संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः| पञ्चाशीतितमोऽध्यायः श्री नारदीयमहापुराणम् : पूर्वभागः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पंचविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पंचत्रिशोंऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पश्वचत्वारिशत्तमोऽध्यायः षट्रचत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोध्यायः पञ्चाशत्तमोऽध्यायः एकपंचाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषाष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुष्षष्टितमोऽध्यायः पञ्चषष्टिमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षटसप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्याय एकोनाशीतितमोऽध्यायः नामाशीतितमोऽध्यायः नामैकाशीतितमोऽध्यायः व्द्यशीतितमोऽध्यायः त्र्यशीतितमोऽधायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः नामाष्टाशीतितमोऽध्यायः नामैकोननवतितमोऽध्यायः नवतितमोऽध्यायः नामैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः नामाष्टनतितमोऽध्यायः नामैकोनशततमोऽध्यायः शततमोऽध्यायः नामैकोत्तरशततमोऽध्यायः द्वयुत्तरशततमोऽध्यायः त्र्युत्तरशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडुत्तशततमोऽध्यायः सप्तोत्तशततमोऽध्यायः नामाष्टोत्तरशततमोऽध्यायः नवोतरशततमोऽध्यायः दशोत्तरशततमोऽध्यायः नामैकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाघिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशदधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशतमोऽध्यायः पंचविंशोत्तरशततमोऽध्यायः श्री नारदीयमहापुराणम् - पञ्चाशीतितमोऽध्यायः `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण पञ्चाशीतितमोऽध्यायः Translation - भाषांतर सनत्कुमार उवाच ॥ वाग्देवता वतारोऽन्यः कालिकेति प्रकीर्तिता ॥ तस्या मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिंप्रदं नृणाम् ॥१॥सृष्टिक्रियान्विता शांतिर्बिद्वाढ्या च त्रिधा पुनः ॥ अरुणाक्ष्यादीपिका च बिंदुयुक्ता द्विधा ततः ॥२॥मायाद्वयः ततः पश्वाद्दक्षिणे कालिके पदम् ॥ पुनश्व सप्तबीजानि स्वाहांतोऽयं मनूत्तमः ॥३॥भैरवोऽस्य ऋषिश्र्छन्दं उष्णिक्काली तु देवता ॥ बीजं मायादीर्घवर्त्म शक्तिरुक्ता मुनीश्वर ॥४॥षड्दीर्घाढ्ये बीजेन विद्याया अंगमीरितम् ॥ मातृकार्णान्दश दश ह्रदये भुजयोः ॥पदोः ॥५॥विन्यस्य व्यापकं कुर्यान्मूलमंत्रेण साधकः ॥ शिरःकृपाणमभयं वरं हस्तैश्व बिभ्रतीम् ॥६॥मुंडस्त्रड्मस्तकां मुक्तकेशां पितृवनस्थिताम् ॥ सर्वालंकृतवर्णां च श्यामांगीं कालिकां स्मरेत् ॥७॥एवं ध्यात्वा जपेल्लक्षं जुहुयादयुतं ततः ॥ प्रसूनैः करवीरोत्थैः पूजायंत्रमथोच्यते ॥८॥विलिख्य पूर्वं षट्कोण त्रिकोणत्रितयं ततः ॥ पद्ममष्टदलं बाह्ये भूपुरं तत्र पूज येत् ॥९॥जया च विजया चापि अजिता चापराजिता ॥ नित्या विलासिनी वापि दोग्ध्र्यघोरा च मंगला ॥१०॥पीठस्य शक्तयो मायात्मने त्दृत्पीठमंत्रकः ॥ शिवरुपशवस्थां च शिवभिर्दिक्षु वेष्टिताम् ॥११॥महाकालरतासक्तां ध्यात्वांगान्यर्चयेत्पुरा ॥ कालीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीम् ॥१२॥विप्रचित्तां च षट्कोणे नवकोणे ततोऽचयेत् ॥ उग्रामुष्णप्रभां दीप्तां नीलाधानां बलालिकाम् ॥१३॥मात्रां मुद्रां तथा मित्रां पूज्याः पत्रेषु मातरः ॥ पद्मस्यास्य सुयत्नेन ब्राह्मी नारायणीत्यपि ॥१४॥माहेश्वरी च चामुंडा कौमारी चापराजिता ॥ वाराही नार सिहीं च पुनरेतास्तु भूपुरे ॥१५॥भैरवी महादाद्यां तां सिंहाद्यां धूम्रपूविकाम् ॥ भीमन्मत्तादिकां चापि वशीकरणभैरवीम् ॥१६॥माहनाद्या समाराध्य शक्रादीन्यायुधान्यपि ॥ एवमाराधिता काली सिद्धा भवति मंत्रिणाम् ॥१७॥ततः प्रयोगान्कुवीतं महाभैरवभाषितान् ॥ आत्मनो वा परस्यार्थ क्षिप्रसिद्धिप्रदायकान् ॥१८॥स्त्रीर्णा प्रहारं निंदां च कौटिल्यं वाप्रियं वचः ॥आत्मनो हितमन्विच्छन् कालीभक्तो विवर्जयेत् ॥१९॥सुदृशो मदनावासं पश्यन्यः प्रजपेन्मनुम् ॥ अयुतं सोऽचिरादेव वाक्पपतेः समतामियात ॥२०॥दिगम्बरो मुक्तकेशः श्मशानस्थोऽधियामिनि ॥ जपेद्योऽयुतमेतस्य भवेयुः सर्वसिद्धयेः ॥२१॥शवस्य ह्रदये स्थित्वा निर्वासाः प्रेतभूमिगः ॥ अर्कपुष्पसहस्त्रेणाभ्यक्तेन स्वीयरेतसा ॥२२॥देवीं यः पूजयेद्धक्तया जपन्नएकैकशो मनुम् ॥ सोऽचिरेणैव कालेन धरणीप्रभुतां व्रजेत् ॥२३॥रजःकीर्णं भगं नार्या ध्यायन्यो ह्ययुतं जपेत् ॥ सकवित्वेन रम्येण जनान्मोहयति ध्रुवम् ॥२४॥त्रिपञ्चारे महापीठे शिवस्य त्दृदि संस्थिताम् ॥ महाकालेन देवेन मारयुद्धं प्रकुर्वतीम् ॥२५॥तां ध्यायन्स्मेवदनां विदधत्सुरतं स्वयम् ॥ जपेत्सहस्त्रमपि यः स शंकरसमो भवेत् ॥२६॥अस्थिलोमत्वचायुक्तं मांसं मार्जारमेषयोः उष्ट्रस्य महिषस्यापि बलिं यस्तु समर्पयेत् ॥२७॥भूताष्टम्योर्मध्यरात्रे वश्याः स्युस्तस्य जन्तवः ॥ विद्यालक्ष्मीयशःपुत्रैः स चिरं सुखमेधते ॥२८॥यो हविष्याशनरतो दिवा देवीं स्मरन् जपेत् ॥ नक्तं निधुवनासक्तो लक्षं स स्याद्धरापतिः ॥२९॥रक्तांभोजैर्हुनेन्मंत्री धनैर्जयति वित्तपम् ॥ बिल्व पत्रैर्भवेद्राज्यं रक्तपुष्पर्वशीकृतिः ॥३०॥असृजा महिषादीनां कालिकां यस्तु तर्पयेत् ॥ तस्य स्युरचिरादेव करस्थाः सर्वसिद्धयः ॥३१॥यो लक्षं प्रजपेन्मंत्रं शवमारुह्य मन्त्रवित् ॥ तस्य सिद्धो मनुः सद्यः सर्वेप्सितफलप्रदः ॥३२॥तेनाश्वमेधप्रमुखैर्यागौर्रष्टं सुजन्मना ॥ दत्तं दानं तपस्ततं उपास्ते यस्तु कालिकाम् ॥३३॥ब्रह्या विष्णुः शिवो गौरी लक्ष्मीर्गणपती रविः ॥ पूजिताः सकला देवा यः कालीं पूजयेत्सदा ॥३४॥अथापरः सरस्वत्या ह्यवतारो निगद्यते ॥ यां निषेव्य नरा लोके कृतार्थाः स्युर्न संशयः ॥३५॥आप्यायिनी चन्द्रयुक्ता माया च वदनांतरे ॥ सकामिका क्रुधा शांतिश्वन्द्रालंकृतमस्तका ॥३६॥दीपिका सासना चन्द्रयुगस्त्रं मनुरिरितः ॥ मुनि रक्षोभ्य उद्दिष्टश्र्छन्दस्तु बृहती मतम् ॥३७॥ताराख्या देवता बीजं द्वितीयञ्च चतुर्थकम् ॥ शक्तिः षड्दीर्घयुक्तेन द्वितीयेयेनांगकल्पनम् ॥३८॥षोढा न्यासं ततः कुर्यात्तारायाः सर्वासिद्धिम् ॥ श्रीकण्ठादीन्न्यसेद्रुद्रान्मातृकावर्णपूर्वकान् ॥३९॥मातृकाक्तस्थले माया तृतीयक्रोधपूर्वकान् ॥ चतुर्थीनमसायुक्ताप्रथमो न्यास ईरितः ॥४०॥शवपीठसमासीनां नीलकांति त्रिलोचनाम् ॥ अर्द्धेन्दुशेखरां नानाभूषणाढ्यां स्मरन्न्यसेत् ॥४१॥द्वितीये तु ग्रहण्यांस कुर्यात्तां समनुस्मरन् ॥ त्रिबीजस्वरपूर्व तु रक्तसूय ह्रदि न्यसेत् ॥४२॥तथा पवर्गपूर्व तु शुक्लं सोमं भ्रुवोद्वये ॥ कवर्ग पूर्वं रक्ताभं मंगलं लोचनत्रयम् ॥४३॥चवर्गाद्यं बुधं श्यामं न्यसेद्वक्षस्थले बुधः ॥ दवर्गाद्यं पीतवर्णं कण्ठकूपे बृहस्पतिम् ॥४४॥तवर्गाद्यं श्वेतवर्णं घटिकायां तु भार्गवम् ॥ नीलवर्णं पवर्गाद्यं नाभिदेशे शनैश्वरम् ॥४५॥शवर्गाद्य्म धूम्रवर्णं ध्यात्वा राहुं मुखे न्यसेत् ॥ त्रिबीजपूर्वकश्वैवं ग्रहन्यासः समीरितः ॥४६॥तृतीयं लोकपालानां न्यासं कुर्यात्प्रयत्नतः ॥ मायादिबीजत्रितपूर्वकं सर्वसिद्धये ॥४७॥स्वमस्तके ललाटादि दिक्ष्वष्टस्वधउर्द्धतः ॥ ह्रस्वदीर्घकादिकाष्टवर्गपूर्वान्दिशाधिपान् ॥४८॥शिवशक्त्यभिधे न्यासं चतुर्थे तु समाचरेत् ॥ श्रीबीजपूर्वकान्न्यस्तेत्षट् शिवाञ्छक्तिसंयुतान् ॥४९॥आधारादिषु चक्रेषु स्वचक्रवर्णपूर्वकान् ॥ ब्रह्मांण डाकिनीयुक्तं वादिसांतार्णपूर्वकम् ॥५०॥मूलाधारे विन्यसेच्च चतुर्द्दलसमन्वितम् ॥ श्रीविष्णुं राकिणीयुक्तबादिलांतार्णपूर्वकम् ॥५१॥स्वाधिष्ठानाभिधे चक्रे लिंगस्थे षड्दले न्यसेत् ॥ रुद्रं तु डाकिनीयुक्तं डादिफांतार्णपूर्वकम् ॥५२॥चक्रे दशदले न्यस्येन्नभिस्थे मणिपूरके ॥ ईश्वरं कादिठान्तार्णपूर्वकं शाकिनीयुतम् ॥५३॥विन्यसेद्दादशदले ह्रदयस्थे त्वनाहते ॥ सदाशिवं शाकिनीं च षोडशस्वपूर्वकम् ॥५४॥कण्ठशदले विशुद्धाख्ये प्रविन्यसेत् ॥ आज्ञाचक्रे परशिवं हाकिनीसंयुतं न्यसेत् ॥५५॥लक्षार्णपूर्वं भ्रूमध्यसंस्थितेऽतिमनोहरे ॥ तारादिपंचमं न्यासं कुर्यात्सर्वेष्टैसिद्धये ॥५६॥अष्टौ वर्गान्स्वरद्वंद्वपूर्वकान् बीजसंयुतान् ताराद्या न्यासपूर्वाश्व प्रयोज्या अष्टशक्तयः ॥५७॥ताराथोग्रा महोग्रापि वज्रा वज्रा काली सरस्वती ॥ कामेश्वरी च चामुंडा इत्यष्टौ तारिकाः स्मृताः ॥५८॥ब्रह्मंरंध्रे ललाटे च भ्रूमध्ये कण्ठदेशतः ॥ ह्रदि नाभौ फले मूलाधारे चेताह क्रमान्न्यसेत् ॥५९॥अङुन्यासं ततः कुर्यात्पीठाख्यं सर्वसिद्धिदम् ॥ आधारे कामरुपाख्यं बीजं ह्रस्वार्णपूर्वकम् ॥६०॥ह्रदि जालंधरं बीजं दीर्घपूर्वं प्रविन्यसेत् ॥ ललाटे पूर्णगिर्याख्यं कवर्गाद्य्म न्यसेत्सुधीः ॥६१॥उड्डीया नं चवर्गाद्यं केशसन्धौ प्रविन्यसेत् ॥ कण्ठे तु मथुरापीठं दशम यादिकं न्यसेत् ॥६२॥षोढा न्यासस्तु तारायाः प्रोक्तोऽभीष्टप्रदायकः ॥ ह्रदि श्रीमदेकजटां तारिणीं शिरसि न्यसेत् ॥६३॥वज्रोदके शिखां पातु उग्रतारां तु वर्मणि ॥ महोग्रा वत्सरे नेत्रे पिंगाग्रैकजटास्त्रके ॥६४॥षड्र्दीर्घयुक्तमायाया एतान्यष्टौ षडंगके ॥ अंगुष्ठदिष्वंगुलीषु पूर्वं विन्यस्य यत्नतः ॥६५॥तर्जनीमध्यामाभ्यां तु कृत्वा तालत्रयं ततः ॥ छोटि कामुद्रया कुर्याद्दिग्बन्धं देवतां स्मरन् ॥६६॥विद्यया तारपुट्या व्यापकं सप्तधा चरेत् ॥ उग्रताराम ततो ध्यायेत्सद्यो वादेऽतिसिद्धिदाम् ॥६७॥लयाब्धावंबुजन्मस्थां नीलाभां दिव्यभूषणाम् ॥ कम्बुं खङुं कपालं च नीलाब्जं दधतीं करैः ॥६८॥नागश्रेष्ठलंकृतांगीं रक्तनेत्रत्रयां स्मरेत् ॥ जपे ल्लक्षचतुष्कं हि दशांशं रक्तपद्मकैः ॥६९॥हनेत्क्षीराज्यसंमिश्रैः शंखं संस्थाप्य संजपेत् ॥ नारीं पश्यन्स्पृशन्गच्छन्महानिशि बलिं चरेत् ॥७०॥श्मशाने शून्यसदने देवागारेऽथ ॥ पर्वते वनमध्ये मंत्रवित् ॥७१॥समरे शत्रुनिहतं यद्वा षान्मासिकं शिशुम् ॥ विद्यां साधयतः शीघ्रं साधितैवं प्रसिद्धयति ॥७२॥मेधा प्रज्ञा प्रभा विद्या धीवृत्तिस्मृतिबुद्धयः ॥ विश्वेश्वरीति संप्रोक्ताः पीठस्य नव शक्तयः ॥७३॥भृगुमन्विंदुसंयुक्तं मेघवर्त्म सरस्वती ॥ योगपीठात्मने हार्द्दं पीठस्य मनुरीरितः ॥७४॥दत्त्वानेनासनं मूर्तिं मूल मंत्रेण कल्पयेत् ॥ पूजयोद्विधिवद्देवीं तद्विधानमथोच्यते ॥७५॥तारो माया भगं ब्रह्मा जटे सूर्यः सदीर्घकम् ॥ यक्षधिपतये तंद्री सोपनीतं बलिं ततः ॥७६॥गृहयुग्मं शिवा स्वाहा बलिमंत्रोऽयमीरितः ॥ दद्यान्नित्यं बलिं तेन मध्यरात्रे चतुष्पथे ॥७७॥जलदानादिकं मंत्रै र्विदध्याद्द्शभिस्ततः ॥ ध्रुवो वज्रोदके वर्म फट्सप्ताणां जलग्रहे ॥७८॥ताराद्या वह्रिजायांता माया हि क्षालने मता ॥ तारो मायाःभृगुःकर्णो विशुद्धं धर्मवर्मतः ॥७९॥सर्वपापानि शाम्यंते छेतो नेत्रयुतं जलम् ॥ कल्पान्तनयनस्वाहा मंत्र आचमने मतः ॥८०॥ध्रुवो मणिधरीत्यंते वज्रिण्यक्षियुता मृतिः ॥ खरिविद्यायुग्रिजश्व सर्ववांते बकोऽब्जवान् ॥८१॥कारिण्यंते दीर्घवर्म अस्त्रं वह्रिप्रियांतिमः ॥ त्रयोविंशतिवर्णात्मा शिखाया बंधने मनुः ॥८२॥प्रणवो रक्षयुगलं दीर्घवर्मास्त्रठद्वयम् ॥ नवार्णेनामुना मंत्री कुर्याद्धूभिविशोधनम् ॥८३॥नारांते सर्वैविघ्नानुत्सार येत पदं ततः ॥ हुं फट् स्वाहा गुणेंद्वर्णो मनुर्विघ्ननिवारणम् ॥८४॥मायाबीजं जपापुष्पानिभं नाभौ विचिंयेत् ॥ तदुत्थेनाग्निना देहं दहेत्सार्द्ध स्वपाप्मना ॥८५॥ताराबीजं सुवर्णाभं चिंतयद्धेदि मंत्रवित् ॥ पवनेन तदुत्थेन पापभस्म क्षिपेद्धुवि ॥८६॥तुरीयं चंद्रकुंदाभं बीजं ध्यात्वा ललाटतः ॥ तदुत्थसुधयादे हं स्वयं देवतानिभम् ॥८७॥अनया भूतशुद्धया तु देवीसादृश्यमाप्नुयात् ॥ तारोऽनंतो भगुः कर्णो पद्मनाभयुतो बली ॥८८॥रवे वज्ररेखे क्रोधाख्यं बीजं पावकवल्लभा ॥ अमुना द्वादशार्णेन रचयेन्मंडलं शुभम् ॥८९॥तारो यथागता निद्रा सदृकूषेकभृगुर्विषम् ॥ सदीर्घस्मृतिरौ साक्षौ महाकालो भगान्वितः ॥९०॥क्रोधोऽस्त्रं मनिवर्णोऽयं मनुः पुष्पादिशोधने ॥ तारः पाशः परा स्वाहा पंचार्णश्वितशोधने ॥९१॥मनवो दश संप्रोक्त अर्घ्यस्थापनमुच्यते ॥ सेंदुभ्यां मासतो भुवं संसृज्य भूगृहम् ॥९२॥वृतं त्रिकोणसंयुक्तं कुर्यान्मं डलमंत्रतः ॥ यजेत्तत्राधारशक्तिं वह्रिमंडलमध्यगाम् ॥ वह्रिमंडलमभ्यर्च्य महाशंखं निधापयेत् ॥९३॥वामकर्णेन्दुयुक्तेन फडंतेन विहायसा ॥ प्रक्षालितं भृगुर्दंडी त्रिमूर्तीदुयुतं पठेत् ॥९४॥ततोऽर्चयेन्महाशंख जपन्मंत्रचतुष्टयम् ॥ दीर्घयान्विता माया काली सृष्टिः सदीर्घसः ॥९५॥प्रतिमासंयुंत मासं ह्रदयं ततः ॥ एकादशार्णेः प्रथमो महाशंखार्चने मनुः ॥९६॥हंसो हरिभुजंगेशयुक्तो दीर्घत्रयेंदुयुक् ॥ तारिण्यंते कपालाय नमोंतो द्वादशाक्षरः ॥९७॥स्वं दीर्घत्रयमन्वाढयमेषो वामदगन्वितः ॥ लोकपालाय ह्रदयं तृतीयोऽयं शिवाक्षरः ॥९८॥मायास्त्रीबीजमर्द्धैदुयुतं स्वं स्वर्गखादिमः ॥ पालाय सर्वाधाराय सर्वः सर्वोद्धस्तथा ॥९९॥सर्वशुद्धिमयश्वेति ङेंत सर्वासुरांतिकम् ॥ रुधिरा रतिदीर्घा च वायुः शुभ्रानिलः सुरा ॥१००॥भाजनाय भगी सत्या विकलाय ह्रन्मनुः ॥ तुर्यो रसेषु वर्णोऽयं महाशंखप्रपूजने ॥१०१॥नवार्कमंडलें चेंष्ट्रा सलिलं मूलमंत्रतः ॥ प्रपूरयेत्सुधाबुद्धया गंधपुष्पाक्षतादिभिः ॥१०२॥मुद्रां त्रिखंडा संदर्श्य पूजयेच्चंद्रमंडलम् ॥ वाक्सत्यपद्मागगने रेफानुग्रहबिंदुयुक् ॥१०३॥मूलमंत्री विपद्धंसमनुसर्गसमन्वितम् ॥ अष्टकृत्वोऽमुना मंत्रयेत्प्रयतो जलम् ॥१०४॥मायया मदिशं क्षिप्त्वा खं योनिं च प्रदर्शयेत् ॥ तत्र वृत्ताष्टष्टट्कोणं ध्यात्वा देवीं विचिंतयेत् ॥१०५॥पूर्वोक्तां पूजयेत्त्वेनां मूलेनाथ प्रतर्पयेत् ॥ तर्जनीमध्यमानामाकनिष्ठाभिर्महेश्वरीम् ॥१०६॥सांगुष्ठानिश्वतुर्वारं महाशंखस्थिते जले ॥ खंरेफमनुबिंद्वाढयं भृगुमन्विंदुयुक्तया ॥१०७॥ध्रुवाद्येन नमोंतेन तप्यादांनभैरवम् ॥ ततस्तेर्नार्धतोयेन प्रोक्षेत्पूजनसाधनम् ॥१०८॥योनिमुद्रां प्रदर्श्यापि प्रणमेद्धवतारिणीम् ॥ विधानमर्घे संप्रोक्तं सर्वसिद्धिप्रदायकम् ॥१०९॥पूर्वोक्त पूजयेत्पीठे पद्मे षट्कोणकर्णिके ॥ धरागृहावृते रम्ये देवीं रम्योपचारकैः ॥११०॥महीगृहे चतुर्दिक्षु गणेशादीन्प्रपूजयेत् ॥ पाशांकुशौ कपालं च त्रिशूलं दधतं करैः ॥१११॥अलंकारचयोपेतं गणेशं प्राक्तमर्चयेत् ॥ कपालशूले हस्ताभ्यां दधतं सर्पभूषणम् ॥११२॥स्थयूथवेष्टिंत रम्यं बटुकं दक्षिणेऽर्चयत् ॥ असिशूलकपालानि डमरुं दधतं करैः ॥११३॥कृष्णं दिंगबर क्रूरं क्षेत्रपालं च पश्चिमे ॥ कपालं डमरुं पाशं शंबिभ्रतीं करैः ॥११४॥अध्याकन्या रक्तवस्त्रा योगिनीरुत्तरे यजेत् ॥ अक्षोभ्यं प्रयजेन्मूर्ध्नि देव्या मंऋषिं शुभम् ॥११५॥अक्षोभ्यं वस्त्रपुष्पं च प्रतीच्छानलवल्लभा ॥ अक्षोभ्यपूजने मंत्रः षट्कोणेषु षडंगकम् ॥११६॥वैरोचनं चाम तांभ पद्मनाभाभिधं तथा ॥ शंखं पांडुरसंज्ञं च दिग्दलेषु प्रपूजयेत् ॥११७॥लाभकां मानकां चैव पांडुरां तारकां तथा ॥ विदिग्गताब्जपत्रेषु पूजयेदिष्टसिद्धये ॥११८॥बिंदुनामादिवर्णाद्याः संबुद्धयंतास्तथाभिधाः ॥ व्रजपुष्पं प्रतीच्छग्निप्रियांताः प्रणवादिकाः ॥११९॥वैरोचनादि पूजायां मनवः परिकीर्तिताः ॥ भूधरश्व चतुर्द्वार्षु पद्मांतकयमांतकौ ॥१२०॥विद्यांतकाभिधः पश्वान्नरांतक इमान्यजेत् ॥ शुक्रदींश्वैव वज्रादीन्प्रजपेत्तदनंतरम् ॥१२१॥एवं संपूजयन्देवीं पांडित्यं धनमद्धुतम् ॥ पुत्रान्पौत्राञ्छुभां कीर्ति लभते जनवश्यताम् ॥१२२॥तारो माया श्रीमदैकजटे नीलसरस्वती ॥ मही प्रतारे देवासः सनेत्री गदियुग्मकम् ॥१२३॥सर्वदेवपिशाकर्मो दीर्घोग्निर्मरुसान्ग्रस ॥ अभ्रगुममं जाडयं च छेदयद्वितयं रमा ॥१२४॥मायास्त्राग्निप्रियांतोऽयं द्विपंचा शल्लिपिर्मनुः ॥ अनेन नित्यं पूजांतेऽन्वहं देव्यै बलिं हरेत् ॥१२५॥एवं सिद्धे मनौ मंत्री प्रयोगान्विदधाति च ॥ जातमात्रस्य बालस्य दिवसतिर्तयादधः ॥१२६॥जिह्रायां विलिखेन्मंत्रं मध्वाज्याभ्यां शलाकया ॥ सुवर्ण कृतया यद्वा मंत्री धवलदूर्वया ॥१२७॥गतेऽष्टमेऽब्दे बालोऽपि जायते कविरद्धुतम् ॥ तथापरैरजेयोऽपि भूपसंघैर्द्धनार्चितः ॥१२८॥उपरागे दतानीव नरदारुसरोजले ॥ निर्माय कीलकं तेन तैलमध्वमृतौर्लिखेत् ॥१२९॥सरोजिनीदले मंत्रं वेष्टयेन्मातृकाक्षरैः ॥ निखाय तदलं कुंडे चतुरस्त्री समेखले ॥१३०॥संस्थाप्य पावकं तत्र जुहुयान्पनामुना ॥ सहस्त्रं रक्तपद्मानां धेनुदुग्धजलाप्लुतम् ॥१३१॥होमांते विविधै रत्नैः पलैरपि बलिं हरेत् ॥ बलिं मंत्रेण विधिवद्वलिमंत्रः प्रकाश्यते ॥१३२॥तारः पद्मे युग तंद्री वियद्दीर्घं च लोहितः ॥ अत्रिर्विषभ गारुढो वदत्पद्मावतीपदम ॥१३३॥झिंटीशाढ्योनिलस्वाहा षोडशार्णो बलेर्मुनुः ॥ ततो निशीथे च बलिं पूर्वोक्तमनुना हरेत् ॥१३४॥एवं कृते पंडितानां स जयी कविराड् भवेत् ॥ निवासो भारतीलक्ष्म्योर्जनतारञ्जनक्षमः ॥१३५॥शताभिजप्त्या यो मंत्री रोचनां मस्तके धरेत् ॥ यं यं पश्यति तस्यासौ दासवज्जाय्ते क्षणात् ॥१३६॥श्मशानांगारमाश्रित्य पूर्वायां कुजवासरे ॥ तेन मत्रेण संवेष्टय निवद्धं रक्ततंतुभिः ॥१३७॥शताभिजप्तं मूलेन निक्षिपेद्वैरिवेश्मनि ॥ उच्चाटयति सप्ताहात्सकुंटुबान्विरोधिनः ॥१३८॥क्षीराढ्यया निशामंत्रं लिखित्वा पौरुषेऽस्थनि ॥ रविवारे निशीथिन्यां सहस्त्रभिमंत्रयेत् ॥१३९॥तत्क्षिप्तं शत्रुसदने मंडलाद्धंशकं भवेत् ॥ क्षेत्रे क्षिप्त् सस्यहान्योजवत्दृत्तुरमा लयेत् ॥१४०॥षट्कोणांतर्लिखेन्मूलं साध्यार्णं केशरे स्वरैः ॥ बाह्येऽष्टवर्गयुक्पत्रं पद्मभूमिपरावृतम् ॥१४१॥यंत्रं भूर्जे जतुरसैर्लिखेत्पीताम्बरा वृत्तम् ॥ पट्टसूत्रेण सन्नद्धं शिशुकंठगतं धुव्रम ॥१४२॥इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे यक्षिणीमन्त्रभेदनिरुपणः नाम पञ्चाशीतितमोऽध्यायः ॥८५॥ N/A References : N/A Last Updated : June 06, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP