमम् ॥५१॥परमानंबोधाब्धिनिमग्ननिजमूर्तये ॥ सांगोपांगामिदं स्नानं कल्पयाम्यहमीश ते ॥सहस्त्रं वा शतं वापि यथाशक्तयादरेण च ॥५२॥गन्धपुष्पादिकैरीश मनुनां चाभिषिंचयेत् ॥५३॥मायाचि त्रपटच्छान्ननिजगुह्योरुतेजसे ॥ निरावरणविज्ञान वासस्ते कल्पयाम्यहम् ॥५४॥यमाश्रित्य म हामाया जगत्संमोहिनी सदा ॥ तस्मै ते परमेशाय कल्पयाम्युत्तरीयकम् ॥५५॥रक्तं शक्तर्कविघ्नेषु पीतांविष्णौ सितं शिवे ॥ तैलादिदूषितं जीर्णं सच्छिद्रं त्यजेत् ॥५६॥यस्य शक्तित्रयेणंद संप्रीतम खिलं जगत् ॥ यज्ञसूत्रायं तस्मै ते यज्ञसूत्रं प्रकल्पये ॥५७॥स्वभावसुन्दरांगाय नानाशक्त्याश्रयाय ते ॥ भूषणानि विचित्राणि कल्पया म्यमरार्चित ॥५८॥परमानन्दसौरभ्यप्रिपूर्णदिंगतरम् ॥ गृहाण परम गंध कृपया परमेश्वर ॥५९॥तुरीयवनसंभूतं नानागुणमनोहरम् ॥ अमंदसौरभ पुष्पं गृह्यतामिदमुत्तमम् ॥ जपाक्षतार्कधत्तूरान्विष्णो चैवार्पयेत्क्तचित् ॥६०॥केतकीं क्रुटजं कुदं बंधूकं केशरं जपाम् ॥ मालतीपुष्पक चैव नार्पयेत्तु महेश्वरे ॥६१॥मातुलिंगं च तगरं खौ नैवार्पयेत्क्कचित् ॥ शक्तौ दूर्वार्कमंदारान् गणेशे तुलसीं त्यजेत् ॥६२॥सरोजिनीदमनकौ तथा मरुबकः कुशः ॥ विष्णुक्रांता नागवल्ली दूर्वापामार्गदाडिमौ ॥६३॥धात्री मुनियुतानां च पत्रैर्देवार्चनं चरेत् ॥ कदली बदरी धात्री तिंतिणी बीजपूर्कम् ॥६४॥आम्रदाडिमंजबीरंजबूपनसभूरुहाः ॥ एतेषां तु फलैः कुर्याद्देवतापूजनं बुधः ॥६५॥शुष्कैस्तु नार्चयेद्देवं पत्रैः पुष्पैः फलैरपि ॥६६॥धात्री खदिरबिल्वानां तमालस्य दलानि च ॥ छिन्नभिन्नान्यपि मुने न दूष्यामि जगुर्बुधाः ॥६७॥पद्ममामलकं तिष्ठेच्छुद्धं चैव दिनत्रयम् ॥ सर्वदा तुलसी शुद्धा बिल्वपत्राणि वै तथा ॥६८॥पलाशकाशकुसुमैस्तमालतुलसीदलैः ॥ धात्रीदलैश्व दूर्वाभिनार्चयेज्जगदं बिकाम् ॥६९॥नार्पयेत्कुसुमं पत्रं फंल देवे ह्यधोमुखम् ॥ पुष्पपत्रादिकं विप्र यथोत्पंन्न तथार्पयेत् ॥७०॥वनस्पतिरसं दिव्यं गंधाढ्यं सुमनोहरम् ॥ आघ्रयं देवदेवेश धूपं भक्तया गृहाण मे॥७१॥सुप्रकाशं महादीपं सर्वदा तिमिरापहम् ॥ घृतवर्तिसमायुक्तं गृहाण मम सत्क्रुतम् ॥७२॥अन्तं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम् ॥ भक्त्या गृहाण मे देव नैवेद्यंतुष्टिदंसदा ॥७३॥नागवल्लीदलं श्रेष्ठं पूगखदिरचूर्णयुक्त् ॥ दिसुगंधाढ्यं यद्दत्तं गद्गृहाण मे ॥७४॥ दद्यात्पुष्णा पश्र्वात्कुर्यादावरणार्चनम् ॥७५॥यदाशा्भिमुखो भूत्वा पूजनं तु समाचरेत् ॥ सैव प्राची तु विज्ञेया ततोऽन्या विदिशो दश ॥७६॥केशरेष्वग्निकोणा दि ह्रदयादीनि पूजयेत् ॥ नेत्रमग्रे दिक्षु चास्त्रं अंगमंत्रैर्त्यथाक्रमम् ॥७७॥शुल्कश्वेतसितश्यामकृष्णरक्तार्चिषः क्रमात् ॥ वराभयकरा ध्येयाः ॥ स्वस्वदिक्ष्वं गशक्तयः ॥७८॥अमुकावरणांते तु देवता इति संवदेत् ॥ सालंकारास्ततः पश्वात्सांगाः सपरिचारिकाः ॥७९॥सवाहनाः सायुधाश्व ततः सर्वो पचारकैः ॥ संपूजितास्तर्पिताश्व वरदाः संत्विदं पठेत् ॥८०॥मूलांते च समुच्चार्य देवतायै निवेदयेत् ॥ अभीष्टसिद्धिं मे देहि शरणागतवत्सल॥८१॥भक्त्या समर्पये तुभ्यममुकावरणार्चनम् ॥ इत्युच्चार्य क्षिपेत्पुष्पाञ्जलिं देवस्य मस्तके ॥८२॥ततस्वभ्यर्च्यनीयाः स्युः कल्पोक्ताश्वा वृतीः क्रमात् ॥ सायुधांस्ततं इंद्राध्रान्स्वस्वदिक्षु प्रपूजयेत् ॥८३॥इंद्रो वह्रिर्यमो रक्षो वरुणः पवनो विधुः ॥ ईशानोऽथ विधिश्वैवमधस्तात्पन्न गाधिपः ॥८४॥ऐरावतस्तथा मेषो मद्दिषः प्रेतस्तिमिर्सृगः ॥ वाजी वृषो हंसकूर्मो वाद्दनानि वुदुर्बुधाः ॥८५॥वज्रं शक्तिं दंडखङौं पाशां कुशगदा अपि ॥ त्रिशूलं पद्मचक्रे च क्रमादिंद्रादिद्देतयः ॥८६॥समाप्यवरणाचां तु देवतारार्तिकं चरेत् ॥ शंखतोयं परिक्षिप्यो द्वाहुर्नृत्यत पतेत्क्षितौं ॥८७॥दंडवच्चाथोत्थाय प्रार्थयित्वा निजेश्वरम् ॥ दक्षिणे स्थडिलं कृत्वा तत्र संस्कारमचरेत् ॥८८॥मूलेनेक्षणमस्त्रेण प्रोक्षणं ताडनं पुनः ॥ कुशैस्तद्वर्मणाभ्युक्ष्य पूज्य तत्र न्यसेद्वसुम् ॥८९॥प्रदाप्य तत्र जुहुयाद्धयात्वा चैवेष्टदेवताम् ॥ महाव्याह्रतिभिर्यस्तु समस्ताभिश्वतुष्टयम ॥९०॥जुहुयात्सर्पिषां भक्तैस्तिलैर्वा पायसेन वा ॥ सघृतैः साधकश्रेष्ठः पञ्चविंशतिसंख्यया ॥९१॥पुनर्व्यह्रतिभिर्हुत्वा गंधाद्यैः पुनरर्चयेत् ॥ देवं संयोजनेन्मूतौं ततो वह्रिं विसर्जयेत् ॥९२॥भो भो वह्रे महाशक्ते सर्वकर्मप्रसाधक ॥ कर्मांतरेऽपि संप्राप्ते सान्निध्यं कुरु सादरम् ॥९३॥विसृज्याग्निदेवतायै दद्यादाचमनीयकम् ॥ अवशिष्टेन हविषां गंधपुष्पाक्षतान्वितम् ॥९४॥देवतापार्षदेभ्योऽपि पूर्वोक्तेभ्यो बलिं ददेत् ॥ ये रौद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः ॥९५॥योगिन्यो ह्युग्रपाश्व गणानामधिपाश्व ये ॥ विघ्नभूतास्तथा चान्ये दिग्विदिक्षु समाश्रिताः ॥९६॥सर्वे ते प्रीतमनसः प्रतिगृह्रंत्विमं बलिंम् ॥ इत्यष्टदिक्षु दत्वा च पुनर्भूतबलिं चरेत् ॥९७॥पानीयममृतीकृत्य मुद्रया धेनुसंज्ञया ॥ देवतायाः करे दद्यात्पनश्वाचमनीयकम् ॥९८॥देवमुद्वास्य मूर्तिस्थं पुनस्तत्रैव योजयेत् ॥ नैवेद्यं च ततो दद्यात्तत्तदुच्छिष्टभोजिने ॥९९॥महेश्वरस्य चंडेशो विष्वकूसेनस्तथा हरेः ॥ चंडांशुस्तणेर्वक्रतुंडश्वापि गणेशितुः ॥ शक्तेरुच्छिष्टचांडाली प्रोक्ता उच्छिभोजिनः ॥१००॥ततो ऋष्यादिकं स्मृत्वा कृत्वा मूलषडंगकम् ॥ जप्त्वा मंत्रं यथाशक्ति देवतायै निवेदयेत् ॥१०१॥गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ॥ सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्विये स्थिता ॥१०२॥ततः पराङ्मुखं चार्घं कृत्वा पुष्पैः प्रपूजयेत् दोर्भ्यां पद्दद्यां च जानुभ्यामुरसा शिरसा दृशा ॥ मनसा चेति प्रणामोऽष्टांग ईरितः ॥१०३॥बाहुभ्यां च सजानुभ्यां शिरसा वचसापि वा ॥ पंचांगकः प्रणामः स्यात्पूजायां प्रवरा वुभौ ॥१०४॥नत्वा च दंडवन्मंत्री ततः कुर्यात्प्रदक्षिणाः ॥ विष्णुसोमार्कविघ्नानां वेदा वेदार्धैद्वद्रिवह्रयः ॥१०५॥ततः स्तोत्रादिकं मंत्री प्रपठे द्धक्तिपूर्वकम् ॥ इतः पूर्णं प्राणबुद्धिदेहधर्माधिकारतः ॥१०६॥जाग्रत्स्वप्रसुषुप्त्यंतेऽवस्थासु मनसा वदेत् ॥ वाचा हस्ताभ्यां च पभ्द्या मुदरेण ततः परम् ॥१०७॥शिष्णांते यत्स्मृतं पश्वाद्यदुक्तं यत्कृतं ततः ॥ तत्सर्वं च ततो ब्रह्मार्पणं भवतु ठद्वयम् ॥१०८॥मां मदीयं च सकलं विष्णवे च समर्पये ॥ तारं तत्सदतो ब्रह्मार्पणस्तु मनुर्मतः ॥१०९॥प्रणवाद्योऽष्टवस्वर्णो ह्यनेनात्मानमर्पयेत् ॥ अज्ञानाद्वा प्रमादाद्वा वैकल्यात्साधनस्य च ॥११०॥यन्न्यूनमतिरिंक्त वा तत्सर्वं क्षन्तुमर्हसि ॥ द्रव्यहीनं क्रियाहीनं मंत्रहीनं मंतहीनं मयान्यथा ॥१११॥कृतं यत्तत्क्षमस्वेश कृपया त्वं दयानिधे ॥ यन्मया क्रियतें कर्म जाग्रत्स्वप्रसुषुप्तिषु ॥११२॥तत्सर्वं तावकी पूजा भूयाद्धूत्यै च मे प्रभो ॥ भूमौस्खलिपादानां भूमिरेवाक्लंबनम् ॥११३॥त्वयि जातापराधानां त्वमेव शरणं प्रभो ॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम ॥११४॥तस्मात्कारुण्यभावेन क्षमस्व परमेश्वर ॥ अपराधसहस्त्राणि क्रियंतेऽहर्न्निशं मया ॥११५॥दासोऽयमिति मां मत्वा क्षमस्व जगतां पते ॥ आवाहनं न जानामि न जानामि विसर्जनम् ॥११६॥पूजां चैव न जानामि त्वं गतिः परमेश्वर ॥ संप्रार्थ्यैवं ततो मंत्री मूलांते श्लोकमुच्चरेत् ॥११७॥गच्छ गच्छ परं स्थानं जगदीश जगन्मय ॥ यन्न ब्रह्मादयो देवा जानंति च सदाशिवः ॥११८॥इति पुष्पांजलिं दत्वा ततः संहारमुद्रया ॥ निधाय देवं सांगं च स्वीयत्द्दसरसीरुहे ॥११९॥सुषुम्णावर्मनो पुष्पमाघ्रायोद्वासयेद् बुधः ॥ शंखचक्रशिलालिंगविघ्नसूर्यद्वयं तथा ॥१२०॥ शक्तित्रयं न चैकत्र पूजयेद्दुःखकारण्म् ॥ अकालमृत्युहरणं सर्वव्याधिविनाशम् ॥१२१॥सर्वपापक्षयकरं विष्णुपादोदकं शुभम् ॥१२२॥तत्तद्ध्दक्तैर्गृही तव्यं तन्नैवेद्यनिवेदितम् ॥ अब्राह्यं शिवनिर्माल्यं पत्रं पुष्पं फलं जलम् ॥१२३॥शालग्रामशिलास्पर्शात्सर्वं याति पवित्रताम् ॥ पूजा पंचविधा तत्र कथिता नारदाखिलैः ॥१२४॥आतुरी सौतिकी त्रासी साधना-भाविनी तथा ॥ दौर्बिधी च क्रमादासां लक्षणानि श्रृणुष्व मे ॥१२५॥रोगादियुक्तो न स्यायान्न जपेन्न च पूजयेत् ॥ विलोक्य पूजां देवस्य मूर्तिं वा सूर्य्यमंडलम् ॥१२६॥प्रणम्याथ स्मरन्मंत्रमर्पयेत्कुसुमांजलिम् ॥ रोगे निवृत्ते स्त्रात्वाथ नत्वा संपूज्येद्धरुम् ॥१२७॥तत्प्रसादाज्जगन्नाथ जगत्पूज्य दयानिधे ॥ पूजाविच्छेददोषो मे मास्त्विति प्रार्थयेच्च तम् ॥१२८॥द्विजानपि च संपूज्ये यथाशक्तया प्रतोष्य च ॥ तेभ्यश्वशिषमादाय देवं प्राग्वत्ततोऽर्चयेत् ॥१२९॥आतुरी कथिता ह्येषा सौतिक्यथ निगद्यते ॥ सूतकं द्विविधं प्रोक्तं जाताख्यं मृतसंज्ञकम् ॥१३०॥तत्र स्त्रात्वा मानसीं तु कृत्वा संध्यां समाहितः ॥ मनसैव यजेद्देवं मनसैव जपेन्मुनुम् ॥१३१॥निवृत्ते सूतके प्राग्वत्संपूज्य च गुरुं द्विजान् ॥ तेभ्यश्वाशिषमादाय ततो नित्यक्रमं चरेत् ॥१३२॥एषा तु सौतिकी प्रोक्ता त्रासी चाथ निगद्यते ॥ दुष्टेभ्यस्त्रासमापन्नो यथालब्धोपचारंकैः ॥१३३॥मानसैर्वा यजेद्देवं त्रासी सा परिकीर्तिता ॥ पूजासाधनवस्तूनाम सायर्थ्ये तु सर्वतः ॥१३४॥पुष्पैः पत्रैः फलैर्वापि मनसा वा यजेद्विभुम् ॥ साधनाभाविनी ह्येषां दौर्बौधीं श्रृणु नारद ॥१३५॥स्त्रियो बृद्धा स्तथा बाला मूर्खास्तैस्तु यथाक्रमम् ॥ यथाज्ञानकृता सा तु दौर्बौधीति प्रकीर्तिता ॥१३६॥एवं यथाकथंचित्तु पूजां कुर्याद्धि साधकः ॥ देवपूजाबिहीनो यः स गच्छेन्नरकं ध्रुवम् ॥१३७॥वैश्वदेवादिकं कृत्वा भोजयोद्दिससत्तमान् ॥ देवे निवेदितं पश्वाद्धुंजीत स्वगणैः स्वयम् ॥१३८॥आचाभ्याननशुद्धिं च कृत्वा तिष्ठेत कियत्क्षणम् ॥ पुराणमितिहासं च श्रुणुयात्स्वजनैः सद्द ॥१३९॥समर्थः सर्वकल्पेषु योऽनुकल्पं समाचरेत् न सांगशयिकं तस्य दुर्मतर्जायते फलम् ॥१४०॥इति श्रीबृहन्नारदीयपुराणे बृहद्दपाख्याने तृतीयपादे देवपूजानिरुपणं नाम सप्तषष्टितमोऽध्यायः ॥६७॥ N/A References : N/A Last Updated : June 05, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP